(तत्र प्रथमोऽनुवाकः)।
ह॒रिः ॐ ।
नम॑स्ते रुद्र म॒न्यव॑ उ॒तो त॒ इष॑वे॒ नमः॑।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑।
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय।
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी।
तया॑ नस्त॒नुवा॒ शंत॑मया॒ गिरि॑शंता॒भि चा॑-
[[2110]]
कशीहि। यामिषुं॑ गिरिशंत॒ हस्ते॑ [ १ ]
बि॒भर्ष्यस्त॑वे। शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा
हिँ॑सीः॒ पुरु॑षं॒ जग॑त्। शि॒वे॒न वच॑सा त्वा॒
गिरि॒शाच्छा॑ वदामसि। यथा॑ नः॒ सर्व॒मि-
ज्ज॒ग॑द॒यक्ष्मँ सु॒मना अस॑त्। अध्य॑वोचदधि-
वक्ता प्रथ॒मो दैव्यो॑ मि॒षक। अहीँ॑श्च॒ स-
र्वान्ज॒म्भय॒न्सर्वाश्च यातुधा॒न्यः॑। अ॒सौ य
स्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑। ये
चे॒माँ रु॒द्रा अ॒मितो॑ दि॒क्षुः [ २ ] श्रि॒ताः
स॑हस्र॒शोऽवै॑षाँ॒ हेढ॑ ईमहे। अ॒सौ यो॑ऽव॒स-
र्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः। उ॒तैनं॑ गो॒पा
अ॑दृश॒न्नदृ॑शन्नुदहा॒र्यः॑। उ॒तैनं॒ विश्वा॑ भृ॒तानि॒
स दृ॒ष्टो मृ॑डयाति नः। नमो॑ अस्तु॒ नील॑-
ग्रीवाय सहस्रा॒क्षाय मी॒ढुषे॑। अथो॒ ये
अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं नमः॑। प्र
मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नियो॒र्ज्या॑म्। याश्च॑
ते॒ हस्त॒ इष॑वः ( ३ ) परा॒ ता भ॑गवो वप।
अ॒वतत्य॒ धनु॒स्त्वँ सह॑स्राक्ष॒ शते॑षुधे। नि॒-
शीर्य॑ श॒ल्यानां॒ मुखा शि॒वो नः॑ सु॒मना॑ भ-
व। वि॑ज्यं॒ धनः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑-
वाँ उ॒त। अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒-
ङ्गथिः॑। या ते॑ हे॒तिर्मी॑ढुष्टभ॒ हस्ते॑ ब॒भूव॑ ते॒
[[2111]]
धनुः॑। तया॒ऽस्मान्वि॒श्बत॒स्त्वम॑य॒क्ष्मया॒ परि॑
ब्भुज। नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒-
ष्णवे॑। उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒
धन्व॑ने। परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु
वि॒श्वतः॑ । अथो॒ य इ॑ष॒धिस्तवा॒रे अ॒स्मन्नि॑
धो॑हि॒ तम् [ ४ ] ।।
(हस्ते॑ दि॒क्ष्विष॑व उ॒भाभ्यां॒ द्वाविँ॑शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
पञ्चमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
(अथ चतुर्थाष्टके पञ्चमप्रपाठके प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्।।
हष्टकाचितयः सर्वाश्चतुर्थे हि समापिताः।
रुद्राध्याये पञ्चमे तु चित्यग्नौ होम उच्यते।।
कर्मप्रकरणे पाठात्कर्माङ्गत्वमपीष्यते।
ज्ञानहेतुत्वमप्यस्य सर्वोपनिषदीरितम्।।
किं जप्येनामृतत्वं नो ब्रूहीत्युक्तो मुनिर्जगौ।
शतरुद्रीयकेणेति जावाला आमनन्ति हि।।
स्मृत्यागमपुराणेषु रुद्राध्यायप्रशंसनम्।
बह्मस्ति तद्विस्तरेण रुद्रकल्पेऽभिधास्यते।।
इह कर्माङ्गता यादृग्वर्णिता ब्राह्मणेन ताम्।
बोद्धुं शब्दार्थमात्रस्य विबृतिः क्रियते स्फुटा।।
[[2112]]
कल्पः—“शतरुद्रीयं जुहोति जतिलयवाग्वा वा गवीधुकयवाग्वा वा जर्ति-लगवीधुकसक्तुभिर्वा कुशयवसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वाऽर्कपर्णेनोदङ्तिष्ठ न्नुत्तरस्य पक्षस्य उत्तरामपस्यां स्रक्त्यां विकर्ण्यां स्वयमातृण्णायामनुपरिचारं (क्रामं) वा नमस्ते रुद्र मन्यव इत्येताननुवाकांस्त्रेधा विभज्यापि वा प्रथमादुपक्रम्य नमस्तक्षभ्य इति जानुदघ्ने धारयमाणो रथकारेभ्य इत्युपक्रम्य नमः स्वायुधायेति नाभिदघ्ने शेषेण प्रागव-सानेभ्य आस्यदघ्ने हुत्वा सहस्राणि सहस्रश इति दशावदानानि हुत्वाऽन्वारोहाञ्जुहोति नमो रुद्रेभ्यो ये पृथिव्यामिति जानुदघ्ने धारयमाणे नमो रुद्रेभ्यो येऽन्तरिक्ष इति नाभिदघ्ने नमो रुद्रेभ्यो ये दिवीत्यास्यदघ्ने हुत्वैतानेव यजमानं वाचयित्वैतानेव विपरीतान्प्रत्यव-रोहान्हुत्वा संचरे पशूनामर्कपर्णमुदस्यति यं द्विष्यात्तस्य संचर इति” इति।
तत्र प्रथमानुवाके प्रथमामृचमाह—
नमस्ते रुद्रेति। हे रुद्र ते त्वदीयो यो मन्युः कोपस्तस्मै नमोऽस्तु। स मन्यु-रस्मद्वैरिष्वेव प्रसरतु नत्वस्मासु। उत्तापि च ते तवेषवे नमः। त्वदीयाय बाणाय नमोऽस्तु। तथा ते धन्वने त्वदीयाय धनुषे नमोऽस्तु। उतापि च ते बाहुभ्यां त्वदीयाभ्यां धनुर्बाणोपेताभ्यां हस्ताभ्यां नमोऽस्तु। एतत्सर्वान्वौरिष्वेव प्रवर्ततां न तु मयीत्यभिप्रायः। द्वितीयामृचमाह—
या त इषुरिति। हे रुद्र ते त्वदीया येयमिषुः शिवतमा शान्ततमा बभूव तथा ते त्वदीयं यद्धनुः शिवं शान्तं बभूव, तथा या च तव शरव्या तवेषुधिस्तया शान्तयेष्वा तेन च शान्तेन धनुषा तया च शान्तया शरव्यया नो ऽस्मान्मृडय सुखय। भक्तेषु प्रवृत्त्यभावात्तेषां शान्तत्वम्। अथ तृतीयामृचमाह—
या ते रुद्रेति। द्वे हि रुद्रस्य तनू। तथा चापरिष्टादाम्नायते रुद्रो वा एष यदग्निस्तस्यैते तनुवौ घोराऽन्या शिवाऽन्या” इति। हिंसिका घोराऽनुग्राहिका शिवा। हे रुद्र ते तव या तनूः शिवाऽस्मास्वनुग्रहकारिण्यत एवाघोरा हंसिका न भवति। अघोरत्वमेव स्पष्टी क्रियते-अपापकाशिनी पाप हिंसारू
[[2113]]
पमनिष्टं काशयतीति पापकाशिनी, तादृशी न भवतीत्यपापकाशिनी। गिरौ कैलासे स्थित्वा नित्यं प्राणिभ्यो यः शं सुखं तनोति स गिरिशंतस्तस्य संबोधनं हे गिरिशंत। तथाविध हे रुद्र शंतमयाऽतिशयेन सुखकारिण्या तया तनुवाऽभिचाकशीहि मामभि-लक्ष्य प्रकाशं करु। एतादृशीं त्वदीयां तुनं प्रकाश्य मां सुखिनं कुर्वित्यर्थः। अथ चतुर्थीमृचमाह—
यमिषुमिति। हे गिरिशंत यामिषुं वाणमस्तवे वैरिषु प्रक्षेप्तुं हस्ते विभार्षि। कैलासाख्यं गिरिं त्रायते पालयतीति गिरित्रस्तत्संबोधनं हे गिरित्र। तथाविध हे रुद्र तां हस्ते घृतामिषुं शिवामस्मासु शान्तां कुरु। पुरुषमस्मदीयं मनुष्यं जगन्मनुष्यव्यतिरिक्त-मपि जङ्गमं गवादिकं मा हिंसीः। अथ पञ्चमीमाह—
शिवेन वचसेति। गिरौ कौलासे शेते तिष्टतीति गिरिशः। हे गिरिश त्वामच्छ प्राप्तुं शिवेन मङ्गलेन स्तुतिरूपेण वचसा वदामसि वयं प्रार्थयामहे यथा येन प्रकारेण नोऽस्मददीयं सर्वमिज्जगन्सर्वमपि मनुष्यपश्वादिकं जङ्गप्रजातमयक्ष्मं रोगरहितं सुमना असत्सौमनस्योपेतं भवति तथा कुरु।अथ षष्ठीमाह–
अध्यवोचदिति। यो रुद्रोऽविवक्ताध्धिकोऽयमित्येवं सर्वेषामग्रे मां प्रति वक्तुं क्षमस्तेनोक्ते सति मम सर्वाधिक्यं ततानीमेव सिध्यति। अतस्तादृशो रुद्रोऽध्य-वोचन्मां सर्वाधिकं वदतु। कीदृशोऽघिवक्ता, प्रथमो देवानां मध्ये मुख्यो दैव्यः सर्वा-न्देवानर्हति स्वयं देवान्पालयितुं क्षम इत्यर्थः। भिषगेतस्य ध्यानमात्रेण सर्वरोगोपशमना-दयं चिकित्सकः। किं कुर्वन्, अहींश्च सर्वान्सर्पब्याघ्रादन्सिर्वानपि सर्वाश्च यातुधान्यः सर्वा अपि राक्षसजातीर्जम्भयंन्विनाशयन्।
अथ सप्तमीमाह—
असौ यस्ताम्र इति। यो रुद्रोऽसौ मण्डलस्थादित्यरूपः। स च ताम्र उदय-कालेऽत्यन्तरक्तोऽरुण उदयादूर्ध्वमषिद्रक्तः। उतापि च बभ्रुस्ततोऽप्यूर्ध्वं पिङ्गलः एव-मन्येऽपि वर्णास्तत्तत्कालगता उन्नेयाः। सुमङ्गलो नानावर्णः संस्तदा तदाऽन्धकारादिनि-वर्तकत्वादत्यन्तं मङ्गलः। ये चाऱ्ये रश्मिरूपा रुद्रा इमामभितोऽस्या भूमेः परितो दिक्षु श्रिताः प्राच्यादिदिक्ष्ववस्थिताः। ते च सह-
[[2114]]
स्त्रशोऽनेकसहस्रसंख्याका। एषामादित्यतद्रश्मिरूपाणां सर्वेषां रुद्राणां हेडः क्रोधसदृशं तीक्ष्णत्वमवेमहे भक्तिनमस्कारादिना निवारयामः। अथाष्टमीमाह—
असौ योऽयेति। यो रुद्रो नीलग्रीवः कालकूटविषधारणेन नीलवर्णा ग्रीवा यस्यासौ नीलग्रीवः। स एव विलोहितो विशेषेण लोहितवर्णः सन्नसौ मण्डलवर्ती भूत्वा-ऽवसर्पत्युदयास्तमयौ संपादयितुं प्रवर्तते। तस्य च रुद्रस्य मण्डलवर्तिस्वरूपधारणे प्रयो-जनमुच्यते-उतापि च गोपा वेदशास्त्रसंस्काररहिता गोपाला अप्येनं मण्डलवर्तिनमादित्य-रूपिणं रुद्रमदृशन्पश्यति। उदहार्य उदकानां हारिण्यो योषितोऽप्येनसदृशन्पश्यन्ति। उतापि चैनमादित्यरूपिणं रुद्रं विश्वा भूतानि गोमहिष्यादयः सर्वेऽपि प्राणिनः पश्यन्ति। सर्वेषां दर्शनार्थमेव हि रुद्रस्याऽऽदित्यमूर्तिधारणम्। कैलासादिवर्ति रुद्रस्य रूपं तु वेदशास्त्राभिज्ञैरेव दृश्यते नान्यैः। तादृशो रुद्रो दृष्टः सन्नोऽस्मान्मृडयाति सुखिनः करोत्वित्यर्थः। अथ नवमीमाह—
नमो अस्त्विति। यः पूर्वोक्तरीत्या नीलग्रीवः स एवेन्द्रमूर्तिधारणेन सहस्राक्षः। स पुनः पर्जन्यमूर्तिधारणेन मीढूवान्सेचको वृष्टिकर्तेत्यर्थः। तादृशाय रुद्राय नमोऽस्तु। अथो अपि च ये केचिदस्य रुद्रस्य सत्त्वानो भृत्यरूपाः प्राणिनस्तेभ्यः सर्वेभ्योऽहं नमोऽकरं नमस्करोति। अथ दशमीमाह—
प्र मुञ्चेति। ह भगवो भगवन्पूजावन्महदैश्वर्यसंपन्न रुद्र त्वं धन्वनस्त्वदीयस्य धनुष उभयोरार्त्नियोः कोट्योरवस्थितां ज्यां मौर्वीं प्रमुञ्चावरोपय। याश्व ते हस्त इषवो वर्तन्ते ता अपि परावप परित्यज। अथैकादशीमाह—
अवतत्येति। इन्द्ररूपेण सहस्रसंख्याकान्यक्षीणि यस्यासौ सहश्राक्षः। शतसंख्याका इषुधयो बाणस्थापनकोशा यस्यासौ शतेषुधिः। तादृश हे रुद्र धनुर-वतत्यावरोषितज्याकं कृत्वा शल्यानां मुखा मुकानिषुगतलोहानामग्राणि नि शीर्येषु-धिषु न्यग्भावेन शीर्णानि कृत्वा नोऽस्मान्प्रति सुमना अनुग्रहयुक्तः सञ्शिवः शान्तो भव। अथ द्वादशीमाह—
विज्यं धनुरिति। कपर्दो जटाजूटः सोऽस्यास्तीति कपर्दी रुद्रस्तस्य धनु-
[[2115]]
र्विज्यं विगतज्याकमस्तु। उतापि च बाणा अस्मिंस्तिष्ठन्तीति वाणवानि-षुधिः। स च विशल्योऽस्तु। इषुगतानां शल्यानां तदुदरे गोपितत्वेन बहिराविर्भूतशल्य-रहितोऽस्तु। अस्य रुद्रस्येषवो बाणा इषुधौ प्रक्षिप्ता अनैशन्वेद्धुमसमर्था भवन्तु अस्य रुद्रस्य। निषङ्गथिर्बाणाधार आभुरस्त्वषित्प्रभुरस्तु। कुड्यनिखातशङ्कावासाञ्जितत्वेन वाणान्धारयितुमेव प्रभवतु। न तु वाणाकर्षणयोग्य इत्यर्थः। अथवा निषङ्गथिः खड्गा-कर्षणसमर्थः। अश्च त्रयोदशीमाह—
या ते हेतिरिति। हे मीढुष्टमातिशयेन कामभिवर्पक या ते हेतिस्तव संबन्धि खड्गादिरूपं यदायुधं, यदपि ते तव हस्ते धनुर्वभूव, अयक्ष्मयाऽनुपद्रवकारिण्या तया हेत्या तथाविधेन धनुषा च त्वमस्मीन्विश्वतः परिब्भुज सर्वतः परिपालय। अथ चतुर्दशीमाह—
नमस्ते अस्त्विति। हे रुद्र ते त्वदीयायाऽऽयुधाय वाणरूपाय नमोऽस्तु। कीदृशायाऽऽयुधाय, अनातताय धनुषि संधानाभावादमसारिताय, धृष्णवे स्वरूपेण प्रहतुं प्रगल्भाय। किंच ते त्वदीयाभ्यामुभाभ्यां बाहुभ्यां नमोऽस्तु। तथा तव त्वदीयाय धन्वने नमोऽस्तु। अथ पञ्चदशीमाह—
परि ते धन्वन इति। हे रुद्र ते त्वदीयस्य धन्वनो हेतिर्बाणशल्यरूपाऽस्मा-न्विश्वतः सर्वतः परिवृणक्तु वर्जितान्करोतु, मा बाधतामित्यर्थः। अथो अपि च यस्तवे-षुधिस्तमस्मदारेऽस्मत्तो दुरे निधेहि स्थापय।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके
प्रथमोऽनुवाकः ।। १।।