०७

(अथ चतुर्थाष्टके पञ्‍चमप्रपाठके सप्तमोऽनुवाकः)।
नमो॑ दुन्दु॒भ्या॑य चाऽऽहन॒न्या॑य च॒ नमो॑
धृ॒ष्णवे॑ च प्रमृ॒चाय॑ च॒ नमो॑ दू॒ताय॑ च॒ प्र
हि॑ताय च॒ वमो॑ निष॒ङ्गिणे॑ चेषुधि॒मते॑ च॒
नम॑स्ती॒क्ष्णेष॑वे चाऽऽयु॒धिने॑ च॒ नमः॑ स्वायु॒-
धाय॑ च सु॒धन्व॑ने च॒ नमः॒ स्रुत्या॑घ च॒ प
थ्या॑य च नमः॑ का॒ट्या॑य च नी॒प्या॑य च॒
नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑
च वैश॒न्ताय॑ च [ १ ] नमः॒ कूप्या॑य चा-
व॒ट्या॑य च॒ नमो॒ वर्ष्या॑य चाव॒र्ष्याय॑ च॒

[[2128]]

नमौ॑ मे॒ध्या॑य च विद्यु॒त्या॑य च॒ नम॑ ई॒घ्‍रि-
या॑य चाऽऽत॒प्या॑य च॒ नमो॒ वात्या॑य च॒ रेष्मि॑-
याय॒ च॒ नमो॑ वास्त॒व्या॑य च वास्तु॒पाय॑ च
[२] ।।
(तै॒श॒न्ताय॑ च त्रिँ॒शच्‍च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्‍चमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

(अथ चतुर्थकाण्डे पञ्चमप्रपाठके सप्‍तमोऽनुवाकः)।
षष्ठेऽनुवाकि यान्यन्यतरतोनमस्काराणि यजूंष्युक्तानि तेभ्योऽन्यानि कानि-चिद्यजूंषि सप्‍तमेऽभिधीयन्ते। तत्र विद्यमानानि षोडश यजूंष्याह—
नमो दुन्दुभ्यायेति। दुन्दुभौ भेर्यां भवः शब्दो वुन्दुभ्यः। आहन्यते ताड्यतेऽ-नेत्याहननं दुन्दुभ्याघातार्थो दण्डस्तत्र ताडनरूपेणोत्पन्न आहनन्यः। घृष्णुर्युद्धे पालयन-रहितः। प्रमृशः परसैन्यवृत्तान्तपरामर्षकः। दूतस्तद्‍वृत्तान्तज्ञापनकुशलः। प्रहितः स्वामिना प्रेषितः पुरुषः। निषङ्गी खड्‍गयुक्तः। इषुधि मान्बाणाधारयुक्तः। तीक्ष्णा इषवो यस्यासौ तीक्ष्णेषुः। बहून्यायुधानि यस्य सन्तीत्यायुधी। शोभनमायुधं त्रिशूलरूपं यस्यासौ स्वायुधः। शोभनं धन्वपिनाकरूपं यस्यासौ सुधन्वा। स्रुतिः पादसंचारमात्रयोग्यः क्षुद्र-मार्गस्तमर्हतीति स्रुत्यः। पन्या रथाश्वादिसंचारक्षमः प्रौढो मार्गस्तमर्हतीति पथ्यः। कुत्सितमटति जलमत्रेति काटोऽल्पप्रवाहयोग्यः कुल्याप्रदेशस्तत्र जलरूपेण भवः काट्यः। यस्मिंन्प्रदेशे पर्वताग्राज्‍जलं न्यग्भावेन पतति स प्रदेशो नीपस्तत्र जलरूपेणाव-स्थितो नीप्यः। सूदः कर्दमप्रदेशस्तत्रत्यजलरूपः सूद्यः। सरः प्रसिद्धं, तत्रत्य जलरूपः सरस्यः। नदीगतजलरूपो नाद्यः। अल्पसरो वेशन्तस्तत्रत्यजलरूपो वशन्तः। कूपस्थ-जलरूपः कूप्यः। अवटस्थजलरूपोऽवट्यः। वर्षजलरूपो

[[2129]]

वर्ष्पः। वर्षनिरपेक्षजलरूपोऽवर्ष्यः। मेघेषु स्थितो मेघ्र्यः । विद्युता सह चरतीति विद्युत्यः। ईध्रं निर्मलत्वेन दीप्यमानं शरदभ्नं तत्र भव ईध्रियः। आतपेन सह दृष्ट आतप्यः। बातेन सह वृष्टो वात्यः। रिष्यन्ति विनश्यन्ति भूतान्यत्रेति रेष्भः प्रलयकाल-स्तत्र भवः शर्करापाषाणादिसहितो वृष्टिजलविशेषो रेष्मियः। वस्तु धनं(न)गवाश्वदिप-दार्थरूपं तत्र तत्कार्यरूपेणवास्थितो वास्तव्यः। गृहनिर्माणार्था भूमिर्वास्तु तत्पालको वास्तुपः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके
सप्तमोऽनुवाकः।। ७ ।।