०१

(तत्र प्रथमोऽनुवाकः) ।
हरि ॐ ।
अग्नाविष्णू स॒जोष॑से॒मा व॑र्धन्तु बां॒ गिरः॑ ।
द्यु॒म्‍नैर्वाजो॑भि॒रा ग॑तम् । वाज॑श्च मे प्रस॒वश्च॑
मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्‍च मे धी॒तिश्‍च॑ मे॒
ऋतु॑श्‍च मे॒ स्वर॑श्‍च मे॒ श्लोक॑श्‍च मे श्रा॒
वश्‍च॑ मे॒ श्रुति॑श्‍च॑ मे॒ ज्योति॑श्‍च मे॒ सुव॑श्‍च॒
मे प्रा॒णश्‍च॑ मेऽपा॒नः ( १ ) च॒ मे॒ व्या॒नश्‍च॒
मेऽसु॑श्‍च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒
वाक्‍‍‍च मे॒ मन॑श्‍च मे॒ चक्षु॑श्‍च मे॒ श्रोत्रं॑ च
मे॒ दक्षश्‍च मे॒ बलं॑ च म॒ ओज॑श्‍च मे॒ सह॑श्‍च
म॒ आयु॑श्‍च मे ज॒रा च॑ म आ॒त्मा चं॑ मे
त॒नूश्‍च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च
मे॒ऽस्थानि॑ च मे॒ परूँ॑ षि च मे॒ शरी॑राणि
च मे ( २ ) ।
[अ॒पा॒नस्त॒नूश्च॑ मे॒ऽष्टाद॑श च]।

[[2226]]

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

(अथ चतुर्थकाण्डे सप्तमः प्रपाठकः) ।
(तत्र प्रथमोऽनुवाकः) ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
परिषेचनमुख्यास्तु संस्काराः षष्ठः ईरिताः ।
वसोर्धारादयः शिष्टाः प्रोच्यन्तेऽस्मिंस्तु सप्‍तमे ।।
कल्पः– “अग्नाविष्णू सजोषसेति चतुर्गृहीतं हुत्वौदुम्बरीं स्रुचं * व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा वाजश्च मे प्रसवश्च म इति संततां वसोर्धारां जुहोत्या मन्त्रसमापनात्” इति।
अत्र ह्येकादशभिरनुवाकैर्मन्त्रः समाप्यते । चतुर्गृहीतहोममन्त्रपाठस्तु–
अग्‍नाविष्णु इति । हेऽग्नाविष्णु युवां सजोषसा समानप्रीती भवेतम् । वां युवयोरिमा गिरः स्तुतिरूपा वाचो वर्धन्तु वृद्धिं प्राप्‍नुवन्तु । युवामपि द्युम्नैर्धनैर्वाजे-भिरन्नैश्च युक्तावागतमिहाऽऽगच्छतम् ।
अथैकादशानुवाकात्मको मन्त्र उच्यते । अनुवाकभेदस्त्वयज्ञसंयुक्ते कर्माणि पृथङ्मन्त्रत्वेनानुष्ठेयत्वादुपपद्यते । तत्र प्रथमानुवाकपाठस्तु–
वाजश्‍च म इति। वाजोऽन्नम् । चशब्दो वक्ष्यमाणद्रव्याप्रेक्षया समुच्‍चयार्थः । मे मम कल्पतामिति पदं दशमानुवाके वक्ष्यमाणं सर्वत्रानुषज्यते संपद्यतामित्यर्थः । प्रसवोऽन्नस्यानुज्ञानम् । प्रयतिः शुद्धिः । प्रसितिर्बन्धनमन्नविषयकमौत्सुक्यम् । धीति-रन्नधारणम् । क्रतुरन्नहेतुर्यज्ञः । स्वरो मन्त्रगत उदात्तादिः । श्लोकः स्तुतिः । श्रावः श्रावयितृत्वसामर्थ्यम् । श्रुतिः श्रवणसामर्थ्यम् । ज्योतिः प्रकाशः । सुवः स्वर्गः । प्राणापानव्याना वायुवृत्तिविशेषाः । असस्तद्‍वृत्तिमा-
*व्याममात्रिमिति भवितव्य ।

[[2227]]

न्वायुः । चित्तं मनोजन्यं ज्ञानय । आधितं तेन ज्ञानेन सर्वदा विषयीकृतं द्रव्यम् । वागादयश्चत्वारः प्रसिद्धाः । दक्षो ज्ञानेन्द्रियगतं कौशलम् । बलं कर्मेद्रियगतं सामर्थ्यम् । ओजो बलहेतुरष्टमो धातुः । सहो वैरिविषयमभिभवितृत्वम् । आयुः प्रसिद्धम्। जराऽऽयुषो वलीपलितादिपर्यन्तत्वम् । आत्मा शास्त्रप्रसिद्धः परमात्मा । तनूः शोभनसंनिवेशं वपुः । शर्म सुखम् । वर्म शरीररक्षकं कवचादि । अङ्गानि संपूर्णावयवाः । अस्थानि यथास्थानं स्थितान्यस्थीनि । परूंषि अङ्‍गुल्यादिपर्वाणि । शरीराणि पूर्वमनुक्ताः शरीरावयवाः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
प्रथमोऽनुवाकः ।। १ ।।