(अथ चतुर्थकाण्डे पञ्चमप्रपाठके एकादशोऽनुवाकः)।
स॒हस्रा॑णि सहस्त्रशो॒ ये रु॒द्रा अधि॒भूम्या॑म्।
तेषाँ॑ सहस्त्रयोज॒नेऽव॒ धन्वा॑नि तन्मसि।
अ॒स्मिन्म॑ह॒त्य॑र्ण॒वे॑ऽन्तरि॑क्षे भ॒वा अधि॑। नी-
ल॑द्दीवाः शिति॒कण्ठाः॑ श॒र्वा अ॒धः क्ष॑मा-
च॒राः। नील॑ग्रीवाः शिति॒कण्ठा॒ दिवँ॑
रु॒द्रा उप॑श्रिताः । ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नी
ल॑ग्रीवा॒ विलो॑हिताः। ये भू॒ताना॒मधि॑पतयो
वि॒शि॒खासः॑ कप॒र्दिनः॑। ये अन्ने॑षु वि॒वि
ध्य॑न्ति॒ पात्रे॑षु॒ पि॑बतो॒ जना॑न्। ये प॒थां प॑-
थि॒रक्ष॑य एलबृ॒दा य॒व्युधः॑। ये ती॒र्थानि॑
[१] प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑।
य ए॒ताव॑न्तश्च॒ भूयाँ॑सश्च॒ दिशो॑ रु॒द्रा
वि॑तस्थि॒रे। तेषाँ॑ सहस्रयोजनेऽव॒ धन्वा॑नि
तन्मसि। नमो रु॒द्रेभ्यो॒ ये पृ॑थिब्यां ये॑ऽन्त-
रि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ वातो॑ व॒र्षमिष॑व॒स्ते-
भ्यो॒ दश॒ प्राची॒र्दश॑ दक्षि॒णा दश॑ प्र॒तीची-
र्दशोदी॑ची॒र्दशो॒र्ध्वास्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒
ते यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तं वो॒ जम्भे॑ दधामि
[२]।
(ती॒र्थानि॒ यश्च॒ षट् च॑)।
[[2140]]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके एकादशोऽनुवाकः ।। ११ ।।
नम॑स्ते॒ नमो॒ हिर॑ण्यबाहवे॒ नमः॒ सह॑मानाय॒ नम॑ आव्या॒धिनी॑भ्यो॒ नमो॑
भ॒वा॑य च॒ नमो॑ ज्ये॒ष्ठाय॑ च॒ नमो॑ दुन्दु॒भ्या॑य च॒ नमः॒ सोमाय॑ च॒
नम॑ इरि॒ण्या॑य च॒ द्राषे॑ स॒हस्त्रा॒ण्येका॑दश ।। ११ ।।
नम॑स्त॒ नमो॑ भ॒वाय॑ च॒ द्रापे॑ य॒प्रविँशतिः ।। ३७ ।।
हरि ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
पञ्चमः प्रपाठकः ।। ५ ।।
(अथ चतुर्थाष्टके पञ्चमप्रपाठके एकादशोऽनुवाकः)।
दशमेऽनुवाक ऋग्रूपाः केचिन्मन्त्रा उक्ताः । अथैकादशे शिष्ठा ऋचः शिष्ठानि यजूषि चोच्यन्ते।
तत्राऽऽदौ दशसंख्याका ऋचः। तासु प्रथमामाह–
सहस्राणीनि। भूम्यामधि भूमेरुपरि मे रुद्राः सहस्रशः सहस्रप्रकाराः सह-स्राणि सहस्रसंख्याकाः सन्ति। सहस्रश इति जात्युक्तिः। विनायकप्रथम (मथ) शैलादयो जातिभेदाः, ते सर्वेऽपि रुद्रविशेषाः। तत्राप्येकस्यां जातौ बहुभिः सहस्रैः संख्याता मूर्ति-विशेषाः। तेषां सर्वेषां धन्वानि धनूंषि सहस्रयो जनेऽस्मत्तः सहस्रयोजनव्यवहितदेशेऽ-वतन्मसि, अवततज्याकानि स्थापयामः।
अथ द्वितीयामाह—
अस्मिन्निति। अस्मिदृश्यमाने महत्यर्णये महासमुद्रसदृशे प्रौढेऽन्तरिक्षेऽ-धिश्रित्य वर्तमाना भवा रुद्रमूर्तिविशेषा ये सन्ति, तेषां सहस्रयोजन इत्याद्युक्ता-
[[2141]]
र्थमुत्तरार्थं द्वितीयादिषु नवप्रान्तास्वृक्ष, अनुषज्जते। तदनुषङ्गद्योतनायैव दशम्यामृचि पुनः पठितम्। अथ तृतीयामाह–
नीलग्रीवा इति। ग्रीवायामेकस्मिन्प्रदेशे नीलवर्णा नीलग्रीवाः प्रदेशान्तरे श्वेतवर्णाः शितिकण्ठाः। तादृशाः शर्वा रुद्रमूर्तिविशेषाः। कीदृशाः अधः क्षमाचरा भूमेरधस्तात्पातालेषु संचरन्ति। तेषामित्यादि पूर्ववत्। अथ चतुर्थीमाह—
नीलग्रीवा इति। दिवमुपश्रिताः स्वर्गे वर्तमानाः। अथ पञ्चमीमाह—
ये वृक्षेष्विति। यथा लोकेष्ववस्थिता रुद्रास्तथा वृक्षेष्ववस्थिताः। तेषु केचित्सास्पिञ्जराः शष्पवद्वालतृणवित्पिञ्जरवर्णाः। नीलग्रीवा नीलवर्णग्रीवाः। केचिद्ग्रीवादेशे नीलवर्णो-पेताः। अपरे पुनर्विलोहिता विशेषेण रक्तवर्णाः। ईदृशा ये सन्ति तेषामित्यादि। अथ षष्ठीमाह—
ये भूतानामिति। भूतशब्देनान्तर्हितशरीराः सन्तो मनुष्योपद्रवकारिणो गणविशेषा उच्यन्ते। तेषामधिपतयो ये रुद्रास्तेषु केचिद्विशिखासो युण्डिमूर्धानः। अपरे कपर्दिनो जटाबन्धोपेतास्तेषा मित्यादि। अथ सप्तमीमाद।
ये अन्नेष्विति। ये रुद्रा अन्नेषु भुज्यमानेषु गूढत्वेनावस्थिताः सन्तो जनान्विविघ्यन्ति विशेषेण धातुवैषम्यादिना बाधन्ते। तथा पात्रेषु पातव्येषु क्षीरोदकादिषु गूढत्वेनावस्थिताः पिबतो जनान्विविध्यन्ति, तेषुमित्यादि।
अथाष्ठमीमाह-ये पथामिति।
ये रुद्राः पथिरक्षयो लौकिकवैदिकमार्गाणां रक्षकाः। नात्र केषांचिदेव मार्गाणां किंतु सर्वेषां पथां ते च रक्षकाः। ऐलबृदा इराऽन्नं तस्य समूह ऐरम्। एरेमेवैलं तद्विभ्रतीत्यैलभृतः। ऐलभृत एवैलबृदा अन्नप्रदानेन पोषका इत्यर्थः। ते च यव्युधः, यौति मिश्री भवति विरोधं करोतीति यु, शत्रुः। युभिः शत्रुभिः सह युध्यन्तीति यव्युधः। अस्मदनिष्ठनिवारका इत्यर्थः। तेषामित्यादि । अथ नवमीमाह—
ये तीर्थानिति। ये रुद्रास्तीर्थानि काशीप्रयागत्दीनि रक्षितुं प्रचरन्ति।
[[2142]]
कीदृशा रुद्राः सृकावन्तः सृकाश्छुरिका हस्ते धार्यमाणास्तीक्ष्णाग्रा आयुधत्रिशेषा-स्तद्युक्ताः केचित्। अपरे निषङ्गिणः खड्गयुक्तास्तेषामित्यादि। अथ दशमीमाह—
य एतावभ्तश्चेति। ये रुद्रा एतावन्तश्च सहस्राणि सहस्रश दत्याद्यृग्भि र्यावन्त उक्तास्तावन्तोऽपि भूयांसश्चतोऽप्यधिका अन्ये बहवोऽपि दिशो वितस्थिरे सर्वा दिशः प्रविश्य स्थितास्तेषामित्यादि।
इत्थं द्वादशसंख्याका ऋच उक्ताः। अथ त्रीणि यर्जष्युच्यन्ते—
नमो रुद्रेभ्य इति। अत्र पृथिव्यादिलोकभेदादिषुभेदाच्च यचुस्त्रयं द्रष्टव्यम्। तदैवं पाठः संपद्यते-नमो रुद्रेभ्य इत्युपक्रम्य ये पृथिव्यां येषामन्नमिषव इत्याद्यो मन्त्रः। येऽन्तरिक्षे येषां वात इषव इति द्वितीयो मन्त्रः। ये दिवि येषां वर्षमिषव इति तृतीयो मन्त्रः । तेभ्यो दश प्राचीरित्यादि सर्वत्र समानम्। ये रुद्राः पृथिव्यां वर्तन्ते तेष्वपि रुद्रेषु येषां रुद्रविशेषाणामन्नमेवेषवो बाणाः, अपथ्यान्नभक्षणे प्रवर्त्य वाऽन्नर्थं चौर्यं कारयित्वा वा यान्हिंसन्ति तान्प्रति हिंसकानां रुद्राणावन्नमेवेषवस्तेभ्यः। पृथिव्यां स्थितेभ्योऽन्नबाण-केभ्यश्च रुद्रेभ्यो नमोऽस्तु। तथा ये रुद्रा अन्तरिक्षे वर्तन्ते तेषामपि मध्ये येषां वात इषवस्तीव्रेण वायुना रोगानुत्पाद्य हिंसन्ति तभ्योऽन्तरिक्षवर्तिभ्यो वातेषुभ्यश्च रुद्रेभ्यो नमोऽस्तु। तथा ये रुद्रा दिवि वर्तन्ते तेष्वपि येषां रुद्रविशेषाणां वर्षमेवेषवोऽतिवृष्ट्य-नावृष्टिभ्यां प्राणिनो हिंसन्ति तेभ्यो दिवि स्थितेभ्यो वर्षेषुभ्यो रुद्रेभ्यो नमोऽस्तु। कीदृशो नमस्कार इति स एव विशेष्यते-दश प्राचीः, प्राङ्मुखत्वेनाञ्चलिकरणे दशाङ्गुलयः प्रागग्रा भवन्ति एवं दक्षिणादिषूर्ध्वाभ्तेषु योज्यम्। ईदृशैरञ्जलिविशेषैस्तेभ्यो रुद्रेभ्यो नमोऽस्तु। ते च रुद्रा नोऽस्मान्मृडयन्तु सुखयन्तु। ते च वयं नगस्कृतरुद्राः सन्तो यं वैरिणं तूष्णीमवस्थितमपि द्विष्मः, यश्च वैरी नोऽस्मांस्तुष्णीमवस्थितानपि द्वेष्टि तमुभय-विधं वैरिणं हे रुद्रा वो युष्माकं जम्मे विदारितास्ये दधामि स्थापबामि।
तमिममेकादशानुवाकत्मकं रुद्राध्यायं विनियुङ्क्ते—
[[2143]]
“रुद्रो वा एष यदग्निः स एतार्हि जातो यर्हि सर्षश्चितः स यथा वत्सो जातः स्तनं प्रेप्सत्येवं वा एप एतर्हि भागधेयं प्रेप्सति तस्मै यदाहुतिं न जुहुया दध्वर्युं च यजमानं च ध्वायेच्छतरुद्रीयं जुहोति भागधेयेनैबैनँ शमयति नाऽऽर्तिमार्छत्पध्वर्युर्न यजमानः” (सं. का. ५ प्र. ४ अ. ३) इति।
यस्मिन्काले चीयमानोऽग्निरशेषचितिनिष्पादनेन सर्वश्चितो भवति, एतस्मि न्कालेऽयमग्निरुत्पन्नो भवति। सोऽयमुत्पन्नोऽग्निरेव रुद्र इत्युच्यते। देवः स्वकीयवामव-स्वदाने सति रोदनाद्वा प्राणिनां रोदनहेतुदुःखस्य द्गावणाद्वाऽग्निरेव रुद्रः। यथा लोके जातो वत्सस्तदानीमेव स्तनं प्राप्तुमिच्छति, एवमेवैष एत स्गिंश्चितिसंपूर्तिकाले समुत्पन्नो रुद्रनामकोऽग्निः स्वकीयं भागामिच्छति। तस्मा अग्नये कस्याश्चिदाहुतेरहोमेऽध्वर्युं यज-मानं च भक्षयितुं ध्यायेदाग्निः। अतस्तत्परिहाराय शतरुद्रीयं जुहुयात्। शतमित्यपरिमित-त्वं लक्ष्यते। अपरिमिता रुद्रा यस्मिन्नध्याये प्रतिपाद्यन्ते सोऽध्यायः शतरुद्रीयः। तेन होमे सति स्वकीयभागेन रुद्रस्य तुष्टत्वादध्वर्युयजमानौ न म्रियेते। अथ होमद्रव्यं विधत्ते—
“यद्ग्राम्याणां पशूनां पयसा जुहुयाद्ग्राम्यान्पशूञ्छुचाऽर्पयेद्यदारण्यानामार-ण्याञ्जर्तिलयवाग्वा वा जुहुयाद्रवीधुकयवाग्वा वा न ग्राम्यान्पशन्हिनस्ति नाऽऽरण्यान्” (सं. का. ५ प्र. ४ अ. ३) इति।
शुचाऽर्पयेत्संतापेन रोगेण योजयेत्। जर्तिला आरण्यतिलाः। गवीधृका आरण्यगोधूमाः। पक्षान्तरं विधत्ते–
“अथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेत्यजक्षीरेण जहोत्याग्नेयी वा एषा यदजाऽऽहुत्येव जुहोति न ग्राम्यान्पशून्हिनस्ति नाऽऽरण्यान्” (सं. का. ५ प्र. ४ अ. ३) इति।
अदनीयं यद्द्गव्यं तदैवाऽऽहुतियोग्यं, “यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः’ इति न्यायात्। जर्तिला गवीधुकाश्च मनुष्यैर्नाद्यन्ते, तस्मादाहुतियोग्या न भवन्तीत्याहुः पूर्वपक्षोपन्यासादूर्ध्वमाहुः। तस्मादुभयं परित्यज्या जाक्षीरेण जुहुयात्। अजाग्न्योरुभयोः प्रजापतिमुखजन्यत्वेन साजात्यादि-
- ख. पुस्तकटिप्पणिकायाम् ‘अजक्षीरेणेति पाठो भवितुं युक्तः’ इति वतँते।
[[2144]]
यमजाऽऽग्नेयी। अत आहुतियोग्येव। अतस्तत्क्षीरद्गव्येण जुहोति। ग्राम्यारण्यपयसोः स्वीकारात्तेऽपि पशवो न हिंस्यन्ते।
होमसाधनभूतां जुहूमपवदितुं साधनान्तरं विधत्ते—
“अङ्गिरसः सुवर्गं लोकं यन्तोऽजायां धर्मं प्रासिञ्चन्त्सा शोचन्ती पर्णं पराऽजिहीत सोऽर्कोऽभवत्तदर्कस्यार्कत्वमर्कपर्णेन जुहोति सयोनित्वाय” (सं. का. ५ प्र. ४ अ. ३) इति।
प्रवर्ग्यकाले महावीरे संतप्तं धृतं क्षीरसहितं धर्मस्तं धर्मं प्रयाणव्यग्रा अङ्गि-रसः प्रमादादजायां प्रकर्षेणासिञ्चन्। सा शोचन्ती साऽप्यजा तेनोष्णघृतेन तप्यमाना पर्णसदृशं स्वकीयं रोमसंघं भूमावपातयत्। स च रोमसंघातोऽर्कः प्रसिद्धार्करूपेण प्ररूढः। अर्चनीयेन पूज्येन प्रवर्ग्यघृतेन तथाविधेनाजारोमसंघातेन चात्पेन्नत्वादस्य स्थावरस्यार्कनाम संपन्नम्। तेनार्कपर्णेन होमे सति पर्णक्षीरयोरुभयोरप्यनन्यकार्यत्वा-त्समानयोनित्वं संपाद्यते। होमकाले कंचिद्विशेषं विधत्ते–
“उदङ्तिष्ठञ्जुहोत्येषा वै रुद्रस्य दिक्स्वायामेव दिशि रुद्रं निरवदयते चर-मायामिष्टकायां जुहोत्यन्तत एव रुद्रं निरवदयते” (सं. का. ५ प्र. ४ अ. ३) इति।
अन्त्यप्रदेशवर्तिनी चरमेष्टका। सा च सूत्रकारेण दर्शिता “उत्तरस्य पक्ष-स्योत्तरापरस्याँ स्रक्त्यां विकर्त्याँ स्वयमातृण्णायाम्” इति। अन्त्यदेशगतेन होमेन क्रूरीममं रुद्रमन्तत एव निःसारयति।
रुद्राध्याये होमसाधनं मन्त्रविभागं विधत्ते–
“त्रेधाविभक्तं जुहोति त्रय इमे लोका इमानेव लोकान्त्सामावद्वीर्यान्करोति” (सं. का. ५ प्र. ४ अ. ३) इति।
तत्र त्रेधाविभाग एवं करणीयः—नमस्ते रुद्रेत्यारभ्य सभापतिभ्यश्च वो नम इत्यन्ता प्रथमो भागः । नमो अश्वेभ्य इत्यारभ्यावार्याय चेत्यन्तो द्वितीयो भागः। नमः प्रतरणाय चेत्यारभ्य य एतावन्तश्चेत्यृचा सहितस्तृतीयो भागः।
[[2145]]
त्रिष्वप्याहुतिषु क्रमेण जानुदध्नादिदेशेषु स्रुग्धारणं हस्ताभिनयेन विधत्ते–
“इयत्यग्ने जुहोत्यथेयत्यथ ति त्रय इमे लोका एभ्य एवैनं लोकेभ्यः शनयति” (सं. का. ५ प्र. ४ अ. ३) इति।
नमो रुद्रेभ्यो ये पृथिव्यामित्यादियजुस्रयसाध्यं होमं विधत्ते—
तिस्रा उत्तरा आहुतीर्जुहोति षट्संपद्यन्ते षड्वा ऋतव ऋतुभिरेवैनँ शमयति” [ सं. का. ५ प्र. ४ अ. ३ ] इति।
पूर्वोत्तरपक्षभङ्ग्याऽनुपरिक्रम्य होमं विधत्ते–
“यदनुपरिक्रामं जुहुयादन्तरवचारिणँ रुद्रं कुर्यादथो खल्वाहुः कस्यां वाऽह दिशि रुद्रः कस्यां वेत्यनुपरिक्राममेव होतव्यमपरिवर्गमेरेनैँ शमयति” [सं. का. ५ प्र. ४ अ. ३] इति।
अनुपरिक्राममनुकमेण परितो भ्रमणं कृत्वा यदि जुहुयात्तदानीं तं रुद्रमन्त रवचारिणमग्निक्षेत्रस्य मध्ये प्रविश्य चरन्तं कुर्यात्। स च प्रविष्टः क्रूरत्वादुपद्रवं करो-त्येव। तस्मात्परिभ्रमणं न कर्तव्यमिति पूर्वः पक्षः । अथोशब्दः सिद्धान्तोपक्रमार्थः। अभिज्ञास्त्वेवमाहुः—खलुअहशब्द उपन्यस्तपक्षनिराकरणद्योतनार्थ!। यदुक्तं पूर्वपक्षिणा तन्न भवतीत्यर्थः। अयं रुद्रः सर्वत्र संचरन्कदा कस्यां दिशि र्वतते कस्यां वा न वर्तत इति को ज्ञातुं समर्थः। अतो रुद्रमन्वेष्टुमनुक्रमेण परिभ्रमणं कृत्वैव होतव्यम्। तथा सति परितो यत्र क्वापि स्थितं रुद्रमवर्णयित्यैव शान्तं करोति। शान्तत्वादेवान्तः प्रवि-श्यायं रुद्रः सन्नन्तः संचरन्नोपद्रवं करोतीत्यर्थः।
नमो रुद्रेभ्य इत्यादिमन्त्राणां यजमानवाचनं विधत्ते—
“एता वै देवातः सुवर्ग्या या उत्तमास्ता यजमानं वाचयति ताभिरेवैनँ-सुवर्गं लोकं गमयति” [सं. का. ५ प्र. ४ अ. ३] इति।
एतैर्यजुर्भिः प्रतिपादा या देवताः सन्ति ताः स्वर्गहेतवोऽत एवोत्तमा उत्कृष्टाः। चरममन्त्रप्रतिपाद्यात्वाद्वोत्तमत्वम्। ता अध्वर्युर्यजमानं वाचयेत्तत्प्रतिपाद-
[[2146]]
कानि यजूंषि पाठयेदित्यर्थः। तथा सति ताभिरेव देवताभिरेनं यजमानं स्वर्गं प्रापयति। अर्कपर्णस्य परित्यागदेशं विधत्ते—
“यं द्विष्या स्य संचरे पशूनां न्यस्येद्यः प्रथमः पशुरभितिष्ठति स आर्तिनार्छति” (सं. का. ५ प्र. ४ अ. ३) इति।
यं पुरुषं यजमानो द्विष्यात्तस्य पशूनां संचरप्रदेशे तदर्कपर्णं परित्यजेत्। तत्त्यक्तं पर्णं यः पशुः प्रथम इतरेभ्यः पशुभ्बः पूर्वः सन्नभिक्रम्य तिष्ठति स श्रियेत। अत्र विनियोगसंग्रहः—
प्रश्ने तु पञ्चमे प्रोक्तः शतरुद्रीयहोमकः।
सभापतिभ्य इत्यन्त एको मन्त्रः प्रकीर्तितः।।
अयार्यायेत्यन्त पकस्तन्मसीत्यन्त उत्तरः।
नमो रुद्रेभ्य इत्येष पृथिव्यादिविभेदतः।
त्रेधा भिन्नस्ततो होमे षण्मन्त्रा इह कीर्तिताः।।
अत्र मीमांसा।
दशमाध्यायस्माष्टमपादे चिन्तितम्—
जर्तिलोक्तेश्चतुर्धा किं विकल्पोऽथ पयश्रु(स्तु)तिः।
विकल्पः पूर्ववन्मैवं वाक्यैक्यात्पयसा सह।।
अग्नो श्रूयते – “जर्तिलयवाग्वा वा जुहुयाद्गवीधुकयवाग्वा वा न ग्राम्यान्प-शून्हिनस्ति नाऽऽरण्यानथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेत्यजक्षीरेण जुहोत्याग्नेयी वा एषा यदेकाऽऽहुत्यैव जुहोति” इति। जर्तिला आरज्यतिला गवीधुक
आरण्यगोधूमास्तयोरुभयोर्विकल्पः श्रौत एव। अनाहुतिरिति पूर्वेयापक्षयोर्दूषितत्वाद्धो-माभावस्तृतीयः पक्षः। न चात्र जर्तिलगवीधुकयोरनाहुतित्ववचनेन पर्युदासः संभवति। आहुतिपदान्वितस्य नञ्पदस्य जर्तिलगवीधुकपदा न्वयायोगात्। पयोविधिश्चतुर्थः पक्षः। एतेषां परस्परविरुद्धानां चतुर्णां गत्यन्तराभावेन षोडशीग्रहणवद्विक्तल्पे प्राप्ते ब्रूमः- पथो-विधिना सह जर्तिलादेरकवा क्यत्वेनार्थवादत्वं युक्तम्। ग्राम्यारण्यपशुहिंसाराहित्येन प्रशस्तयोरपि जर्तिल
[[2147]]
गवोधुकयोरग्निहोमं प्रत्याहुतित्वं नास्ति। पयसस्तु तदस्ति। इत्थं महाभागं पय इति। तस्मादर्थवादः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके
एकादशोऽनुवाकः ।। ११ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे पञ्चमः प्रपाठकः ।। ५ ।।