अथ चतुर्थाष्टके सप्तमप्रपाठके तृतीयोऽनुवाकः ।
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑
मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒
श्रेय॑श्च मे॒ वस्य॑श्च मे य॒श॑श्च मे॒ भग॑श्च
मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒
क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं च [ १ ]
मे मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञा॑त्रं च मे॒
सूश्च॑ मे प्र॒सृश्च॑ मे॒ सीरं च मे ल॒यश्च॑
म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑म-
यच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽ
नमि॒त्रं च॒ मे॒ऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं
च मे सूषा च॑ मे सुदिनं॑ च मे [ २ ] ।।
[विश्वं॑ च॒ शय॑नम॒ष्टौ च॑]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके तृतियोऽनुवाकः।। ३ ।।
(अथ चतुर्थकाण्डे सप्तमप्रपाठके तृतियोऽनुवाकः)।
तृतीयमाह—
शं च म इति । शंशब्द ऐहिकसुखवाची । मयःशब्द आमुष्मिकसुख वाची। प्रियं प्रीतिकारणं वस्तु । अनुकामोऽनुकूलत्वनिमित्तेन काम्यमानः पदार्थः। एतदुभ-यमैहिकामेव तारतम्योपेतम् । काम आमुष्मिकः स्वर्गादिः । सौमनसो मनःस्वास्थ्य- करो बन्धुवर्गः । भद्रं कल्याणमिह लोके रमणीयम् । श्रेय परलोकहितम् । वस्यो निवासहेतुर्गृहादिः । यशः कीर्तिः । भगः सौभाग्यम् । द्रविणं धनम् । यन्ता नियामक आचार्यदिः । धर्ता पोषकः पित्रादिः । क्षेमो
[[2230]]
विद्यमानधनस्य रक्षणशक्तिः । घृतिर्धैर्यमापद्यपि निश्चलत्वम् । विश्वं सर्वजना नुकूल्यम् । महः पूजा । संविद्वेदशास्त्रादिविज्ञानम् । शात्रं ज्ञापयितृत्वसामर्थ्यम् । सूः पुत्रादिप्रेरणसामर्थ्यम् । प्रसूर्भृत्यादिप्रेरणसामर्थ्यम् । सीरं लाङ्गलादिकृषि साधन-संपत्तिः । लयस्तत्प्रतिबन्धनिवृत्तिः । ऋतं यज्ञादिकर्म । अमृतं तत्फलम् । अयक्ष्मं राजयक्ष्मादिप्रबलव्याधिराहित्यम् । अनामयज्ज्वराद्यल्पव्याधिराहित्यम् । जीवातुर्जी-वनकारणं व्याधिपरिहारार्थमौषधम् । दीर्घायुत्वमपमृत्सुराहित्यम् । अनमित्रं वैरिरा-हित्यम् । अभयं भयराहित्यम् । सुगं शोभनगमनं सर्वैरङ्गीकृताचरणमित्यर्थः । शयनं शय्योपधानदिसंपत्तिः । सूषा स्नानसंध्यावन्दनादियुक्तः शोभनः प्रातःकालः । सुदिनं यज्ञदानाध्ययनादियुक्तं कृत्स्नं दिनम् ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
तृतीयोऽनुवाकः ।। ३ ।।