०२

(अथ चतुर्थकाण्डे सप्तमप्रपाठके द्वितीयोऽनुवाकः) ।
ज्यैष्ठयं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्‍च॑
मे॒ भाम॑श्‍च॑ मेऽम॑श्‍च॑ मेऽम्भ॑श्‍च मे जे॒मा च॑
मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑
मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒
वृद्धि॑श्‍च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑-
च्‍च [ १ ] मे॒ धनं॑ च मे॒ वश॑श्‍चमे॒ त्वि-
षि॑च्‍च मे क्री॒डा च॑ मे॒ मोद॑श्‍च मे जा॒तं
च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒-
तं च॑ मे बि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे
भवि॒ष्यच्‍च॑ मे सु॒गं च॑ से सु॒पथं॑ च म
ऋ॒द्धं च॑ म॒ ऋद्धि॑च्‍च मे क्‍लृ॒प्‍तं च॑ मे॒

[[2228]]

क्‍लृति॑श्‍च म॒तिश्‍च॑ मे सुम॒तिश्‍च॑ मे
( २ ) ।।
(जग॒च्‍चर्द्धि॒श्चतु॑र्दश च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके द्वितियोऽनुवाकः ।। २ ।।

(अथ चतुर्थकाण्डे सप्‍तमप्रपाठके द्वितियोऽनुवाकः)।
अथ द्वितीयमाह–
ज्यैष्ठ्यं च म इति । ज्यैष्ठ्यं प्रशस्ततममत्वम् । आधिपत्यं स्वामित्वम् । मन्युभामाशब्दौ क्रोधावान्तरविशेषवाचिनौ । एको मानसोऽक्षमादिलिङ्गजन्यो बाह्यः । अमोऽप्रमेयत्वं विरोधिभिरियत्तया परिच्छेत्तुमशक्यत्मम् । अम्भः शैत्यमाधुर्योपेतमुद-कम् । जेमा जयसामर्थ्यम् । गृहिमा महत्त्वं जयसंपादितधनादिसंपत्तिः । वरिमा वरणीयत्वं पूज्यत्वम् । प्रथिमा मृहक्षेत्रादिविस्तारः । वर्ष्मा पुत्रपौत्रादिशरीराणि । द्राघुया पुत्रपौत्रादिविषय दीर्घत्वमविच्छिन्‍ना संततिरिस्यर्थः । वृद्धं प्रभूतमन्‍नं धन च । वृद्धिर्विद्यादिगुणैरुत्कर्पः । सत्यं यथार्थभाषणम् । श्रद्धा परलोकोऽस्तीति बुद्धिः । जगणङ्गमाजङ्गमात्मकम् । धनं सुवर्णादि । वशः सर्वस्वाधीनत्वम् । त्विषिः शरीरकान्तिः । क्रीडाऽक्षद्यूतादिः । मोदस्तज्‍जन्यो हर्षः । जातं पूर्वसिद्धापत्यम् । जनिष्यमाणं भविष्यदपस्यम् । सूक्तमृक्समूहः । सुकृतं तज्‍जन्यमपूर्वम् ।वित्तं पूर्वलब्धम् । वेद्यामितः परं लव्धव्यं द्रव्यजातम् । भूतं पूर्वसिद्धं क्षेत्रादि । भविष्यत्सं-पत्स्यमानम् । सुगं सुष्ठु गन्तव्यं बन्धुजनयुक्तग्रामान्तरादि । सुपथं चोरादिरहितो मार्गः। ऋद्धं वर्धितं धनादिकमनुष्ठितकर्मफलं वा । ऋद्धिरनुष्ठास्यमानसत्रफम् । क्‍लृप्तं समर्थं स्यकार्यक्षमद्रव्यम् । क्‍लृप्‍तिः स्वकीयसामर्थ्यम् । मतिः पदार्थमात्र-निश्चयः । सुमतिदुर्घटराजकार्यादिनिश्चयः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्‍तमप्रपाठके
द्वितीयोऽनुवाकः ।। २ ।।

[[2229]]