(अथ चतुर्थाष्टके पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
नम॑ आव्या॒धिनी॑भ्यो वि॒विध्यन्तीभ्यश्च वो॒
नमो॒ नम उग॑णाम्यस्तृँह॒तीभ्यश्च वो॒ नमो॒
नमो॑ गृत्सेभ्यो॑ गृ॒त्पप॑तिभ्यश्च वो॒ नमो॒
नमो॒ व्राते॑भ्यो॒ व्रात॑पतिभ्यश्च वो॒ नमो॒
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमो॒ नमो॒
विरू॑पेभ्यो वि॒श्वरू॑पेभ्यश्च वो॒ नमो॒ नमो॑
म॒हद्भ्यः॑ क्षुल्ल॒केभ्य॑श्च वो॒ नमो॒ नमो॑ र॒-
थिभ्यो॑ऽर॒थेभ्यश्च वो॒ नमो॒ नमो॒ रथे॑भ्यः
(१) रथ॑पतिभ्यश्च वो॒ नमो॒ नमः॒ सेना॑-
भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमः॑ क्ष॒त्तृभ्यः॑
संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नम॒स्तक्ष॑भ्यो रथ-
का॒रेभ्य॑श्च वो॒ नमो॒ नमः॒ कुला॑लेभ्यः क॒-
र्मारेभ्यश्च बो॒ नमो॒ नमः॑ पु॒ञ्जिष्टेभ्यो नि-
षा॒देभ्य॑श्च षो॒ नमो॒ नम॑ इषुकृद्भयो॑ धन्व॒
कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ मृग॒युभ्यः॑ श्व॒नि-
भ्य॑श्च वो॒ नमो॒ नमः॒ श्वभ्यः॒ श्वप॑तिभ्यश्च
वो॒ नमः॑ [ २ ] ।।
[रथे॑भ्यः॒ श्वप॑तिभ्यश्च॒ द्वे च॑]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके चतुर्थोऽनुवाकः।। ४।।
[[2123]]
(अथ चतुर्थकाण्डे पञ्चमप्रपाठके चतुर्थोऽनुवाकः)।
तृतीयानुवाके यान्युभयतोनमस्कारणि यजूंष्युक्तानि तेभ्योऽन्यानि कानि-चिदुभयतोनमस्काराणि यजूंषि चतुर्थेऽभिधीयन्ते। तत्र प्रथमं यजुराह—
नम आव्याधिनीभ्य इति। आ समन्ताद्वेद्धुं शक्ताः स्रीमूर्तय आब्याधिन्यो विशेषेण वेद्धुं शक्ता विवध्यन्त्यस्ताभ्यो नमः। अथ द्वितीयं यजुराह—
नम उगणाभ्य इति। उत्कृष्टगणरूपाः सप्तमातृकाद्याः स्त्रिय उगणाः, हिंसितुं समर्था दुर्गाद्या उग्रदेवतास्तृंहत्यस्ताभ्यो नमः। अथ तृतीयं युजराह—
नमो गृत्सेभ्य इति। गर्वनशीला गृत्सा विषयलम्पटा इत्यर्थः। तेषां पालका गृत्सपतयस्तेभ्यो नमः। अथ चतुर्थं यजुराह—
नमो व्रातेभ्य इति। नानाजातीयानां संघा व्रातास्तेषां पालका व्रातपतय-स्तेभ्यो नमः। अथ पञ्चमं यजुराह—
नमो विरूपेभ्य इति। विरूपा विकृतरूपा नग्नमुण्डादयः। विश्वरूपा स्तुरं-गगजवक्त्रादिनानाविधरूपधारिणो भृत्यास्तेभ्यो नमः। अथ सप्तमं यजुराह—
नमो रथिभ्य इति। रथमारूढा रथिनस्तद्रहिता अरथास्तेभ्यो नमः। अथ नवममारभ्य सप्तदशपर्यन्तानि स्पष्टार्थानि यजूंष्याह—
नमो रथेभ्य इति। पक्षिपुञ्जानां धातकाः पुञ्जिष्टाः। मत्स्यघातिनो निषादाः। शुनां गलेषु बद्धानां पाशानां धारकाः श्वनयः। अत्र द्वितीयानुवाको लीलार्थदेवतामूर्ति-प्राधान्येन स्तोतुं प्रवृतः। तृतीयानुवाकश्चोरमूर्तिप्राधान्येन स्तोतुं प्रवृत्तः। चतुर्थोऽनुवाको नानाजातिमूर्तिप्राधान्येति विभागो द्रष्टव्यः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे पञ्चमप्रपाठके
चतुर्थोऽनुवाकः ।। ४।।
[[2124]]