(अथ चतुर्थाष्टके षष्ठप्रपाठके पञ्‍चमोऽनुवाकः)।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो-
अ॑ग्निभ॑वे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि
भाह्यूर्ज॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । क्रम॑ध्वम-
ग्निना॒ नाकमु॒ख्यँ॒ हस्ते॑षु बिभ्र॑तः। दि॒वः
पृ॒ष्ठँ सुव॑र्गत्वा मि॒श्रा देवेभि॑राध्वम् । पृ॒-
थिव्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दि-
व॒माऽरु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठात्सु॑व॒र्ज्यो-
ति॑रगाम् [ १ ] अ॒हम्। सु॒व॒र्यन्तो॒ नापे॑क्ष-
न्त॒ आ द्याँ रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒–
श्‍वतो॑धारँ॒ सुवि॑द्वाँसो बितेनि॒रे। अग्ने॒

[[2186]]

प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑
नाम्। इय॑क्ष॒माणा॒ भृगु॑भिः सजोषाः॒ सुव॑
र्यन्तु॒ यज॑मानाः स्व॒स्ति। नक्तो॒षासा॒ सम॑-
नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकँ॑ समी॒ची।
द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा
अ॒ग्निं धा॑रयन्द्रविणो॒दाः । अग्ने॑ सहस्राक्ष
[२] श॒त॒मू॒र्ध॒न्छ॒तं ते॑ प्रा॒णाः स॒हस्र॑मपा॒-
नाः। त्वँ सा॑ह॒स्रस्ष॑ रा॒य ई॑शिषे॒ तस्मै॑ ते
विधेम॒ वाजा॑य॒ स्वाहा॑। सु॒पर्णो॑ऽसि ग॒रु-
त्मा॑न्पृथि॒व्याँ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द
भा॒साऽन्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑-
भान॒ तेज॑सा॒ दिश॒ उदृँ॑ह । आ॒जुह्वा॑नः
सु॒प्रती॑कः पु॒रस्ता॒दग्‍ने॒ स्यां योनि॒मा सी॑द
सा॒ध्या। अ॒स्मिन्त्स॒धस्ये॒ अध्युत्त॑रस्मि॒न्विश्‍वे॑
देवाः [ ३ ] यज॑यानश्‍च सीदत । प्रेद्धो॑
अग्‍ने दीदिहि पु॒रो नोऽज॑स्रया सूम्यां॑ य-
विष्ठ। त्वाँ शश्‍व॑न्त॒ उप॑यन्ति॒ वाजाः॑।
वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने बि॒धेय॒ स्तोमै॒र-
व॑रे स॒धस्थे॑ । यस्मा॒द्योने॑रु॒दारि॑था यजे॒ तं
प्र त्वे ह॒वीँ षि॑ जु॒हुरे समि॑द्धे। ताँ स॑वि॒-
तुर्वरे॑ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒-
श्‍वज॑न्याम् । याम॑स्य॒ कण्वो अदु॑ह॒त्प्रपी

[[2187]]

नाँ स॒हस्र॑धाराम् ( ४ ) पय॑सा म॒हीं
गाम्। स॒प्‍त ते॑ अग्ने स॒मिधः॑ स॒प्‍त जि॒ह्वाः
स॒प्‍तर्ष॑यः स॒प्‍त धाम॑ प्रि॒याणि॑। स॒प्‍त होत्राः॑
सप्‍त॒धा त्वा॑ यजन्ति स॒प्‍त योनी॒रा पृ॑णस्वा
घृ॒तेन॑। ई॒दृङ्‍चा॑न्या॒दृङ्‍चै॑ता॒दृङ्‍च॑ प्रति॒दृ-
ङ्‍च॑ मि॒तश्‍च॒ संमि॑तश्‍च॒ सम॑राः शु॒क्रज्यो॑-
तिश्‍च चि॒त्रज्यो॑तिश्‍च स॒त्यज्यो॑तिश्‍च॒ ज्यो-
ति॑ष्माँश्‍च स॒त्यश्‍च॑र्त॒पाश्‍चात्यँ॑ हाः [ ५ ]।
ऋ॒त॒जिच्‍च॑ सत्य॒जिच्‍च॑ सेन॒जिच्‍च॑ सु॒षेण॒-
श्‍चान्त्य॑मित्रश्‍च दू॒रेअ॑मित्रश्‍च ग॒णः। ऋ॒-
तश्‍च॑ स॒त्यश्‍च॑ घ्‍रु॒वश्‍च॑ ध॒रुण॑श्‍च॑ ध॒र्ता
च॑ विधर्ता च॑ विधार॒यः। ई॒दृक्षा॑स एता॒दृ-
क्षा॑स ऊ॒ षु णः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒
एत॑न। मि॒तास॑श्‍च॒ संभि॑तासश्‍च न ऊ॒तये॒
सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निन्द्रं॒ दैवीविं॒-
शो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेन्द्रं॒ दैवी॒र्विशो॑ म-
रुतोऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं॒ दैवी॑श्‍च॒
विशो॒ मानु॑षी॒श्‍चानु॑वर्त्मानो भवन्तु ( ६ ) ।।
(आ॒गाँ॒ स॒ह॒स्त्रा॒क्ष॒ दे॒वाः॒ स॒हस्त्र॑धारा॒मत्यँ॑हा॒ अनु॑वर्त्मानः॒ षोड॑श च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
षष्ठप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

[[2188]]

(अथ चतुर्थकाण्डे षष्ठप्रपाठके पञ्‍चमोऽनुवाकः)।
चतुर्थेनुवाकेऽग्निप्रणयनाङ्गमप्रतिरथसूक्तमुक्तम्। अथ पञ्‍चमेऽग्निस्थाप-नमुच्यते। कल्पः—“प्राचीमनु प्रदिशमिति पञ्‍चभिरग्निमधिरुह्य” इति। तत्र प्रथमामाह—
प्राचीमनु प्रदिशमिति। अग्न इदानीमानीत हे वह्‍ने प्राचीं (प्र) दिशं प्रागाख्यां प्रकृष्टां दिशं विद्वांस्‍त्‍वमनुप्रेहि, अनुक्रमेण प्रकर्षो यथा भवति तथा गच्छ। त्वमग्नेरिष्टकानिष्पादितस्य चितिरूपस्य वह्‍नेरिहास्मिन्कर्मणि पुरो अग्निर्भव पूर्वभाग-वर्ती वह्‍‍निर्भव। यद्वा पुरोगन्ता मुख्योऽग्निर्भवेत्यर्थः विश्वा आशाः सर्वा अपि दिशो दीद्यानाः प्रकाशयन्विमाहि त्वमपि विशेषेण प्रकाशस्व। ततो नोऽस्मदीयाय द्विपदे चतुष्पदे चोर्जमन्नं धेहि संप्रादय। अथ द्वितीयामाह—
क्रमध्वमग्निनेति। हे ऋत्विग्यजमाना नाकं स्वर्गसाधनमुख्यमुखायां पूर्वं संपादितमग्निं हस्तेषु बिभ्‍रवो धारयन्तस्तेनाग्निना सह क्रमध्वमग्‍नेरुपरि षादान्विक्षिप-त। ततो दिवः पृष्ठमाकाशस्योपरि वर्तमानं सुवर्गत्वा स्वर्गलोकं प्राप्य देवेभिर्मिश्रा देवैरेकीभूताः सन्तः आध्वमुपविशत। अथ तृतीयामाह—
पृथिव्या अहमिति। अहं यजमानः पृथिव्या उद्वव एतदन्तरिक्षमारुहमा-रूढोऽस्मि। तस्मादेवान्तरिक्षादुद्धतो दिवमारुहं द्युलोकमारूढोऽस्मि। दिवो द्युलोक-संबन्धी नाको दुःखरहितो यः प्रदेशस्तस्य पृष्ठादुपरिष्टात्स्वर्गलोकवासिज्योतिर्मण्डल-मादित्यरूपमहमगां प्राप्‍तोऽस्गि यद्वा प्राप्‍स्‍यामि। अथ चतुर्थीमाह–
सुवर्यन्तो नेति। ये यजमानाः सुविद्वांसः सुष्ठु कमांनुष्ठानप्रकारं जानन्तो विश्वतोधारं सर्वस्व जगतो धारणहेतुं यमाग्निं कितेनिरे विस्तरेणानुतिष्ठन्ति ते यज-माना द्यामन्तरिक्षमारोहन्ति। तथा रोदसी द्यावापृथिव्यावारोहन्ति। ततः सुवर्यन्तः स्वर्गनिवासमादित्यमण्डलं प्राप्‍नुवन्तोऽन्यत्किमपि स्थानं नापेक्षन्ते । अथ पञ्‍चमीमाह–
अग्ने प्रेहीति। देवानात्मन इच्छतो देवयन्तो यजमानस्तेषामुपकाराय हेऽग्‍ने त्वं प्रथमः प्रेहि पुरतो गच्छ। यतस्त्वं देवानां मनुष्याणां च चक्षुःस्थां नीयः। लोके हि गच्छतः पुरुषस्य दृष्टिः पुरतो याति। इयक्षमाणा यष्टुमि-

[[2189]]

च्छन्तो यजमाना भृगुभिः सजोषा अनुष्ठानपरैर्भृगुनामकैर्मुनिभिः समानप्रियाः सन्तः स्वस्ति कर्मक्षमा यथा भवन्ति तथा सुवर्यन्तु। तत्र प्रथममन्त्रस्य तात्पर्यं दर्शयति–
“प्राचीमनु प्रादिशं प्रेहि विद्वानित्याह देवलोकमेवैतयोपावर्तते” (सं. का. ५ प्र. ४ अ. ७) इति। देवलोकमेवोद्धिश्यानयर्चा प्रवृत्तो भवति। द्वितीयमन्त्रस्य तात्पर्यं दर्शयति—
“क्रमध्वमग्निना नाकमित्याहेमानेवैतया लोकान्क्रमते” (सं. का. ५ प्र. ४ अ. ७) इति। इमानेव लोकानुद्दिश्यानयर्चा पादविन्यासं करोति तृतीयमन्त्रस्य तात्पर्यं दर्शयति–
“पृथिव्या अहमुदन्तरिक्षमाऽरुहमित्याहेमानेवैतया लोकान्समारोहति” (सं. का. ५ प्र. ४ अ. ७) इति। इमानेव लोकानुद्दिश्यानयर्चा सम्यगारोहति। चतुर्थमन्त्रस्य तात्पर्यं दर्शयति–
“सुवर्यन्तो नापेक्षन्त इत्याह सुवर्गमेवतैया लोकमेति” (सं. का. ५ प्र. ४ अ. ७) इति। स्वर्गप्राप्तिप्रतिपादकशब्दस्यात्र सद्भावात्तदृचा स्वर्ग’ प्राप्तिः। पञ्‍चममन्त्रस्य तात्पर्यं दर्शयति–
अग्ने प्रेहि प्रथमो देवयतामित्याहोभयेष्वेवतया देवमनुष्येषु चक्षुर्दधाति’ (सं. का. ५ प्र. ४ अ. ७) इति। उभयचक्षुःप्रतिपादस्य शब्दस्यात्र सद्भावादेतयर्चो-भयत्र चक्षुःस्थापनम्। मन्त्रान्विनियुङ्‍क्ते–
“पञ्‍चभिरधि क्रामति पाङ्‍क्तो यज्ञो यावानेव यज्ञस्तेन सह सुवर्गं लोकमेति” (सं. का. ५ प्र. ४ अ. ७) इति। कल्पः “नक्तोषासाऽग्ने सहस्राक्षेति द्वाभ्यां संहिताभ्यां दध्‍नः पूर्णामौदुम्वरीं स्वयमातृण्णायां जुहोति” इति। तत्र प्रथमामाह—
नक्तोषासेति। नक्तं चोषाश्च नक्तोषासा रात्रिदिवसावित्यर्थः। समनसा परस्परमैकमत्ययुक्ते विरूपे रात्रिः कृष्णा दिवसः शुक्‍ल इत्येवं विलक्षणरूपे समीची समीच्यावनुकुले सत्यावेकं शिशुमग्निरूपं धापयेते यजमानकर्तृकमग्नि-

[[2190]]

धारणं संपादयतः द्यावा द्युलोके क्षामा ( म ) क्षितावन्तस्तदुभयमध्यवर्तिन्यन्त रिक्षे रुक्मो रोचमानोऽयमग्निर्विभाति विशेषेण प्रकाशते। दीव्यन्ति व्यवहरन्तीति देवाः प्राणास्ते च द्रविणोदा यागद्वारेण धनरूपं फलं प्रयच्छति तादृशा यजमानस्य प्राणा अग्निमेतं धारयन्धृतवन्तः। अथ द्वितीयामाह—
अग्ने सहस्राक्षेति। शतसहस्त्रशब्दा अपरिमिता (तत्वा) भिप्रायेण। विश्वश्चक्षुरित्यादिमन्त्रोक्तमूर्तिरूपत्वेनायमग्निरत्र स्तूयते। तस्मादक्षिमूर्धप्राणापाना हेऽग्‍ने तव बहबः तथा त्वं साहस्रस्य बहुसहस्रसमूहषरिमितस्य रायो धनस्येशिषे प्रभुर्भवसि। तस्मै ते तादृशाय तुभ्यं वाजायान्नसिद्ध्यर्थं विधेम परिचरेमहविषा स्वाहेदं हविः स्वाहुतमस्तु। तत्र प्रथममन्त्रं विनियुङ्‍क्ते–
“नक्तोषासेति पुरोनुवाक्यामन्वाह प्रत्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
पुरोभवाः ( बा ) प्रदानमन्त्राः। पू (न्त्रात्पू ) र्वमनुक्रमेणोच्यत इति पुरोनुवाक्या प्रत्त्या उत्तरेण मन्त्रेण हविष्प्रदानायाऽऽदौ तान्ब्रू [ तां ब्रू ] यात् पुरोनुवाक्या, मनूच्य याज्यया जुहोतीत्यन्यत्राऽऽम्‍नातत्वात्।
द्वितीयमन्त्रस्य वैराजरूपप्रापकत्वं दर्शयति–
“अग्ने सहस्राक्षेत्याह साहस्त्रः प्रजापतिः प्रजापतेराप्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
सहस्रसंख्याकचक्षुरादिसंबन्धो विश्वरूपधरस्य विराण्मूर्तेः संभवति नान्यस्यअतोऽयं मन्त्रः प्रजापतिप्राप्‍तये भवति। अस्य मन्त्रस्य चतुर्थपादे बाजशब्दस्य तात्पर्यं दर्शयति–
“तस्मै ते विधेम वाजाय स्वाहेत्याहान्नं वै वाजोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ७) इति। एतन्मन्त्रसाध्यं होमं विधत्ते–
“दघ्‍नः पूर्णामौदुम्बरीँ स्वयमातृण्णायां जुहोत्यूर्ग्वै दध्यूर्गुदुम्बरोऽसौ स्वयमातृण्णाऽमुष्यामेवोर्जं दधाति तस्मादमुतोऽर्वाचीमूर्जमुप जीवामः” (सं. का. ५ प्र. ४ अ. ७) इति।

[[2191]]

जुहूसदृशी काचित्स्रुगौदुम्बरी। दध्युदुम्बरयोरन्नरूपत्वात्स्वयमातृ-ण्णायाश्च स्वर्गरूपत्वात्तस्यां तद्धोमेन स्वर्ग एवान्न स्थापयति। यस्प्रात्स्बर्ग ऊर्गव-स्थिता तस्मादमुतो द्युलोकादर्वाचीं वृष्टिरूपेणाधः पतन्तीमूर्जमन्नं वयमुपजीवामः।
कल्पः- “सुपर्णोऽसि गरुत्मानिति तिसृभिः स्वयमातृण्णायामग्निं प्रतिष्ठाप्य” इति। तत्र प्रथममाह—
सुपर्णोऽसीति। हेऽग्‍ने त्वं सुपर्णः पक्ष्याकारो गरुत्मान्गरुडसमानोऽसि। अतोऽस्यां चितिरूपायां पृथिव्यां सीदोपविश। तत्रापि पृथिव्याः पृष्ठ उपविश।
अथ द्विदीयामाह—
मासाऽन्तरिक्षमिति। भासा स्वकीयेन प्रकाशेनान्तरिक्षमापृण सर्वत। षूरय। ज्योतिषा स्वकीयेन सामर्थ्येन दिवं द्युलोकमुत्तभानोर्ध्वं स्तम्भितं कुरु। तथा तेजसा स्वकीयेन सामर्थ्थेन दिशः प्राच्यादिका उद्‍दृंहोत्कर्षेण दृढी कुरु।
अथ तृतीयामाह—
आजुह्‍वानः सुप्रतीक इति। हेऽग्‍ने त्वमाजुह्वान आभिमुख्येन हूयमानः सुप्रतीकः सुमुखः सन्पुरस्तात्पूर्वस्यां दिशि साध्या साध्वीं समीचीनां स्वां योनिं स्वकीयं स्थानमासीदाऽऽगत्य प्राप्‍नुहि। हे विश्वे देवा यूयं यजमानश्चस्गिन्पुरोवर्तिनि सघस्थेऽग्निना सह स्थातुं योग्येऽध्युत्तरस्मिन्नधिकमुत्कृष्टे स्थाने सीदतोपविशत। एतान्मन्त्रान्विनियुङ्‍क्ते—
“तिसृभिः सादयति त्रिवृद्वा अग्निर्यावानेवाग्‍निस्तं प्रतिष्ठां गमयति” [सं. का. ५ प्र. ४ अ. ७] इति।
कल्पः—“प्रेद्धो अग्‍ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति” इति। पाठस्तु–
प्रेद्धो अग्न इति। हेग्‍ने प्रेद्धः पूर्वमपि प्रकर्षेण दीप्तस्त्वं पुरो नोऽस्माकं पुरोदेशेऽजस्त्रया निरन्तरवर्तिन्या सूर्म्या सूर्मिसमानया ज्वालया दीदिहि पुनरपि दीप्यस्व। ज्वलन्ती लोहमयी स्थूणा सूर्मी। हे यविष्ठ युवतमाग्‍ने त्वां शश्वन्तो

[[2192]]

निरन्तरभाविनो वाजा अन्नान्युपयन्ति सामीप्येन प्राप्‍नुवन्ति । तमेतं मन्त्रं विनि युङ्‍क्ते–
“प्रेद्धो अग्‍ने दीदीहि पुरो न इत्यौदुम्बरीमादधात्येषा वै सूर्मी कर्णकावत्ये तया ह स्म वै देवा असुराणाँ शततर्हाँ स्तृँ हन्ति यदेतयां समिधमादधाति वज्‍रमेवैतच्छतघ्‍नीं यजमाना भ्रातृव्याय प्र इरति स्तृत्या अछम्बट्‍कारम्” [सं. का. ५ प्र. ४ अ. ७] इति।
ज्वलन्ती लोहमयी स्थूणा सूर्मी। सा च कर्णकावती छिद्रद्वत्यन्तरपि ज्वल न्तीत्यर्थः। तत्समानेयमृक्। एकेनैव प्रहारेण शतसंख्याकान्मारयन्तः शूराः शत तर्हा असुराणां मध्ये तादृशानेतयर्चा देवा हिंसन्ति। अनया समिदाधाने शतघ्वीमेता-मृचं वज्‍रं कृत्वा वैरिणं प्रहरति।अछम्बट्‍कारं स्वस्याविनाशो यथा भवति तथेत्यर्थः।
कल्पः—“विधेम ते परमे जन्मन्नग्‍न इति वैकङ्कतीम्” इति। समिधमा-दधातीत्यनुवर्तते। पाठस्तु—
विधेम त इति। हेऽग्‍ने ते तव परमे जन्मनि विधेम वयं ज्ञानेन परिचरे-म। सधस्थेऽस्माभिः सह स्थातुं योग्येऽपरे निकृष्टे भूलोकवर्तिनि जन्मनि स्तोमैः स्तोत्रैर्विधेम परिचरेम। यस्माद्योनेरिष्टकचितिरूपात्स्थानादुदारिथ त्वमुद्रत आविर्भू तोऽसि तां योनिं यजे पूजयामि। समिद्धे सभ्यक्प्रज्वलिते त्वयि हवींषि प्रजुहुर ऋत्विजः प्रकर्षेण जुह्णाति। एतं मन्त्रं विनियुङ्‍क्ते–
“विधेम ते परमे जन्मन्नग्‍न इति वैकङ्‍कतीमा दधाति भा एवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ७) इति।
अग्‍नेर्भासो विकङ्‍कते प्रविष्टत्वात्तदीयसमिधा भाः प्राप्यते।
कल्पः—“ताँ सवितुर्वरेण्यस्य चित्रामिति शमीमयीम्” इति। पाठस्तु–
ता सवितुरिति। पुरा कदाचित्कण्वाख्यो महर्षिरस्याग्‍नेर्यां सुमतिमनुग्र-हकारिणीं बुद्धिमदुहदूदुग्धवान्। चत्र दृष्टान्तः—प्रपीनां प्रभूतः पीनः स्तनसंघो यस्याः सा प्रपीना तां सहस्रसंख्याकाः क्षीरधारा यस्याः सा सहस्रधारा तां महीं पयसा क्षी-रेण संपूर्णां गां धेनुं यथा लौकिका दुहन्ति तद्वत्। अयमग्‍नेः

[[2193]]

सुमतेरुपदर्शितबुद्धेः स्वामीष्टं फलं प्राप्तवान्। वरेण्यस्य सर्वैर्वरणीयस्य सवितुः प्रेरकस्याग्नेः संबन्धिनीं तां कण्वेन दुग्धां सुमतिमहमावृणे सर्वतः प्रार्थये। कीदृशीं सुमतिं, चित्रां स्वापेक्षितबहुविधफलप्रदानसमर्थामित्यर्थः। विश्वं जन्यमुत्पाद्यं यस्याः सा विश्वजन्या तां जगदुत्पादनसमर्थामित्यर्थः। तमेतं मन्त्रं विनियुङ्‍क्ते–
“ताँ सवितुर्वरेण्यस्य चित्रामिति शमीमयीँ शान्त्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
शम्याः शमनहेतुत्वाच्छान्त्यर्थत्वं युक्तम्।
मन्त्रस्य पूर्वार्धे सवितुस्तां सुमतिमावृण इत्यस्य तात्पर्यं दर्शयति—
“अग्निर्वा ह वा अग्निचितं दुहेऽग्निचिताऽग्निं दुहे ताँ सवितुर्वरेण्यस्य चित्रामित्याहैष वा अग्‍नेर्दोहः” (सं. का. ५ प्र. ४ अ. ७) इति।
द्विविधो मन्त्रदोहः संभवति। अग्निकर्तृको यजमानकर्मक एको दोहः। अग्निर्हि यजमाने संभावितं हविः स्तुत्यादिरूपं दोग्धि। तथा यजमानकर्तृकोऽग्नि-कर्मको द्वितीयो दोहः। यजमानो ह्यग्नौ संभावितं स्वापेक्षितं फलं दोग्धि। तत्र सवितुः सुमतिमिति वचनेनाग्रिकर्मको द्वितीयो दोहो विवक्षितः—
द्वितीयार्धे कण्वोदाहरणस्य तात्पर्यं दर्शयति– “तमस्य कण्व एव श्राय-सोऽवेत्तेन ह स्मैनँ स दुहे” [सं. का. ५ प्र. ४ अ. ७] इति।
अग्नेः संवन्धिनं तं फलस्वीकाररूपं दोहं कण्वाख्य एव महर्षिः पूर्वं ज्ञातवान्। स च कण्वः श्रयसोऽपत्यं श्रायसः। अतोऽस्मिन्‍नुत्तरार्धे पठिते सति तेन कण्वः मुनिरिवैनमग्निं स यजमानो दुग्धवान्भवति।
एतन्मन्त्रविशिष्टं समिदाधानं प्रशंसति–
“यदेतया समिधमादधात्यग्निचिदेव तदग्निं दुहे” [सं. का. ५ प्र. ४ अ. ७] इति।
कल्पः—“द्वादशगृहीतेन स्त्रुचं पूरयित्वा सप्‍त ते अग्‍ने समिधः सप्‍त जिह्णा इति सप्‍तवत्या पूर्णाहुतिं जुहोति” इति।पाठस्तु—

[[2194]]

सप्‍त ते अग्न इति। हेऽग्‍ने तव समिधः सप्‍तसंख्या अश्वत्थोदुम्बरपलाश-शमीविकङ्‍कताशनिहतवृक्षपुष्करपर्णरूपाः। अत एव सूत्रकार आधानप्रकरणे सप्‍त संभारान्समन्त्रकाननुक्रम्येति वानस्पत्या इत्युपसंजहार। ज्वालारूपा जिह वाश्च सप्‍त। तथा चाऽऽथर्वणिका आमनन्ति—
“काली कराली च मनेत्जवा च सुलोहिता या च सुधूभ्‍रवर्णा।
स्फुलिङ्किनी विश्वरुची च देवी लेलायमना इति सप्‍त जिह्‍वाः” इति।
ऋषयो मन्त्राः। ते च यथेत्‍क्तसमित्संपादनार्थाः सप्‍तसंख्याकाः “अश्वो रूपं कृत्वा यदश्वत्थेऽतिष्ठः” इत्बादयः समाम्नाताः। प्रियाणि धामः स्थानानि, आहवनीयगार्हपत्यदक्षिणग्निसभ्यावसथ्यप्राजहिताग्नीघ्‍रीयाख्यानि सोमयाने वह्रिधा-रंकाणि सप्‍तसंख्याकानि। होत्रा होतृप्रमुखा वषट्‍कर्तारो होता प्रशास्ता ब्राह्मणच्छंसी पोता नेष्टाऽऽग्‍नीघ्‍रोऽच्छावकश्चेति सप्‍तसंख्याकाः। त्वां यजमानाः सप्‍तधा यजन्ति। अग्निष्टोमोऽत्यग्निष्टेम उक्थ्यः षोडश्यतिरात्रोऽप्नोर्यामो वाजपेयश्चेति सप्‍त प्रकाराः। तादृशस्त्वं सप्‍त योनीराहवनीयादि ( द्युत्पति ) स्थानानि घृतेन सर्वतः पूरय।
अस्य मन्त्रस्य तात्पर्यं दर्शयति– “सप्‍त ते अग्‍ने समिधः सप्‍त जिह्‍वा इत्याह सृप्‍तैवास्य साप्‍तानि प्रीणाति” (सं. का. ५ प्र. ४ अ. ७) इति।
सप्‍तसंख्योपेतं द्रव्यस्वरूपं साप्‍त, तानि च साप्‍तानि पुनः सप्‍तसंख्या-कानि। समित्सप्तकमेकं जिड्‍वासप्‍तकं द्वितीयमृषिसप्‍तकं तृतीयं धामसप्‍तकं चतुर्थं होतृसप्‍तकं पञ्चमं यजनप्रकारभेदसप्‍तकं षष्ठं पूरणीययोनिसप्‍तकमेकम्। अग्नेः संव-न्धीनि साप्‍तानि समिदादिसप्‍तकानि यानि सन्ति तानि साप्‍तानि प्रीणयत्येव। एतन्मन्त्रसाध्यं होमं विधत्ते–
“पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्‍त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रजानाँ सृष्ट्यै” [सं. का. ५ प्र. ४ अ. ७] इति।

[[2195]]

द्वादशगृहीतेनाऽऽज्येन पूर्णा या जुहूस्तया जुहुयात। प्रजापतेः प्राप्‍तसर्वकामत्वा-त्पूर्णत्वम्। अतस्तत्पूर्तिः प्रजापतिप्राप्‍त्‍यै भवति। मुख्यकल्पत्वेन पूर्णत्वं विघायानु-कल्पत्वेन न्यूनत्वमप्यङ्गी क्रियते। न्यूनादल्पाद्वीजात्प्रजापतिः प्रौढानि शरीराण्य-सृजत। अतः प्रजासृष्ट्यै न्यूनत्वमङ्गी क्रियते, किमु वक्तव्यं पूर्णत्वमित्यभिप्रायः। होमकाले ध्यानं विधत्ते—
“अग्निर्देवेभ्यो निलायत स दिशोऽनु प्राविशज्‍जुह्‍वन्मनसा दिशो व्याये-द्दिग्भ्य एवैनमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति।
एनं दिक्षु प्रविष्टमग्निम्।
पूर्वमनुष्ठितां दध्याहुतिमिदानीमनुष्ठीयमानमाज्याहुतिं च मिलित्वा प्रशंसति—
“दघ्‍ना पुरस्ताज्‍जुहोत्याज्येनोपरिष्ठात्तेजश्चैवास्या इन्द्रियं च समीची दधाति” (सं. का. ५ प्र. ४ अ. ७) इति।
अग्निस्थापनात्पूर्वं दधिहोम उपरिष्टाञ्चाऽऽज्यहोमः। तत्राऽऽज्यं तेजोरूपं दधि चेन्द्रियरूपम्। “तेजो वा आज्यम्” “इन्द्रियं वै दधि” इति श्रुत्यन्तरात्। अतो यजमानर्थमुभयमपि सम्यक्संपादितं भवति । कल्पः “उपांशु मारुतान्सर्वहुताञ्‍जुहो-तीदृङ्‍चान्यादृङ्‍चेति सप्‍तभिर्गणैरासीनो हस्तेन गणेन गणमनुद्रुत्य मारुताञ्‍जुहोति मध्येऽरण्येऽनुवाक्येन गणेन जुहोतीत्येके मारुतैः सर्वतो वैश्वानरं परिचिनोतीत्येके स्वतर्वाँश्‍च प्रघासी च सांतपनश्‍च गृहमेधी च क्रीडी च साकी चोर्जिषी चेत्येष षष्ठ आम्नातो मितासश्च संमितासश्च न इति सर्वत्रानुषजति” इति। पाठस्तु–
ईदृङ्‍चान्यादृङिति। अत्र हि मरुतां गणाः पञ्चाऽऽम्नाताः। ईदृङित्या-दीनि सप्‍त नामानि तैरभिधेयानां मरुतामेको गणः। चकाराः परस्परं समुच्‍चयार्थाः तथा शुक्रज्योतिरित्यादीन सप्‍त नामानि तैरभिधेयानां मरुतां गणो द्वितीयः। ऋतजि-दित्यादिगणस्तृतीयः। ऋतश्चेत्यादिश्चतुर्थः। ईदृक्षास इत्यादीनि चत्वारि नामधेयानि, सोऽयं पञ्चमो गणः। हे गणपञ्‍चकस्था मरुत एतेन समुच्‍चयेन वर्तन्ते [ माना ] यूयं सर्व समुच्‍चित्य सुष्ठु नोऽस्मान्प्रत्यायच्छत।

[[2196]]

मितासश्च गणचतुष्टयेन सप्‍तसंख्यया प्रमिताः। संमितासश्च पञ्‍चप्रगणे चतुःसं-ख्याया संक्षिप्य प्रमिताः । ऊतये नोऽस्माकं रक्षणाय सभरसो भरेणाऽऽदरेण वर्तन्त इति सभरसः। तादृशा हे मरुतोऽस्मिन्यज्ञ एतनाऽऽगच्छत। दैवीर्विशो देवसंबन्धि-न्यः प्रजारूपाः। एते मरुत इन्द्रमनुवर्त्मान इन्द्रं स्वामिनमनुसृत्य तदनुसारेण यथा वर्तन्ते मरुत एवं दैव्यो मानुष्यश्च सर्वाः प्रजा इमं यजमानमनुसृत्य वर्तमाना भवन्तु। एतैर्मन्त्रैः साध्या मारुतहोमा उपरि विधास्यते।
एतेभ्यो मारुतपुरोडाशेभ्यः पृरा निर्वपणीयं वैश्‍वानरमादौ विधत्ते–
“द्वादशकपालो वैश्‍वानरो भवति द्वादश मासाः संवासरः संवत्सरोऽग्निर्वै श्वानरः साक्षादेव वैश्‍वानरमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति।
उख्याग्नेः संवत्सरधारणेनाग्‍नेः संवत्सररूपत्वम्।
चोदकप्राप्‍तान्प्रयाजानूयाजानपवदति– “यत्प्रयाजानूयाजान्कुर्याद्विकस्तिः सा यज्ञस्य दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै” (सं. का. ५ प्र. ४ अ. ७) इति।
विशेषेण कस्तिर्नाशो विकस्तिस्तत्परिहारायान्यत्र प्रयाजानूयाजानकृत्वा यथा दर्विहोमं कुर्वन्ति तद्वदत्रापि दर्विहोमं प्रयाजानूयाजरहितं कुर्यात्। ततो विक-स्तेरभावाद्याज्ञः प्रतिष्ठितो भवति।
वैश्वानरपुरोढाशहोमसमनन्तरमेव मारुतपुरोडाशहोमं विधत्ते—
“राष्ट्रं वै वैश्वानरो विण्मरुतो वैश्वानरँ हुत्वा मारुताञ्‍जुहोति राष्ट्र एव विशमनु बध्‍नाति” [सं. का. ५ प्र. ४ अ. ७] इति।
राष्ट्रस्थानीयस्य वैश्वानरस्य पूर्वभावित्वात्पश्चाद्भावीयप्रजास्थानीयमारु-तहोमेन राष्ट्रे प्रजां योजितवान्भवति। मारुतहोमे मन्दध्वनिं विद्यत्ते–
“उच्चैर्वैश्वानरस्याऽऽश्राव (य) त्युपाँ शु मारुताञ्‍जुहोति तस्माद्राष्ट्रं विश-मति वदति” [सं. का. ५ प्र. ४ अ. ७] इति।
उच्‍चध्वनित्वमाश्रावणे चोदकप्राप्तम् । यस्माद्राष्ट्रस्थानीये वैश्वानर उच्चैर्ध्वनिः प्रजास्थानीये मरुत उपांशुत्वं तस्माल्लोकेऽपि प्रजामतिक्रम्य राष्ट्रमेवाधिकं सर्वो जनो वक्ति । सति हि राष्ट्रे प्रजानामन्वेषणम्।

[[2197]]

अथ मारुतपुरोडाशान्प्रशंसति–
“मारुता भवन्ति मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति। दैन्येन प्रजासमूहेन यजमानाय मानुषं प्रजा-समूहं संपादयति। पुरोडाशानां संख्यां विधत्ते–
“सप्‍त भवन्ति सप्‍तगणा वै मरुतो गणश एव विशमव रुन्धे” [सं. का. ५ प्र. ४ अ. ७] इति। अत्रत्येषु मन्त्रेष्वाम्नाताः पञ्‍च गणाः। आरण्यकाण्ड आम्‍नातो धुनिश्च ध्वान्तश्चेत्यपरो गणः सूवोक्तः स्वतवानित्यादिरेक। अतः सप्‍तसंख्यामिश्च बहुविधगणरूपां प्रजां प्राप्रोति। होमकाले मम्त्रोच्‍चारे कंचिद्विशेपं विधत्ते–
“गणेन गणमनुद्रुत्य जुहोति विशमेवास्मा अनुवर्त्मानं करोति” [सं. का. ५ प्र. ४ अ. ७] इति। यदा प्रथमगणेन हुत्वा द्वितीयगणेन जुहोति तदानीं प्रथम-गणमुच्‍चार्य पश्चाद् द्वितीयगणेन जुहोति। तथा द्वितीयगणमुच्चार्य तृतीयगणेन जुहुयात्। एवं सति सर्वां प्रजामस्गै यजमानायानुकूलत्वेन वर्तमानां करोति। अत्र विनियोगसंग्रहः–
प्राचीति पञ्‍चभिः साग्‍निरारोहेन्निर्मितां चितम् ।
पूर्णामौदुम्बरीं दध्‍ना जुहोत्येते ऋचौ तदा ।।
याज्यानुवाक्ये नक्तेति सुपर्णोऽस्यादिभिस्त्रिभिः ।
स्वयमातृण्णकायां तमुख्याग्‍निं स्थापयेत्ततः ।।
प्रेद्ध औदुम्बरीं दध्याद्विधे वैकङ्कतीं तथा ।
शमीमयीं तु तां सेति सप्ताऽऽज्यं हूयते स्रुचा ।।
मारुतेषु तु यागेषु प्रोक्ताः पञ्‍च मरुद्गणाः ।
ईदृङ्‍चेत्यादयः शेषो मितासश्चेत्युदीरितः ।।
अनुवाके पञ्‍चमेऽस्मिन्‍नुक्ता एकोनविंशतिः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठकेऽ
पञ्‍चमोऽनुवाकः ।। ५ ।।

[[2198]]

[अश्वमेधकर्तू रथसज्‍जीकरणभाविकषचस्वीकाराद्यङ्गाभिधानम्]