०२

[अथ चतुर्थकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः]।
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒
प॒त॑ये नमो॒ नमो॑ वृ॒क्षेभ्यो॒ हरि॑केशेभ्यः प-

[[2116]]

शू॒नां पतय॒ नमो॒ नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑
मते पथी॒नां पत॑ये॒ नमो॒ नमो॒ बभ्‍लु॒शाय॑
विव्या॒धिनेऽन्‍ना॑नां॒ पत॑ये॒ नमो॒ नमो॒ हरि॑-
केशायोपवी॒तिने॑ पुष्टानां॒ पत॑ये॒ नमो॒ नमो॑
भ॒वस्य॑ हे॒त्यै जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्रा-
या॑ऽऽतता॒विने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नमः॑
सू॒तायाह॑न्‍त्‍याय॒ वाना॑नां॒ पत॑ये॒ नमो॒ नमः॑
[१] रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पतये॒
नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒
पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौ-
ष॑धीनां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्‍चैर्घो॑षायाऽऽक्र॒-
न्दय॑ते पत्ती॒नां पत॑ये॒ नमो॒ नमः॑ कृत्‍स्‍नवी॒-
ताय॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमः॑ [ २ ] ।।
[वना॑नां॒ पत॑ये॒ नमो॒ नव॒ एका॒न्नत्रिँ॒शच्‍च॑] ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।

(अथ चतुर्थकाण्डे पञ्चमप्रपाठके द्वितीयोऽनुवाकः)।
प्रथमानुवाके भगवतो रुद्रस्य या प्रधानभूता तनुस्तां बहुधा प्रसाद्य तस्य ये लीलाविग्रहा जमन्निर्वाहहेतवस्तेऽष्टभिरनुवाकैः प्रसाद्यन्ते। तेष्वनुवाकेषु सर्वाण्यपि यजूंषि। तानि च द्विविधानि, उभयतोनमस्कारण्यन्यतरतोनमस्काराणि च । तत्र त्रिष्वनुवाकेषु नमस्कारादिकं नमस्कारान्तमेकैकं यजुः। इत-

[[2117]]

रेषु पञ्चस्वनुवाकेषु नमस्कारादिकमेकैकं यजुः। तत्र द्वितीयेऽनुवाके त्रयोदश यजूंषि। तत्र प्रथमं यजुराह—
नमो हिरण्येति। हिरण्यनिर्मितान्याभरणानि बाह्‍वोर्यस्यासौ हिरश्णबाहुः। स च संग्रामेषु सेनां नयतीति सेनानीः तादृशमूर्तिधरो यो रुद्रस्तस्मै नमोऽस्तु। यश्च दिशां पालको रुद्रस्तस्मै नमोऽस्तु। अथ द्वितीयं यजुराह—
नमो वृक्षेन्य इति। हरितवर्णाः केशाः पर्णरूपा येषां वृक्षाणां ते हरिके-शास्तादृशेभ्यो वृक्षेभ्यो वृक्षाकाररुद्रमूर्तिभ्यो नमोऽस्तु। यो रुद्रः पशूनां पालकस्तरमै नमोऽस्तु। अत तृतीयं यजुराह—
नमः सस्षिञ्जरायेति। सस्पिंशब्दो बालतृणवाची। पीतरक्तसंकीर्णवर्णवाची पिञ्जरः। बालतृणवीत्पञ्जरः सस्पिञ्जरः। पृपोदरादित्वात्साधुः। स च त्विपीमान्दीप्तिमान्। तथाविधरूद्रमूर्तये नमोऽस्तु। पथीनां शास्त्रोक्तदक्षिणोत्तरतृतीयमार्गाणां पतिः पालको यो रुद्रस्तस्मै रुद्राय नमोस्तु। अथ चतुर्थ यजुराह—
नमो बभ्‍लुशायेति। बिभूर्ति रुद्रमिति बभ्‍रुर्वृषभः। स एव बभ्‍लुः। रलयो-र्भेदाभावः। तस्मिञ्शेते प्तिष्ठतीति बभ्‍लुशः। स च विद्वेषिणो विशेषेण विध्यतीति विव्याधी। तथाविधाय विव्याधिने नमोऽस्तु। यश्चान्नानां पालको रुद्रस्तस्मै नमोऽस्तु। अथ पञ्‍चमं यजुराह—
नमो हरिकेशायेति। नीलमूर्वजाय पलितरहितायोपवीतिने मङ्गलार्थं यज्ञोपवीतधारिणे रुद्राय नमोऽस्तु। पुष्टानां परिपूर्णगुणानां पुरुषाणां पतये स्वामिने नमोऽस्तु। अथ षष्ठं यजुराह—
नमो रुद्रायेति। आततेन विस्तारितेन धनुषाऽवति रक्षतीत्याततावी, तस्यै रुद्राय नमोऽस्द्रु। क्षेत्राणां पालको यो रुद्रस्तस्मै नमोऽस्तु। अथाष्टमं यजुराह—
नमः सूतायेति। सूतः सारथिः। अहन्त्यो वैरिभिर्हन्तुमशक्यः। तादृ-

[[2118]]

शाय रुद्राय नमोऽस्तु। यो वनानां पालकस्तस्मै रुद्राय नमोऽस्तु। अथ नवमं यजुराह—
नमो रोहितायेति। रोहितो लोहितवर्णः। स्थपतिः प्रभुः। तस्मै रुद्राय नमोऽस्तु। वृक्षाणां यः पालकस्तस्मै नमोऽस्तु। अथ दशमं यजुराह—
नमो मर्न्त्रिण इति। राजसभायां मन्त्रालोचनकुशलो मन्त्री। स च वणिजां स्वामित्वेन वाणिजस्तस्मै नमोऽस्तु। वनगता गुल्‍मादयः कक्षास्तेषां पालकाय नमोऽस्तु। अथैकादशं यजुराह—
नमो भुंवतय इति। भुवं तनोतीति भूवंतिः। वरिवा धनं तस्य कर्ता वरिवस्कृत्स एव वारिवस्कृतस्तस्मै नमोऽस्तु। ओषधीनां ग्राम्यारण्यानां पालकस्तस्मै नमोऽस्तु। अथ द्वादशं यजुराह –
नम उच्‍चैर्धोषायेति। युद्धकाल उच्छ्रितो धोषो ध्वनिर्यस्यासावुच्‍चैर्धोष-स्तस्मै। आक्रन्दयन्वेरिणां रोदयिता तस्मै रुद्राय नमोऽस्तु। पत्तीनां पादचारिणो योधाः पत्ति शब्दवाच्यास्तेषां पालकाय नमोऽस्तु। अथ वयोदशं यजुराह—
नमः कृत्‍स्‍नवीतायेति। कृत्‍स्‍नं सैन्यं वीतं वेष्टितं येनासौ कृत्‍स्‍नवीतस्तस्मै। धावते पलायमानानां परिकीयसैन्यानां पृष्ठतो गच्छन्धार्वस्तस्मै गनोऽस्तु। सत्त्वानः सात्त्विकाः शरणागतास्तेषां पालकाय नमोऽस्तु।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठकेऽ-
द्वितीयोऽनुवाकः ।। २।।