(अथ चतुर्थाष्ठके पञ्चमप्रपाठके षष्ठोऽनुवाकः)।
नमो॑ ज्ये॒ष्ठाय॑ च कनि॒ष्ठाय॑ च॒ नमः॑ पूर्व॒
जाय॑ चापर॒जाय॑ च॒ नमो॑ मध्य॒माय॑ चाप-
ग॒ल्भाय॑ च॒ नमो॑ जघ॒न्या॑य च॒ बुघ्नि॑याय
च॒ नमः सो॒भ्या॑य च प्रतिस॒र्या॑य च॒ नमो॒
याम्या॑य च॒ क्षेम्या॑य च॒ नम॑ उर्व॒र्या॑य च॒
[[2126]]
खल्या॑य च॒ नमः॒ श्लोक्या॑य चावसा॒न्या॑य
च॒ नमो॒ वन्या॑य च॒ कक्ष्या॑य च॒ नमः॑ श्र॒-
वाय॑ च प्रतिश्र॒वाय॑ च [ १ ] नम॑ आ॒शु
षे॑णाय चा॒ऽऽशुर॑थाय च॒ नमः॒ शूरा॑य चा
वभिन्द॒ते च॒ नमो॑ व॒र्मिणे॑ च बरू॒थिने॑ च॒
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒ नमः॑ श्रु॒ताय॑
च श्रुतसे॒नाय॑ च ( २ ) ।।
[प्र॒ति॒श्र॒वाय॑ च॒ पञ्च॑विँशतिश्च]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
(अथ चतुर्थकाण्डे पञ्चमप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमेऽनुवाके कानिचिदन्यतरतोनमस्काराणि यजूंष्युक्तानि। अथ षष्ठे तथाविधान्येवान्यानि कानिचिद्यजूंष्युच्यन्ते।
तत्र विद्यमानानि पञ्चदश यजूंष्याह—
नमो ज्येष्ठाय इति। विद्यैश्वर्यादिभिरधिको ज्येष्ठः। तै रहितोऽल्पः कनिष्ठः। पूर्वं जगदादौ हिरण्यगर्भरूपेणोत्पन्नः पूर्वजः। अपरस्मिञ्जगदवसानकाले सहर्तुं काला-ग्न्यादिरूपेणोत्पन्नोऽपरजः। मध्यकाले देवतिर्यगादिरूपेणोत्पन्नो मध्यमः अपगल्मोऽप-रूढेन्द्गियो बालः। जघने गवादीनां पश्चाद्भागे वत्सादिरूपेण भवो जघन्यः। बुघ्ने वृक्षा-दीनां मूले शाखादिरूपेणोत्पन्नो बुघ्नियः। उभाम्यां पुण्यपापाभ्यां सह वर्तत इति सोमो मनुष्यलोकः। अत एवाऽऽथर्वणिका आमनन्ति “पुण्येन पुण्यं लोकं जयति पापेन पापमुभाभ्यामेव मनुष्य लोकम्’ इति। तत्र भवः सोभ्यः। प्रतिसरो विवाहादौ हस्ते धार्यमाणो रक्षा बन्धस्तमर्हतीति प्रतिसर्यः। यमलोके पापिशिक्षकरूपेणोत्पन्नो याम्यः। क्षेमो
[[2127]]
मोक्षस्तमर्हतीति क्षेम्यः। उर्वरा सर्वसस्याढ्या भूमिस्तामर्हसि धान्यविशेषरूपेणे त्युर्वर्यः। खला धान्यविवेचनदेशस्तमर्हसि मेढ्यादिरूदेणेति खेल्यः। श्लोका वैदिकमन्त्रास्तत्प्रति-पाद्यत्वेन तत्र भवः श्लोक्यः। अवसानं वेदान्तस्तत्प्रतिपाद्यत्वेन तत्र भवोऽवसान्यः। वने वृक्षादिरूपेण भवो वन्यः। कक्षे लतादिरूपेण भवः कक्ष्यः। श्रूयत इति श्रवः शब्दः। प्रतिश्रवः प्रतिध्वनिः। आशुः शीघ्रं गामिनी सेना यस्यासावाशुषेणः। आशुः शीघ्रगामी रथो यस्यासावाशुरथः। शूरो युद्धे धैर्यवान्। अवभिन्दन्वैरिणां प्रहर्ता। वर्मी कञ्चुकोपेतः। वरूथी गृहोपेतः। बिल्मं विलेपेतं युद्धे शिरोरक्षकं तदस्यास्तीति बिल्मी। कवचः शरीररक्षकः सोऽस्यास्तीति कवची। श्रुतो वेदेषु प्रसिद्धः। श्रुता वेदेषु प्रसिद्धा सेना यस्यासै श्रुतसेनः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके
षष्ठोऽनुवाकः ।। ६।।