११

(अथ चतुर्थाष्टके सप्तमप्रपाठके एकादशोऽनुवाकः)।
एका॑ च मे ति॒स्रश्‍च॑ मे पञ्च॑ च मे स॒प्‍त
च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश
च मे॒ पञ्‍च॑दश च मे स॒प्‍तद॑श च मे॒ नव॑
दश च म॒ एक॑विशँशातिश्च मे॒ त्रयो॑विँश-
तिश्‍च मे॒ पञ्‍च॑विँशतिश्‍च मे स॒प्‍तविँ॑शति
श्‍च मे॒ नव॑विँ शतिश्‍च म॒ एक॑त्रिँ शच्‍च
मे॒ त्रय॑स्त्रिँ शच्‍च मे॒ चत॑स्रश्‍च मे॒ऽष्टौ च॑
मे॒ द्वादश॑ च मे॒ षोड॑श च मे विँ श॒ति-
श्‍च॑ मे॒ च॑तर्विँ शतिश्‍च मे॒ऽष्टाविँ॑ शति
श्‍च मे॒ द्वात्रिँ॑ शच्‍च मे॒ षट्त्रिँ॑ शच्‍च मे
चत्वारिँ॒ शच्‍च॑ मे॒ चतु॑श्‍चत्वारिँ शच्‍च
मे॒ऽष्टाच॑त्वारिँ शच्च मे॒ वाज॑श्‍च प्रस॒व-
श्‍चा॑पि॒जश्‍च॒ क्रतु॑श्‍च सुव॑श्‍च मू॒र्धा च॒
व्यश्नि॑यश्‍चाऽऽन्त्याय॒नश्‍चान्त्यश्‍च॑ मौ॒वनश्‍च॒
भुव॑न॒श्‍चाधि॑पतिश्‍च [ २ ] ।।
[त्रय॑स्त्रिँ शच्‍च॒ व्यश्नि॑य॒ एका॑दश च]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्‍तमप्रपाठके एकादशोऽनुवाकः ।। ११ ।।

(अथ चतुर्थकाण्डे सप्‍तमप्रपाठके एकादशोऽनुवाकः)।
एकादशमाह –

[[2240]]

एका च म इति । एकादिशब्दाः संख्यापराः । वाजादयः सर्वे मम स न्त्विति शेषः । वाजोऽन्नम् । प्रसवस्तस्योत्पत्तिः । अपिजस्तस्यैव पुनः पुनरुत्पत्तिः । क्रतु संकल्पो भोगदिविषयो यागो वा । सुवस्तस्योत्षत्तौ हेतुरादित्यः । अथवा वाजादयश्चैत्रादिमासानां नामविशेषाः । तदानीं ते सर्वे प्रीणन्त्विति वाक्यशेषः । चकाराः परस्परसमुच्‍चयार्था अनुक्तकालादिदेवतासमुच्चयार्था वा। यथोक्तैकादशा-नुवाक्ररूपमन्त्रसाध्यं होमं विधत्ते –
“वसोर्धारां जुहोति वसोर्मे धाराऽसदिति वा एषा हूयते घृतस्य वा एनमेवा धाराऽमुष्मिल्लोँके पिन्वमानोप तिष्ठते” [सं. का. ५ प्र. ४ अ. ८] इति।
वसोर्धनस्य धारा सांतत्यं ययाऽऽहुत्या लभ्यते सेयमाहुतिर्वसोर्धारा तां जुहुयात् । तदेतदुक्तं निर्वचनं सूच्यते-यो यजमानो बसोर्धारां जुहोति स प्रथमं मम धनस्य नैरन्तर्यं भूयादित्येतं कामयते । ततस्तेनेयमाहुतिर्हूयप्ते । तेन होमनैनं यजमानं स्वर्गे लोके धृतस्य धारा पिन्वमाना प्रीणयति सेवते । तत्र द्रव्यं विधत्ते–
“आज्येन जुहोति तेजो वा आज्यं तेजो वसोर्धारा तेजसैवास्मै तेजोऽव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
सुवर्णादिधनसमृद्धेरपि घृतवत्तेजोरूपत्वं प्रसिद्धम् ।
कामप्राप्‍तिहेतुत्वेनांपि तामाहुहिं प्रशंसति–
“अथो कामा वै वसोर्धारा कामानेवाव रुन्धे” [सं. का. ५ प्र. ४ अ. ८] इति। अन्वयव्यतिरेकाभ्यां सांतत्यं विधत्ते–
“यं कामयेत प्राणानस्यान्नाद्यं वि च्छिन्द्यामिति विग्राहं तस्य जुहुयात्प्रा-णानेवास्यान्‍नाद्यं वि च्छिनत्ति ये कामयेत प्राणानस्यान्नाद्यँ सं तनुयामिति संत तां तस्य जुहुयात्प्राणानेवास्यान्नाद्यँ सं तनेति” (सं. का. ५ प्र. ४ अ. ८) इति।
अस्य यजमानस्य प्राणानन्‍नं च विच्छिन्द्यामित्येवं द्विषन्‍नघ्वर्युरवें मन्त्रं

[[2241]]

मध्ये विगृह्य जुहुयात् । यस्तु प्राणानामन्नस्य च सांतत्यं कामयते सोऽयं संतता माहुतिं जुहुयात् । अथ वाजश्च म इत्यादीन्यन्नं च मेऽक्षुच्च म इत्यत प्राक्तनानि चतुश्चत्वारिंश-दधिकशतसंख्बाकानि वाक्यानि । तानि द्वादशसंघरूपेण विभज्य प्रशंसति– “द्वादश द्वादशानि जुहोति द्वादश मासा संवत्सरः संवत्सरणैवास्मा अन्‍नमव रुन्धे” [सं. का. ५ प्र. ४ अ. ८] इति।
द्वादशानां वाक्यानां समूहो द्वादशम् । तानि च द्वादशानि पुनर्द्वादसंख्या-कानि । तथा सति चतुश्चत्वारिंशदधिकशतसंख्या संपद्यते । तदन्तर्गतद्वादशसंख्याया मासद्वारा संवत्सररूपत्वात्संवत्सरसाध्यमन्‍नं प्राप्नोति।
अथ चतुर्थानुवाकगतानि वाक्यानि प्रशंसति ।
“अन्‍नं च मेऽक्षुच्‍च म इत्याहैतद्वा अन्‍नस्य रूपँ रूपेणैवान्‍नमव रुन्धे” [सं. का. ५ प्र. ४ अ. ८] इति।
अन्‍नमित्यादिभिर्वाक्यैर्यत्प्रतिपाद्यं तत्सर्वबन्‍नल्य रूपम् । क्षुदभावस्यान्‍नसा-घ्यत्वादुपरितनानां च व्‍रीह्यादीनामन्‍नसाधनत्वात् ।
अथ पञ्चमानुवाकगतवाक्यानि प्रशंसति–
“अग्निश्च म आपश्च म इत्याहैषा वा अन्‍नस्य योनिः सयोन्येवान्‍नमव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
अग्नेः पाकहेतुत्वादन्‍नयोनित्वम् । अपां चौषधिजनकत्वादन्‍नयोनित्वम् । एत न्मन्त्रपाठेनानेकप्रकारकारणसहितमन्‍नं प्राप्नोति ।
अथ षष्ठानुवाकगतानि वाक्यानि प्रशंसति—
“अर्धेन्द्राणि जुहोति देवता एवाव रुन्धे यत्सर्वेषामर्धमिन्द्रः प्रति तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तम इन्द्रमुत्तरमाहेनद्रियमेवास्मिन्‍नुपरिष्ठाद्दधाति” [सं. का. ५ प्र. ४ अ. ८] इति।
येषां वाक्यानामर्धेष्विन्द्रः पठ्यते तान्यर्धेन्द्राणि, तेषु वाक्येष्वेग्नीषोमादीनां देवतानां पूर्वार्धष्वाम्‍नातत्वाद्देवताः प्राप्‍नोति। यद्यस्मात्कारणात्सर्वेषां वाक्यानां

[[2242]]

प्रत्यर्धमिन्द्रः पठ्यते तस्मात्कारणादयमिन्द्रो भूयिष्ठभाक्तमो भूयिष्ठं प्रभूतं हविर्भजतीति भूयिष्ठभाक्, अतिशयेन तादृशः । यस्माद्वेद इन्द्रमत्रोत्तरार्धगतं प्राह तस्मादस्मिन्यज-मानेऽप्युपरिष्ठाच्छिरोभागे चक्षुरादीन्द्रियं स्थापयति । सप्‍तमाष्टभयोरनुवाकयोरवस्थि-तानि वाक्यानि प्रशंसति–
“यज्ञायुधानि जुहोति यज्ञो वै यज्ञायुधानि यज्ञमेवाव रुन्धेऽथो इतद्वै यज्ञस्य रूपँ रूपेणैव यज्ञमव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
अश्वदाभ्यादिग्रहरूपाणि यज्ञसाधनानि साक्षाद्यज्ञनिष्पादकत्वाद्यज्ञ-स्वरूपाणि इध्मवर्हिरादिभिर्यज्ञः परम्परया निरूप्यते, न तु ग्रहैरिव साक्षान्‍निष्पाद्यते । तस्मात्तानि यज्ञस्य रूपम् । एतैरन्तरङ्गैर्बहिरङ्गैश्च यज्ञायुधैर्यज्ञं प्राप्नोति । अन्तिमस्य स्वगाकारवाक्यस्य तात्पर्यं दर्शवति –
“अवभृथश्च मे स्वगाकारश्च म इत्याह स्वगाकृत्यै” (सं. का. ५ प्र. ४ अ. ८) इति।
स्वाधीनत्वकरणायेत्यर्थः । नवमानुवाके पूर्वार्धगतानि वाक्यानि प्रशंसति–
“अग्निश्च मे घर्मश्च म इत्याहैतद्वै ब्रह्मवर्चसस्य रूपँ रूपेणैव ब्रह्मवर्जसमव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
अग्न्यादिभिर्ब्राह्मणकर्मनिष्पत्तेरेतेषां ब्रह्मवर्चसरूपत्वम् ।
एकश्मिन्‍नेवानुवाक उत्तरार्धगतानि वाक्यानि प्रशंसति–
“ऋक्च मे साम च म इत्याहैतद्वै छन्दसाँ रूपँ रूपेणैव छन्दाँ स्यव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
ऋगादिकं छन्दसां वेदानां स्वरूपमिति प्रसिद्धम् ।
दशमानुवाके पूर्वार्धगतवाक्यानि प्रशंसति—
“गर्भाश्च मे वत्साश्च म इत्याहैतद्वै पशूनाँ रूपँ रूपेणैव पशूनव रुन्धे” (सं. का. ५ प्र. ४ अ. ८) इति।
गर्भवत्सादीनां पशुरूपत्वं प्रसिद्धम् ।
एतस्मिन्‍नेवानुवाक उत्तरार्धगतानि वाक्यानि प्रशंसति–

[[2243]]

“कल्पाञ्‍जुहोत्यक्‍लृप्तस्य क्‍लृप्‍त्‍यै” (सं. का. ५ प्र. ४ अ. ८) इति।
आयुर्यज्ञेन कल्पतामित्यादयो मन्त्राः कल्पाः । पूर्वं यद्यद्वस्‍त्‍वक्‍लृप्तं स्वस्वकार्यसमथं न भवति तस्य तस्य सामर्थ्यायायं होमः ।
एकादशानुवाके पूर्वभागगतानि वाक्प्रानि प्रशंसति–
“युग्मदयुजे जुहोति मिथुनत्वाय” (सं. का. ५ प्र. ४ अ. ८) इति।
चतस्रश्च मेऽष्टौ च म इत्यादिकं समसंख्यारूपं युग्मम् (त्) । एका च मे तिस्रश्च म इत्यादि विषमसंख्यारूपमयुग्मं [ क् ], राशिद्वयं स्त्रीपुरुषवत्परस्परविल-क्षणत्वान्मिथुनत्वाय संपद्यते । राशिद्वयेऽप्युत्तरोत्तराधिक्यं प्रशंसति–
“उत्तराबती भवतोऽभिक्रान्त्यै” (सं. का. ५ प्र. ४ अ. ८) इति।
एकत्वादुत्तरं त्रित्वं, तस्माच्‍चोत्तरं पञ्चत्वं, तथा चतुष्ठ्‍वादुत्तरमष्टत्वम् तस्माच्चोत्तरं द्वादशत्वम् । एवमुभवोरुत्तरावत्त्वेनाभितो व्याप्तिर्भवति ।
युग्मायुग्मसंख्यावाचिशब्दानां तात्पर्यं दर्शयति–
“एका च मे तिस्रश्च म इत्याह देवछन्दसं वा एका च तिस्रश्च मनुष्यछन्दसं चतस्र्श्चाष्ठौ च देवछन्दसं चैव मनुष्यछन्दसं चाव रुन्ध” (सं. का. ५ प्र. ४ अ. ८) इति।
विषमसंख्याया देवानां प्रियाणि च्छन्दासि निष्पाद्यन्ते, समसंख्यया तु मनु-ष्यप्रियाणि । अतस्तदुभयं प्राप्नोति । राशिद्वयेऽप्युत्तरसंख्यावृद्धेरवधिं प्रशंसति—
“आ प्रयस्त्रिँ शतो जुहोति त्रयस्त्रिँ शब्दै देवता एवाव रुन्ध आऽष्टाच-त्वारिँ शतो जुहोत्यष्टाघत्वारिँ शदक्षरा जगती जागताः पशवो जगत्यैवास्म पशूनव रुन्धे” [सं. का. ५ प्र. ४ अ. ८] इति।
अस्मिन्‍ननुवाक उत्तरभागगतानि वाक्यानि प्रशंसति–
“वाजश्च प्रसवश्चेति द्वादशं जुहोति द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति” [सं. का. ५ प्र. ४ अ. ८] इति।

[[2244]]

अत्र विनियोगसंग्रहः–
अग्नाविष्णु वसोर्धारामेकादशभिरादितः।
अनुवाकैर्जुहोत्येकामाहुतिं संतता घृतात् ।। इति ।
अथ मीमांसा।
द्वादशाध्यायस्य तृवीयपादे चिन्तितम्–
मन्त्रादौ किं वसोर्धारा मन्त्रान्ते वाऽव संततेः।
आद्यो होमेषु संतत्या द्वादशान्तेषु तद्धुतिः।।
अग्‍नौ किंचित्कर्म विहितम्– “संततां वसोर्धारां जुहोति” इति । तत्र संतत्यं नित्श्छिद्रत्वम् । तच्‍च मन्त्रकर्मणोः सहोपक्रमे सत्युपपद्यते । तस्मान्गन्त्राद कर्मसंनि-पात इति प्राप्ते ब्रूमः- तस्मिन्वसोर्धाराख्ये कर्मणि द्वादश द्वादशानि जुहोतीति श्रुतम् । द्वादशभिर्मन्त्रवाक्यैः संपाद्यमेकमाहुतिस्वरूपं द्वादशम् । तद्य था– “वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे” इत्येतैद्वै। दशभिर्मन्त्रवाक्यैरेकाऽऽहुतिर्होतव्या । एकादशोत्तसहुतयः “प्राणश्च मेऽपानश्च मे” इत्यादिभिर्निष्पाद्यन्ते । एतेषु च होम-द्वादशकेषु मध्ये विलंम्बाभावः सांतत्यं न तु मन्त्रकर्मणोः सहोपक्रमः । तस्मात्पूर्वन्या-येन मन्त्रान्ते कर्मसंनिपातस्य नातिविघ्‍नः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
एकादशोऽनुवाकः ।। ११ ।।