१२

(अथ चतुर्थकाण्डे सप्तमप्रपाठके द्वादशोऽनुवाकः)।
वाजो॑ नः स॒प्‍त प्र॒दिश॒श्‍चत॑स्रो वा परा॒वतः॑ ।
वाजो॑ नो॒ विश्वै॑र्द॒यैर्धन॑सातावि॒हावतु॑ । विश्वे॑
अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे॑ भवन्त्व॒ग्नयः

[[2245]]

समि॑द्धाः। विश्वे॑ नो दे॒वा अव॒साऽऽ ग॑मन्तु॒
विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो॑ अ॒स्मे । वाज॑स्य
प्रस॒वं दे॑वा॒ रथै॑र्याता हिर॒ण्ययैः॑ । अ॒ग्निरि-
न्द्रो॒ बृह॒स्पति॑म॒र्रुतः॒ सोम॑षीतये । वाजे॑वा-
जेऽवत वाजिनो नो॒ धने॑षु [ १ ] वि॒प्रा॒ अ॒मृ॒-
ता॒ ऋ॒त॒ज्ञाः॒ । अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं
तृ॒प्‍ता या॑त प॒थिभि॑र्देब॒यानैः॑ । वाजः॑ पुर-
स्तादु॒त म॑ध्य॒तो नो॒ वाजो॑ देवाँ ऋ॒तुभिः॑
कल्पयाति । वाज॑स्य॒ हि प्र॑स॒वो नन्न॑मीति॒
विश्वा॒ आशा॒ वाज॑पतिर्भवेयम् । पथः॑ पृ-
थि॒व्यां पय॒ ओष॑धीषु॒ पयो॑ दि॒व्य॑न्तरि॑क्षे॒
पयो॑ धाम् । पय॑स्वतीः प्र॒दिशः॑ सन्तु॒
मह्य॑म् । सं मा॑ सृजामि॒ पय॑सा घृ॒तेन॒ सं
मा॑ सृजाम्य॒पः ( २ ) ओष॑धीभिः । सो॑ऽहं
वाजँ॑ सनेयमग्ने । नक्तो॒षासा॒ सम॑नसा॒
विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची ।
द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वां
अ॒ग्निं धा॑रयन्द्रविणो॒दाः । स॒मु॒द्रो॑ऽसि॒ नभ॑-
स्वाना॒र्द्रदा॑नुः शं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒
स्वाहा॑ मारु॒तो॑ऽसि म॒रुतां॑ ग॒णः शं॒भूर्मयो॒-
भूर॒भि मा॑ वाहि॒ स्वाहा॑ऽव॒स्युर॑सि॒ दुव॑स्वा-

[[2246]]

ञ्छं॒भूर्म॑यो॒भूर॒भि मा॑ वाहि॒ स्वाहा॑ ( ३ ) ।।
[धने॑ष्व॒पो दुव॑स्वाञ्छं॒भूर्म॑यो॒भूर॒भि मा॒ द्वे च॑] ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

(अथ चतुर्थकाण्डे सप्‍तमप्रपाठके द्वादशोऽनुवाकः)।
एतैरेकादशभिरनुवाकैर्वसोर्धाराहोम उक्तः । अथ द्वादशे वाजप्रसवीयहोम उच्यते । कल्पः—“वाजप्रसवीयं जुहोति सप्‍त ग्राभ्या ओषधयः सप्‍तारण्याः पृथगन्नानि द्रवीकृत्यौदुम्बरेण स्रुवेण वाजस्येमं प्रसवः सुषुव इति ग्राम्या हुत्वाऽऽरण्याञ्‍जु(जु) होति” इति।
तत्र ग्राम्याणां मन्त्राः प्रथमकाण्डे सप्‍तमप्रपाठके दशमानुवाके समाम्‍नाताः आरण्यानां मन्त्राः अत्राऽऽम्‍नायन्ते।
तत्राऽऽरण्यस्य वेणुधान्यस्य होमाय प्रथमामृचमाह–
बाजो न इति । प्राच्याद्याश्चतस्त्रो दिश ऊर्ध्वाधोमध्यमास्तिस्त्र एताः सप्‍त प्रदिशः प्रकृष्टा दिशो रोजोऽन्नस्वरूपा अन्नप्रदा भवन्त्वित्यर्थः। तथा परावतोऽत्य-न्तदूरवर्तिन्यश्चतस्त्रो वाऽग्नेय्याद्याश्चतुःसंख्याका विदिशो विदूरस्या इवावभासन्ते । ताश्चास्माकमन्नप्रदा भवन्तु। स वाजोऽन्‍नमिहास्मिन्देशे धनसातौ धनप्रदेशे यज्ञे विश्वैर्देवैः प्रेरितः सन्‍नोऽस्मानवतु रक्षतु ।
अथ श्यामाकधान्यस्य होमाय द्वितीयामृचमाह–
विश्वे अद्येति । अद्यास्मिन्दिने विश्वे सर्वेऽपि मरुतः, तथाऽग्न्ये विश्वे सर्वेऽपि देवा ऊती रक्षणाय भवन्तु प्रवर्तन्ताम् । तथा विश्वे सर्वेऽयग्नयः समिद्धाः सम्यक्प्रज्वलिता भवन्तु । तथा विश्वे सर्वेऽपि देवा नोऽस्माकमवसा रक्षणेन निमि-त्तभूतेनाऽऽगमन्त्वागच्छन्तु । तथा विश्वं द्रविणं सर्वमपि धनमस्मे अस्मासु अस्तु भवतु । अथ नीवारहोमाय तृतीयमृचमाह–
वाजस्य प्रसवमिति । [ हे देवा ] वाजस्य प्रसवमस्मदीयस्यान्‍नस्य प्रेर-

[[2247]]

णसंपादनमुद्दिश्यग्न्यादयस्रयो देवाः [ मरुतश्च ] सोमपीतये सोमपानार्थं हिरण्य-बर्हिरण्मयैः सुवर्णनिर्मितै रथैः सह याचाश्मद्यागस्थानं प्राप्‍नुत।
अथ जर्तिलहोमाय चतुर्थीमृचमाह–
वाजेवाजेऽयतेति । हे वाजिनोऽन्‍नसंपादका देवा वाजेवाजे तत्तदन्‍ननि मित्तं धनेषु धननिमित्तं च नोऽस्मानवत । विप्रा ब्राह्मणवच्छुद्धा अमृता मरणरहिता ऋतज्ञा ऋतं सत्यं यज्ञं वा जानन्तीत्यृतज्ञाः । तादृशा हे देवा अस्य मध्य इदं मधुर-मन्‍नं पिबत । पानोपलक्षितं भोजनं कुरुत । ततो मादयध्वं हृष्टा भवतततस्तुप्‍ताः सन्तो देवयानैः पथिभिर्यात स्वं स्वं स्थानं * “प्राप्‍नुत ।
अथ गवीधुकहोमाय पञ्चमीमृचमाह–
वाज पुरस्तादिति। नोऽस्माकं पुरस्तात्पूर्वे वयसि उत मध्यतो मध्यमे वयसि वाजोऽन्‍न भवत्विति शेषः । किंचायं वाज ऋतुभिः कालविशेषैर्द्रेवान्कल्पयाति तत्तत्काले यष्टव्यान्देवान्संपादयति । सति ह्यन्‍ने यष्टुं शक्यते । हि यस्माद्वाजस्यान्नस्य प्रसवः प्रेरणं समृद्धिर्विश्वा आशाः सर्वा अपि दिशो नन्नमीत्यतिशयेनावनताः करोति, अन्नसमृद्धौ सत्यां सर्वदिग्वर्तिनः प्राणिनः स्वाधीना भवन्ति, तस्मादहं वाजपतिर्भवेयम्। अथ मर्कटकारव्यधान्यहोमाय षष्ठीभृचमाह–
पयः पृथिव्यामिति । वाजसमृद्ध्यर्यं पृथिव्यां पयो जलं धागहं स्थाप यामि। तथौषधीष्वपि पयो धाम् । तथा दिवि द्युलोकेऽपि पयो धाम् । अन्तरिक्षेऽपि पयो धाम् । प्रदिशः प्रकृष्टाः सर्वा दिशः पयस्वतीः सन्तु मह्यं मदर्थे जलवत्यो भवन्तु । अथ गार्मुतहोमाय कुलत्थहोमाय वा सप्‍तमीमृचमाह–
सं मा सृजामीति । हेऽग्ने त्वत्प्रसादान्ममहं पयसा क्षीरेण संसृजामि संयोजयामि । तथा मां घृतेन संसृजामि । अपश्चौषधीभिः संसृजामि । क्षीरादिभिः संसृष्टः सोऽहं वाजमन्नं त्वद्दत्तं सनेयं लभेयमन्येभ्योऽहमद्याम् ।
एतैर्मन्त्रैः साध्यं होमं विधत्ते–
“अग्निर्देवेभ्योऽपाक्रामद्भागधेयमिच्छमानस्तं देवा अब्रुमन्‍नुप न आ वर्तस्व

  • सर्वपुस्तक्रेषु प्राप्‍नमतेति प्रामादिकः पाठः।

[[2248]]

हव्यं नो वहेति सोऽव्रवीद्वरं वृणै मह्यमेव वाजप्रसवीयं जुहवन्निति तस्मादग्नये बाजप्रसवीयं जुह्‍वति यद्वाजप्रसवीयं जुहोत्यग्निमेव तद्भागधेयेन समर्धयत्यथो अभिषेक एवास्य सः” (सं. का. ५ प्र. ४ अ. ९) इति।
पूर्वं भागरहित्तोऽग्निर्भागमपेक्षमाणो देवेभ्योऽपरक्तः क्याप्यगमत् । स पुनर्देवैर्हविर्वहनायाऽऽहूतः स्वभागत्वेन वाजप्रसवीवं होमं वब्रे । तस्मात्सर्वे यजमानः अग्नये वाजप्रसवीयं होमं जुह्‍वति । अतोऽत्रापि तद्धोमेनाग्रिमेव समर्धं यति। अपि च स होमोऽस्याग्नेरभिषेकस्थानीयस्तस्म त्कर्तव्यः।
अथ प्रथमकाण्ड आम्‍नातैर्वाजस्येमं प्रसव इत्यादिभिः सहात्राऽऽम्‍नातानां-होममन्त्राणां संख्यां विधत्ते–
“चतुर्दशभिर्जुहोति सप्‍त ग्राम्या ओषधयः सप्‍ताऽऽरण्या उभयीषामव-रुद्ध्यै” (सं. का. ५ प्र. ४ अ. ९) इति।
तिलमाषब्रीहियवप्रियङ्ग्वणवो गोधूमा इति सप्‍त ग्राम्याः। वेणुश्यामाकादय उदाहृता आरण्याः । उभयविधधान्यसमृद्धये चतुर्दशाभिर्होमः।
एकैकेन मन्त्रेणैकैकस्य होमं विधत्ते–
“अन्नस्यान्नस्य जुहोत्यन्नस्यान्नस्यावरुयै” (सं. का. ५ प्र. ४ अ. ९) इति। असांकर्येण तत्तदन्नप्राप्‍त्‍यर्थमीदृशो होमः ।
चोदकप्राप्‍तां जुहूं बाधितुं साधनान्तरं विधत्ते–
“ओदुम्बरेण स्रुवेण जुहोत्युर्ग्वा उदुन्बर ऊर्गन्नमूर्जैवास्मा ऊर्जमन्नमव रुन्धे” (सं. का. ५ प्र. ४ अ. ९) इति।
ऊर्कूशब्दः स्वादुरसवाची । उदुम्बरान्‍नयोस्तथाविधरसोपेतत्वादूर्ग्रूपत्वम्।
अत्र क्रत्वङ्गतया धावनं निषेधति–
“अग्निर्वै देवानामभिषिक्तोऽग्निचिन्मनुष्याणां तस्मादग्निचिद्वर्षति न धावेत्” (सं. का. ५ प्र. ४ अ. ९) इति।
देवानां मध्ये यथा चीयमानोऽग्निरभिषिक्तस्तथा यजमानानां मध्येऽग्‍निचिद-भिषिक्तः। वृष्ठिश्चाभिषेकस्वरूपा । तस्माद्वर्षसमये धावनं न कुर्यात् ।
प्रमादाद्धावने पुनरावृत्तिं विधत्ते–

[[2249]]

“अवरुद्धँ ह्यस्यान्‍नमन्‍नमिव खलु वै वर्षं यद्धावेदन्‍नाद्याद्धावेदुपावर्तेता-न्नाद्यमेवाभ्युषावर्तते” [सं. का. ५ प्र. ४ अ. ९] इति।
हि यस्मादस्याग्निचितोऽन्‍नं सर्वमवरुद्धं संषादितं, वृष्टिश्चान्नहेतुत्वादन्‍नमेव । अतो वृष्टिमोजनपरिहाराय धावने सत्यन्नाद्यादगच्छति । अतोऽन्नप्राप्‍तये पुनरप्यावर्तेत। कल्पः—“नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा हुत्वा” इति । पाठस्तु–
नक्तोषासेति । नक्तं चोषाश्च नक्तोषासा रात्रिदिवसावित्यर्थः । समनसा परस्परमैकमत्ययुक्ते विरूपे रात्रिः कृष्णा दिवसः शुक्ल इत्येवं विलक्षणरूपे समीची समीच्यावनुकूले सत्यावेकं शिशुमग्निरूपं धापयेते यजमानकर्तृकं कर्मानुष्ठानं संपाद-यतः। द्यावा द्युलोके क्षाम क्षितौ, अन्तस्तदुभयमध्यवर्तिन्यन्तरिक्षे विभाति रुक्मो रोचमानोऽयमग्निर्विशेषेण प्रकाशते । दीव्यन्ति व्यवहरन्तीति देवाः प्राणाः । ते च द्रविणोदा यागद्वारेण धनरूपं फलं प्रयच्छन्ति । तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्घृतवन्तः ।
एतन्मन्त्रसाध्यं होमं विधत्ते–
“नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोत्यह्‍नैवास्मै रात्रिं प्रदापयति रात्रियाऽहरहोरात्रे प्रत्ते काममन्नाद्यं दुहाते” [सं. का. ५ प्र. ४ अ. ९] इति।
अयमध्वर्युरस्मै यजमानायाह्‍ना वत्सरूपेण रात्रिं धेनुसमां प्रदापयति पयः- समं फलं रात्र्या प्रत्तं करोति । तथैव रात्र्या वत्सरूपया धेनुसममहः प्रदापयति अन्यो-न्यदानायैव मन्त्रैऽस्मिन्‍रात्र्यहनी सह निर्दिश्येते । ते चान्योन्यं प्रत्ते सति अस्मै यजमानायान्‍नाद्यरूपं कामं संपादयतः ।
यदुक्तं सूत्रकारेण – “षड्‍‍भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोत्यृताषाडृतधामेति पर्यायमनुद्रुत्य तस्मै स्वाहेति प्रथमामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामेवमित रान्पर्यायान्विभजति भुवनस्य पत इति पर्यायाणां सप्तभ्याहुतीनां त्रयोदश्येतेन

[[2250]]

व्याखता भुवनस्य पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति दश वा” इति । तत्र ऋताषाडित्यादिमन्त्रसाध्यं होमं विधत्ते–
“राष्ट्रभृतो जुहोति राष्ट्रमेवाव रुन्धे” [सं. का. ५ प्र. ४ अ. ९] इति।
राष्ट्रभृत्संज्ञका ऋताषाडित्यादिमन्त्रास्तृतीयकाण्डे चतुर्थप्रपाठके साप्‍तमानु-वाके समाम्‍न ताः । अथ पर्यायसंख्यां विधत्ते–
“षड्‍‍भिर्जुहोति षड्‍वा ऋतव ऋतुष्वेव प्रति तिष्ठति” (सं. का. ५ प्र. ४ अ. ९) इति।
राष्ट्रभृत्स्वेवोपरितनानहुतिषु पञ्चसंख्यापक्षं विधत्ते–
“भुवनाय पत इति रथमुखे पञ्चाऽऽहुतीर्जुहोति वज्‍रो वै रथो वज्‍रेणैव दिशोऽभि जयति” (सं. का. ५ प्र. ४ अ. ९) इति।
ईषाग्रं रथमुखम् । “स्फ्यस्तृतीयँ रथस्तृतीयम्” इत्यत्र रथस्य वज्‍रत्वं स्पष्ट-माम्‍नातम् । कल्पः—“समुद्रोऽसि नभस्वानित्यञ्जलिना त्रीणि वातनामानि जुहोति” इति । तेषु प्रथमामाह–
समुद्रोऽसीति । हे वात देवानां त्वं सुद्रोऽसि समुद्रवब्दहुलोऽसि । नभ-स्वान्स्वप्रचाराय विस्तीर्णकाशवानार्द्रं वृष्टिजलं ददातीत्यार्द्रदानुः । शमैहिकं सुखं भाव-यतीति शंभूः । मय आमुष्मिकं सुखं भावयतीति मयोभूः । तादृशस्त्वं मामाभि मां प्रति वाहि गच्छ, एवं संचारेण शैत्यमापादयेत्यर्थः । अथ द्वितीयामाह–
मारुतोऽसीति । योऽयं बहुनां मरुतां वायुविशेषाणां गणो मारुतशब्दवा च्यस्तद्रूपस्‍त्‍वमसि । शेषं पूर्ववत् । अथ तृतीयामाह–
वस्युरसीति । अवं रक्षणमिच्छतीत्यवस्युः दुवस्वान्परिचर्योपेतः । तादृश-स्त्वमसि । शेषं पूर्ववत् । एतैर्मन्त्रैः साध्यं होमं विधत्ते–
“अग्निचितँ ह वा अमुष्मिल्लोँके वातोऽभि पवते वातनामानि जुहोत्यभ्ये-वैनममुष्मिल्लोँके वातः पवते” (सं. का. ५ प्र. ४ अ. ९) इति।
स्वर्गे लोक एतमग्निचितमाभिलक्ष्य शैत्यमान्द्यसौगन्ध्ययुक्तो वायुर्वाति । अत

[[2251]]

स्तत्सिद्धये समुद्रोऽसीत्यादिवातनामानि जुहुयात्। तेन होमेन वायुस्तथा पवते एव। पाठप्राप्तं त्रित्वं प्रशंसति –
“त्रीणि जुहोति त्रय इमे लोका एभ्य एव लोकेभ्यो वादमव रुन्धे” (सं० का० ५ प्र० ४ अ० ९) इति।
मन्त्रगतेन समुद्रशब्देन बाहुल्यसाम्यमुपजीव्य वातो लक्ष्यत इत्येतत्सर्वं दर्शयति – “समुद्रोऽसि नभस्वानित्याहैतद्वै वातस्य रूपँ रूपेणैव वातमव रुन्धे ” (सं० का० ५ प्र० ४ अ० ९) इति।
अत्र वातस्यैव होतव्यद्रव्यत्वात्तद्योग्यं साधनं विधत्ते –
“अञ्जलिना जुहोति न ह्येतेषामन्यथाऽऽहुतिरवकल्पते” [सं० का० ५ प्र० ४ अ० ९] इति।
अस्य हस्तद्वयमेलनरूपेणाञ्जलिना वहूनौ वायोरुत्पादनमेवात्र होमः। य स्मादेषां वातरूपाणां होमद्रव्याणामञ्जलिव्यतिरेकेणाऽऽहुतिर्न संभवति, न खलु वातो जुह्‍वामवदातुं शक्यते। अत एव सूत्रकारो ब्राह्मणान्तरमुदाजहार – ‘नह्ये- तस्यावदानमस्तीति विज्ञायते’ इति। तस्माद्व्यजनेनेवाञ्जलिता वह्‍नौ वायुं संचार-येत्। अत्र विनियोगसंग्रहः—
वाजो नः सप्‍तभिर्वाजप्रसवीयं जुहोति हि।
नक्तेति पयसा होमः समुद्रो वातनामभिः।।
त्रिभिर्जुहोत्यत्र मन्त्रा एकादश समीरिताः ।। इति ।

अथ मीमांसा ।
पञ्चामाध्यायस्य तृतीयपादे दशमाधिकरणे चिन्तितम्–
न धावेद्वर्षतीत्यादि चितौ सत्यां ऋतावुत।
आद्यश्चितेर्निमित्तत्वान्न क्रतावग्निचित्त्वतः।।
इममाम्‍नायते – “अग्निचिद्वर्षति न धावेन्न स्त्रियमुषेयात्” इति। तान्येता-न्वग्निचिद्‍व्‍रतानि चितौ निष्पन्‍नायां सत्यां तदाप्रमृति प्रवर्तन्ते, न तु चितेऽग्नौ ऋत्वनुष्ठानं प्रतीक्षन्ते । कुतः । अग्निचित्पदे चयनस्य निमित्तत्वेनोपन्यासात्।

[[2252]]

न हि सति निमित्ते नैमित्तिकस्य विलम्बो युक्त इति प्राप्ते ब्रूमः—क्रतावुपयोक्तुमग्नि-श्चयनेन संस्क्रियते। न चानिष्पन्‍ने क्रतौ चयनसंस्कारः सफलो भवति। तस्मात्क्रतौ निष्पन्‍ने सति पश्चाच्‍चयनसाकल्यादयं पुरुषोऽग्निं चितवानित्यमुमर्थ मर्हतीति क्रत्वन्ते तानि ब्‍रतानि।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
द्वादशोऽनुवाकः ।। १२।।