(तत्रप्रथमोऽनुवाकः)।
ह॒रिः ॐ ।
अश्म॒न्नूर्जं॒ पर्वते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒
वरु॑णस्य॑ शुष्मे॑ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒-
स्पति॒भ्योऽधि॒ संभृ॑तां॒ तां न॒ इष॒मू॑र्जं धत्त
मरुतः सँ र॒र णाः। अश्मँ॑स्त॒ क्षुद॒मुं ते॒
शु॑गृच्छतु॒ यं द्वि॒ष्मः। स॒मुद्रस्य॑ त्वा॒ऽवाक॒-
याऽग्ने॒ परि॑ व्ययामसि। पाव॒को अ॒स्मभ्यँ॑
शि॒वो म॑व। हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑
व्ययामसि। पा॒व॒को अ॒स्मभ्यँ॑ शि॒वो भ॑वा
[[2148]]
उप॑ [ १ ] ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा।
अग्ने॑ पि॒त्तम॒पाम॑सि। मण्डू॑कि॒ ताभि॒रा ग॑हि॒
सेमं नो॑ य॒ज्ञम्। पा॒व॒कव॑र्णँ शि॒वं कृ॑धि।
पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च
उ॒षसो॒ न भा॒नुना॑। तूर्ब॒न्न याम॒न्नेत॑शस्य॒
नृ रण॒ आ यो घृ॒णे। न त॑तृषा॒णो अ॒जरः॑।
अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑।
आ दे॒वान् [ २ ] व॒क्षि॒ यक्षि॑ च। स नः॑
पावक दीदि॒वोऽग्ने॑ दे॒वाँ इ॒हाऽऽ व॑ह। उप॑
य॒ज्ञ ह॒विश्च॑ नः। अ॒पामि॒दं न्ययनँ॑ समु॒
द्रस्य॑ नि॒वेश॑नम्। अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु
हे॒तयः॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व। न
म॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑।
अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्म-
भ्यँ॑ शि॒वो भ॑व। नृ॒षेदे॒ वट [ ३ ] अ॒प्सु॒
षदे वड्व॑न॒सदे वड्ब॑र्हि॒षदे॒ वट्सु॑व॒र्विदे॒ वट्।
ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाँ संव-
त्स॒रीण॒मुप॑ भा॒गमास॑ते। अ॒हु॒तादो॑ ह॒विषो॑
य॒ज्ञ अ॒स्मिन्त्स्व॒यं जु॑हुध्वं॒ मधु॑नो घृ॒तस्य॑।
ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्ये ब्रह्म॑णः पुर-
ए॒तारो॑ अ॒स्य। येभ्यो॒ तर्ते पव॑ते॒ धाम॒ किं
च॒न न ते दि॒वो न पृथि॒व्या अधि॒ स्नुषु॑।
[[2149]]
प्रा॒ण॒दाः [ ४ ] अ॒पा॒न॒दा॒ व्या॑नदाश्च॑क्षु॒र्दा
व॑र्चो॒दा व॑रिवो॒दाः। अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु
हे॒तयः॑ पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॑व। अ॒-
ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यँस॒द्विश्वं॒ न्य॑त्रिण॑-
म्। अ॒ग्निर्नो॑ वँसते र॒यिम्। सैषाऽनी॑-
केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जि-
ष्ठः स्व॒स्ति। अद॑ब्दो गो॒पा उ॒त नः॑ पर॒स्पा
अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ( ५ ) ।।
(उप॑ दे॒वान्वट्प्रा॑ण॒दाश्चतुश्चत्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
षष्टप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
[अथ चतुर्थकाण्डे षष्ठः प्रपाठकः]।
[तत्र प्रथमोऽनुवाकः] ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
प्रपाठके पञ्चमे हि चितिसंपूर्त्यनन्तरम्।
वर्णितो रुद्रहोमोऽथ षष्ठे वाच्याऽग्निसंस्कृतिः।।
परिषेचनमारभ्य संस्कारा ये चिकीर्षिताः।
ते पञ्चस्वनुवाकेषु प्रोक्ताः शेषोऽश्वमेधगः।।
तत्र प्रथमानुवाके परिषेचनविकर्षणादयोऽभिधीयन्ते।
कल्पः—‘उदकुम्भमादायाध्वर्युरश्मन्नूर्जमिति त्रिः प्रदक्षिणमग्निं परिषिञ्च-न्पर्येति” इति। पाठस्तु—
[[2150]]
अश्यन्नूर्जमिति। हे मरुतः संरराणाः सम्यग्दानशीला यूयमग्न्यादिगतामूर्जं बलहेतुमिषमन्नं नोऽस्मभ्यं धत्त संपादयत। कीदृशमिषम्, अश्मन्पाषाणे पर्वते मेरुवि-न्ध्यहिमवदादौ वात प्रचण्डवायौ पर्जन्ये वर्षणक्षमे प्रौढे मेघे वरुणस्य शुष्मे वरुण-संवन्धिनि बले च शिश्रियाणामाश्रितामूर्जं सारभूतां, तथाऽद्भ्यो जलेभ्य ओषधीम्यो व्रीहियवादिम्यो वनस्पतिम्य उदुम्बरादिम्यः सकाशादधिसंभृतामधिकत्वेन सम्यक्संपा-दिताम्। यदन्नमश्मादिष्वाश्रित्य सारत्वेनावतिष्ठते, यच्च जलादिम्यः संपाद्यते, यदप्य-स्माकं बलहेतुस्तथाविधमन्नं प्रयच्छ। तमेतं मन्त्रं विनियुङ्क्ते—
अश्मन्नूर्जमिति परि षिञ्चति मार्जयन्तेवैनमथो तर्पयत्येव स एनं तृप्तोऽक्षु-ध्यन्नशोचन्नमुष्मिलोँक उप तिष्ठते” (सं. का. ५ प्र. ४ अ. ४) इति।
एनमग्निं मार्जयति शुद्धं करोति। अपि च तर्पयति। स तृप्तोऽग्निः स्वर्गलोके क्षुत्पीडारहितः संतापरहितः सन्नेनं यजमानं सेवते। एतद्वेदनं प्रशंयति—
“तृप्यति प्रजया पशुभिर्य एवं वेद” (सं. का. ५ प्र. ४ अ. ४)
मन्त्रस्य चतुर्थपाद ऊर्जं मरुत इति पदद्वयस्य तात्पर्यं प्रदर्शयति—
“तां न इषमूर्णं धत्त मरुतः सँरराणा इत्याहान्नं वा उर्गन्नं मरुतोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ४) इति।
ऊर्ग्बलहेतुरन्नमेव, मरुतोऽप्यन्नसंपादकत्वादन्नम्। अत उभयोः पठनादन्नं प्राप्नोति। कल्पः—“अश्मँस्ते क्षुदुमं ते शुगृच्छत्विति त्रिरपरिषिञ्चन्प्रति पर्येति” इति। पाठस्तु—
अश्मँस्ते क्षुदमुमिति। हेऽश्मन्निष्टकामिर्दृढं निष्पादितत्वात्पाषाणसदृशाग्ने यत्ते क्षुत्त्वदीया क्षुत्पीडा या च ते शुक्त्वदीयः संतापस्तदुभयमपि यं वैरिणं द्विष्मः अमुं द्वेष्यमृच्छतु प्राप्नोति। अस्य मन्त्रस्य तात्पर्यं दर्शयति—
“अश्मँस्ते क्षुदनुं ते शुगृच्छतु यं द्विष्म इत्याह यमेव द्वेष्टि तमस्या क्षुधा च शुचा चार्पयति” [सं. का. ५ प्र. ४ अ. ४] इति।
[[2151]]
परिषेचनकाले प्रदक्षिणावृत्तिं विधत्ते—
“त्रिः परिषिञ्चन्पर्येति त्रिवृद्वा अग्निर्यावानेवाग्निस्तस्य शुचँ शमयति” [सं. का. ५ प्र. ४ अ. ४] इति।
अग्नेराहवनीयादिरूपेण त्रिगुणत्वम्। परिषेचनरहिताम् * प्रदक्षिणावृतिं विधत्ते–
“त्रिः पुनः पर्येति षट्सं पद्यन्ते षडवा ऋतव ऋतुभिरेवास्य शुचँ शम-यति” [सं. का. ५ प्र. ४ अ. ४] इति।
पूर्वेण प्रदक्षिणत्रयेण सह षट्संख्यासंपत्तिः।
कल्पः—“अवकां वेतसशाखां मण्डूकं च दीर्घवंशे प्रवघ्य समुद्रस्य त्वाऽवाकयेति सप्तभिरष्टभिर्वाऽग्निं विकर्षति” इति। तत्र प्रथमामाह—
समुद्रस्य त्वेति। अवका शैवालम्। हेऽग्ने त्वां समुद्रस्यावाकया समुद्र-संबन्धिना शैवालेना परिव्ययामसि परितः संवृणोमि। उपरिभागे सर्वत्र विकर्षा-मीत्यर्थः। त्वं च स्मभ्यमस्तदर्थं पावकः शोधकः शिवः शान्तश्च भव। अथ द्वीतीवामाह—
हिमस्य त्वेति। हेऽग्ने त्वां हिमस्य शैत्यस्य जरायुणा जरायुवदुत्पत्ति स्थानीयेन शैवालेन। शेषं पूर्ववत्। अथ तृतीयामाह—
उप ज्मन्नुपेति। हेऽग्ने ज्मा पृथिवी तस्यामुपगतो वर्तसे। तथा वेतसे वञ्जुलक उपगतो वर्तसे। तथा नदीष्वा नदीणलेष्वपि अवत्तरमतिशयेन रक्षकत्वे यथा भवति तथोपोगतो वर्तसे। तथा त्वमपां पित्तमसि तेजोऽसि।
अथ चतुर्थीमाह—
भण्डृकि ताभिरिति। हे मण्ढुकि मण्डूकजातीये ताभिः समनश्वर्रोक्ता-भिर्ऋग्मिः सहाऽऽगह्यागच्छ। सा त्वमिमनुष्ठीयमानं नो॑ऽमदीयं यज्ञं पावक वर्णमग्निसमानते॑जस्कं शिवं फलप्रदत्वेत शान्त कृधि कुरु। अथ पञ्चमीमाह—
पावक आ इति। हे मण्डूकि पावके स्मिन्नग्नौ विषयभूते सति चिन्त-
- ख. पुस्तकटिप्पणिकायां ‘परिषेचनराहितां प्रदक्षिणावृत्तिमिति पाठो भवितुं युक्त’ इति।
[[2152]]
यन्त्या चिन्वानया कृपा कृपया सामर्थ्येन युक्ता सत्या इहाऽऽहगच्छ। त्वय्यागतयां सत्यामयमग्निः सामन्क्षाम्नि पृथिव्यां रुरुचे दीप्तवान्। तत्र दृष्मान्तः—उषसो न भानुना। उषःकालसंबन्धिना प्रकाशेन यथा पदार्था दीप्यन्ते तद्वत्।
अथ षष्ठीमाह—
तूर्वन्न यामन्निति। योऽग्निरेतशस्य गमनकुशलस्याश्वस्य यामिन्नियामके रणे युद्धे तूर्वन्न परबलानि हिंसन्निवाऽऽघृणे नु सर्वतो दीप्यते खलु सोऽग्निरजरो जरारहितस्ततृषाणो न तृष्णायुक्तो न भवति। यथा लोके शीघ्रगमनस्वभावमश्वं वामहस्तगतेन खलीनेन दृढं नियम्य रणे प्रवर्तमानः पुरुषः परबलानि हिंसन्न त्वरत एवमयमग्निः प्रज्वलति न कदाचिज्जीर्यति, नाप्यसौ तृष्णायुक्तः किंतु तृप्त इत्यर्थः। अथ सप्तमीमाह—
अग्ने पावकेति। हे पावक शोधक देव द्योतनात्मकाग्ने रोचिषा दीप्ति-मत्या मन्द्रया श्लक्ष्णया जिह्वया वाचा देवागावक्षि आवह यक्षि यज।
अथाष्ठमीमाह
स न पावकेति। हे पावक शोधक दीदिवो दीप्यमानाग्ने नोऽस्मदर्थं देवानिह कर्मण्यावह, अस्माकमिमं यज्ञं हविश्चोपं देवसमीपे प्रापय। एतैरष्टभिर्मन्त्रैः साध्यं विकर्षणं विधत्ते—
“अपां वा एतत्पुष्यं यद्वेतसोऽषाँ शरोऽवका वेतसशाखया चादका-भिश्च वि कर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचँ शमयति” (सं. का. ५ प्र. ४ अ. ४) इति।
योऽयं वेतसः सोऽयमपां पुष्यस्थानीयोऽप्सु जायमानत्वात्। याश्चावका शैवालभिधास्ता अपां शरः सारं दघ्नो मण्डमिव। तस्मादेताभ्यामाग्निं विकर्षेत्, चितेरुपरि नानादिक्षु विविधमेतदुभयमाकर्षेदित्यर्थः। आषो दाहनिवारकत्वाच्छान्ताः अप्संभन्धिना द्रव्यद्वयेन विकर्षणे सति शान्ताभिर्ऋग्भिरेवास्याग्नेः शुचं शमयति।
पूर्वोक्तद्रव्यद्वयेन सह मष्डूकस्यापि विकर्षणसाधानत्वं विधत्ते—
[[2153]]
‘यो वा अग्निं चितं प्रथमः पशुरधिक्रामतीश्वरो वै तँ शुचा प्रदहो मण्डूकेन वि कर्षत्येव वै पशूनामनुपजीवनीयो न वा एष ग्राम्येषु पशुषु हितो नाऽऽरण्येषु तमेव शुचाऽर्पयति” (सं. का. ५ प्र. ४ अ. ४) इति।
गोमहिषाजादीनां मध्ये यः पशुरिममिष्टकाभिश्चितमग्निं प्रथममधिरुह्य दाहेनाऽऽकामति तं पशुं संतापेन प्रदग्धुमयमग्निः प्रभुर्भेवति। तस्मात्पश्वन्तरेण विकर्षणं न कुर्यात्किंतु मण्डूकेन कुर्यात्। मण्डूकश्च यागयोग्येषु ग्राभ्येष्वारप्येषु च पशुष्वनन्तर्भावाल्लोकेऽपि गोमहिषादिवदुपयोगादर्शनाच्च केनाप्युपजीव्यो न भवति। अतस्तेन विकर्षणे तमेव मण्डूकं संतापेन योजयति।
तस्मिन्विकर्षणे समुद्रस्य त्वेत्यादीन्मन्त्रान्विनियुङ्क्ते—
“अष्टाभिर्वि कर्षत्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तस्य शुच शमयति” (सं. का. ५ प्र. ४ अ. ४) इति।
सामान्यतो विहितान्मन्त्रान्विशेषते विधत्ते–
“पावकवतीभिरन्नं वै पावकोऽन्नेनैवास्य शुचँ शमयति” (सं. का. ५ प्र. ४ अ. ४) इति। पावको अस्मभ्यँ शिवो भवेत्येवं पावकशब्दो चास्वृक्षु वर्तते ताः पावकवत्य इत्यर्थः ताभिर्विकर्षतीत्यनुवर्तते। पावकस्याग्नेरन्नवचनहेतुत्वाद-न्नत्वम्।
कल्पः—“अपामिदं न्ययनं नमस्ते हरसे शोचिष इति द्वाभ्यामग्निम-धिरोहति” इति। तत्र प्रथमामाह–
अपामिदमिति। इदं चित्याग्निस्थानमपां न्ययनं नियमेन प्राप्तिस्थानं यागद्वाराऽप्यापः प्राप्यन्ते। अत एवापां बहुलत्वात्समुद्रस्य निवेशनं गृहस्थानियम्। तद्रूप हेऽग्ने ते त्वदीया हेतयोऽस्मतोऽन्यं विरोधिनं पुरुषं तपन्तु क्लेशयन्तु। अस्मभ्यमस्मदर्थं पावकः शुद्धः शिवः शान्तश्च भव। अथ द्वितीयमाह–
नमस्ते हरस इति। हेऽग्ने ते तव हरसे रसानां हन्त्रे शोचिषे शोषणहेतवे तेजसे नमोऽस्तु। किंच, ते तवार्चिषे पदार्थान्पकाशयित्रे तेजसे नमोऽस्तु। अन्यमि-त्यादि पूर्ववत्। एतन्मन्त्रसाध्यादधिरोहणात्पूर्वमुपानत्प्रतिमोचनं विधत्ते–
[[2154]]
“मृत्युर्वा एत्र यदग्रिर्ब्रह्मण एतद्रूपं यत्कृष्णाजिनं कार्ष्णी उपानहावुप मुञ्चते ब्रह्मणैव मृत्योरन्तर्धत्ते” [सं. का. ५ प्र. ४ अ. ४] इति।
अग्नेर्दाहकत्वान्मृत्युत्वं प्रसिद्धं, कृष्णाजिनं तु ब्रह्मणो वेदस्य रूपम्। अत एव दीक्षाप्रकरणे समाम्नायते—“ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यतिष्ठताम्” इति। कृष्णाजिननिर्मिते उपानहो कार्ष्णी, तयोः प्रतिमोके सति वेदेनैव मृत्युरन्तर्हितो भवति।
उपानद्द्वयस्य प्रतिमोकाप्रतिमोकयोर्दोषसद्भावादेकस्य एव प्रतिमोकं विधत्ते। “अन्तर्मुत्योर्धत्तेऽन्तरन्नाद्यादित्याहुरन्यामुपमुञ्चेतऽन्यां नान्तरेव मृत्योर्ध-त्तेऽवान्नाद्यँ रुन्धे” (सं. का. ५ प्र. ४ अ. ४) इति।
उभयोरप्यप्रतिमोकतया मृत्युवाधः। प्रतिमोकेन मृत्योरन्तर्धानं मृत्यु-रुपशम्यप्ति। अस्ति त्वन्यो दोषः यथा मृत्योरन्तर्धानमेवमन्नाद्यादप्यन्तर्हितो भवती-त्येवमभिज्ञा आहुः। अतस्तत्परिहारायैकामुपानहमुपमुञ्चत इतरां नोपमुञ्चेत्। तथा सत्युपमोकादूर्ध्वं यञ्चितेरधिरोहणं तदङ्गभूते द्वितीयेऽस्मिन्मन्त्रे प्रथमार्धस्य उदानदुप-मोकादूर्ध्वं यच्चितेरधिरेहणुं तदङ्गभूते द्वितीयेऽस्मिन्मन्त्रे प्रथमार्धत्य तात्पर्यं दर्शयति– “नमस्ते हरसे शोचिव इत्याह नमस्कृत्य हि वरीयाँसमुपच न्ति” (सं. का. ५ प्र. ४ अ. ४) इति।
लोके हि योऽतिशयेन वसुमान्भवति तं भृत्या आदौ नमस्कृत्य पचादु-पचरन्ति। ततोऽग्नेरप्यत्र नमस्कारो युक्तः। तृतीयपादस्य तात्पर्यं दर्शयति।
“अन्नं ते अस्मत्तपन्तु हेतय इत्याह यमेव द्वेष्ठि तमस्य शुचाऽर्पयति” (सं. का. ५ प्र. ४ अ. ४) इति।
तं द्वेष्यमस्याग्नेः संतापेन योजयति। चतुर्थपादस्य तात्पर्यं दर्शयति—
“पावको अस्मभ्यँ शिवो भवेत्याहान्नं वै पावकोऽन्नमेवाव रुन्धे” (सं. का. ५ प्र. ४ अ. ४) इति।
अपामिदं न्ययनमित्यादिमन्त्रसंख्याविशिष्टमधिरोहणं विधत्ते–
“द्वाभ्यामधि क्रमाति प्रतिष्ठित्यै” (सं. का. ५ प्र. ४ अ. ४) इति।
[[2155]]
सामान्येन विनियुक्तौ मन्त्रौ पुनर्विशेषाकारेण विनियुङ्क्ते–
“अपस्यवतीभ्याँ शान्त्ये” (सं. का. ५ प्र. ४ अ. ४) इति।
अपामिदमित्येवमपूशब्दो ययोर्ऋचोस्ते अपस्यवत्यौ। ताभ्यामधिरोहणे सत्यग्नितापस्य शान्तिर्भवति। कल्पः– “नृषदे वडिति पञ्चभिरुत्तरवेदिवदाग्निं स्वय-मातृण्णां वा व्प्राधार्य” इति। पाठस्तु—
नुषदे वडिति। नृषु मनुष्येषु जाठराग्निरूपेण सीदतीति नृषत्, तस्मै वड्डविर्दत्तम्। वाडवरूपेणाप्सु सीदतीत्यप्सुवत्। दावाग्निरूपेण वने सीदतीति वनसत्। आहवनीयादिरूपेण वर्हिषि यज्ञे सीदतीति बर्हिषत्। आदित्यरूपेण स्वर्गं बिन्दते लभत इति सुवर्वित्। एतान्मन्त्रान्विनियुङ्ङ्क्ते—
“नृषदे वडिति व्याधारयति पङ्क्त्याऽऽहुत्या यज्ञमुखमारभते” [सं. का. ५ प्र. ४ अ. ४] इति।
पञ्चसंख्योपेतयाऽऽहुत्वा यज्ञे मुख्यमङ्गमुपक्रान्तवान्भवति।
अथ दक्षिणमंसमुत्तरां श्रौणिमित्यादिकं वक्रत्वं विधत्ते—
“अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै” [सं. का. ५ प्र. ४ अ. ६] इति।
मन्त्रगतं वट्शब्दं प्रशंसति—
“यद्वषट्कुर्याद्यातयामाऽस्य वषट्कारः स्याद्यान्न वषट्कुर्याद्रक्षाँसि यज्ञँ हन्युर्वडित्याह परोक्षमेव वषट्करोति नास्य यातयामा वषट्कारो भवति न यज्ञँरक्षाँसि घ्नन्ति” (सं. का. ५ प्र. ४ अ. ५) इति।
एतच्च वाक्यं सं ते वायुर्मातरिश्वा दधात्वितिमन्त्रे तस्मै च देवि वषडस्तु तुभ्यमित्यस्य पदस्य व्याख्यानरूपत्वं ब्राह्ममेनादाहृत्य सम्यग्षिवृतम्।
कल्पः—“ये देवा देवानामिति द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भ-ग्रुमष्टिनाऽग्निं व्यवोक्षति” तत्र प्रथमामाह—
ये देवा देवानामिति। द्विविधा देवाः- हविर्भुज इन्द्रवरुणादयः। शरीर-निर्वाहकाः प्राणात्मकाः प्राणापानादयश्च। दीध्वन्तीति व्युत्पत्तिरुभयत्रापि संभ-
[[2156]]
वति। उभयेऽप्येते यज्ञियाः। तत्रेन्द्रादयो देवा यज्ञेन पूज्यत्वाद्यज्ञियाः। प्राणादायस्तु यज्ञेन पूजकत्वाद्यज्ञियाः। एवं सति यज्ञियानामिन्द्रादीनां देवानां संबन्धिनः प्राणरूपा ये यज्ञियानां(स्ते) संवत्सरेणं संवत्सरेण साध्यं चित्याग्निभागं भजनीयगुपासते सेवन्ते प्राणाद्या अहुतादः। हुतं स्वाहाकारणे समर्पितमदन्तीति हुताद इन्द्रादयस्तद्विपरित-त्वात्प्राणा अहुतादः। तथाविधा हे प्राणा अस्मिन्यज्ञे हविषोऽस्माभिर्हूयमानस्य मधुनो मधुरस्य(घृतस्य) भागं स्वयं जुहुध्वं मदीयेन स्वाहाकारसमर्पणेन विना स्वयमेव स्वी कुरुत। अथ द्वितीयामाह—
ये देवा देवेष्विति। ये प्राणा देवेष्विन्द्रादिष्वप्यति अधिष्ठातृत्वेन देवत्व-मायन्प्राप्ताः प्राणैरधिष्ठिता एवेन्द्रादिविग्रहा व्यवहारन्तीत्यर्थः। किंच ये प्राणा अस्य ब्रह्मणश्चयिमानस्याग्नेः परिवृढस्य पुरएतारः पुरतो गन्तारो निर्वाहका इत्यर्थः। न खलु प्राणैर्विना चीयमानोऽग्निर्वौढुं शक्यते। किंच येभ्य ऋते यान्विना किंचन धाम विशां न पवते न शुद्धं भवति ते प्राणरूपा देवा दिवो न दिव्यपि न तिष्ठन्ति, पृथि-व्यां न भूमावपि न तिष्ठन्ति, किं तर्हि स्नुषु पर्वतसानुसदृशेषु शरीरगतचक्षुरादिगोल-केष्वाश्रित्य वर्तन्ते।
एतन्मन्त्रद्वयं विनियुङ्क्ते—
“हुतादो वा अन्ये देवा अहुतादोऽन्ये तानग्निचिदेबोभयान्प्रीणाति ये देवा देवानामिति दघ्ना मधुमिश्रेणावोक्षति हुतादश्चैव देवानहुतादश्च यजमानः प्रीणा-ति तं यजमानं प्रीणन्ति दध्नैव हुतादः प्रीणाति मधुषाऽहुतादो ग्राम्यं वा एतदन्न यद्दध्यारण्यं मधु यद्दघ्ना मधुमिश्रेणावोक्षत्युभ स्यावरुद्ध्यै” [सं. का. ५ प्र. ४ अ. ५] इति।
हुताद इन्द्रादयोऽहुतादः प्राणाः। तानुभयानपि देवानयमग्निवित्प्रीण-यितुमर्हति। अतो मधुमिश्रेण दध्नाऽवोक्षणं कुर्यात्। तेन चोभये प्रीताः सन्तो यज-मानमपि प्रीणयन्ति। तत्रापीन्द्राद्रीनां दघ्ना प्रीतिः, प्राणानां मधुना प्रीतिः। किंच, दघ्नो ग्राम्यत्वान्मधुनश्चाऽऽरण्यत्वादुभाभ्यामवोक्षणे सत्युभयमपि संपादितं भवति। अवोक्षमसाघनं प्रौढदर्भमुष्ठिं विधत्ते–
[[2157]]
“ग्रुमुष्टिनाऽवोक्षति प्राजापत्यो वै ग्रुमुष्टिः सयोनित्वाय” (सं. का. ५ प्र. ४ अ. ५) इति।
गुरुः स्थूलो दर्भमुष्टिर्ग्रुमृष्टिः । तस्य प्रजापतिवत्प्रौढत्वात्प्राजापत्यत्वम्। अतस्तेनावोक्षणं सयोनित्वाय भवति। अग्निरपि प्रजापतिनोत्पादितत्वाप्राजापत्यः। तेन समानयोनित्वम्। मन्त्रद्वित्वं प्रशंसति–
“द्वाभ्यां प्रतिष्ठित्यै” (सं. का. ५ प्र. ४ अ. ५) इति।
अवोक्षणकाले परितो भ्रमणं विधत्ते–
“अनुपरिचारमवोक्षत्यपरिवर्गमेवैनान्प्रीणाति” [सं. का. ५ प्र. ४ अ. ५] इति।
अनुपरिचारमनुक्रमेण परितश्चरित्वा परिवर्गमेवाग्न्यवयवेषु कस्यापि वर्जनमकृत्वेवैनामग्न्यवयवान्प्रीणाति।
कल्पः—“प्राणदा अपानदा इति प्रत्पवरोह्य” इति। पाठस्तु—
प्राणदा अपानदा इति। यजमानाय प्राणं ददातीति प्राणदाः। प्राणं सुस्थिरं करोतीत्यर्थः। एवमुत्तरत्रापि। वर्चो बलं, वरिवः प्र(पू) जा। अन्यमित्यादि पूर्ववत्।
प्राणादिदानप्रशक्तिपूर्वकं मन्त्रं व्याचष्टे–
“वि वा एष प्राणैः प्रजया पशुभिर्ऋघ्यते योऽग्निं चिन्वन्नधिक्रामति प्राणदा अपानदा इत्याह प्राणानेवाऽऽत्मन्धत्ते वर्चोदा वरिवोदा इत्याह प्रजा वै वर्चः पशवो वरिवः प्रजामेव पशूनात्मन्धत्ते” (सं. का. ५ प्र. ४ अ. ५) इति।
यो यजगानोऽग्निचयनकालेऽग्निमधिरोहत्येष प्राणादिभिर्वियुज्यते। अतः प्राणादिदानं प्रार्थनीयमिति मन्त्रः प्रवर्तते। तत्र पूर्वभागेन (ण) प्राणादीन्स्वा-त्मनि सुस्थितान्करोति उत्तरभागेन (ण) बलवाचिना वर्चःशब्देन पुत्रपौत्रादिरूपाः प्रजा उपलक्षिताः। तासु हि सतीषु व्यवहर्तुं प्रवलत्वात्। पूजावाचिना बरिवःशब्देन पशव उपलक्षिताः। तेषु सत्सु क्षीरादिसंपत्त्या पूज्यो भवति।
कल्पः—“अग्निस्तिग्मेनेति द्वाभ्यामग्नयेऽनीकवत एकामाहुतिं हुत्वा” इति।
[[2158]]
तत्र प्रथमामाह—
अग्निस्तिग्मेनेति। अयं चीयमानोऽग्निस्तिग्मेन शोचिषा तीक्ष्णया ज्वा-लयाऽत्त्रिणं राक्षसादिं विश्वं सर्व विरोधिनं नियंसन्नियमयतु। विनाशयीत्वत्यर्थः। अत्त्रमदनशीलं बाधकमनिष्टं तदस्यास्तीत्यत्त्री तं विनाशयतु। किंचायमग्निर्नोऽ-स्मदर्थं रयिं धनं वंसते वंसितुं संभाजयितुमिच्छतु। अथ द्वितीयामाह—
सैनाऽनीकेनेति। हेऽग्ने स त्वं द्युमद्दप्यिमानमुतापि च रेवद्वहुधनयुक्तं गृहक्षेत्रादिकं दिदीहि प्रकाशय। कीदृशस्त्वम्, एनाऽनीकेन सुविदत्रोऽनेन ज्वाला-समूहेन सुष्टु वेदिता, अस्मे देवान्यष्टाऽस्मदर्थं देवानुद्दिश्य यागनिष्पादकः, स्वस्ति विघ्नराहित्यं यथा भवति तथाऽऽयजिष्ठोऽतिशयेन कृत्स्नयागसमाप्तिकारी, अदब्धः केनाप्यहिंसितः, गोपा मन्त्रस्य गोप्ता, उतापि च नोऽस्माकं परस्पा अतिशयेन पाल-यिता । अत्र विनियोगसंग्रहः—
पष्ठे पञ्चानुवाकाः स्युरग्निशेषस्ततः परे।
चत्वारो ह्यश्वमेधार्था अश्मेति परिषिञ्चति।।
अश्मंस्ते प्रतिपर्येति समुद्रेत्यग्निमष्टभिः।
विकर्षेदित्यपां द्वाभ्यामारोहति चितिं नृषत्।।
व्याघारः पञ्चभिर्ये दे द्वाभ्यामग्निमवोक्षति।
प्राणदा अवरुह्यान्निस्तिग्मेनेत्याहुतिद्वयम्।।
प्रथमे त्वनुवाकेऽस्मिन्मन्त्रा द्वाविंशतिरीरि(तिः स्थि)ताः।।
अथ मीमांसा।
नवमाध्यायस्य प्रथमपादे चिन्तितम्—
विकर्षप्रोक्षणे कार्ये प्रतीष्टकमुतैकधा।
आद्योऽवयव्यसत्त्वेन मवं भूदेशसत्त्वुतः।।
“इष्टकाभिरग्निं चिनुते” इति श्रूयते । तत्रेदमान्नायते—“मण्डूकेनाग्निं विकर्षति। वेतसशाखाया चावकाभिश्चाग्निं विकर्षति। हिरण्यशकलसहस्रेणाग्निं प्रोक्षति” इति। शाखाग्रे मण्ढूकं बद्ध्वा तेन विकर्षतीत्यर्थः। ते च विकर्षणप्रोक्षणे प्रतीष्टकं कर्तव्ये। कुतः। चिताभ्य इष्टकाभ्यः पृथमग्निशब्दार्थस्य
[[2159]]
कस्यचिदवयविद्रव्यस्याभावादिति चेन्मैवम्। उपहिताभिरिष्टकाभिः संयुक्तस्य प्रदेशस्यावयविद्रव्यत्वात्। तस्य चाग्न्माघारत्वेनाग्निशब्दार्थत्वम्। तस्मादग्नेरे कत्वात्सकृदेव विकर्षणप्रोक्षणे कुर्यात्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतीत्तरीयसंहिताभाष्ये चतुर्थकाण्डे षष्ठप्रपाठके
प्रथमोऽनुवाकः ।। १।।