०९

(अथ चतुर्थाष्टके सप्तमप्रपाठके नवमोऽनुवाकः)।
अ॒ग्निश्‍च॑ मे घ॒र्मश्‍च॑ मे॒ऽर्कश्‍च॑ मे॒ सूर्य॑श्‍च॑
मे प्रा॒णश्‍च॑ मेऽश्वमे॑धश्‍च॑ मे पृथि॒वी च॒
मेऽदि॑तिश्‍च मे॒ दिति॑श्‍च मे॒ द्यौश्च॑ मे॒ श-
क्व॑रीर॒ङ्‍गुल॑यो॒ दिश॑च्‍च य॒ज्ञेन॑ कल्पन्ता॒-
मृक् च॑ मे॒ साम॑ च॒ मे स्तोम॑श्‍च मे॒ यजु॑श्‍च
मे दी॒क्षा च॑ मे॒ तप॑श्‍च म ऋ॒तुश्च॑ मे व्र॒तं
च॑ मेऽहोरा॒त्रयो॑र्वृ॒ष्ट्या बृ॑हद्रथंत॒रे च॑ मे
य॒ज्ञेन॑ कल्पेताम् [ १ ] ।
[दी॒क्षाऽष्टाद॑श च] ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके नवमोऽनुवाकः ।। ९ ।।

[[2237]]

(अथ चतुर्थकाण्डे सप्‍तमप्रपाठके नवमोऽनुवाकः)।
नवममाह–
अग्निश्‍च म इति। अग्निश्चीयमानो वह्‍‍निः। धर्मः प्रवर्ग्यः । इन्द्रायार्क वंते पुरोडाशमिति विहितो यागोऽर्कः । सौर्यं चरुमिति विहितो यागः सूयः। प्राणाय स्वाहेति विहितो होमःप्राणः । अश्वमेधः प्रसिद्धः । पृथिव्यादयो देवताविशेषाः। शक्‍वरीः शक्‍वर्यः । अङ्‍गुलयोऽङ्‍गुलिवद्विराट्पुरुषस्यावयवविशेषाः । दिशः प्राच्याद्याः चशब्दाद्विदिशोऽपि । ताः सर्वा मे मदीयेन यज्ञेन कल्पन्तां स्वस्वव्यापार-समर्था भवन्तु । ऋगादयो मन्त्रविशेषाः । स्तोमः सामावृत्तिरूपं स्तोत्रम् । दीक्षा यजमानसंस्कारः । तपः पापक्षयार्थमनशनादि । ऋतुर्यज्ञाङ्गभूतः कालः । व्‍रतमेक-स्तनादि । अहोरात्रयोः संबन्धिनी या वृष्टिस्तया मदीयं सस्यं कल्पतामिति शेषः । बृहद्रथंतरे सामनी, ते च मदीयेन यज्ञेन कल्पेतां स्वस्वव्यवहारसमर्थे भवेताम् ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
नवमोऽनुवाकः ।। ९ ।।