(अथ चतुर्थाष्टके सप्तमप्रपाठकेऽष्टमोऽनुवाकः) ।
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ धिष्णि॑-
याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑-
णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒ष-
व॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च
मे पू॒तभृच्च॑ म आधव॒नीय॑श्च म॒ अग्नी॑घ्रं
च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च
मे पुरो॒डाशा॑श्च मे पच॒ताश्श्च॑ मेऽवभृ॒थश्च॑
मे स्वागाका॒रश्च॑ मे [ १ ] ।।
(गृहाश्च॒ पोड॑श च) ।
[[2236]]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
(अथ चतुर्थकाण्डे सप्तमप्रपाठकेऽष्टमोऽनुवाकः)।
अष्टममाह –
इध्मश्च म इति । इध्मादीनि यज्ञाङ्गद्रव्याणि यज्ञप्रकरणे प्रसिद्धानि । गृहाः पत्नीशालादयः । पचताः शामित्रादयः । स्वगाकारः शंयुवाकः । तेन हि यथास्यं देव-तानां हविर्नमनं क्रियते ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठकेऽ
ष्टमोऽनुवाकः ।। ८ ।।