०४

[अथ चतुर्थाष्टके सप्तमप्रपाठके चतुर्थोऽनुवाकः]।
ऊर्क् च॑ मे सू॒नृता॑ च मे॒ पय॑श्‍च मे॒ रस॑श्‍च
भे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्‍च मे॒ स
पी॑तिश्‍च मे कृ॒षिश्‍च॑ मे॒ वृष्टि॑श्‍च मे॒ जैत्रं॑
च म॒ औद्भि॑द्यं च मे र॒यिश्‍च॑ मे॒ राय॑श्‍च
मे पु॒ष्टं च॑ मे॒ पुष्टि॑श्‍च मे वि॒भु च॑ [ १ ]
मे॒ प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्‍च मे पू॒र्णं
च॑ मे पू॒र्णत॑रं च मेऽक्षि॑तिश्‍च मे॒ कूय॑वाश्‍च॒
मेऽन्नं॑ च॒ मेऽक्षु॑च्‍च मे व्री॒हिय॑श्‍च मे॒ यवा॑श्च
मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्‍च॑ मे ख॒-
ल्वा॑श्च मे गो॒धूमा॑श्‍च मे म॒सुरा॑श्च मे

[[2231]]

प्रियंग॑वश्‍च॒ मेऽण॑वश्‍च मे श्या॒माका॑श्‍च मे
नी॒वारा॑श्‍च मे ( २ ) ।।
(वि॒भु च॑ म॒सुरा॒श्चतु॑र्दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके चतुर्थोऽनुवाकः।। ४ ।।

[अथ चतुर्थकाण्डे सप्तमप्रपाठके चतुर्थोऽनुवाकः]।
चतुर्थमाह–
ऊर्क् च म इति । ऊर्गंन्नसामान्यम् । सुनृता प्रियोक्तिः । पयः प्रभृतयोऽन्‍न-विशेषाः । पयः क्षीरम् । रसस्तत्रत्यं सारम् । घृतमधुनी प्रसिद्धे । सग्धिर्बन्धुभिः सह भोजनमित्यर्थः । तथा सपीतिः सहपानम् । कृषिवृष्टी अन्‍नस्य हेतुत्वेन प्रसिद्धे । जैत्रं जयशीलं सुक्षेत्रमित्यर्थः । औद्भिद्यमुद्भिदां तरुगुल्मादीना मुत्पत्तिः । रयिः सुवर्णम् । रायो मणिमुक्तादिः । पुष्टं पूर्वोक्तमेव सुवर्णमतिसमृद्धम् । पुष्टिः शरीरपोषः । विभ्वा-दयोऽक्षित्यन्ता धान्यविषया उत्तरोत्तराभिवृद्धयः सप्‍तापि तारतम्येन द्रष्टव्याः । न केवलं प्रयृद्धान्येव किंत्वल्पा न्यपीत्युच्यन्ते-कूयवाः कुत्सितयवाः । अन्‍नं प्रसिद्धम् । अक्षुदन्‍नसाध्यः क्षुत्पः रिहारः । व्‍रीहियवमापतिलमुद्राः प्रसिद्धाः । खल्वा मुद्गेभ्योऽपि स्थूलवीजाः । गोधूमाः प्रसिद्धाः । मसुरा मुद्गवत्सूपहेतवः । मियंगवः प्रसिद्धाः । अणवसूक्ष्मशालयः श्यामाका ग्राम्या धान्यविशेषाः । नीवारा आरण्याः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।