(अथ चतुर्थकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः)।
उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाऽऽहुत। रा॒य-
स्पोषे॑ण॒ सँ सृ॑ज प्र॒जया॑ च॒ धने॑न च।
इन्द्रे॒मं प्र॑ज॒या कृ॑धि सजा॒ताना॑मसद्व॒शी।
समे॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत्।
यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तमग्ने॑ वर्धया॒ त्वम्।
तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑।
उदु॑ त्वा॒ विश्वे॑ दे॒वाः [ १ ] अ॒ग्ने भर॑न्त॒
चित्ति॑भिः। स नो॑ भव शि॒वत॑मः सु॒प्रती॑को
वि॒भाव॑सुः। प॒ञ्च॒ दिशो॒ दैवी॑र्यज्ञम॑वन्तु दे॒-
वीर॒पाम॑तिं दुर्म॒तिं बाध॑मानाः। रा॒यस्पोषे॑
य॒ज्ञप॑तिमा॒भजन्तीः। रा॒यस्पोषे॒ अधि॑ य॒ज्ञो
अ॑स्था॒त्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः। उ॒-
[[2170]]
क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मं प॑रि॒गृह्या॑-
यजन्त। ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य
ध॒र्त्रे जोष्ट्रे॑। देव॒श्रीः श्रीम॑णाः श॒तप॑याः
( २ ) प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन्। सूर्य॑र-
श्मि॒र्हरि॑केश पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑-
याँ॒ अज॑स्रम्। तस्य॑ पू॒षा प्र॑स॒वं या॑ति देवः॒
सं॒पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः। दे॒वा दे॒वे-
भ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तँ श॑मि॒त्रे श॑मि॒ता
य॒जध्यै॑। तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑
पाव॒का आ॒शिषो॑ नो जुषन्ताम्। वि॒मान॑
ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी
अ॒न्तरि॑क्षम्। स वि॒श्वाची॑र॒भि [ ३ ] च॒ष्टे॒
घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् उ॒क्षा
स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒-
तुरा वि॑वेश। मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒र-
श्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ॑। इन्द्रं॒
विश्वा॑ अवीवृधन्त्ससु॒द्रव्य॑चसं॒ गिरः॑। र॒थी
त॑मँ रथी॒नां वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म्।
सु॒म्न॒हुर्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो
दे॒वाँ आ च वक्षत्। वाज॑स्य मा प्रस॒वे-
नो॑द्ग्राभेणोद॑ग्रभीत्। अथा॑ स॒पत्नाँ॒ इन्द्रो॑
मे निका॒भेणाधराँ अकः। उद्ग्रा॒भं च॑
[[2171]]
निग्रा॒मं च॒ ब्रह्म॑ दे॒वा अ॑वीबृधन्। अथा॑
स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्यस्यताम्
( ४ ) ।।
[विश्वे॑ दे॒वाः श॒तप॑या अ॒भि वाज॑स्य षड्विँ॑शतिश्च]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
षष्ठप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
(अथ चतुर्थाष्टके षष्ठप्रपाठके तृतीयोऽनुवाकः)।
द्वितीयेऽनुवाके वैश्वकर्मणहोमोऽभिहितः। अथ तृतीयेऽग्निप्रणयनु-मुच्यते।
कल्पः- “उदेनमुत्तरां नयेति तिसृभिरौदुम्बरीः समिधो घृतोषितास्तिस्र आधाय पशुबन्धवदग्निं प्रणयति” इति। तत्र प्रथमामाह—
उदेनमुत्तरामिति। घृतेन द्रव्येणाऽऽहुत सर्वतो हूयमान हेऽग्न एनं यज-मानमुत्तरामत्युकृष्टमैश्वर्यं प्रत्युन्नयोक्तर्षेण प्रापय। शीघ्रं प्रापयेत्यर्थः। उत्कृष्टमैश्वर्यमेव प्रपञ्च्यते—रायस्पोषेण धनसमृद्ध्या संसृज संयोजय। तथा प्रजया पुत्रपौत्रादिरूपया धनेन च गवाश्वादिरूपेण संसृज। अथ द्वितीयामाह—
इन्द्रेमं प्रतरामिति। ह इन्द्र परमैश्वर्ययुक्ताग्न इमं यजमानं प्रतरां कृधि, अतिशयेन प्रकृष्टं कुरु। तदेव प्रकृष्टत्वं विशदी क्रियते-सजातानां सहोत्पन्नानां ज्ञातीनां वश्यसन्नियमनसमर्थो भवतु। किंचैनं वर्चसा बलेन संसृज। अयं यजमानो देवेभ्यो भागधा असद्यज्ञेषु भागप्रदो भवतु। अथ तुतीयामाह—
यस्य कुर्मो हविरिति। वयमृत्विजो यस्य यजमानस्य गृहे हविः कुर्मः, हेऽने त्वं तं यजमानं वर्धय। देवाश्च तस्मै यजमानायाधिब्रवन्नयं यजमानः सर्वेभ्योऽ-धिक इति ब्रुयन्तु। अयं च यजमानो ब्रह्मणस्पतिवैदिकस्य कर्मणः पालको भवतु। तानेतान्मन्त्रान्विनियुङ्क्ते–
“उदेनमुत्तरां नयेति समिध आ दधाति यथा जनं यतेऽवसं करोति तादृगेव तत्” (सं. का. ५ प्र. ४ अ. ६) इति।
[[2172]]
यथा लोके दूरदेशे प्रामान्तरवर्तिनं प्रति यते गच्छते पुरुषायावसं मार्गरक्षाकरं पाथेयं संपादयति, तत्समिदाधानं प्रणेष्यमाणा[ या ] ग्नेय तादृगेव भवति।
समित्संख्यां विधत्ते—तिस्र आ दधाति त्रिवृद्वा आग्नेर्यावानेवाग्निस्तस्मै-भागधेयं करोति” (सं. का. ५ प्र. ४ अ. ६) इति।
आहवनीयादिभेदेन त्रिगुणत्वम्। समिद्द्रव्यं विधत्ते– “औदुम्बरीर्भवन्त्यू र्ग्वा उदुम्बर ऊर्जमेवास्या अपि दधाति” [सं. का. ५ प्र. ४ अ. ६] इति।
कल्पः—“उदु त्वा विश्वे देवा इत्यग्निमुद्यम्य” इति। पाठस्तु–
उदु त्वा विश्व इति। हेऽग्ने विश्वे सर्वेऽपि देवाः प्राणरूपाश्चिंत्तिभिरु-द्यामनकुशलाभिरिन्द्रियवृत्तिभिरुदु ऊर्ध्वमेव त्वां भरन्तु धारयन्तु। स त्वं नोऽस्माकं शिवतमः शान्मतमः सुप्रतीकः सुमुखो विभावसुः प्रभविता वासयिता च भव।
अस्य मन्त्रस्य प्रथमपादे विश्वदेवशब्दार्थं दर्शयति– “उदु त्वा विश्वे देवा इत्याह प्राणा वै विश्वे देवाः प्राणैरेवैनमुद्यच्छते” [सं. का. ५ प्र. ४ अ. ६] इति।
दीव्यन्ति स्वस्वकार्येषु व्यवहरन्तीति देवाः प्राणाः।
द्वितीयपादेऽग्न्यादिशब्दान्परित्यज्य चित्तिशब्दस्य तात्पर्यं दर्शयति–
“अग्ने भरन्तु चित्तिभिरित्याह यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनँ समर्धयति” [सं. का. ५ प्र. ४ अ. ६] इति।
चित्तिशब्देन * चित्तिमात्रगतेन चित्तमभिप्रेतकार्यं सूच्यते। तथा सति यस्मै कार्यायेदमुद्यमनं तेनैव कार्येणैनमग्निं समृद्धं करोति।
कल्पः—“पञ्च दिशो दैवीरिति पञ्चमिर्हरत्याग्नीध्रात्” इति। तत्र प्रथमा माह—
- ख. पुस्तकटिप्यण्यां – चितिमन्त्रगतेनेति पाठो भवितुं युक्तः’ इति वर्तते।
[[2173]]
पञ्च दिशो दैवीरिति। इमाः प्राच्यादयः पञ्च दिशो दैवीरिन्द्रयमादीनां देवीनां संबन्धिन्यो दैवीः स्वयमपि देवतारूपा अमतिमस्मदीयं प्रज्ञामान्द्यं दुर्मतिं दुष्टां पापविषयां बुद्धिं चापबाधमाना विनाशयन्त्यो रायस्पोषे धनसमृद्धौ यज्ञपतिं यजमा-नमा समन्तात्सेवमाना इमं यज्ञमवन्तु रक्षन्तु। अथ द्वितीयामाह–
रायस्पोषे अधीति। अयं यज्ञो रायस्पोषे धनसमृद्धावध्यस्थादधिकमव-स्थितः सन्सर्वदा धनपुष्टिं ददातीत्यर्थः। कीदृशो यज्ञः, समिद्धे सभ्यक्प्रज्वलितेऽग्ना- वधि मामहानोऽधिकं पुनः पुनः पूज्यमानः, उक्थपत्र उक्थानि शस्त्राणि पत्रं वाहनं यस्यासावुक्थपत्रः, ईड्यः स्तुत्यः, गृहीतः ऋत्विग्यजमानैः परिगृहीतः। ते च तप्तं प्रज्वलितं धर्ममग्निं परिगृह्यायजन्त सर्वदा यजन्ति।
अथ तृतीयामाह—
ऊर्जा यद्यज्ञमिति। देवा दीव्यन्तो व्यवहरन्त ऋत्विग्यजमाना धर्त्रादि-विशेषणैर्विशेषितायाग्नये यद्यस्मिन्काल ऊर्जा हविःस्वरूपेणान्नेन यज्ञमशमन्त शान्तं तुष्टिहेतुमकुर्वत। कीदृशायाग्नये, दैव्याय देवानां हिताय, धर्त्रे यागद्वारा जगतो धारयित्रे जोष्ट्रेऽस्माभिर्दीयमानस्य हविषः सेवित्रे। तस्मिन्कालेऽयमग्निरीदृशो भवति। कीदृश इति तदुच्यते-देवश्रीर्दवानेव श्रयति हविर्वहनेनेति देवश्रीः। श्रीमणाः श्रयते सेवत इति श्रीर्यजमानस्तस्यिन्ननुग्रहरूपं मनो यस्यासौ शतपयाः। तादृशमग्निं परिगृह्य देवा ऋत्विग्यजमानाय इमं यज्ञमायन्प्राप्युवन्त्यनुतिष्ठन्तीत्यर्थः। अथ चतुर्थीमाह–
सूर्यरश्मिरिति। दारिद्र्यं हरतीति हरिर्हिरण्यं, हिरण्यवर्णाः केशस्थानीयाः शिखा यस्यासौ हरिकेशोऽग्निः। स च सूर्यरश्मिर्भूत्वा सविता प्राणिनां तत्तद्व्यवहा-रेषु प्रेरको ज्योतिर्गण्डलरूपः सन्पूर्वस्यां दिश्यजस्रं प्रतिदिनमुदयानुदेति। यस्मिन्नुदये सति पूषा पोषकः स देवस्तस्य प्रसवं जगतः प्रेरणं याति प्राप्नोति। कीदृशो देवः, गोपा रक्षकः। किं कुर्वन्, विश्वा भुवनानि संपश्यन्सर्वाल्लोँकानवलोकयन्। अथ पञ्चमीमाह–
[[2174]]
देवा देवेभ्य इति। पशुबन्धरूपो यज्ञश्चतुर्भागः। तत्रोपाकरणान्तः प्रथमः। उपाकृतस्ध शामिप्रदेशे स्थितिर्द्वितीयः यागार्श्चं यत्संस्कारं करोति स तृतीयः। हविष्प्रदानान्तश्चतुर्थः। तदिदं भागचतुष्टयं क्रमेणात्राभिधीबते। देवा ऋत्विग्यजमाना देवेभ्यो हविःस्वीकर्तृभ्योऽध्वर्यन्ता यागं कर्तुमिच्छन्तोऽस्थुस्तिष्ठन्ति। उपाकरणान्तम-नुतिष्ठन्तीत्यर्थः। तत ऊर्ध्वं शमित्रे वीतं शामित्रदेशे प्राषितं पशुरूपं हविर्भवति। तत ऊर्ध्वं शमिता यजध्यै यागार्थं संस्करोति स तृतीयः। उपरितनश्चतुर्थो यज्ञभागः। यत्र यस्मिन्भागचतुष्टयोपेते यज्ञे हव्यमेति देवता हविः प्राप्नोति ततस्तस्माद्भागचतुष्टयोपे-ताद्यज्ञात्पावका आहवनीयादयोऽग्नयो नोऽस्मदीया आशिषोऽपेक्षितान्फलविशे-षाञ्जुवन्तां संपादयन्तित्यर्थः।
एषु मन्त्रेषु प्रथममन्त्रे प्रथमपादस्य तात्पर्यं दर्शयति– “पञ्च दिशो देवी-र्यज्ञमवन्तु देवीरित्याह दिशो ह्येवोऽनु प्रच्यवते” (सं. का. ५ प्र. ४ अ. ६) इति।
एष यजमानः प्राच्याद्याः पञ्च दिशोऽनुक्रमेण यज्ञरक्षार्थं प्रेरयति। द्वितीयपादस्य तात्पर्यं दर्शयति “अपामतिं दुर्मतिं बाधमाना इत्याह रक्षसामपहत्यै” (सं. का. ५ प्र. ४ अ. ६) इति।
अमतेर्दुर्मतेश्च रक्षोभिः संपादितत्वात्तद्वाधेन रक्षांस्येवापहतानि भवन्ति।
तृतीयपादे रायस्पोषशब्देन विवक्षितार्थं दर्शयति—
“रायस्पोषे यज्ञपतिमाजन्तीरित्याह पशवो वै रायस्पोषः पशूनेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
उदु त्वा विश्वे देवा इत्यनेनोद्यमनमन्त्रेण संहितमुत्तरनन्त्रपञ्चकं विनियुङ्क्ते–
“षड्भिर्हरति षड्वा ऋतव ऋतुभिरेवैनँ हरति” (सं. का. ५ प्र. ४ अ. ६) इति।
रायस्पोषे अधि यज्ञ ऊर्जा यद्यज्ञामिति मन्त्रद्वयं विशेषतः प्रशंसति–
[[2175]]
“द्वे परिगृह्यवती भवतो रक्षसापपहत्यै” (सं. का. ५ प्र. ४ अ. ६) इति।
परिगृह्यायजन्त परिगृह्य देवा यज्ञमायन्नित्येवं परिगृह्यशब्दो ययोर्ऋचोस्ते परिगृह्यवत्यौ। परिग्रहः पृथक्स्वीकारस्तेन यज्ञं विनाशयितुमसमर्थानि रक्षांसि स्वयमेवापहन्यन्ते । षट्सु मन्त्रेषु पञ्चममन्त्रस्य तात्पर्यं दर्शयति—
“सूर्यरश्मिर्हरिकेशः पुरस्तादित्याह प्रसूत्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
पूषा प्रसवं यातीति तत्राभिधानादयं मन्त्रः प्रसूत्यै संपद्यते।
षष्ठमन्त्रस्य चतुर्थपादे पावकशब्दस्य तात्पर्यं दर्शयति–
“ततः पावका आशिषो नो जुषन्तामित्याहान्नं वै पावकोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ६) इति।
अग्निवाचकः पावकशब्दस्तेन पच्यमानमन्नमुपलक्ष्यते। कल्पः– “विमान एव दिवो मध्य आस्त इति द्वाभ्यामाग्नीघ्रेऽश्मानं निधाय” इति। तत्र प्रथमामाह–
विमान एष इति। एषोऽश्मा विमानो विविधं जगन्निर्मिमाणः सन्दिवो मध्य आस्त आग्नीघ्रस्थानीयस्याऽऽकाशस्य मध्ये तिष्ठति। कीदृशोऽश्मा। रोदसी द्यावापृथिव्यावन्तरिक्षं चाऽऽपप्रिवान्सर्वतः पूरितवान्। यद्यप्येवमश्मा न किंचिज्ज- गन्निर्मिमीते नापि लोकत्रयमापूर्य तिष्टति तथाऽपि परमेश्वरगुणैस्त्य स्तूय मानत्वान्न कोऽपि विरोधः। तथा स्तूयमानो विश्वाचीर्विश्वव्यापिनीर्दिशोऽभिचष्टे सर्वतः प्रकाशयति। तथा घृताचीर्घृतप्राप्तिहेतुभूता धेनूश्चाभिचष्टे। तथाऽन्तरा ब्रह्माण्डस्य पूर्वमपरं च केतुमुदयास्तमयाभ्यां पूर्वापरदिशोश्चिह्नभूतं सूर्यमभिचष्टे। अथ द्वितीयामाह –
उक्षा समुद्र इति। अयगश्मोक्षा गेघो यागद्वारेण फलाभिवर्षक इत्यर्थः। समुद्रो बहुफलप्रदत्वात्समुद्रसदृशः। अरुणः पूर्वमन्त्रे सर्वप्रकाशकत्वेनोपचरितत्वा-त्सूर्यसदृशः। सुपर्णः स्वर्गं प्रत्युद्गमनहेतुत्वात्पक्षिसदृशः। तथाविधोऽश्मा पितुः पालकस्य पूर्वदिग्वर्तिन आहवनीयस्य योनिं कारणभूतमाग्नीघ्नमाविवेश
[[2176]]
प्रविष्टवान्। येषां दीक्षितानामाहवनीय उद्वायेदाग्नीघ्रादुद्धरेत्’ इत्याहवनीययोनित्व-माग्नीघ्रस्यान्यत्राऽऽम्नातम्। अयं पृश्निः श्वेतवर्णोऽश्गा दिवो मध्ये निहितः स्थापितः सन्रजसो रञ्जनीयस्य जगतोऽन्तावुत्पत्तिप्रलयरूपं कोटिद्वयं पाति परमेश्वररूपेण पालयति। कल्पः—“इन्द्रं विश्वा अवीवृधन्निति चतसृभिरापुच्छाद्रत्वा” इति। तत्र प्रथमामाह—
इन्द्रं विश्वा अवीवृधमिति। विश्वा गिरः सर्वाः स्तुतय इन्द्रं परमैश्वर्यो-पेतमग्निमवीवृधण्वर्धितवत्बः। कीदृशमिन्द्रं, समुद्रव्यचसं समुद्रवद्व्यापिनम्। रथीनां रथीतमं रथ एवामस्तीति व्युत्पत्त्या रथिश्ब्देन राजामात्यादय उच्यन्ते। तेषां मध्येऽ-तिशयेन रथी रथीतमस्तम्। वाजानां पतिमन्नानां पालकम्। यथासप्ततिं सन्मार्गव-र्तिनां यजमानानां पालकम्। अथ द्वितीयामाह–
सूम्नहूर्यज्ञ इति। सुम्नहूः सुम्नस्य प्रजापशुरूपस्य सुखस्यगऽऽह्वाता संपादयिता यज्ञश्च देवानावक्षदावहतु। यक्षदग्निश्च पूर्वोक्ताग्निरपि देवानावक्षदाह्वयतु। अथ तृतीयामाह—
बाजस्य मेति। इन्द्रः परमैश्वर्ययुक्तोऽग्निर्वाजस्यान्नस्य प्रसूतिनिमित्तेनो-द्ग्रामेणोद्ग्रहणसामर्थ्येन मां यजमानमुदग्रभीदुत्कर्ष प्रापितवान्। अथानन्तरमिन्द्र परमैश्वर्ययुक्तोऽयमग्निर्निग्रामेण निग्रहसामर्थ्येन मे सपत्नान्मदीयान्वैरिणोऽधरान कर्निगृहतिन्करोतु। अथ चतुर्थीमाह—
उद्ग्रामं चेति। देवाः सर्वे ब्रह्म परिवृढमुद्ग्राभमस्मदयिमुत्कर्षं निग्राभं च वैरिणो निकर्षं चावीवृधन्वर्धितवन्तः। अथानन्तरमिन्द्राग्नी विषूचीनान्सर्वतः पलायमानान्मे सपत्नान्मदीयान्वैरिणो व्यस्यतां विनाशयताम्। अत्र निवियोग संग्रहः।
उत्त्रिभिः समिधो दध्यादुदु त्वोद्यच्छते नलम्।
पञ्चेति वञ्चभिर्हत्वा विद्वाभ्यात्मश्यनः स्थितिः।।
इन्द्रं चतुर्भिराषुच्छाद्गच्छेत्पञ्चदशेरिताः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठकेऽ-
तृतीयोऽनुवाकः ।। ३ ।।
[[2177]]