(अथ चतुर्थाष्टके षष्ठप्रपाठकेऽष्टमोऽनुवाकः)।
मा नो॑ मि॒त्रो वरु॑णो अर्य॒माऽऽयुरिन्द्र॑ ऋ-
भु॒क्षा म॒रुतः॒ परि॑ ख्यन्। यद्वा॒जिनो॑ दे॒व
जा॑तस्य॒ सप्तेः॑ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि।
यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒-
तां मु॑ख॒तो नय॑न्ति। सुप्रा॑ङ॒जो मेम्य॑द्
[[2214]]
वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑।
ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो
भा॒गो नी॑यते वि॒श्वदे॑व्यः । अ॒भि॒प्रियं॒ यत्पु॑-
रो॒डाश॒मर्व॑ता त्वष्टेत् [ १ ] ए॒नँ॒ सौ॒श्र॒व॒-
साय॑ जिन्वति । यद्धविष्य॑मृतु॒शो दे॑व॒यानं॒
त्रिर्मानु॑षाः॒ पर्यर्श्व॒ नय॑न्ति । अत्रा॑ पू॒ष्णः
प्र॑थ॒मो भाग॒ ए॑ति य॒ज्ञं दे॒वेभ्यः प्रतिवे॒दयन्न॒-
जः। होता॑ऽध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑व
ग्रा॒भ उ॒त शँस्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒
स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम्।
यू॒पव्र॒स्का उ॒त ये यू॑षवा॒हाश्च॒षालं॒ ये अ॑
श्बयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नँ सं॒भ-
र॑न्त्यु॒तो [ २ ] तेषा॑म॒भिगू॑र्तिर्न इन्वतु । उ-
प॒प्रागा॑त्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒
उप॑वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति
दे॒वानां॑ पु॒ष्टे च॑कृमा सु॒बन्धु॑म् । यद्वा॒जिनो
दाम सं॒दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना र-
ज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृणँ॒
सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु । यदश्व॑स्य क्र॒-
विषः [ ३ ] मक्षि॒काऽऽश॒ यद्वा॒ स्वरौ॒ स्व-
धि॑तौ रि॒प्तमस्ति॒ । यद्धस्त॑योः शमि॒तुर्यन्न॒
खेषु॒ सर्वा ता॒ ते अ॒पि॑ देवेष्व॑स्तु । यदूव॑घ्य-
[[2215]]
मु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो
अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त
मेधँ॑ शृत॒षाकं॑ पचन्तु । यत्ते॒ गात्रा॑द॒ग्नि-
ना॑ प॒च्यमा॑नद॒भि शूलं॒ निह॑तस्यावधाव॑ति ।
मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु देवेभ्य॒स्त-
दु॒शद्भ्यो॑ रा॒तम॑स्तु ( ४ ) ।।
(इदु॒ता क्र॒विषः श्रिषत्स॒प्त च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
षष्ठप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
(अथ चतुर्थकाण्डे षष्ठप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमेऽनुवाकेऽश्वस्तोमीयमन्त्राः केचिदुक्ताः। अश्वस्तोत्रमश्वस्तोमस्त-त्प्रतिषादका अश्वस्तोमीयाः । अथाष्टमे त एवान्ये केचिदुच्यन्ते । अनुवाकभेदस्तु सांप्रदायिकोऽयज्ञसंयुक्तेषु प्रयोगेषु मन्त्रभेदार्थो वा ।
तत्राष्टमेऽनुवाके प्रथमामृचमाह–
भा नो मित्र इति । मित्रादयः प्रसिद्धाः । एति सर्वदा गच्छती * त्यायुः। ऋभवो देवाः क्षी(क्षि)यन्ति निवसन्त्यस्मिन्निति ऋभुक्षाः प्रजापतिः । मरुतो देवान्त-राणि । ते सर्वेऽपि नोऽस्मान्मा परिख्यन्मा निन्दयन्तु–( न्दन्तु ) । यद्यस्माद्वाजिनो यागद्वाराऽन्नसाधनस्य देवार्थमुत्पन्नस्य देवार्थमुत्पन्नस्य सप्तेरश्वस्यवीर्याणि सामर्थ्यानि विदथेऽस्मित्बज्ञे प्रवक्ष्यामो वयं प्रकर्षेण कथयिष्यामस्तस्मादस्मान्निन्दा न युक्तेत्यर्थः । अथ द्वितीयामृचमाह–
यन्निर्णिजेति । निर्णिजा प्रोक्षणादिकृतया शुद्ध्या रेक्णसा सुवर्णरजतादि-मणिरूपेज धनेन च प्रावृतस्य प्रकर्षेण सर्वतो वेष्टितस्य, अश्वमेधे हि चत्वार ऋत्विजः समुक्षन्तीति प्रोक्षणं हिरण्ययाः काचा इत्यादिना सुवर्णादिमणिभि-
- ख पुस्तके “आयुर्वायुरित्येबंरूपः क्वचित्माठो भवितुं युक्त” इति टिप्पणी।
[[2216]]
रलंकारश्चाभिधीयते । अतस्तथाविधस्य संबन्धिनीं गृभीतां हरते स्वीकृतां रातिं हविषो दानं मुखतोऽग्ने यद्यदा नयन्ति ऋत्विजः संपादयन्ति तदानीमजो गति मानश्वः सुप्राङ् सुष्ठु प्रकृष्टान्देवान्प्राप्नुवन्मेम्यत्, मेभ्यदिति हेषाशब्दस्यानुकरणम । विश्वरूपो नाना-रूपः सन्निन्द्रापूष्णोरिन्द्रपूषप्रभृतीनां देवानां प्रियं पाथोऽष्येति प्रीतिकरमन्नभावं प्राप्नोति । अथ तृतीयामृचमाह— एष च्छाग इति।
वाजिनाऽन्नसाधनेनाश्वेन सह यः कश्चिदजः षुरो नीयते तस्मादश्वात्पूर्वंभागे । कीदृशोऽजः, पूष्णो भागः पूषदेवताया भागस्वरूषो विश्वदेव्यो विश्वेभ्यो देवेभ्यो हितः। अभिप्रियं सर्वतः प्रीतिकरं पुरोडशवत्स्वादुभूतमनेनजमर्वताऽश्वेन सह त्वष्टे-त्त्वष्टैव सौश्रवसाय श्रूयते सर्वैरपि जनैः प्रीतिपूर्वकमिति श्रवोऽन्नं सुष्ठु श्रवः सुश्रव-स्तस्य भावः सौश्रवसस्तस्मै सम्यक्शोभनभावाय यग्रस्मात्कारणाज्जिन्वति प्रीणयति तस्मादयमजः पुरो नीयते । अश्वमेधप्रकरणे पौष्णमन्वञ्चमित्येवं पृषदेवताकमजं विधास्यति स पूर्वो नेतव्यः । तद्विषयोऽयं मन्त्रः । अनेन न्यायेन पूर्वमन्त्रोऽप्यज-विषयो योजयितव्यः । अश्वमेधप्रकरण ऐन्द्रापौष्णुपरिष्टा दिति व्यासक्तदेवताकस्या-जस्म श्रूयमाणत्वाच्च । अथ चतुर्थीमृचमाह–
मद्धविष्यमिति। यद्यत्र मानुषा ऋत्विजोऽश्वं त्रिः परिणयन्ति त्रिवारं प्रदक्षिणी कुर्वन्ति । कीदृशमश्वं, हविष्यं हविषो योग्यम् । ऋतुशो देवयानमृता वृतौ देवान्ग-च्छन्तम् । अत्रास्मिन्देशेऽजः प्रथम एति । कीदृशोऽजः, पूष्णो भागः । किं कुर्वन्, देवेभ्यो यज्ञं प्रतिवेदयन्, हे देवा यज्ञः प्रवर्तत इस्येवं दवेभ्यो ज्ञापयन् । अथ पञ्चमीमृचमाह–
होताऽघ्वर्युरिति । यो यस्मिन्यज्ञे होता विद्यते, यश्चाघ्वर्युरावया आ समन्ता-द्वेति गच्छति तत्र तत्रानुष्ठानाय शीघ्रं प्रवर्तत इत्यावयाः, योऽप्यग्निमिन्धोऽग्नेर्दीपक आग्नीध्रः, यश्च ग्रावग्राभो ग्रावस्तुत्, उतापि च शंस्ता यः प्रशास्ता, यश्च सुविप्रः प्रस्तोता, एते सर्वेऽपि स्वरंकृतेन सुष्ठ्वलंकृतेनापेक्षितद्रव्यैः संपूर्णेने त्यर्थः । स्विष्टेन सुष्ठूवनुष्ठितेन [तेन] यज्ञेनाश्वमेयेन वक्षणाः फलवाहिनीर्घृतकूल्या आपृणघ्वं हे होत्रा-दयो यूयं सर्वेऽप्यापूरयघ्वम्।
[[2217]]
अथ षष्ठीमृचमाह–
यूपव्रस्का इति । ये यूपव्रस्का यज्ञार्थं यूपं वृश्चन्ति, उतापि च ये यूपवाहाश्छिन्नं यूपं यज्ञभूमौ वहन्ति, येऽप्यन्येऽश्वयूपार्थं चषालं यूपकटकं तक्षति तक्षणेन संस्कृर्वन्वि, उतो अपि च येऽप्यन्ये पुरुषा अर्वतेऽर्वार्थं पचनं पाकसा धनकाष्ठं संभरन्ति संपादयन्ति, तेषां सर्वेषामभिगूर्तिः संकल्पो नोऽस्मानिन्वतु प्रीणयतु । अथ सप्तमीमृचमाह–
उप प्रागादिति । सुष्ठु मदहेसुरतिहर्षकारणं फलं सुमत्तदस्मानुपप्रागत्समीपे प्राप्नोति । मन्म मननीयं फलं मे मदर्थमधायि देवैः संपादितम्। उप वीतप्टष्ठः कमनी-यपृष्ठोऽयमश्वो देवानामाशा देवैराशासनीयानि हवींषि उपप्रागाद्देवहविष्ट्वं प्राप्नोती-त्यर्थः। ऋषयो विप्रा अभिज्ञातार ऋत्विज एनमश्वमनु मदन्ति अनुकूलैः स्तोत्रैर्हष-यन्तु । देवानां पुष्टे पुष्ट्यर्थं सुबन्धु चकृमैनमश्वं बन्धुवदत्यन्तप्रियं चकृम अथाष्टमीमृचमाह–
यद्वाजिन इति । वाजिनोऽश्वस्य यद्दाम गलबन्धनं, यच्च संदानं पृष्ठपादे बन्धनसाधनं दाम पादसंदानादि, अश्वा गले बद्धा अपि पुनः पृष्ठपादे रज्ज्वन्तरेण बध्यन्ते, या चार्वतोऽश्वस्य शीर्षण्या रशना शिरसि संबद्धा रज्जुः, याऽप्यन्या पुच्छल-ग्नाऽस्याश्वस्य रज्जुः, यद्वा यदपि आ[अस्याऽऽ]स्ये मुखे प्रभृतं क्षिप्तं तृणं, सर्वा वा तत्सर्वमपि देवेष्वपि प्राप्तस्य ते तव यजमानस्यास्तु विद्यताम् । यथेह लोके सर्वसाधनसंपूर्णोऽश्वस्तवास्ति तद्वत्परलोकेऽप्यस्त्वित्यर्थः ।
अथ नवमीमृचमाह–
यदश्वस्येति । अस्याश्वस्य क्रविषः क्रव्यं यन्मासं मक्षिकाऽऽश मक्षिका भक्षितवती, यद्वा यच्च रक्तं स्वरावञ्जनार्थे शकले स्वधितो छेदनहेतौ शस्त्रे च रिप्तमी-षल्लिप्तमस्ति, यदपि शमितुर्हस्तयोर्लिप्तं, यच्च तदीयेषु नखेषु लिप्तं, हेऽश्व ते त्वदीयं सर्वा ता तत्सर्वं देवेष्वप्यस्तु देवेष्वव हुतं भवतु । यथा पूर्व-
- सर्वपुस्तकेषु उपेत्यधिक्रम् ।
[[2218]]
मन्त्रे नियोजनकालीना गलशिरःपादादिबन्धनरज्जवो देवेषु समर्पिता एवमत्रं मांसलेशोऽपि देवेषु समर्प्यते। अथ दशमीमृचमाह–
यदूवघ्यमिति । उदरस्य मध्ये यदूवघ्यमर्धजीर्णपक्वं शकृदादि दुर्गन्धरू पेण वायुना सहाऽऽगच्छति, य आमस्यापक्वस्य क्रविषो मांसस्य गन्धो दुःसहोऽस्ति तत्सर्वं सुकृता सुकृतं यथा भवति तथा शमितारः कृण्वन्तु । उतापि च मेघं यज्ञयोग्यं शृत-पाकामपाकविपाकौ परित्यज्य सम्यक्पक्वं यथा भवति तथा पचन्तु। अथैकादशीमृचमाह–
यत्ते गात्रादिति । हेऽश्वाग्निना पच्यमानात्ते तव गात्राच्छरीरावयवसकाशा-द्यदल्पमवधावति अशृतं सद् भूमौ पतति, निहतस्य नितरां हव्यमानस्य तवाभि शूलं शूले सक्तं यद्यदङ्गमवधावति, तदङ्गं भूम्यामपि मा श्रिषच्छ्लिष्टं लग्नं मा भूत्तृणेष्वपि लग्नं मा भूत् किंतूशदभ्यः कामयमानेभ्यो देवेभ्यो रातं दत्तमस्तु ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठकेऽ
ष्टमोऽनुवाकः ।। ८ ।।