(अथ चतुर्थकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः)।
नम॑ इरि॒ण्या॑य च प्र॒षथ्या॑य च॒ नमः॑ किँ-
शि॒लाय॑ च॒ क्षय॑णाय च॒ नमः॑ कप॒र्दिने॑ च
पुल॒स्तये॑ च॒ नमो॒ गोष्ठ्या॑य च॒ गृह्या॑य च॒
नम॒स्तल्प्या॑य च॒ गेह्या॑य च॒ नमः॑ का॒ट्या॑य
च गह्वरेष्ठाय॑ च॒ नमो॑ ह्रदय्या॑य च निवे॒-
ष्ण्या॑य च॒ नमः॑ पाँ स॒व्या॑य च रज॒स्या॑य
च॒ नम शुष्क्या॑य च हरि॒त्या॑य च॒ नमो॒
लोप्या॑य चोल॒प्या॑य च ( १ ) नम॑ ऊ॒र्व्या॑य
च सू॒र्म्या॑य च॒ नमः॑ प॒ण्या॑य च पर्णश॒द्या॑य
च॒ नमो॑ऽपगु॒रमा॑णाय चाभि॑घ्न॒ते च॒ नम॑
[[2132]]
आक्खि॒दते च॑ प्रक्खिद॒ते च॒ नमो॑ वः कि
रि॒केभ्यो॑ दे॒वानाँ॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒
केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्ह॒-
तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ [ २ ] ।
[उ॒ल॒प्या॑य च॒ त्रय॑स्त्रिँशच्च]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके नवमोऽनुवाकः ।। ९ ।।
(अथ चतुर्थकाण्डे पञ्चमप्रपाठके नवमोऽनुवाकः)।
अष्टमानुवाके यान्यन्यतरतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽप्यन्यानिका-निचिन्नवमेऽनुवाक उच्यन्ते।
तत्र विद्यमानान्येकोनाविंशतिसंख्याकानि यजूंष्याह—
नम इरिण्याय इति। इरिणमूषरं तत्र भव इरिण्यः। प्रपथो बहुभिः सेवितो मार्गस्तत्र भवः प्रपथ्यः। कुत्सिताः क्षुद्राः शिला यत्र प्रदेशे तादृशः शार्वरिस्तः प्रदेशः किंशिलः। क्षयणो निवासयोग्यो देशः। कपर्दी जटाबन्धवान्। भक्तानां पुरतस्तिष्ठतीति पुलास्तिः गवां स्थानं गोष्ठं तत्र भवो गोष्ठ्यः। गृहे भवो गृह्यः। तल्पे खट्वायां शयान-स्तल्प्यः। गेहे प्रासादे भवो गेह्यः कुत्सितमटति कण्टकलतादिपूर्णतया दुष्प्रदेशत्वं प्राप्नोतीति दुर्गमोऽरण्यविशेषः काटस्तत्र भवः काट्यः। गह्वरे विषमे गिरिगुहादौ तिष्ठ-तीति गह्वरेष्ठः । हृदेष्वगाधजलेषु भवो हृदय्यः। गह्वरे विषमे गिरिगुहादौ तिष्ठतीति गह्वरेष्ठः। हृदेष्वगाधजलेषु भवो हृदय्यः। निवेष्पं नीहारजलं तत्र भवो निवेष्प्यः। पांसु-षुपरमाणुष्ववस्थितः पांसव्यः। रजसि विस्पष्टायां धूल्यामवस्थितो रजस्यः। शुष्केषु काष्ठेषु भवः शुष्क्यः । हरितमार्द्रं तत्र भवो हरित्यः। लुप्यते तृणादिकमस्मिन्नति लोपः कठिणप्रदेशस्तत्र भवो लोप्यः। उलपा बल्वजतृणादयस्तत्र भव उलप्यः। ऊर्व्यां पृथिव्यां भव ऊर्व्यः। शोभना ऊर्मयो यस्यां नद्यां सेयं सूर्मिस्तत्र भवः सूर्म्यः। पर्णेषु पत्रेषु भवः पर्ण्यः। शुष्काणां पर्णानां
[[2133]]
संघातः पर्णशदस्तत्र भवः पर्णशद्यः। अपगुरमाण उद्यतायुधः। अभिध्नन्प्रहरन्। आक्खिदन्नीषत्खेदयन्। प्रक्खिदन्नत्यन्तं खेदयन्। किरन्ति भक्तेभ्यो धनानिति किरिका उदारा रुद्रावताराः ते च देवानां हृदयभूताः सर्वदेवप्रिय त्वात्तादृशेभ्यो वो युष्मभ्यं नमः। क्षीणकेभ्यो विपरीता विक्षीणिकाः कदाचिदपि क्षयरहिता इत्यर्थः। विचिन्वन्त्वपेक्षितमर्थं संपादयन्तीति विचिन्वत्काः। आसमन्तान्निःशेषेण हतं पापं यैस्त आनिर्हताः। आ सम-न्तान्मविन्ति स्थूलीभावं प्राप्नुवन्तीत्यामीवत्काः। अत्र विक्षीणकविचिन्यत्कानिर्हतामी-वत्केषु देवानाँ। हृदयेभ्य इत्यनुषज्जते। पञ्चमानुवाकमारभ्य नवमान्तेष्वनुवाकेष्वन्य-रतोनमस्काराणि बहूनि यजूंष्यभिहितानि। तैः सर्वैः परमेश्वरस्य सार्वात्म्यं प्रतिपादयितु-मेकैकेन यजुषा स्थावरं जङ्गमं चैककं रूपमभिहितम्। अनुवाकभेदस्तु क्रतोर्बहिः प्रयोगे मन्त्रभेदाभिप्रायेण द्रष्टव्यः। एकैकाऽनुवाक एकैको मन्त्रः। तत्र तस्य पुरश्चरणादिप्रका-रस्तु रुद्रकल्पेऽभिधास्यते।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके
नवमोऽनुवाकः ।। ९।।