(अथ चतुर्थाष्टके षष्ठप्रपाठके सप्तमोऽनुवाकः)।
यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त
वा॒ पुरी॑षात्। श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू
उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन्। य॒मेन॑ द॒त्तं
त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑ति-

[[2207]]

ष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नामगृ॑भ्णा॒त्सूरा॒-
दश्वं॑ वसवो॒ निर॑तष्ट असि॑ य॒मो अस्या॑-
दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑। अ॒सि
सोमे॑न स॒मया॒ विपृ॑क्तः ( १ ) आ॒हुस्ते॒ त्रीणि॑
दि॒वि बन्ध॑नानि। त्रीणि॑ त आहुर्दि॒वि ब
न्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे। उ॒तेव॑
मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒-
नित्र॑म्। इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा
श॒फानाँ॑ सनि॒तुर्नि॒धाना॑। अत्रा॑ ते भ॒द्रा
र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒-
पाः। आ॒त्मानं॑ ते॒ मन॑सा॒ऽऽरादजानाम॒वो
दि॒वा [ २ ] प॒तय॑न्तं पत॒ङ्गम्। शिरो॑ अ-
पश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि।
अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष
आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒-
मान॒डादिद्‍ग्रसि॑ष्ठ॒ ओष॑धीरजीगः। अनु॑
त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑
क॒नीनाम्। अनु व्राता॑स॒स्तव॑ स॒ख्यमी॑-
यु॒रनु॑ दे॒वा म॑मिरे वी॒र्य॑म् [ ३ ] ते॒। हिर॑ण्य-
शृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒
इन्द्र॑ आसीत्। दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो
अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत्। ई॒-

[[2208]]

र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सँशूर॑णासो
दि॒व्यासो॒ अत्याः॑। हँ॒सा इ॑व श्रेणि॑शो य॑-
तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑। तव॒ शरी॑रं
पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान्।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्राऽर॑ण्येषु॒ जर्भु॑राणा
चरन्ति । उप [ ४ ] प्रागा॒च्छस॑नं वा॒-
ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः। अ॒जः
पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्‍चात्क॒वयो॑ यन्ति
रे॒भाः। उष॒ प्रागा॑त्पर॒मं यत्स॒द्यस्थ॒मर्वाँ॒
अच्छा॑ पि॒तरं॑ मा॒तरं॑ च। अ॒द्या दे॒वान्‍जु
ष्ट॑तमो॒ हि ग॒म्या अथाऽऽशा॑स्ते दा॒शुषे॒ वा-
र्या॑णि ( ५ ) ।।

( विपृ॑क्तो दि॒बा वी॒र्य॑मुपैका॒न्नच॑त्वारिँ॒शञ्च॑ )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
षष्ठप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

(अथ चतुर्थकाण्डे षष्ठप्रपाठके सप्तमोऽनुवाकः )।
षष्ठेऽनुवाके कवचादिसंनाहोऽभिहितः। अथ सप्तमाद्यनुवाकत्रये होमोऽभि घीयते। कल्पः—“यदक्रन्दः प्रथमं जायमान इत्येतौस्त्रिभिरनुवाकैः षट्‍‍‍‍त्रिंशतमश्‍वस्तो-मीयाञ्‍जहोति” इति। तत्र सप्तमानुवाके प्रथमामृचमाह–
यदक्रन्द इति। हेऽर्वन्यद्यस्मात्कारणाज्‍जायमान उत्पद्यमान एव प्रथम-मादावक्रन्दः क्रन्दितवानसि अहो अग्न्यादीनामहं साधनामिति महान्तं शब्दमकरो-स्तस्मात्कारणात्ते तव जातं महि महत्। अत एवोपस्तुत्यं समीचीनमिति

[[2209]]

सर्वैरपि स्तोतव्यमासीत्। जायमानेम[ ए ]व विशदी क्रियते समुद्रादुद्यन्समुद्रोपल-क्षितादुदकादुत्पद्यमानः। अप्सुयोनिर्वा अश्व इति श्रुतेः। उत वा पुरीषात्, अथवा लौकिकदृष्ट्या पुरीषात्पुंस्त्वशक्तिसंपन्नान्महतोऽश्वादुत्पद्यमानः। जन्मन उपस्तुत्यत्वे दृष्ठान्तद्वयमुच्यते-श्येनस्य पक्षा हरिणस्य बाहू। इवशब्दोऽत्राध्याहतंव्यः। यश्चा श्येनाख्यस्य पक्षिणः पक्षौ शीघ्‍रोत्पतनहेतुत्वात्सर्वैरुपस्तुत्यौ, यथा वा हरिणस्य मृगस्य बाहू पादौ शीघ्‍रगमनहेतुत्वादुपस्तुत्यौ तद्वदित्यर्थः। अथ द्वितीयामृचमाह–
यमेन दत्तमिति। अत्र यमोऽग्‍निः। अग्‍निर्वाव यम इति श्रुत्यन्तरात्। त्रिषु लोकेषु त्रायते विस्तार्यत इति त्रितो वायुः। यमेनाग्‍निना दत्तनेनमश्वं त्रितो वायुरायुन-ग्रथे योजितवान्। तत इन्द्रः प्रथमः सर्वेषु देवेषु मध्ये प्रथमं प्रवृत्तः सन्नेनमश्‍वमध्यति-ष्ठदधिष्ठितवान्योगक्षेमं संपादयितुमभिमानं कृतवानित्यर्थः। गन्धर्वः कश्चिद्स्याश्‍वस्य रशनां बन्धनहेतुं रज्‍जुमगृभ्णात्स्वीकृतवान्। हे वसवो यूयं सूरादादित्यादिममश्वं निरतष्ट निःशेषेण प्रकाशितवन्तः। यस्याश्‍वस्याग्‍निरानेता, वायुर्योजयिता, इन्द्रोऽभि-मन्ता, गन्धर्वो रज्‍जुग्रहीता, सूर्यप्रकाशेन वसवः प्रकाश यितारस्तादृशोऽयमश्‍व इति स्तूयते। अथ तृतीयामृचमाह–
असि यम इति। हेऽर्वन्नश्‍व त्वं यमाभिधोऽग्निरसि। तथाऽऽदित्योऽसि। तथा त्रितो वायुरसि। पूर्वोक्तप्रकारेण वाय्वादित्ययोरनुगृहीतत्वात्तद्रूपत्वम्। तथा गुह्येन गोप्बेनाश्‍वमेधाख्येन कर्मणा तत्रत्येन सोमेन च सुमया समये प्राप्तकले विपृक्तो विशेषेण युक्तोऽसि। ईदृशस्य ते तव द्युलोके बन्धनानि बम्धनसाधनानि दामानि त्रीणीत्येयमभिज्ञा आहुः। वणिजो हि शक्त्याधिक्येनात्यु ग्रभश्वं विक्रेतुं ग्रामान्तरे नयन्तास्त्रंभिदांमभिर्बध्‍नन्ति। दक्षिणवामपार्श्‍वयोर्दामद्वयमुभौ पुरुषौ गृह्‍णीतः। यदा दक्षिणभागवर्तिनं द्रष्टुमुद्युङ्‍क्ते तदा वामभागवती तमाकर्षति। तं चेद्द्गष्टुमुद्युङ्‍क्ते तदानीमितर आकर्षति। यदा सदसा पुरतः पलायनं करोति तदा तं वारयितुं गले बद्धमेकं दाम गृहीत्वा पृष्ठतः कश्चिदाकर्षति। तदिदं बन्धनत्रयम्। यद्वा शास्त्रसिद्धं किंचित्कारणत्रयं द्रष्टव्यम्। तदनेन बन्धनत्रयेणाघिकशाक्तिरश्व इति स्तुतो भवति। अथ चतुर्थीमृचमाह–

[[2210]]

त्रीणि त इति। यथा द्युलोके तवोचैःश्रवोरूपस्य वन्धनत्रयमाभिज्ञा आहुस्तथैवाप्सु समुद्रे च। यथा वा वाजपेयेऽप्स्वन्तरमृतमिति मन्त्रेणाश्‍वानप्सु स्‍ना पयन्ति तथाऽपि पूर्वोक्तरीत्या बन्धनत्रयमपेक्षितं तथा समुद्रमध्ये स्थिताया वडवाया बन्धनत्रयमित्येवमभिज्ञा आहुः। उतापि च हेऽर्वन्नश्व ते तव यत्र यस्मिन्पितृवीर्ये परमं जनित्रमुत्तमं जन्मेत्येवंलक्षणाभिज्ञा आहुः, तत्पितृवीर्यं त्वमेव वरुणस्त्रिभिर्बन्धनै-र्निवारणीयो भूत्वा मे मम छन्त्सीव कथयसीव। अयमर्थः—अश्‍वस्य पितृपक्षभागित्वा-न्मातरि स्वल्पायामपि सत्यां प्रौढश्चेदश्वो दृश्येत तस्य पिता प्रौढ इत्युत्प्रेक्षितुं शक्यत इति। अथ पञ्चमीमृचगाह–
इमा ते बाजिन्निति। हे वाजिन्नश्‍व ते तवेमैतानि दृश्यमानानि अवमार्ज-नानि शरीरशोधनसाधनानि लोहमयानि। यैर्लोहमयैः प्रातःकालादावश्यस्य पांस्वाद्य-पनयनाय शरीरं मृज्यते घर्षणेन शोध्यते तान्यवमार्जनानि। तथा शफानां खुराणां सनितुर्दातुः पाषाणबहुले मार्गे प्रक्षेप्य[प्‍तु]स्तव शफभेदनपरिहारार्थमिमा निधानैतानि लोहमयान्यावरणविशेषरूपाणि निधीयन्ते शफेष्विति निधानानिराजानो हि महार्हणां प्रौढानामश्‍वानां लोहमयैः साधनैः प्रतिदिनं कण्डूरपनयन्ति, शफेषु च लोहपत्राणि कीलयन्ति। किंच ते तव भद्राः सुवर्णांदिखचितत्वेन कल्याणरूपा रशनाः खलीन-लोहकक्ष्याः पुच्छपत्रा अत्रास्मिन्नेव देशे स्थापिता अहमप्यपश्यम्। कीदृशस्य तव, ऋतस्य सत्यस्य बहुमूल्यार्हस्येत्यर्थः। कीदृश्यो रशना हति ता विशेष्यन्ते-या रशना गोपाः पष्ठदेशव्यथादिपरिहारेणाश्‍वं गोपायन्त्योऽभिरक्षन्ति उपर्यारूढं पुरुषमभितः पतनादिभ्यः पालयन्ति। अथ षष्ठीमृचमाह–
आत्मानां त इति। हेऽश्‍व ते तवाऽऽत्मानं स्वरूपमारात्समीप एव मनसा चित्तेनाजानामभिज्ञातवानस्मि। कीदृशमात्मानम्, अत्रो रक्षकम्। शीघ्रगामी ह्यश्‍वः परसैन्यभञ्जनेन स्वामिनं रक्षति। तथा दिवा षतयन्तमाकाशेन धावन्तम्। त्वदीय-धावनवेलायं वेगातिशयेन भूमेराक्रमणं केनापि द्गष्टुं न शक्यत इत्यर्थः। यस्मादाका-शगामी तस्मादेव च पतङ्गं पक्षिसदृशम्। तथा त्वदीयं शिरोऽप्यहमपश्यम्। कीदृशं शिरः, सुगेभिर्गन्तुं शक्यैररेणुभिर्धुलिरहितैः पथिभिराकाशमा–

[[2211]]

र्गैजेंहमानं शीघ्‍रगतियुक्तमत एव पतत्रि पक्षिसदृशम्। यदा ह्ययमश्‍वः प्रायेण भूमि-स्पर्शं विनाऽऽकाशमार्गे धावति तदानीं पाषाणादिरहितत्वादयं मार्गः सुगामो भूमि-स्पर्शबाहुल्याभावाद्धूलिरहितश्च। तथाविधमार्गेण धावतोऽश्‍वस्योपरिवर्तिं शिरः सुखेन द्रष्टुं शक्यते, उन्नतदेशवर्तित्वाद्धूल्यावरणाभावाच्‍चेति। ईदृशवेगवानश्‍व इति स्तुतिः। अथ सप्तमीमृचगाह—
अत्रा ते रूपमिति। हेऽश्व यदा यस्मिन्काले ते तव भोगं घृतमुद्रादि-भक्षृणरूपमनु मतों मनुष्यः परिचारक आनड् भोगं प्राप्तवान्। प्रौढेषु राजगृहादिष्व-श्‍वघासार्थं दत्तैर्घृतमुद्‍गादिभिः परिचारका अमि जीवन्तीति प्रसिद्धम्। आदिदीदृशवृ-त्तान्तादनन्तरमेव ग्रसिष्टोऽतिशयेन ग्रसिदुकामस्त्वमोषधीश्चणकाद्या अजीगः प्रापितो-ऽसि। अत्रास्मिन्नवसरे ते तत्र रूपमुत्तमं सर्वोत्कृष्टमित्यपश्यमहं निश्चितवानस्मि। कीदृशस्य तव, इषोऽन्नानि आ समन्तात्पदे प्राप्तुं गोर्गच्छतः। कीदुशं रूपम, जिगीष-माणं जेतुमिच्छायुक्तम्। अयमर्थः- प्रौढराजगृहे त्वदीयभोगमनु अश्‍ववारा नीचाः सर्वेऽपि सम्यग्भुञ्जते। त्वं च राजाज्ञया केनाप्यनिवारितः संश्चणकादिक्षेत्रेषु स्वेच्छया गच्छसि। अस्मिन्‍नवसरे त्वन्मुखेन सर्वाण्यन्‍नानि प्राप्‍तुं शक्यन्ते, विजयश्च भविष्यति। एवं त्वदीयमहिमानं निश्चितवानस्मीति।
अथाष्टमीमृचमाह—
अनु त्वेति। हेऽर्वस्त्वामनु रथः प्रवर्तते। नहि त्वया विना रथो गन्तुं शक्तः। मयों मर्त्योऽश्‍ववारस्त्यामनु जीवति। तच्च पूर्वमेवोदाहृतम्। गावोऽपि त्वागनु जीवन्ति, बालस्य तव क्षीरनवनीताद्यर्थं प्रवृद्धस्य तव घृतार्थ च गाः पोषयन्ति। कनीनां कन्यकानां बालानां दासीनां भमः सौभाग्यं त्वामनु संपद्यते। अश्‍वशालाप-रिचारार्थं हि ता अन्‍नवस्त्रदानेन त्वत्स्वामिनः पोषयन्ति। व्‍रातासो व्‍राताः सेनारूपा मनुष्यसंघास्तव सख्यमनु त्वदीयं साहाय्यमनु पश्चादीयुर्जयं प्राप्‍नुवन्ति। देवाः प्रजाप-त्यादयस्ते वीर्यं त्वदीयं सामर्थ्यमनुपलक्ष्य ममिरे स्वकीयहविष्ट्‍वेन प्रमितवन्तः। ईदृ-शोऽयमश्‍व इति स्तुतिः। अथ नवमीमृचमाह—

[[2212]]

हिरण्मशृङ्ग इति। अयमश्‍वो हिरण्यशृङ्गो हिरण्यसमानवर्णः शृङ्गस्था नीयो मूर्धप्रदेशो यस्यासो हिरण्यशृङ्गो हिरण्याङ्‍‍कित इत्यर्थः। अयो लोहव दत्यन्तदृढः। अस्याश्‍वस्य पादा मनोजवा मनोवृत्तिसदृशेन वेगातिशयेन युक्ताः। एतेनाश्‍वेनोच्‍चैः-श्रवसा त्वेनेन्द्रोऽप्यवये निकृष्ट एवाऽऽसीत्। देवा इत्सर्वे हि देवाः स्वयमत्याश्‍वस्य संबन्धि हविरद्यं हविर्भक्षणमायन्प्राप्तवन्त एतदीयमेव हविरत्तुं योग्य-मिति निश्चितवन्तः। प्रथम आद्यो यः प्रजापतिरर्वन्तमेनमश्‍वमध्यतिष्ठदधिष्ठितवान्स्व-कीयत्वेन स्वीकृतवान्सोऽप्येतदीयमेव हविरद्यामिति निश्चितवान्।
अथ दशमीमृचमाह–
ईर्मान्ताम इति। सर्वेऽप्बश्‍वा एवंबिधाः। कीदृशा इति तदुच्यते-ईर्गान्तासः नलभानो जघनभागाश्चाश्‍वस्यान्तौ, तावीर्मौ प्रसृतावुन्नतौ येषां त ईर्मान्तासः। सिलिकं संकुचितं निम्‍नं मध्ये पृष्टभागे येषा ते सिलिकमध्यमासः। यत्र मनुष्या आरोहम्ति स देशो निम्‍नः। न तु गजस्यवे पृष्ठभाग उन्नतः। संसूरणासो युद्धे जयहेतुत्वेन सम्य-क्शूराः। दिव्यासो ग्रामगमनादिरूपव्यवहारनिष्पादकाः। अत्याः संततगमनशीलाः। ते च हंसा इव श्रेणिशः संघशो यतन्ते। यथा हंसाः पङ्‍‍क्तिबद्धाः संधीभूयाऽऽकाशे यतन्ते गच्छन्त्येवमश्‍वा अपि बहवः संहता युद्धाय प्रयतन्ते। यद्यस्मात्कारणदश्‍वा दिव्यं क्रीडाविजिगीषाद्यार्थमज्मं गमनमाक्षिषुर्व्याप्‍तवन्तस्तस्मादश्‍वजातिमात्रस्ययैवं प्रशस्तत्वात्स क्रतुनिष्पादकः प्रकृतोऽश्‍वः प्रशस्त इति किमु वक्तव्बः। अथैकादशीमृचमाह–
तव शरीरमिति। हेवर्वंस्तव शरीरं षतयिष्णु पतनशीलं शीघ्‍रगमशील-मित्यर्थः तव चितं वात इव वातसदृशश्च(शं च )। वायुः कीदृशः, घ्‍रजीमान्वेनवान्। तव शृङ्गाणि शृङ्गस्थानीयानि। उपरि प्रक्षिप्‍तान्यायुधानि विष्ठिता विशेषेण तत्र तत्र स्थितानि साधितानि। अश्‍वस्योपरि क्वचिदिषुधिः क्यचित्खड्‍ग इत्येवं बहून्बायुधानि प्राप्यन्ते। तानि च पुरुषु बहुषु अरण्येषु ग्रामेन्यो बहिर्भूतेषु युद्धप्रदेशेषु जर्भुराणा परसैन्यान्यतिशयेन भरमाणानि चरन्ति प्रवर्तन्ते। अत द्वादशीमृचमाह–

[[2213]]

उष प्रागादिति। वाजी क्रतुद्वाराऽन्नहेतुरर्वाऽयमधः शसनमस्प्रिन्क्रतौ वि-शासनस्थानं प्रत्युपप्रागात्समीपं प्राप्‍तवान्। किं कूर्वन्, देवद्रीचा मनसा दीध्यानः देवा-नाञ्चति प्राप्‍नोतीति देवद्यङ् तादृशेन निरन्तरं देवविषयेण मनसा ध्यानं कुर्वन्। अजः प्रजापतिः पुरो नीयतेऽऽस्मादश्वात्पूर्वमृत्विग्भिर्नीयते, प्रजापतिं पुरतो नीयते। अस्या-श्‍वस्य नाभिर्भाभ्युपलक्षितं शरीरं प्रजाषतिमनु नीयते। अस्याश्यस्य पश्चात्पृष्ठभागे कवयो विद्वांस ऋत्विजो रेभा यन्ति स्तुतिं कुर्वाण गच्छन्ति। अथ त्रयोदशीमृचमाह–
उप प्रागादिति। अर्वाञ्शीघ्‍रगमनवानयमश्वः परममुत्कृष्टं यत्सधस्थं शमि-तृभिः सह स्थातुं योग्यं यत्त्स्थानमस्ति तदुपप्रागात्तत्समीपं प्राप्तवान्। किमर्थम्, पितरं मातरं चापि प्राप्‍तुं स्वर्मलोके दिव्यो यः पिता या च माता दिव्या तावुभौ प्राप्‍तुं देवताजन्मन इत्यर्थः। हेऽश्वाद्यास्मिन्दिने जुष्टतमोऽतिशयेन प्रीतः सन्देवान्गम्याः प्राप्‍नुहि। अथानन्तरं दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणी यानि फलानि अयमृत्विक्संघ आशास्ते प्रार्थयति।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके
तृतीयोऽनुवाकः ।। ७।।