०५

(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चमोऽनुवाकः)।
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्‍च मे॒

[[2232]]

पर्व॑ताश्च मे॒ सिक॑ताश्‍च मे॒ वन॒स्पत॑यश्‍च मे॒
हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च मे॒ त्रपु॑श्च
मे श्या॒मं च॑ मे लो॒हं च मे॒ऽग्निश्‍च॑ म॒ आ
प॑श्‍च मे वीरुध॑श्‍च म॒ ओष॑धयश्‍च मे कृष्ट
प॒च्यं च॑ ( १ ) मे॒ऽकृ॒ष्ट॒प॒च्यं च मे ग्रा॒म्या-
श्च॑ मे प॒शव॑ आ॒र॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां
वि॒त्तं च॑ मे॒ वित्ति॑श्‍च मे भू॒तं च॑ मे॒ भूति॑श्च
मे॒ वसु॑ च मे वस॒तिश्‍च॑ मे॒ कर्म॑ च॑ मे॒ शक्ति
श्च॒ मेऽर्थ॑श्‍च म॒ एम॑श्‍च म॒ इति॑श्‍च मे॒ गति॑श्च
मे [ २ ] ।।
[कृ॒ष्ट॒प॒च्यं चा॒ष्टाच॑त्वारिँशच्‍च]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्‍तमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

(अथ चतुर्थकाण्डे सप्तमप्रपाठके पञ्‍चमोऽनुवाकः )।
पञ्चममाह –
अश्मा च म इति । अश्मादयः प्रसिद्धाः। श्यामं कृष्णायसम् । लोहं कांस्यताम्‍रादि। अग्‍न्यादयः प्रसिद्धाः । ग्राम्यारण्यपशवो यज्ञेन निमित्तीभूतेन कल्पन्तां समर्था भवन्तु । वित्तं पूर्वलव्धम् । वित्तिर्भाविलाभः । भूतमैश्वर्यौपेतं पुत्रादिकम् । भूतिः स्वकीबमैश्वर्यादिकम् । वसु निवाससाधनं गवादिकम् । वस तिर्निवासाधारो गृहादि । कर्माग्निहोत्रादिकम् । शक्तिस्तदनुष्ठानसामर्थ्थम् । अर्थः प्रयोजनविशेषः । एम एतव्यं प्राप्‍तव्य सुखम् । इतिरयनमिष्टप्राप्‍त्युपायः । गति रेष्ठप्राप्तिः ।।

[[2233]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।