१०

(अथ चतुर्थाष्टके पञ्चमप्रपाठके दशमोऽनुवाकः)।
द्रापे॒ अन्घ॑सस्पते॒ दरि॑द्र॒न्नीललोहित। ए॒षां
पुरु॑षाणामे॒षां प॑शू॒नां मा मेर्माऽरो॒ मो एषां॒
किं च॒नाऽऽम॑मत्। या ते रुद्र शि॒वा तनूः
शि॒वा वि॒श्वाह॑भेषजी। शि॒वा रु॒द्रस्य॑ भेष
जी॒ तया॑ नो मृड जी॒वसे॑। इ॒माँ रु॒द्राय॑
त॒वसे॑ कप॒र्दिने॑ क्ष॒यद्वी॑राय॒ प्र भ॑रामहे म॒-
ति। तथा॑ नः॒ शम॑तद्‍‍द्वि॒पदे॒ चतु॑ष्पदे॒
विश्वं॑ पु॒ष्ट॑ ग्रामे॑ अ॒स्मिन् [ १ ] अना॑तुर-

[[2134]]

म्। मृ॒डा नो॑ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒य-
द्वी॑राय॒ नम॑सा विधेम ते। यच्छं च॒ योश्च॒
मनु॑रा॒यजे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी॑तौ
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा
न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्। मा नो॑
वधीः पि॒त॒रं मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नु-
वः॑ ( २ ) रु॒द्र॒ री॒रि॒षः॒। मा न॑स्तो॒के तनये॒
मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ भा नो॒ अश्वे॑षु
रीरिषः। वी॒रान्मा नो॑ रुद्र मामि॒तो व॑धी-
र्ह॒विष्म॑न्तो नम॑सा विधेम ते। आ॒रात्ते॑
गो॒घ्‍न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्‍नम॒स्मे ते॑
अस्तु। रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑
च नः॒ शर्म॑ यच्छ द्वि॒वर्हाः॑। स्तु॒हि ( ३ )
श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्‍नुमु॒-
ग्रम्। मृ॒डा ज॑रि॒त्रे रु॑द्र स्तवा॑नो अ॒न्यं ते॑
अ॒स्मन्नि व॑पन्तु॒ सेनाः॑। परि॑ णो रु॒द्रस्य॑
हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः।
अव॑ स्थि॒रा म॒घव॑द्‍दयस्तनुभ्य॒ मीढ्‍व॑स्तो॒काय॒
तन॑याय मृडय। मीढु॑ष्टम॒ शिव॑तम शि॒वो
नः॑ सु॒मना॑ भव। पर॒मे वृक्ष आयु॑धं नि॒धाय॒
कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कम् [ ४ ]

[[2135]]

बिभ्र॒दा ग॑हि। विकि॑रिद॒ विलो॑हित॒ नम॑स्ते
अस्तु भगवः । यास्ते॑ स॒हस्रँ॑ हे॒तयो॒ऽन्य-
मस्म॒न्नि व॑पन्तु॒ ताः। स॒हस्रा॑णि सहस्र॒धा
बा॑हु॒वोस्तव॑ हे॒तयः॑। तासा॒मीशा॑नो भगवः
परा॒चीना॒ मुखां कृधि [ ५ ]।
(अ॒स्मिँस्त॒नुवः॑ स्तु॒हि पिना॑क॒मेका॒न्नत्रिँ॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके दशमोऽनुवाकः ।। १० ।।

(अथ चतुर्थकाण्डे पञ्चमप्रपाठके दशमोऽनुवाकः)।
द्वितीयमारभ्य नवमान्तेष्वनुवाकेषु विविधानि यजूंष्युभयतोनमस्काराण्यन्य- तरतोनमस्काराणि चोक्तानि। अथ दशमेऽनुवाक ऋग्रूपा मन्त्रा उच्यन्यते। तत्र प्रथमामृचमाह—
द्रापे अन्धसस्पत इति। द्रापयति कुत्सितां गतिं प्रापयतीति द्रापिः। पापिनो नरकप्रदानेन क्लेशयतीत्यर्थः। अन्धोऽन्नं तस्य पतिः पालकः भक्तानामन्नं पालयतीत्यर्थः। दरिद्रदकिंचनः स्षयं विरक्तः केवल इत्यर्थः। “एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किंचन” इति श्रुतेः। कण्ठे नीलोऽन्यत्र लोहित इति नीललोहितः। एतैः शब्दै संबोध्य-मान हे रुद्रैषामस्मदीयानां पुरुषाणां पुत्रापौत्रादीनामेषामस्मदीयानां पशूनां गोमहिष्यादीनां च समूहं मा भेर्माभीषय। एषामुक्तानां सर्वेषां मध्ये किंचनैकमपि वस्तु माऽरो मा गच्छतु। भा विनश्यत्वित्यर्थः। मो आममन्मैव रुग्णमभूत्। अथ द्वितीयामाह—
या ते रुद्रेति। हे रुद्र ते त्वदीया शिवा शान्ता तन्र्या विद्यते तया तन्वा नोऽस्माञ्जीवसे जीवयितुं मृड सुखय। कथं तन्वा, शिवत्वं, तदुच्यतेय स्मादेवं विश्वा-हमेषजी सर्वेष्वहःसु रोगदारिद्यादेरौषधवाद्विनाशहेतुस्तस्माच्छिवा।

[[2136]]

किंच, यस्माद्रुद्रस्य तादात्म्यप्राप्तये भेषज्यौषधरूपा ज्ञानप्रदानेन जन्ममरणादिदुःखं निवारयति तस्मादप्येषा शिवा । अथ तृतीयामाह—
इमाँ रुद्रायेति। यथा येन प्रकारेण नोऽस्मदीयाय द्विपदे पुत्रपौत्रादिरूपाया मनुष्याय चतुष्पदे गोमहिष्यादिरूपाय पशवे च शमसत्सुखं स्यात्। किंचस्मिन्ग्रामे विश्वं सर्वं प्राणिजातं पुष्टं सुखपूर्णमनातुरमुपद्रवरहितं च यथा भवति तथा मयं रुद्राय रुद्रार्थ इमां मतिं पूजाध्यानादिविषयां बुद्धिं प्रभरामहे प्रकर्षेण पोषयामः। कीदृशाय रुद्राय, तवसे बलयुक्तायास्मदषेक्षितं कर्तुं समर्थायेत्यर्थः। कपर्दिने जटाबन्धयुक्ताय तापसवेषा-येत्यर्थः क्षयद्वीराय
क्षीयमाणप्रतिपक्षपुरुषायान्यथाभानरूपपापविनाशहेतव इत्यर्थः। अथ चतुर्थमाह–
मृडा नो रुद्रोतेति। हे रुद्र नोऽस्मान्मृडयेह लोके सुखय। उतापि च नोऽस्माकं परलोकेऽपि मयः सुखं कृधि कुरु। क्षयद्वीराय क्षपितास्मदीयपापाय ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम। पिता पालको मनुः प्रजापतिः शं च सुखं च योश्च दुःखपृथग्भावं च यदायजे यत्किंचित्संपादितवांस्तत्सर्वं वयं हे रुद्र तव प्रणीतौ प्रणये स्नेहातिशये सत्यश्याम प्राप्‍नुयाम। अथ पञ्चमीमाह—
मा नो महान्तभिति। हे रुद्र नोऽस्मदीयं महान्तं स्थविरं पुरुषं मा रीरिषो मा हिंसीः। उतापि च नोऽस्मदीयमर्भकं बालं मा रीरिषः। किंच नोऽस्मदीयमुक्षन्तं सेचन-समर्थं युवानं पुरुषं मा रीरिषः। उतापि च नोऽस्मदीयमुक्षितं गर्भस्थं पुरुषं मा रीरिषः। नोऽस्मदीयं पितरं मा वधीः। उतापि च मातरं मा वधीः। नोऽस्मदीयाः प्रियाश्च तनुवः शरीराणि मा रीरिषः अथ षष्ठीमाह—
मा नस्तोक इति। हे रुद्र नोऽस्मदीये तोकेऽपत्यमात्रे तनये विशेषतः पुत्रे मा रीरिषो हिंसां मा कुरु। नोऽस्मदीय आयुषि मा रीरिषः नोऽस्मदीयेषु गोषु मा रीरिषः। नोऽस्मदीयेष्वश्वेषु मा रीरिषः। भामितः क्रुद्धः सन्नोऽस्मदीयान्वीरान्भृत्यान्मा वधीः। वयं हविष्मन्तो हविर्युक्तास्ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम। अथ सप्तमीमाह–

[[2137]]

आरत्ते गोघ्‍न इति। गोघ्‍ने गोघ्‍नस्य पुरुषघ्‍ने पुत्रपौत्रादिषुरुषघ्‍नस्य क्षयद्वीराय क्षपितभृत्यस्य ते तवोग्ररूपमारादस्तु दूरे तिष्ठतु। यत्तु सुम्‍नं त्वदीयं सुखकरं रूपं तदस्ये अस्मास्वस्तु। घोराऽन्या शिवाऽन्येति यच्छरीरद्वयमुक्तं तयोर्द्वयोर्मध्ये यद्‍घोरं शरीरं तद-दूरे गच्छतु। शिवं शरीरमत्राऽऽगच्छात्वित्यर्थः। किंच नोऽस्मान्‍रक्ष सर्वतः पालय। किंच हे देवाधिब्रूह्यस्मानितरेभ्यो यजमानेन्योऽधिकान्देवेषु ब्रूहि। अध चापि च द्विबर्हा द्वयो-र्लोकयोर्वर्धयिता त्वं शर्म यच्छसुखं देहि। अथाष्टमीमाह—
स्तुहि श्रुतमिति हे मदीयंवचः श्रुतं प्रसिद्धं रुद्रं स्तुहि। कीदृशम् गर्तसदं गर्तसदृशे हृदयपुण्डरीके सर्वदा तिष्ठन्तम्।
‘ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति’ इति स्मृतेः।
युवानं नित्यतरुणम्। उपहत्‍नुमुग्रं प्रलयकाले सर्वं जगत्संहर्तुमुग्ररूपिणम्। तत्र दृष्ठान्तः भीमं मृगं न भयंकरं सिंहमिव। यथा गजविदारणायोग्रः सिंहो भवति तद्वत्। हे रुद्र स्तवानोऽस्मद्वचसा स्तूयमानो जरित्रे जरणशीले दिने दिने क्षीयमाणेऽस्म-च्छरीरे मृड सुखं कुरु। ते त्वदीयाः सेना अस्मदन्यं वैरिणं निवपन्तु विनाशयन्तु अथ नवमीमाह—
परि णो रुद्रस्येति। हन्यतेऽनयेति हेतिरायुधं, रुद्रस्य हेतिर्नोऽस्मान्परि-वृणक्तु परितो वर्जितान्करोतु। कदाचिदपिमा विध्यत्वित्यर्थः। त्वेषस्य क्रोधोज्‍ज्‍वलित-स्याघायोरघं पापं प्रहाररूपमिच्छतो रुद्रस्य या दुर्मतिरुग्रबुद्धिः साऽप्य स्मान्पारिवृणक्‍तु। स्थिरा विरोधिनाशनाय या दृढा दुर्मतिरस्ति तां मघवद्‍म्यो हविर्लक्षणान्नयुक्तेभ्यो यजमा-नेभ्यः सकाशादवतनुष्वावततामपनीतां कुरु। हे मीढ्‍वः कामानामभिवर्पक तोकायास्म-त्पुत्राय तनयाय तदीयपुत्राय च मृडाय सुखं देहि। अथ दशमीमाह–
मीढुष्ठमेति। मे मीढुष्ठमातिशयेन सेचक कामानामभिवर्षक, हे शिवतमा-तिशयेन शान्तस्वरूप नोऽस्मान्प्रति शिवः शान्तः सुमनाः सौमनस्येन स्नेहेन युक्तश्च भव। आयुधं त्रिशुलादिकं परमेऽत्युन्नते वृक्षे वटाश्वत्थादिरूपे निधाय

[[2138]]

यथाऽस्माभिर्न दृश्यते तथाऽवस्थाप्य कृत्तिं वसानो व्याघ्रचर्ममात्रं परिदधान आचरा-स्मदाभिमुख्येनाऽऽगच्छ। आगच्छन्नपि पिनाकं विभ्रद्भूषणार्थं धनुर्मात्रं हस्ते धारयन्त्राणा-दिकं परित्यज्याऽऽगह्यागच्छ। अथैकादशीमाह—

विकिरिदेति। कीर्यन्ते भक्तानां संनिधौ बहुधा प्रक्षिप्यन्त इति किरावो धनानि तानि ददातीति किरिदः। विशेषेण किरिदो विकिरिदः। विलोहितो लौहित्यरहितः श्वेत इत्यर्थः। अत एव मान्त्रिकाः पञ्चाक्षरध्याने स्मरन्ति—
‘ध्भेयो मुक्तापरागामृतरसकलिताद्रिप्रभः’ इति।
यद्वा विशेषण लोहितो विलोहितः। अत एवाष्टाक्षरध्याने स्मरति—
‘काञ्चनाभो ध्येयः पद्मासनस्तः’ इति ।
भगवो भगवन्षड्‍गुणसंपन्न। भगशब्दस्य पढ्गुणवाचित्वं स्मर्यते—
‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा’ इति।
प्रकारान्तरेण भगवच्छब्दनिर्वचनं च—
‘उत्पत्तिं च विनाशं च भूतानामागतिं गतिम्।
वेत्ति त्रिद्यामविद्यां च स वाच्यो भगवानिति’ ।। इति ।
यथोक्तविशेषणत्रयविशिष्ट हे रुद्र ते तुभ्यं नमोऽस्तु। ते तव सहस्र सहस्र-संख्याका हेतयो यान्यायुधानि सन्ति ताः सर्वा अस्मदन्यं विरोधिनं निवयन्तु विनाश-यन्तु। अथ द्वादशीमाह—
सहस्राणीति। हे रुद्र तव बाह्बोर्हस्तयोर्हेतयः सहस्रधा सहस्रप्रकाराः सहस्राणि सहस्रसंख्याका विद्यन्ते। धनुः खड्‍गस्रिशूलमित्येवं जातिभेदेन सहस्र-प्रकारत्वम्। एकैस्या जातौ बहवः सहस्रसंख्याकाः हे भगवः षड्‍गुणोपेत त्वमीशानः समर्थः संस्तासां हेतीनां मुखा मुखानि शल्यानि पराचीना कृघ्यस्गसः पराङ्‍मुखानि कुरु।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके
दशमोऽनुवाकः ।। १० ।।

[[2139]]