[अथ चतुर्थाष्टके सप्तमप्रपाठके दशमो॑ऽनुवाकः] ।
गर्भा॑श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वी
च मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑-
विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा
च॑ मे तुर्यवाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाच्च॑
मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म
ऋष॒भश्च॑ ( १ ) मे॒ वे॒हच्च॑ मेऽन॒-
ड्वाश्च॑ मे धे॒नुश्च॑ म॒ आयु॑र्॒यज्ञेन॑
[[2238]]
कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑
कल्पतां व्या॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑
कल्पताँ श्रोत्रं॑ य॒ज्ञेन कल्पतां॒ मनो॑ य॒ज्ञेन॑
कल्पतां॒ वाग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑
कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ( २ ) ।।
[ऋ॒ष॒भश्च॑ चत्वा॒रिँशच्च] ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके दशमोऽनुवाकः ।। १० ।।
(अथ चतुर्थकाण्डे सप्तमप्रपाठके दशमोऽनुवाकः)
दशममाह–
गर्भाश्च म इति । गर्भा वत्साश्च प्रसिद्धाः । सार्धसंमत्सरो वत्सरूपः पुंगवख्यविः । तथाविधा गौस्त्र्यवी । द्विसंवत्सर ऋषभो दित्यवाट् । तथाविधा गौर्दित्यौही । सार्धद्विसंवत्सर क्रषभः पञ्चबिः । तश्चाविधा गौः पञ्चावी । संवत्सरत्र-योपेत ऋषभस्त्रिवत्सः । तथाविधा गौस्त्रिवत्सा । सार्धत्रिवत्सर ऋषभस्तुर्यवाट् । तथाविधा नौस्तुर्यौहि । चतुःसंवत्सर ऋषभः षष्ठवात् । तथाविधा गौः पष्ठौही । सेचनसमर्ध ऋषभ उक्षा । वन्ध्या गौर्वशा । उक्ष्णोऽप्याधिकवयस्क ऋषभः। गर्भघातिनी गोर्वेहत् । शकटस्य वाहकोऽनड्वान् । नवप्रसूता गौर्धेनुः आयुरादयः प्रसिद्धाः । आत्मा शरीरम् । उक्ता आयुरादयो मदीयेन यज्ञेन कार्यक्षमा भवन्तु । यज्ञः करिष्यमाणोऽश्वगेधादिः । सोऽप्यनेनानुष्ठीयमानेन यज्ञेन स्वकार्यक्षमो भवतु ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
दशमोऽनुवाकः ।। १० ।।
[[2239]]