(अथ चतुर्थाष्टके सप्तमप्रपाठके षष्ठोऽनुवाकः)।
अ॒ग्निश्च॑ म॒ इन्द्र॑श्च मे॒ सोम॑श्च म॒ इन्द्र॑-
श्च मे सवि॒ता च॑ म॒ इन्द्र॑श्च मे॒ सर॑स्वती
च॒ म॒ इन्द॑श्च मे पू॒षा च॑ म॒ इन्द्र॑श्च मे॒
बृह॒स्पति॑श्च म॒ इन्त्र॑श्च मे मि॒त्रश्च॑ म॒ इ-
न्द्र॑श्च मे॒ वरु॑णश्च मे॒ इन्द्र॑श्च मे॒ त्वष्टा॑
च [ १ ] म॒ इन्द्र॑श्च मे धा॒ता च॑ भ॒ इन्द्र॑-
श्च मे॒ विष्णु॑श्च म॒ इन्द्र॑श्च मे॒ऽश्विनौ॑ च
म॒ इन्द्र॑श्च मे म॒रुत॑श्च म॒ इन्द्र॑श्च मे॒ विश्वे॑
च मे दे॒वा इन्द्र॑श्च मे पृथि॒वी च॑ म॒ इन्द्र॑श्च
मे॒ऽन्तरि॑क्षं च म॒ इन्द्र॑श्च मे॒ द्यौश्च॑ म॒ इन्द्र॑श्च
मे॒ दिश॑श्च म इ॒न्द्र॑श्च मे मूर्धा॒ च॑ म॒ इन्द्र॑श्च
मे प्र॒जाप॑तिश्च म॒ इन्द्र॑श्च मे ( २ ) ।
(त्वष्टा॑ च॒ द्यौश्च॑ न॒ एक॑विँशतिश्च) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
[[2234]]
(अथ चतुर्थकाण्डे सप्तमप्रपाठके षष्ठोऽनुवाकः)।
षष्टमाह—
अग्निश्च म इति। अग्न्यादयः प्रसिद्धा देवताः । तैः सर्वैः सह समान-भागेपेतत्वादिन्द्र एकैकया देवतया सह पढ्येते । दिक्शब्देन प्राच्याद्याश्चतस्र उच्यन्ते। मूर्धशब्देन चोर्ध्वा दिक् । सा च मुख्यत्वाभिप्रायेण पृथङ् निर्दिष्टा ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।