(अथ चतुर्थकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॑
निष॒सादा॑ पि॒ता नः॑ । स आ॒शिपा॒ द्रवि॑ण-
मि॒च्छमा॑न परम॒च्छदो॒ वर॒ आ वि॑वेश।
वि॒श्‍वक॑र्मा॒ मनसा॒ यद्विहा॑या धा॒ता वि॑धा॒ता
प॒रमोत सं॒दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा मद॑-
न्ति॒ यत्र॑ सप्त॒र्षीन्प॒र एक॑मा॒हुः । यो नः॑
पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ सतो
अ॒भ्या सज्‍ज॒जान॑ ( १ ) । यो दे॒वानां॑ ना-
म॒धा एक॑ ए॒व तँ संप्रश्नं भुव॑ना यन्त्य॒न्या।
त आऽय॑जन्त॒ द्रवि॑णँ॒ सम॑स्मा॒ ऋष॑यः॒
पूर्वे॑ चरि॒तारो॒ न भू॒ना। अ॒सूर्ता॒ सूर्ता र-
ज॑सो वि॒म ने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑।
न तं वि॑दाय॒ य इ॒दं ज॒जाना॒न्यद्‍युष्प्राक॒-
मन्त॑रं भवति। नी॒हा॒रेण॒ प्रावृ॑त॒ जव्प्या॑
चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति । प॒रो दि॒वा

[[2160]]

प॒र ए॒ना [ २ ] पृ॒थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒-
र्गुहा॒ यत्। कँ स्वि॒द्गर्भ॑ प्रथ॒मं द॑घ्‍र आपो॒
यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑। तमिद्गर्भ॑
प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒
विश्वे॑। अ॒जस्य॒ नाभा॒वध्यक॒मर्पि॑तं यस्मि॑-
न्नि॒दं विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम्। वि॒श्‍वक॑र्मा॒
ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्‍‍द्वितीयः।
तृ॒तीय॑ पि॒ताः ज॑नि॒तौष॑धीनाम् [ ३ ] अ॒पां
गर्भ॒ व्य॑दधात्पु॒रुत्रा। चक्षु॑षः पि॒ता मन॑सा॒
हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑याने। य॒देदन्ता॒
अद॑दृँ हन्त पूर्व आदिद्द्यावा॑पृथिवी अप्र॑थे-
ताम्। वि॒श्‍वत॑श्‍चक्षुरु॒त वि॒श्‍वतो॑मुखो वि॒-
श्‍वतो॑हस्त उ॒त वि॒श्‍वतस्पा॑त्। सं बा॒हुभ्यां॒
नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व
एकः॑। किँ स्वि॑दासादधि॒ष्टान॑मा॒रम्भ॑णं
कत॒मत्स्वि॒त्किमा॑सीत्। यदी॒ भूमिं॑ ज॒न-
य॑न् ( ४ ) वि॒श्वक॑र्मा॒ वि द्यामौर्णोन्महि॒ना
वि॒श्वच॑क्षाः। किँ स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष
आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः। मनी॑-
षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठद्भुव॑नानि-
धा॒रय॑न् । या ते॒ धामा॑नि पर॒माणिः॒ याऽ-
वमा या म॑ध्य॒मा वि॑श्‍वकर्मन्‍नु॒तेमा। शिक्षा

[[2161]]

सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं यजस्व
त॒नुबं॑ जुषाणः। वाचस्पतिं॑ विश्‍वक॑र्मा-
णभू॒तये॑ [ ५ ] म॒नो॒युजं॒ वाजे॑ अ॒द्या हुवे-
म। स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्व-
शं॑भू॒रव॑से सा॒धुक॑र्मा। विश्व॑कर्मन्ह॒विषा॑
वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः।
मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्‍ना॑ इ॒हास्माकं॑ म॒
घवा॑ सू॒रि॑रस्तु। विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन
त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम्। तस्मै॒ विशः॒
सम॑नभन्त पू॒र्वीर॒यमुग्रो वि॑ह॒व्यो॑ यथाऽस॑त्।
स॒मुद्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑।
न॒दीनाँ॒ सर्वा॑सां पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒
विश्वाऽहाऽमर्त्यँ ह॒विः [ ६ ]।।
(ज॒जानै॒नौष॑धीनां॒ भूमिं॑ ज॒नघ॑न्‍नू॒तये॒ नमो॒ नव॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
षष्ठप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

(अथ चतुर्थकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमानुवाके परिवेचनादिकमुक्तम्। अथ द्वितीयानुवाके सूक्ताम्यां होमा उच्यन्ते। कल्पः—“षोडशगृहीतेन स्रुचं पूरयित्वा वैश्वकर्मणानि जुहोति य इमा विश्वा भुवनानि जुह्‍वच्‍चक्षुषः पिता मनसा हि धीर इति नानासूक्ताभ्यां द्वे आ हुती यं कामयेत चिरं पाप्मनो निर्मुच्यतेत्येकैकं तस्येत्युक्तम्” इति।

[[2162]]

तत्र प्रथमसूक्ते प्रथमामृचमाह—य इमा विश्वेति।
यो विश्वकर्मा परमेश्वर इमा विश्वा भुवनानि जुह्‍वत्प्रलयकाले पृथिव्यादी निमान्सर्वाल्लोँकान्स्वात्मन्याहुतिप्रक्षेपवत्संहरन्‍नृषिरतीन्द्रियद्रष्टा सर्वज्ञो होता संसारहोमकर्ता नोऽस्माकं पिता जनको निषसाद स्मयं स्थितवान्, प्रलयकाले प्राप्ते सति सर्वाल्लोँकान्संहृत्यास्माकमपि संहर्ता पुनः स्रष्टा च सन्सर्वज्ञोऽयं परमेश्वरः स्वयमेक एवाऽऽसीत्। अत एव सर्वा अप्युपनिषद एवमाडुः—“आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किंचन मिषत्सदेव सोम्षेदमग्र आसीत्। एकमेवाद्वितीयम्” इत्याद्याः। स तादृशः परमेश्वर आशिषा बहु स्यां प्रजायेयेत्येवरूपया पुनःसिसृक्षया द्रविणमिच्छमानो धनोपलक्षितं जगद्भोगमपेक्षमाणः परमच्छदः परमं स्वकीयमेवा-द्वितीयं परमार्थरूपमावृण्न्ववरे स्वेन सृष्टे शरीरमध्यवर्तिनि पुण्डरीकस्थान आविवेश जीवरूपेण प्रविष्टः । एचच्च सर्वमुपनिषद्याम्‍नातम्— “सोऽकामत। बहु स्यां प्रजाये-येति। स तपोऽतप्यत। स तपस्तप्‍त्‍वा। इदँ सर्वमसृजत्। यदिदं किंच। तत्सृष्ट्‍वा। तदवानुप्राविशत्” इति। एवमन्याअप्युपनिषद उदाहार्याः । अथ द्वितीयामृचमाह—
विश्वकर्मा मनसेति। विश्वविषयाणि कर्माणि सृष्टिस्थितिसंहाररूपाणि यस्यासौ विश्वाकर्ता। तस्य च तेषु कर्मसु सत्यत्वादय एव साधनं सत्यसंकल्पत्वात्। यद्यस्मादयं मनसा संकल्पमात्रेण विश्वकर्मा तस्माद्धाता विधाता विहाया इति चोच्यते। धातोत्पादकः विधाता पोषकः। विषेशेण जहाति परित्यजतीति विहायाः। संहर्तेत्यर्थः। उतापि चात एव परमा परमः सर्वेभ्य उत्कृष्टः सम्य क्पश्यतीति संदृक्सर्वज्ञ इत्यर्थः। यत्र यस्मिन्परे परस्मिन्नीश्वरे सप्‍तर्षीनेकमाहुःय एते मरीच्यात्री-प्रमुखाः सप्‍तर्षयो विविधा दृश्यन्ते ते सर्वे सृष्टेः प्राक्परस्मिन्नेकी भूता इति वेदान्त-परागा आहुः। स च परमेश्वरस्तेषां सप्‍तर्षिप्रभृतीनामिष्टान्य पेक्षितानि स्थानानीषा स्वेच्छामात्रेण संपादयतीति। तेन च ते महर्षयो हृष्यन्ति। अथ तृतीयामृजमाह—

[[2163]]

यो नः पितेति। यो विश्वकर्मा नोऽस्माकं पिता पालयिता न केवलं पालक उत्पादकोऽपि। किमनेनास्माकमुत्पादक इति संकोजेन यो विधाता सर्वस्य जगत उत्पादको यो विश्वकर्मा नोऽस्माकमुत्पन्नानां सद्वर्तमानमिदं भोग्यजातं सतो जजान तदेव सोम्येतिश्रुत्युक्‍तात्स्वस्वरूपादुत्पादयामास। यश्च विश्वकर्मा देवानां नामधाः स्वयमेव सर्वदेवरूपेणाऽऽविर्भूयेन्द्रमित्रादिदवेतानामानि धारयति। अत एवान्यत्राऽऽभ्‍नातम्—“इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः” इति। अत एव बहुनां देवानां नामानि धारयन्‍नपि वस्तुतः स्वयमेक एव, तं विश्वकर्माणं परमेश्वरमन्या भुवना तस्मादन्यानि सृष्टानि सर्वाणि भुवनानि संप्रश्न यथा भवति तथा यन्ति प्रलयकाल एकत्वं प्राप्‍नुवन्ति। एकीभावयुक्ते प्रलये क र्हश्वरः कानि भुवनानीत्येवं प्रश्नः संप्रधारणं प्रवर्तते। विभागाभावेन श्रुत्यनभिज्ञैर्ज्ञातुमशक्यत्वात्। अथ चतुर्थीमृचमाह—
त आऽयजन्तेति। पूर्वोदाहृतेन विश्वकर्मणा प्रथममुपादिता य स्रष्टार इमानि भूतानि सर्वानेतान्प्राणिनः समकृण्वन्सम्यगुत्पादितवन्तः, ते पूर्वे स्रष्टारोऽस्मै सृष्टाय जगते द्रविणं धनरूपं भोग्यजातं समायजन्त सम्यक्संपादितवन्तः। कीदृशास्ते ऋषयोऽतीन्द्रियद्रष्टारः। सर्वज्ञा इत्यर्थः। भूना जरितारो न भूम्‍ना स्वकी-येन महत्त्वेन कदाचिदपि जीर्णा न भवन्ति। कीदृशानि भूतानि असूर्ताऽसुभिः प्राणै-रीरितानि प्राणयुक्तानीत्यर्थः। तथा रजसो विमाने सूर्ता रञ्जनात्मकस्य विशेषेण प्रमितौ स्वस्वकर्मभिः सुष्टु प्रेरितानि। अथ पञ्चमी मृचमाह—
न तं विदाथेति। यो विश्वकर्मेदं जजानोत्पादितवांस्तं विश्‍वकर्मणं न विदाथ तेन सृष्टा हे जीवा यूयं न जानीथ। देवदत्तोऽहं यज्ञदत्तोऽहमित्येवं सर्वेऽपि वयमात्मानं विश्‍वकर्माणं जानीम इति यद्युच्येत तदसत्। न ह्यहंप्रत्ययगम्यं जीवरूपं विश्‍वकर्मणः परमेश्‍वरस्य, किंतु युष्माकमहन्प्रत्ययगम्यादतिरिक्तं सर्ववेदान्तवेद्यमी-श्‍वरतत्त्वं भवति विद्यते। तथाऽपि जीवरूपवत्कुतो न जानीम इति चेत्। नीहारेण प्रावृत्ता भवन्तो नीहारसदृशेनाज्ञनेनाऽऽवृतत्वाच्‍च जानन्ति।

[[2164]]

यथा नीहारो नात्यन्तमसन्। दृष्टेरावरकत्वात्। नाप्यत्यन्तं सन्। काष्ठपाषाणा दिरूपान्तरेण संबद्धुमयोग्यत्वात्। एवमज्ञानमपि नात्यन्तमसदीश्‍वरतत्त्वावर-कत्वात्। नापि सब्दाधमात्रनिवर्त्यत्वात्। ईदृशेनानिर्वचनीयेनाज्ञानेन भक्न्तः सर्वे जीवाः प्रावृत्ताः। न केवलं तत्त्वं [ न जानन्त ] किंतु जल्प्या च देवोऽहं मनुष्योऽहं ममेदं क्षेत्रमित्याद्यनृतजल्पनपराश्च। किंचासुतृपः, असुषु तृप्यन्तीत्यसुतृपः, केनाति प्रकारेण प्राणन्पोषयित्वा तावतैव तृप्यन्ति भवन्तो न तु परमेश्‍वरतत्त्वं विचारवितुं प्रवर्तन्ते। न केवलमिह लोके भोगमात्रतृप्‍तिः किंतू क्थशासः परलोकेऽपि भोगं संपादयितुं नानाविधेषु यज्ञेषूक्थानि शस्त्राणि शंसन्तीत्युक्थशासः तादृशा भूत्वा भवन्तश्चरन्ति, ऐहिकामुष्मिकभोगे सर्वदा प्रवर्तन्ते। तस्मादज्ञानमिथ्याज्ञानपराधीनानां भवतां नास्ति तत्त्वज्ञानमित्यर्थः।
अथ षष्ठीमृचमाह–
परो दिवेति। यदीश्‍वरतत्त्वं गुहा हृदयपुण्डरीके गूढं दिवा परो द्युलो-कादपि दूरे तिष्ठति, एना पृथिव्या परोऽस्याः पृथिव्या अपि दूरे तिष्ठति देवेभिरसुरैः परो देवेभ्योऽसुरेभ्यश्च दूरे तिष्ठति। सकारान्तः परःशब्दो दूरवाची। दूरत्वं नाम विलक्षणत्वम्। सर्वजगद्विलक्षणत्वाद्‍गुरुशास्त्रमुखैर्ज्ञायत इत्यर्थः। किंच यत्र यस्मिन्गर्मे विश्‍वे सर्वेऽपि देवाः समगच्छन्त संगताः संभूय वर्तन्ते, तं कंस्विद्‍गर्भ- मापः प्रथमं दघ्‍रे। अद्भिः पूर्वं धृते गर्भे देवमनुष्यादयः सर्वे प्राणिनो वर्तन्त इत्येवं शास्त्राप्रसिद्धिः। सोऽपि गर्भः क इति न ज्ञायते। यदा स्थूलोऽप्ययं जगदाधारो न ज्ञातास्तदाऽत्यन्तसूक्ष्मतत्त्वं न ज्ञायत इति किमु वक्तव्यमित्यभिप्रायः। अथ सप्‍तमीमृचमाह—
तमिद्गर्भं प्रथममिति। इदानीं गुरुशास्त्रानुशासनोपेतेषु पुरुषेषु विद्यमान स्तुतिरनयाऽमिधीयते यत्र यस्मिन्ब्रह्माण्डगर्भे विश्वे देवाः समगच्छन्त तमित्तमेव गर्भमापः प्रथमं दध्र धृतवत्यः। तद्धारणप्रकार एव स्पष्टी क्रियत– अजस्य जन्म-रहितस्य परमेश्वरतत्त्वस्य नाभौ नाभिस्थानीये स्वरूपमध्य एकं किंचिद्बजिमध्य-र्पितमधिकत्वेन स्थापितं यस्मिन्बीज इदं विश्वं सर्वमपि भुवनमधिश्रितमधिकत्वेन स्थापितं तब्दीजमर्पितम्। तथा च स्मर्यते—

[[2165]]

अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत्।
तदण्डमभबद्धैर्म कोटिसूर्यसमप्रभम्।। इति ।।
अथाष्टमीमृचमाह—
विश्वकर्मेति। ब्रह्माण्डगतानामुत्पत्तिरुच्यते– अण्डमध्ये प्रथमं विश्वकर्मा देवतिर्यगादिविश्वभेदस्य कर्ता सत्यलोकनिवासि चतुर्मुखो देवोऽजनिष्टो-त्पन्‍नः। आदिदनन्तरमेव तदपेक्षया द्वितीयो गन्धर्वोऽभवदुत्मन्‍नः। तत ऊर्ध्वमोष-धीनां पिता पालको जनितो*त्पादकः सोमः पूर्वोक्तद्वयापेक्षया तृतीयोऽभवत्। तदेवमपां गर्भं ब्रह्माण्डं परमेश्वरः पुरुत्रा व्यदधाद्वहुधा व्यक्तं कृतवान्। इत्थमेकं सूक्तं समाप्‍तम्। अथ द्वितीयसूक्ते प्रथमामृचमाह—
चक्षुष पितेति। चक्षुषश्चक्षुरादेः प्राणसमुदायस्य पितोत्पादको धीरो धैर्यवान्। मनसा स्वच्छया घृतं घृतवत्पाणिनामुपभोगसाधनभूते एने द्यावापृथिव्यौ परस्परानुकूल्येन नन्नमाने नमनोपेते अजनदुत्पादितवान्। यदेद्यदैव पूर्वे प्रथमा अन्ता अतनयुक्ताश्चेष्टावन्तश्चक्षुरादिप्राणा अददृंहन्त दृढा अभवन्। आदिदनन्तरमेव द्यावा-पृथिवी अपथेतां द्यावापृथिव्यौ विस्तृते अभूताम्। अथ द्वितीयामृचमाह—
विश्वतश्चक्षुरिति। चतुरादिप्राणानां द्यावापृथिव्योश्चोत्पर्त्तेरूर्ध्वं विश्वरूप-धरः परमेश्वर एवं भासतें। कथामिति तदुच्यत—विश्वतः सर्वतश्चक्षूंषि यस्यासौ विश्वतश्चक्षुः। परमेश्वरस्य सर्वप्राण्यात्मकत्वाद्यस्य प्राणिनो ये चक्षुषी ते तदुपाधि-कस्य परमेश्वरस्यैवेति सर्वत्रास्य चक्षूंषि संपद्यन्ते। एवं मुखहस्तपादेष्वदि योजनी-यम्। स तादृश एको देवो द्यावापृथिवी जनयन्बाहुभ्यां बाहुस्थानी याभ्यां धर्माधर्मा-भ्यां निमित्तकारणाभ्यां संनमति जगत्सर्गं सम्यङ्‍नतं स्वाधीनं करोति। तथा पतनैः पतनशीलरैनित्यैः पञ्चभूतैरुपादानकारणः संनपति जगत्स्वाधीनं करोति। अथ तृतीयामृचमाह—
*अत्र सर्वपुस्तकेषु ‘जनिता य उत्पादकः’ इति पाठो वर्तते। स न युक्तः

[[2166]]

कि ँ स्विदासीदिति। लोके हि चिकीर्षुः कुलालो गृहादिकं किंचि-त्स्थानमधिष्ठाय मृद्‍द्रव्येण चक्रादिरूपैरुपकरणसाधनैर्घटं निष्पादयति। ईश्वरस्य निरपेक्षत्वात्सर्वमत्राऽऽक्षिप्यते—द्यावापृथिव्योरुत्पादनवेलायामीश्वरस्याधिष्ठानं निवासस्थानं किंस्विदासीत्किं नामाभून्न किंचिदित्यर्थः। तथाऽऽरम्मणं कतमत्स्वि- त्किमासीत्। आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणं, तदपि कतमद्भवेत्। नहि द्यावापृथिव्यौ जनयितुं समर्थं किंचिदुपादानं संभवति। तथा दण्डचक्रादिव न्निमि-त्तमपि किमासीन्न किंचित्संभवतीत्यर्थः। विश्चचक्षाः सर्वद्रष्टा विश्वकर्मा यदि यस्मिन्काले भूमिं भूलोकं जनयन्वर्तते तस्मिन्काले हि महिना महिम्नैव साधनान्तरं विनैव विशेषेण द्यामौर्णोत्सृष्ट्‍वा द्यावापृथिव्यावाच्छादितवान्। अच्छिन्त्यशक्तिरयं परमेश्वरः अथ चतुर्थीमृचमाह–
कि ँ स्विद्वनमिति। लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचिन्महान्तं वृक्षं छित्त्वा तक्षणादिना काष्ठैः प्रासादमुञ्चैस्तरं संपादयति। इह तु परमेश्वरो जगत्सृष्टिं यतो यस्माद्वनाद्यं वृक्षमादाय द्यावापृथिवी निष्टतक्षुस्तक्षणेन द्यावापृथिव्यौ निष्पादितवांस्तद्वनं किंस्वित्किंनाम स्यान्न किंचित्तादृशं संभवति। तथा क उ स वृक्षस्तादृशः च प्रौढवृक्षोऽपि कः स्यान्न कश्चित्संभवति। हे मनीषिणो विद्वांसो मनसा स्वकीयेन विचिन्त्य पृच्छतेदिदं सर्वं पृच्छतैव। किंचेश्वरो भुवनानि धारयन्यदध्यतिष्ठद्यत्स्थानमधिष्ठितबांस्तदपि सर्वथा पृच्छत। एतस्य प्रश्नस्य सर्वस्या-प्युत्तरं ब्राह्मणग्रन्थे सूक्तप्रपाठके ब्रह्म वनं ब्रह्म स वृक्ष आसीदित्येतस्यामृच्याम्‍ना-तम्। स्वरूपव्यतिरिक्तवस्‍त्‍वादीनिरपेक्षत्वमेवास्योत्तरस्याभिप्रायः। अतोऽत्रापि किंस्विद्वनमित्याद्याक्षेपपरत्वेनवै योजितम्। पृच्छतेदित्य स्याप्ययमभिप्रायः—भवद्भिः पृष्टेऽपि निरपेक्षत्वमेवाभिज्ञा वदिष्यन्तीति। अथ पञ्चमीमृचमाह—
या ते धामानीति। हे विश्वकर्मंस्ते त्वदीयानि परमाणि यानि धामान्यु-त्कृष्टानि सन्ति, यानि मध्यमान्यवमानि च धामानि स्यानानि सन्ति, तानीमानि सर्वाणि स्थानानि सखिभ्यः सखिवत्प्रियेभ्यो हविषि हविष्प्रदानानिमित्तं शिक्षोप-

[[2167]]

दिश। हे स्वधावः स्वधोपलक्षितहविर्लक्षणान्नवन्विश्वकर्मस्तनुवं जुषाणो यजमान-शरीरंसेवमानः स्वयं यजस्व त्वदनुग्रहन्तरेण को वाऽन्यो यष्टुं शक्त इत्यर्थः। अथ षष्ठीमृचमाह—
वाचस्पतिमिति। विश्वकर्माणं परमेशश्वरमद्यास्मिन्दिने वाजेऽन्ने निमित्त भुते सति ऊतये भक्षणाय हुवेऽऽह्‍वयाम। कीदृशं विश्वकर्माणम्, वाचस्पतिं मन्त्र-रूपाया वाचः पालकं कर्मण्यस्मन्प्रनसो योजयितारम्। स विश्वकर्मा नोऽस्मदीयानि नोदिष्ठान्यत्यन्तसमीपवर्तीनि हवनानि हवींष्याह्‍वानानि वा जोषते सेवते। किमर्थम्, अवसेऽस्मानवितुं रक्षितुम्। कीदृशः सः, विश्वशंभूः सर्वस्मिञ्जगति सुखस्य भाव-यिता साधुकर्माऽस्मदनुकूलव्यापारवान्।
अथ सप्‍तमीमृचमाह–
विश्‍वकर्मन्निति। हे विश्वकर्मन्नस्मदीयेने हविषा वावृधानोऽतिशयेन वर्धमानस्तनुवं जुषाणः शरीरं स्वीकुर्वाणः स्वयं यजस्व, अस्मत्तोऽन्ये सपत्‍ना इह कर्मणि गुह्यन्तु भ्रान्ता भवन्तु। अस्माकं तु मधवाऽन्नयुक्तः सूरिर्विद्वान्पुत्रोऽस्तु।
अथाष्टमीमृचमाह–
विश्‍वकर्मन्हविषेति। हे विश्वकर्मन्नस्मदीयेन हविषा त्वं वर्धनेन युक्त इमं यजमानं त्रातारमन्येषां रक्षकमिन्द्रं परमैश्वर्योपेतंमवध्यं केनापि हिंसितुमशक्यम-कृणोः कुरु। तस्मै यजमानाय पूर्वीर्विशो वृद्ध्या वितत्यमानाः प्रजाः समनमन्स सम्यङ्‍नता एतदधीना भवन्तु। अयं यजमान उग्रस्तीव्‍रशक्तिः सन्केनाप्यपरिभूतो विहव्यो विविधयागयोग्यो यथाऽसद्याथा भवति तथा कुरु।
कल्पः—“यद्येनमुदकेऽभिविन्देदुदकाञ्जलिमादाय समुद्राय वयुनायेत्यप्सु जुहुयादिति अयज्ञसंयुक्तः कलाः” इति। पाठस्तु—
समुद्रायेति। यो विश्वकर्मा समुद्ररूपेणातीर्णस्तस्मै समुद्राय नमोऽस्तु। कीदृशाय, वयुनाय कान्ताय सिन्धूनां पतये स्यस्दमानानां भर्त्रे। समुद्राकारेण भर्ता विश्वकर्माकारेण सर्वासां नदीनां पितोत्पादकः। तादृशाय विश्वकर्मणे हे ऋत्विग्य-जमाना विश्वाऽहा सर्वाण्यहानि निरन्तरामित्यर्थः। अमर्त्यमविनश्वरं हवि

[[2168]]

र्जुहुत। अग्निस्तिग्मनेति मन्त्रद्वयेन ‘य इमा विश्वा’ इति सूक्तद्वयेन च साध्यं होमं विधातुं प्रस्तौति–
“इन्द्रो वृत्रमहन्तं वृत्रो हतः षोडशाभिभोगेरसिनात्स एतामग्नयेऽनीकवत आहुतिमपश्यत्तामजुहोत्तस्याग्‍निरनीकवान्त्स्येन भागधेयेन प्रतिः षोडशधा वृत्रस्य भोगानप्यदहद्वैश्वकर्मणेन पाप्ममो निरमुच्यत” (सं. का. ५ प्र. ४ अ. ५) इति।
इन्द्रो यदा वृत्रं वज्‍रेण प्रहृतवांस्तदा वज्रमहृतः स वृत्र आसुरमायया सहसा षोडश सर्पाकाराणि शरीराणि स्वी चकार। स्वीकृत्य च भोगशब्दाभिधेयैस्तैः सर्पाकारशरीरैस्तमिन्द्रं हस्तपाद्यवयवेषु बहुधाऽसिनाव्दभक्ष, तदानी मिन्द्रः प्रतीकार विचार्यानीकेन सन्येन युक्तायाग्‍नय एतामग्निस्तिग्मेनेति मन्त्रद्वयेन साध्यामाहुतिं दृष्ट्‍वा हुतवान्। ततः सोऽग्निरनीकवांस्तृप्‍तो वृत्रस्य षोडश सर्वाकाराणि शरीरा-ण्यदहत्। तत ऊर्ध्वामिन्द्रो य इमा विश्वेति सूक्तद्वयसाध्येन वैश्वकर्मणहोमेन वृत्र-वधजन्यात्पाप्मनो निर्मुक्तः। इदानीं तदुभयं विधत्ते–
“यदग्नयेऽनीकवत आहुतिं जुहोत्यग्निरेवास्यानीकवान्त्स्वेन भागधेयेन प्रतिः पाप्यानमपि दहति वैश्वकर्मणेन पाप्मनो निर्मुच्यते” [सं. का. ५ प्र. ४ अ. ५] इति।
रोगादिरूपदृष्टबाधहेतोः पापस्यानीकवत आहुत्या दाहः। षारलौकिकान्न-रकहेतोः पापाद्वैश्वकर्मणहोमेन निर्मोकः।
तत्रेदं चिन्त्यते-किमयं वैश्वकर्मणहोमः प्रतिमन्त्रं पृथक्‍कार्यः, किंवा सूक्तद्वयं सहोच्चार्य सकृदनुष्ठेयः, आहोस्विदेकैकं सूक्तमुच्चार्यानुष्टेय इति। तत्राऽऽद्यं पक्षद्वयं शाखान्तरगतत्वेनाङ्गी करोति—
“यं कामयेत चिरं प्राप्मनो निर्मुच्येतेत्येकैकं तस्य जुहुयाच्‍चिरमेव पाप्मनो निर्मुच्यते यं कामयेत ताजक्पाप्मनो निर्मुच्येतेति सर्वाणि तस्यानुद्रुत्य जहु-यात्ताजगेव पाप्मनो निर्मुच्यतेऽथो खलु नानैव सूक्ताभ्यां जुहोति नानैव सूक्तयोर्वीर्यं दधात्यथो प्रतिष्ठित्यै” [सं. का. ५ प्र. ४ अ. ५] इति।

[[2169]]

एकैकमन्त्रहोमेन शनैः शनैः पापनिर्मोको भवति। सर्वसूक्तहोमेन तु तदानीमेव पापनिर्मोकः। पृथक्सूक्तद्वयेऽपि सामर्थ्यं पृथक्संपादितं भवति। अपि च सूक्तद्वित्वं यजमानस्य त्रतिष्ठायै संपद्यते। तस्मादयमेव पक्षः श्रेयानित्यर्थः। अत्र विनियोगसंग्रहः—
य इमा चक्षुषो द्वाभ्यां सूक्ताभ्यामाहुतिद्वयम्।
समुद्रेति जले होमो मन्त्राः सप्‍तदशेरिताः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके
द्वितीयोऽनुवाकः ।। २।।