(अथ चतुर्थकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
नमो॑ भ॒वाय॑ च रु॒द्राय॑ च॒ नमः॑ श॒र्वाय॑ च
पशु॒पत॑ये च॒ नमो॒ नील॑ग्रीवाय च शिति॒क-
ण्ठा॑य च॒ नमः॑ कप॒र्दिने॑ च॒ व्यु॑प्तकेशाय च॒
नमः॑ सहस्रा॒क्षाय॑ च श॒तध॑न्वये च॒ नमो॑
गिरि॒शाय॑ च शिपिवि॒ष्टाय॑ च॒ नमो॑ मी॒ढु-
ष्ठ॑माय॒ चेषु॑मते च॒ नमो॑ ह्र॒स्वाय॑ च वाम॒नाय॑
च॒ नमो॑ बृह॒ते च॒ वर्षी॑यसे च॒ नमो॑ वृ॒द्धाय॑
च सं॒वृध्व॑ने च [ १ ] नमो॒ अग्रि॑याय च
प्रथ॒माय॑ च॒ नम॑ आ॒शवे॑ चाजि॒राय॑ च॒
नमः॒ शीघ्रि॑याय च॒ शीभ्या॑य च॒ नम॑ ऊ॒-
र्म्या॑य चावस्व॒न्या॑य च॒ नमः॑ स्रोत॒स्या॑य च॒
द्वीप्या॑य च [ २ ] ।।
(सं॒वृध्व॑ने च॒ पञ्च॑विँचतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
पञ्चमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
(अथ चतुर्थकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः)।
चतुर्थेऽनुवाक उभयतोनमस्काराणि यजूंषि समापितानि ।अथ पञ्चम-मारभ्य नववान्तेष्वनुवाके नमस्कारोपक्रमाण्येव यजूंष्याम्नायन्ते।
तत्र पञ्चमानुवाके प्रथमं यजुरारभ्य पञ्चदश यजूंष्याह—
नमो भवाय चेति। भवन्ति प्राणिनोऽस्मादिति भवः। रुद्रोदनहेतुभूतं दुःखं द्रावयतीति रुद्रः। शृणाति हिनस्ति पापमिति शर्वः। पशुसमानानज्ञा-
[[2125]]
निनः पुरुषान्पालयतीति पशुपतिः। कालकूटधारणेन नीलवर्णो ग्रीवैकदेशो यस्यासौ नीलग्रीवः। शितिः श्वेतवर्णोऽवशिष्टः कण्ठप्रदेशो यस्यासौ शितिकण्ठः। कपर्दो जटाजूटो यस्यास्तीति कपर्दी। मुण्डितकेशो व्युप्ककेशः। पाशुपतादिवेषेण कपर्दित्वम्। यत्यादिवेषेण मुण्डितकेशत्वम्। इन्द्रवेषेण सहस्राक्षत्बम्। सहस्रभुजावतारित्वेन शत-संख्याकैर्धनुर्निरुपेतत्वम्। गिरौ कैलासे शेते तिष्ठतीति गिरिशः। विष्णुमूर्तिधारी शिपि-विष्टः। “विष्णुः शिपिविष्टः” इति श्रुतेः। मेघरूपेणात्यन्तं वर्षयिता भीढुष्टमः। बाणधारक इषुमान्। शरीरेऽल्पप्रमाणत्वं ह्रस्वत्वम्। अङ्गुल्याद्यवयवयसंकोचाद्वामनत्वम्। आकारेण प्रौढो बृहन्। गुणैः सगृद्धो वर्षीयान्। वयसाऽधिको वृद्धः। सन्यक्स्तृतिभि-र्वर्धितः संवृध्वा। जगदुत्पत्तेः पूर्वमवस्थितोऽग्रियः। सभायां मुख्यः प्रथमः।आशर्व्यापी। अजिरो गमनकुशलः। शीघ्रियः शीघ्रगामी। शीमशब्द उदकप्रवाहवाची, तत्रोवस्थितः शीभ्यः। ऊर्मौ तरङ्गे स्थित ऊर्म्यः। अवस्वने ध्वनिरहिते स्थिरजलेऽवस्थितोऽवस्वन्यः। स्त्रोतसि प्रवाहे स्थितः स्रो तस्यः। द्वीपे वारिमध्यवर्तिभूमौ स्थितो द्वीप्य। अत्रैकैकस्मिन्य-जुषि चतुर्थ्यन्ताभ्यां पदाभ्यां नमःशब्दं पृथगन्वेतुं समुच्चयार्थौ चकारौ पठितौ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।