(अथ चतुर्थाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः)।
अँ॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा॑भ्यश्च॒ मेऽधि॑-
पतिश्च म उपाँ॒शुश् मेऽन्तर्या॒मश्च॑ म
एन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒-
नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे
म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च
मे घ्रु॒वच्च॑ मे वैश्वानरश्च॑ म ऋतुग्र॒हाश्च॑
[१] मे॒ऽति॒ग्रा॒ह्या॑श्च म ऐन्द्रा॒ग्नश्च॑ मे
वैश्वदे॒वश्च॑ मे मरुत्व॒तीया॑श्च मे माहे॒न्द्र-
श्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च मे सार-
स्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हा-
रियोज॒नश्च॑ मे ( २ ) ।।
(ऋ॒तु॒ग्र॒हाश्च॒ चतु॑स्त्रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
[[2235]]
(अथ चतुर्थकाण्डे सप्तमप्रपाठके सप्तमोऽनुवाकः)।
सप्तममाह—
अँशुश्च म इति । अश्वादयः सोमग्रहविशेषाः सोमप्रकरणे प्रसिद्धाः । तत्र रश्मिग्रहादर्शनाददाभ्यस्यैव ग्रहस्य गृह्यमाणत्वदशां पृथक्कृत्य रश्मिशब्देन निर्दिश्यते । रश्मीनां तु तद्ग्रहणसाधनत्वात् । तथा च तद्ग्रहणमन्त्रः पठ्यते– “शुक्रं ते शुक्रेण गृह्णाम्यह्नो रूपेण सूर्यस्य रस्मिभिः” इति । अधिपतिशब्देन दधिग्रहो विवक्षितः । तस्य च श्रेष्ठत्वादाधिपत्यम् । अत एव श्रूयते- “ज्येष्ठो वा एष ग्रहाणाम्” इति । प्रतिप्रस्थानशब्देन द्विदेवत्यग्रहसहभावी प्रतिनि(धि)र्ग्राह्यो विवक्षितः । ध्रुवा-ख्यस्यैव ग्रहस्यावनयनदशायां वैश्वानरसूक्तपाठात्तदर्वस्थापन्नो वैश्वानरशब्देनोच्यते । आद्यो वैश्वदेवः प्रातःसवनगतः। उत्तरस्तृतीयसवनगतः । सारस्वतग्रहोऽभिषेचनी-याख्याविकृतौ दृष्टव्यः । “सारस्वतं ग्रहं गृह्णाति” इति तत्राऽऽम्नानात् । एवं पौष्णोऽपि विकृतिगामी द्रष्टव्यः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।