(अथ चतुर्थाष्टके पष्टप्रपाठके नवमोऽनुवाकः)।
ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः
सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो माँभि॒क्षामु॒-
पास॑त उ॒तो तेषा॑मा॒भिगू॑र्तिर्न इन्वतु । यन्नी-
क्ष॑णं माँ॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि
यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑ऽपि॒धाना॑
चरू॒णाम॒ङ्का सू॒नाः परि॑ भूष॒न्त्यश्व॑म्।
निक्रम॑णं नि॒षद॑नं वि॒वर्त॑नं यच्च॒ षड्वी॑श॒-
मर्व॑तः। यच्च॑ प॒पौ यच्च॑ घा॒सिम् ( १ )
ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । मा
[[2219]]
त्वा॒ऽग्निर्घ्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि
वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒
तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व॑म् । यदश्वा॑य॒
वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै ।
सं॒दान॒भर्व॑र्न्त पड्वी॑शं प्रि॒या दे॒वेष्वा या॑मय-
न्ति । यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या
वा॒ कश॑या [ २ ] वा तु॒तोह॑ । स्रु॒चेव॒ ता
ह॒बिषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूद-
यामि । चतु॑स्त्रिँशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री
रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गा-
त्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या वि
शस्त॑ । एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒-
न्तारा॑ भवत॒स्तथ॒र्तुः या ते॒ गात्रा॑णामृतु॒था
कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ।
मा त्वा॑ तपत् [ ३ ] प्रि॒य आ॒त्माऽपि॒यन्तं॒
मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑
गृ॒घ्रुर॑विश॒स्ताऽति॒हाय॑ छि॒द्रा गात्रा॑ण्य॒सि-
ना॒ मिथू॑ कः । न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑-
ष्यसि दे॒वाँ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑
ते॒ युञ्जां॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒री
रास॑भस्य । सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यं
पुँ॒सः पु॒त्राँ उ॒त वि॑श्वा॒पूषँ॑ रयिम् । अ॒-
[[2220]]
ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्त्रं नो॒
अश्वो॑ वनताँ ह॒विष्मा॑न् [ ४ ]।
(घा॒सिं कश॑या तपद्र॒यिं नव॑ च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
षष्ठप्रपाठके नवमोऽनुवाकः ।। ९ ।।
अश्म॒न्य इ॒मोदे॑नमा॒शुः शिशा॑नः॒ प्राचीं॑ जी॒मूत॑स्य॒ यदक्र॑न्दो॒ मा नो मि॒त्रो वरु॑णो॒ ये॒ वा॒जिनं॒ नव॑ ।। ९ ।।
अश्वन्म॑नो॒युजं॒ प्राची॒मनु शर्म॑ यच्छतु॒ तेषा॑म॒भिगू॑र्तिः॒ षट्च॑त्वारिँशत् ।। ४६ ।।
हरिः॑ ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
षष्ठः प्रपाठकः ।। ६ ।।
(अथ चतुर्थकाण्डे षष्ठप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाके पूर्वानुवाकबदश्वस्तोमीयाः केचिन्मन्त्रा उक्ताः । अथ नवमेऽ-विशिष्टा अश्वस्तोत्रमन्प्रा उच्यन्ते । तत्र प्रथमामृचमाह—
ये बाजिनमिति । ये पुरुषा वाजिनमेतमश्वं पक्वं पाकं प्राप्तं परिपश्यन्ति षरित आगत्याऽऽदूरेण पश्यन्ति, य ईं येऽप्यन्ये सुरभिः सुगन्धोऽयमश्वोऽस्मान्निर्हर निष्कृ-ष्याल्पमाहरेत्याहुः, उतो अपि च ये चान्येऽर्वतोश्वस्य संबन्धिनीं मांसभिक्षामुपासते प्रार्थयन्ते, तेषां सर्वेषामभिगूर्तिः संकल्पो न इन्वतु प्राप्नोत्वस्माकं श्रेयते भवत्वित्यर्थः। अथ द्वितीयामृचमाह–
यन्नीक्षणमिति। मांसं पच्यते यस्यामुखायां सा मांस्पचनी, तस्या उखाया नीक्षणं नितरमीक्षणमादरेण दर्शनं यदस्ति, यानि च पात्राणि यूष्णो रसस्याऽऽसेचनानि सर्वतः सेचनाधारभूतानि, चरूणां मांसादीनामपिधानाऽऽच्छादनपात्राणि
[[2221]]
ऊष्मण्योष्मरक्षणार्थानि यानि सन्ति, अङ्का मांसलेनाङ्किताः सूनाः स्वधितिवेत-सशाखाद्या याः सन्ति, तानि सर्वाण्यश्वं परिभूषन्ति अश्वस्य यत्कार्यं तदेव कुर्वन्तीत्यर्थः । अथ तृतीयामृचमाह–
निष्क्रमणमिति । निष्क्रमणमश्वस्य पादप्रक्षेपस्थानं निषदनं निवासस्थानं विवर्तनं परिवर्तनस्थानं च यदस्ति, यदप्यर्वतोऽश्वस्य पड्बीशं पादबन्धनस्थानं पादक्षुण्णरजो वाऽस्ति, यदप्युदकं पपौ, यच्च घासिं तृणादिकं जघास भक्षितवान्, ते त्वदीयं सर्वा ता तत्सर्वं देवेष्यप्यस्तु देवेष्वेव समर्पितं भवतु ।
अथ चतुर्थीमृचमाह–
मा त्नाऽग्निरिति । हेऽश्व त्वां धूमगन्धिर्धूमगन्धापादकोऽग्निर्मा ध्वनयित्पा कश-ब्दोपेतं मा करोतु । काष्ठविशेषयुक्तेन केनविदग्निना पक्वमोदनादिकं धूमगन्धो पेतं भवति । तथा दुष्पाकेन(ण) कुशब्दं यथा भवति तथा पच्यन्ते । तदुभयमत्र मा भूदित्यर्थः । किंच भ्राजन्त्युखा सम्यक्तप्ता स्थाली माऽभिविक्तातिपा केनाभितो विक्तं विदग्धं मा करोतु । त्वं तु जघ्रिराघ्राणयोग्यः सुगन्धो भ (न्विर्म) वेति शेषः । इष्ट-मन्तयन्तेच्छाविषयं वीतं कान्तं रमणीयपाकमभिगूर्तंदेवयोग्यमस्त्विति यजमानैः संकल्पितं वषट्कृतं वषट्कारेण प्रदत्तमश्वं देवाः प्रतिगृभ्णन्ति देवाः स्वी कुर्वन्तु । अथ पञ्चमीमृचमाह–
यदश्वायेति । हन्यमानस्याश्वस्याधस्ताद्वस्त्रमुपरिष्टाच्च किंचिद्वस्त्रं प्रसार यन्ति, तदुभयमत्र वासःशब्देनाधीवासशब्देन चोच्यते । यद्वासोऽश्वार्थमुपस्तृणन्त्यधः प्रसार-यन्ति, यच्चाधि (धी)वासमुपर्याच्छदयन्ति, यानि चान्यानि हिरण्यमण्यादीन्यस्मा अश्वार्थं संपादितानि, अर्वन्तमर्वतोऽश्वस्य यत्संदानं बन्धनसाधनं दाम, यच्च पड्बीशं पादबन्धनस्थानगता रज्जुस्तानि सर्वाणि देवेषु प्रिया प्रियाणि भूत्वाऽऽयाम-यन्ति सर्वतः प्रसारयन्तु । अत षष्ठीमृचमाह–
यत्ते साद इति । हेऽश्व तव सादे नमने ( महसोत्सवेन ) शूकृतस्य शूकारो ध्वन्यनुकरणं प्रौढस्याश्वस्य शीघ्रगमने शूकारो जायते, तेन शूकारेण युक्तस्य शीघ्रगमनायोपर्यारूढः पार्ष्णिया स्वकीयेन पादपृष्ठमागेन हस्तधृतया
[[2222]]
कशया वा तु (यत्तु) तोद व्यथां चकार, ते त्वदीयं सर्वा ता तत्सर्वं ब्रह्मणा मन्त्रेण सूदयामि जुहोमि । तत्र दृष्टान्तः—अध्वरेषु यागेषु हविः संबन्धीनि तानि सर्वाण्याज्या-दिविशेषरूपाणि स्रुचेव यथा स्रुचाऽऽज्यं जुह्वति तद्वत्। सप्तमीमाह
चतुस्त्रिँशदिति। वाजिनोऽन्नसाधनस्य देवबन्धोर्देवाप्रियस्य देवार्थं बध्यमानस्याश्वस्य संबन्धिनीर्वङ्कीर्वक्राणि पार्श्वद्वयगतान्यस्थीन्येकैकस्मिन्पार्श्वे स दशेत्येवं चतुस्त्रिंशत्संख्याकाः, अन्यस्य तु पशोः षङ्विंशतिरेव । अतः सावधाना स्वधितिरश्वं समेति संगच्छताम् । यथाऽस्थिलेशोऽपि हविंषि न मिलति तथा वियुनक्ती (क्त् वि)त्यर्थः । हे शमितारो गात्रा हृदयाद्यङ्गानि अच्छिद्रा वयुना छिद्ररहितानि यथा भवन्ति तथा कृणोत कुरुत । तत्र चायमुपायः– पुरुष्परुरनुघुष्य तत्पर्वानुक्रमेण तदीदृशमिति कथमपि ज्ञात्वा विशस्त विशसनं कुरुत। अथाष्टमी (मृच) माह–
एकस्त्वष्टुरिति । त्वष्टुर्दीप्तिमतोऽऽश्वस्यर्तूपलक्षितकालीन एको विशस्ता-हिंसिता । तथा द्वा यन्तारा विशसनकाले यथेतस्ततो न चलति तथा नि या मकौ द्वौ। अत एवान्यत्राऽऽम्नातम् “अघ्रिगुश्चापापश्च । उभौ देवानाँ शमि तारौ” इति हेऽश्व ते तव गात्राणां यान्यङ्गानि ऋतुथर्तूपलक्षिते तत्तत्काले कृणोमि च्छिनद्मि, पिण्डानां मांसपिण्डानां मध्ये ताता तानि तान्यङ्गानि प्रजुहोम्यग्नौ प्रकर्षेण जुहोमि । अथ नवमी (मृच)माह—
मा त्वेति। हेऽश्वापियन्तं शरीरं विसृज्य देवान्गच्छन्तं त्वां प्रिय आत्माप्रीति-हेतुर्विग्रहो मा तपत्संतापं मा कार्षीत्। तथा स्वधितिस्ते तनुवो गात्राणि नाऽऽतिष्ठिप-न्मैव स्थापयतु, किमप्यङ्गमनवशेष्य सर्वं छिनत्त्वित्यर्थः। अविशस्ता विशसनकौशल-रहितः केवलं मांसतृष्णायुक्तोऽतिहाय विशसनकौशलरहितप्रकारम तिलङ्घ्य ते गात्राणि तवाङ्गान्यसिना शस्त्रेण मिथु च्छिद्राणि ना कर्मा करोतु । अथ दशमी (मृच) माह–
न वा उवेतदिति। शास्त्रानभिज्ञानां लौकिकानां दृष्ट्या त्वमेतत्प्रत्यक्ष मेव म्नियसे शमितृभिर्हिस्यसे च । शास्त्रादृष्ट्या तु त्वं न वा उवेतन्म्नियस एत
[[2223]]
न्मरणमेव न भवति, न च रिष्यसि नापि शमितृभिर्हिस्यसे, किंतु सुगेभिः पथिमिः सुगममार्गैर्देवानिदेषि देवानेव प्राप्नोषि । तत्र देवेषु मध्य इन्द्रत्वं प्राप्तस्य ते हरी हरिनामकावश्वौ रथे युक्तावभूतां सर्वथा भविष्यतः। * एवं तथा मरुद्रूपं प्राप्तस्य ते पृषती चित्रवर्णे अश्वस्त्रियौ युञ्जावभूतां रथे युक्तौ भविष्यतः। इदानीं रासभस्य धुरि वर्तमानस्व गर्दभवद्भारवाहिनस्तव वाज्युपास्थात्त्वां वोढुं कश्चित्प्रौढोऽश्वः प्राप्तो भवि-ष्यति । अथैकादशी[ मृच ]माह–
सुगव्यमिति। अयं वाजी नोऽस्माकं सुगव्यं कल्याणगोसमूहं स्वश्वियं कल्याणाश्वसमूहं पुंसः पुत्रान्पुंस्त्वलक्षणसंपन्नान्पुत्रान्, उतापि च विश्वाषुषं विश्वं पोषयितुं रयिं धनं कृणोतु । अदितिरियं भूमिर्नोऽस्माकमनागास्त्वमपराधराहित्यं करोतु । हविष्मान्हविःस्वरूपेण निष्पन्नोऽयमश्वो नोऽस्माकं क्षत्त्रं बलं वनतां संपादयतु। तदेवमेतेषु त्रिष्वनुवाकेषु अश्वस्तोत्रप्रतिपादकत्वेनाश्वस्तोमीया मन्त्राः पञ्चत्रिंशदाम्नाताः । अवशिष्टा तु पञ्चमकाण्डे समाम्नास्यते । तथा च सूत्रकार आह– “क्रमैरत्यक्रमीदित्येतां षट्त्रिंशीम्” इति।
अत्र विनियोगसंग्रहः—
पञ्चत्रिंशद्यदक्रन्दोनुवाकेषु त्रिषु श्रुताः।
अश्वस्तोमीयहोमास्तैरिति षष्ठः समीरितः।।
अत्र मीमांसा ।
नवमाध्यायस्य चतुर्थपादे द्वितीयाधिकरणे चिन्तितम्–
न चतुत्रिंशदित्येष निषेधो नियतो न वा ।
गिरपदवदाद्यः स्यान्नैवकारहतत्वतः ।।
निषेधः प्राप्तिपूर्वोऽतः प्रापकोऽत्रानुमीयते ।
निषेधप्रापकाभ्यां च चतुस्त्रिंशद्विकल्प्यते ।
अश्वमेधे त्रयः सवनीयः पशवः श्रुताः—“अश्वस्तूपरो गोमृगस्ते प्राजा
- एवमित्यधिकम्।
[[2224]]
पत्याः” इति । तेष्वश्वस्य चतुत्रिंशद्वङ्क्रयः । तथा च मन्त्रः पठ्यते– “चतुस्त्रिँ- शद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति” इति । वाजी गन्धर्ववाहको जातिवशेषः । अत एवान्यत्राऽऽम्नायते– “हयो देवानवहदर्वाऽसुरान्याजी गन्धर्वानश्वो मनुष्यान्” इति । देवबन्धुर्देवानां प्रियः । स्वधितिश्छेदनहेतुः शस्त्रमित्यर्थः । एवं सति अघ्रिगुप्रैषं विशेषोऽयमाम्नायते “न चतुस्त्रिंशदिति ब्रूयात्। षङ्विंशतिरित्येव ब्रूयात्” इति । सोऽयं चतुस्त्रिंशद्वाजिन इत्यादिकाया ऋचः प्रतिषेधो गिरापदनिषेधवान्नित्यो न तु विकल्पितः । यथा “न गिरा गिरेति ब्रूयादैरं कृत्वोद्गेयम्” इत्यत्र गिरापदनिषधपुरः- सरमि रापदे विहिते सति निषिद्धस्य नित्यानवृत्तिः । तथा चतुस्त्रिंशन्मन्त्रनिषे पुरःसरं षड्विंशतिमन्त्रे विहिते सति नित्यनिवृत्तिर्निषिद्धस्येति चेन्मैवम् । षड्विंशतिरित्येव ब्रूयादित्येवकारेण विधित्बप्रत्ययबाधात् । षड्विंशतिमन्त्रस्तावच्चोदकप्रांप्तत्वान्न विधेयः । तस्य चतुस्त्रिंशन्मन्त्रेणापवादप्रसक्तौ न चतुस्त्रिंशदित्यनेनापवादकं मन्त्रं प्रतिषिध्य चोदकप्राप्तस्यानपोदितत्वेन यथापूर्वमवस्थानमनुद्यत इत्येवमर्थं सूचयितु-मेवकारः प्रयुक्तः। गिरापददृष्टान्तस्तु विषमः । अप्राप्तत्वादिरापदं तत्र विधीयते । तेन च विहितेन पाठप्राप्ते गिरापदे बाधिते स बाधो न गिरा गिरेति निषेधेनानूद्यते । ततो दृष्टान्ते निषेधानुवादो दार्ष्टन्तिके विध्यनुवाद इति महद्वैषम्यम् । ननु विधिवाक्यस्यैव-कारयुक्तस्यानुवादत्वे सति न चतुस्त्रिंशदित्यस्मिन्निषेधे कृत्स्नवाक्यतात्पर्यान्निषिद्धस्य नि-त्यनिवृत्तिस्तदवस्था स्यात् । मैवम् । प्रापकस्यापि सद्भावेन निषेधप्राप्तिभ्यां चतुस्त्रिंश-न्मन्त्रस्य विकल्पितत्वात्। अथोच्येत चतुस्त्रिंशद्वाजिन इत्ययं मन्त्रः केवलं स्वरूपेण पठितः, न त्वस्याघ्रिगुप्रैषवत्प्रापकं किंचिदस्तीति । तन्न । प्रापकवचनस्य कल्पनीय-त्वादन्यथा प्रसकत्यभावेन प्रतिषेधानुपपत्तेः । तस्मात्प्रसञ्जकेनोपजीव्येनानुमितविधिना प्रत्यक्षनिषेधेन च समानबलतया चतुस्त्रिंशदित्ययं मन्त्रोऽश्वस्याघ्रिगुप्रैषे विकल्प्यते ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके
नवमोऽनुवाकः ।। ९।।
[[2225]]
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे षष्ठः प्रपाठकः ।। ६ ।।