( तत्र प्रथमोऽनुवाकः ) ।
ह॒रिः॒ ॐ ।
र॒श्मिरसि॒ क्षया॑य त्वा॒ क्षयं॑ जिन्व॒ प्रेति॑रसि॒
धर्मा॑य त्वा॒ धर्म॑ जि॒न्वान्वि॑तिदसि दि॒ते त्वा॒
दिवं॑ जिन्व सं॒धिर॑स्य॒न्तरि॑क्षाय त्वा॒ऽन्तरि॑क्षं
जिन्व प्रति॒धिर॑सि पृथि॒व्यै त्वा॑ पृथि॒वीं
जि॑न्व विष्ट॒म्भो॑ऽसि॒ वृष्टयै॑ त्वा॒ वृष्टि॑ जिन्व
प्र॒वाऽस्यहने॒ त्वाऽहर्जिन्वानु॒वाऽसि॒ रात्रि॑यै
त्वा॒ रात्रिं॑ जिन्वो॒शिग॑सि ( १ ) वसु॑भ्य-
स्त्वा॒ वसू॑ञ्जिन्व प्रके॒तो॑ऽसि रु॒द्रेभ्य॑स्त्वा रु॒-
द्राञ्जि॑न्व सुदी॒तिरस्यादि॒त्येभ्य॑स्त्वाऽऽदि॒त्या
ञ्जि॒न्वौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॑न्व॒ तन्तु-
रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व पृतना॒षाड॑-
सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॑न्व रे॒बद॒स्योष॑धीभ्य॒-
स्त्वौष॑धीर्जिन्वाभि॒जिद॑सि यु॒क्तग्रा॒बेन्द्रा॑य॒
त्वेन्द्रं॑ जि॒न्वाधि॑पतिरसि प्रा॒णाय॑ [ २ ]
त्वा॒ प्रा॒णं जि॑न्व य॒न्ताऽस्य॑षा॒नाय॑ त्वाऽपा॒नं
जि॑न्व सँ॒सर्पोऽसि॒ चक्षु॑षे त्वा॒ चक्षु॑र्जिन्व
वयो॒धा अ॑सि॒ श्रोत्रा॑य त्वा॒ श्रोत्रं॑ जिन्व
त्रि॒वृद॑सि प्र॒वृद॑सि सं॒वृद॑सि वि॒वृद॑सि सँरो॒-
हो॑ऽसि नीरो॒हो॑सि प्ररो॒हो॑ऽस्यनुरो॒हो॑ऽसि
वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्ठिरसि [ ३ ] ।।
[[2043]]
( उ॒शिगा॑सि प्रा॒णाय॒ त्रिच॑त्वारिँशच्च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
चतुर्थप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
अथ चतुर्थकाण्डे चतुर्थ प्रपाठकः।
( तत्र प्रथमोऽनुवाकः ) ।
यस्य निःश्वसिदं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
प्रपाठके तृतीयोऽस्मिंश्चितयः पञ्च वर्णिताः ।
चतुर्थे पञ्चमचितेः शेषः सर्वो विधीयते ।।
तत्र प्रथमानुवाके स्तोमभागा उच्यन्ते ।।
कल्पः—“रश्मिरसि क्षयाय त्वा क्षयं जिन्वेति स्तोमभागाः सप्त सप्त प्रतिदिशमवशिष्ठा मध्ये” इति।
तत्र पूर्वस्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह—
रश्मिरसि क्षयायेति । हे इष्टके त्वमादित्यरश्मिरूपाऽस्यतः क्षयाय निवाससिद्ध्यर्थं त्वामुपदधामि । त्वं चास्माकं क्षयं निवासं जिन्व प्रीणय संपादये-त्यर्थः । एवं सर्वं योजनीयम् । प्रकृष्टा गतिर्यस्याः सा प्रेतिः । धर्मो विहितकर्मानु-ष्ठानम् । अनुकूला गतिर्यस्याः साऽन्वितिः । द्यौः स्वर्गः । द्यावापृथिव्योर्मध्यवर्ती देशः संधिः । अन्तरिक्षं गन्धर्वादिलोकभागोऽन्तरिक्षम् । प्रतिधिशब्देन भूलोक-भाग उपलक्ष्यते । विशेषेण स्तभ्यते। जलमत्र घार्यत इति विष्यम्भो मेघः । प्रथमं वाति गच्छति प्रवर्तत इति प्रबोषःकालः । उषा हि सूर्योदयात्पूर्वं प्रवर्तते । अतोऽहसिद्ध्यर्थं त्वामुपदघामि ।
अथ दक्षिणस्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह—
अनुवाऽसि रात्रिया इति । अनु सूर्यास्तमयात्पश्चाद्वाति चरति प्रयाती-
[[2044]]
त्यनुवा सायंसंध्या । उशिग्वसुभिः काम्यमानाऽसि । अतो वसूभ्यो वसूनां प्रीत्यर्थं त्वामुपदधामि । त्वं च वसूञ्जिन्वं प्रीणय । एवमुत्तरत्र योज्बम् । प्रकृष्टः केनो यः ( स ) प्रकेतः । रुद्राणां यः प्रकेतस्तद्रूपा त्वमसि । शोभना दीतिः र्दीप्तिः सुदीतिः सा त्वमसि श्रोजो बलं पितॄणां यद्बलमनुग्रहसमर्थं तद्रूपा त्वमसि । तन्तु पुत्रपौत्रा-दिसातर्त्यम् । स्वकीयान्गवादिपशूनपहर्तुमागता या परकीयसेना सा पृतना तां सहतेऽभिभवतीति पृतनाषाड् ।
अथ पश्चिमायां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह—
रेवदस्योपघीभ्य इति । रा अस्यास्तीति रेवत् । ओषधिसाध्यं यद्धनं जीवनं तद्रूपा त्वगसि । जयसि शत्रूनभिभवसीत्यभिजित् । पाषाणसदृशो वाञ्चा ग्रावा, युक्तो हस्ते स्वीकृतो ग्रावा यस्यासौ युक्तग्रावा । इन्द्रश्चक्षुरदीन्द्रियाण्यधिष्ठाय पालयिता । यः श्वासरूपो वायुः सोऽधिपतिस्तद्रूपा त्वमसि । वहिर्निर्ग तस्य श्वासस्य पुनरप्यन्तःप्रवेशाय नियामको यो वायुविशे । स यन्ता, तद्रूपा त्वमसि । सम्यक्सर्पयति बलेन प्रवर्तयति मां चयनधनप्रस्या [ स्वीक ] रणायसंसर्पो दृष्टिः । वयः पक्षी तद्वद्धावतीति वयोधाः । पक्षी तत्र तत्र गत्वा स्व कार्यं साधयति तथा श्रोत्रेन्द्रियशक्तिस्तत्तच्छनब्दं प्राप्य निश्चिनोति, उच्छक्तिरूपत्वमासे । तिस्र आवृतोऽवयवविशेषा यस्य मिथुनीभावस्य सोऽपं त्रिबृत्पुमान्यो षित्साङ्गश्चो- त्यवयवत्रयं, तथाविधमिथुनीभावरूपा त्वमसि।
अथोदीच्यां दिश्युपधेयानामिष्टकानां सप्त मन्त्रानाह—
प्रवृदसि संवृदिति । स्त्रीपुरुषयोः संसर्गानन्तरभाविनी या प्रवृत्तिः सा
प्रवृत्तद्रूपा त्वमसि । प्रवृत्त्यनन्त्रभावी यः सभ्यग्व्यापारः सोऽयं संवृत्तद्रुपा त्व-मसि । तद्व्यापारदूर्ध्वं या विवृत्तिः सा विवृत्तद्रूपा स्वमसि । संभोगादूर्ध्वं
[[2045]]
वीणस्य क्षेत्रे यः समारोपः सोऽयं संरोहस्तद्रूपा त्वमसि । क्षेत्रे प्रक्षिप्तस्य वीजस्य निःशेषेण गर्भाशयव्याप्तिर्निरोहस्तद्रूपा त्वमसि । गर्भशथे व्याप्तस्य वीजस्य शरीरा-कारः परिणामाः प्ररोहस्तद्रूपा त्वमसि । तस्य च षरिणतस्य शरीरस्यानुकूलः पुत्रादिरूपेण प्रादुर्भावोऽनुरोहस्तद्रूपा त्वमसि ।
अथ मध्यदेश उपधेयानामिष्टकानां त्रीन्मन्त्रानाह—
वसुकोऽसीति । वसु धनमस्यास्तीति वसुको धनी पुत्रस्तद्रूपा त्वम-सिवेषो व्याप्तं घनं, वेषं श्रयते सेवत इति वेषश्रिः । माप्तस्याभिवृद्धिकारीत्यर्थः । तद्रूपा त्वमसि । षसुनोऽभिवृद्धस्य धनस्याष्टिर्भोजनं यस्यासौ वस्याष्टिः । धनं सं-पाद्य तदभिवृद्धिं च कृत्वा तयाऽभिवृद्ध्या जीवतीत्यर्थः । तद्रूपा त्वमसि ।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“यज्ञेन वै प्रजापतिः प्रजा असृजत ताः स्तोमभागैरेवासृजत यत्स्तोम-भाग उपदधाति प्रजा एव तद्यजमानः सृजते” (सं. का. ५ प्र. ३ अ. ५) इति।
प्रजापतिर्यदा यज्ञेन प्रजा असृजत तदानीं यज्ञमध्यवर्तिनः स्तोमभाग-मन्त्रा एवं सृष्टिहेतव आसन् । त्रिवृदादिस्तोमयुक्तानि यानि बहिष्पवमानादिस्तोत्रा-णि तानि भजन्त इति रश्मिरित्यादयो मन्त्राः स्तोमभागाः । ब्रह्मा तत्स्तोत्राण्यभ्यनु-जानन्रश्मिरित्यादिकमेकैकं मन्त्रमुच्चार्याम्यनुजानाति । एतच्चास्माभिः पूर्वमृषयो वा इन्द्रमित्यनुवाके स्पष्टमुक्तम् । अतो रश्मिरित्यादयः स्तोमभागाः एतैर्मन्त्रै रुपे-धया इष्टका अपि स्तोमभागाः । तदुपधानेन यजमानः प्रजाः सृजत एव । ता एताः स्तोमभागाख्या इष्टका यज्ञतेजस्त्वेन यज्ञप्रतिष्ठात्वेन च क्रमेण प्रशंसति—
“बृहस्पतिर्वा एतद्यज्ञस्य तेजः समभरद्यत्स्तोमभागा यत्स्तोमभागा उपदधाति सतेजसमेवाग्निं चिनुते बृहस्पतिर्वा एतां यज्ञस्य प्रतिष्ठामपश्यद्यत्स्तोम-भागा
[[2046]]
यत्स्तोमभागा उपदधाति यज्ञस्य प्रतिष्ठित्य” [सं. का. ५ प्र. ३ अ. ५] इति।
सामान्येन विहितं पुनर्विशेषाकारेण विर्धत्ते—
“सप्तसप्तोप दधाति सवीर्यत्वाय तिस्त्रो यध्ये प्रतिष्टित्यै” (सं. का. ५ प्र. ३ अ. ५) इति।
एकैकस्यां दिशि सप्तसप्तोपधानेन सवीर्यत्वं दार्ढ्यं भवति । मध्ये तिसृणामुपधानेन प्रतिष्ठा स्थैर्यं भवति ।
प्रजापतिः स्तोमभागैरेवासृजतेति सामान्यत उक्तं, तेषु कैः स्तोमभागैः कि मसृजतेत्येकैकमिष्टकामन्त्रं विभजते—
“रश्मिरित्येवाऽदित्यमसृजत प्रेतिरिति धर्ममत्वितिरिति दिवँ संधि-रित्यन्तरिक्षं प्रतिधिरिति पृथिवीं विष्टम्भ इति वृष्टिं प्रवेत्यहृरनुवेति रात्रिमुशिगिति वसून्प्रकेत इति रुद्रान्त्सुदीतिरित्यादित्यानोज इति पितॄँ स्तन्तुरिति प्रजाः पृतनाषा-डिति पशून्रेवदित्योषधीः” (सं. का. ५ प्र. ३ अ. ६) इति।
तत्र रश्मिरित्यादयो मन्त्रास्तत्सृज्यपदार्थसंबन्धित्वेन पूर्वं व्याख्याताः । अ तस्तेन मन्त्रेण तत्तत्पदार्थमसृजतेत्युपपन्नम् । एवं पञ्चदशभिर्मन्त्रैः सृष्टिरभि-हिता । अथ सृष्टस्य जगतो रक्षाहेतुभूतं षोडशं मन्त्रं दर्शयति—
“अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्येव दक्षिणतो वज्रं पर्यौहद-भिजित्ये” (सं. का. ५ प्र. ३ अ. ६) इति।
अस्मिन्मन्त्रे वज्र एव संबोध्यते । हे वज्र त्वमभिजिज्जयहेतुर्युक्तग्रावा स्थापितपाषाण इव दृढश्चास्यत इन्द्रप्रीत्यर्थं त्वां पर्यूहामि तेनेन्द्रं प्रीणयेति मन्त्रार्थः। प्रजापतिरेतं मन्त्रमुच्चारयन्दक्षिणहस्तेन सृष्टस्य जगतो रक्षणाय वज्रं प्रेरितवांस्तेन बाधकविनाशे सति सृष्ट्या अभिजयोऽभूत्।
[[2047]]
याः सृष्टा प्रजा वज्रेणं रक्षितास्तासु शरीरूपासु प्रजासु मन्त्रचतुष्टये नन्द्रियस्थापनं दर्शयति—
“ताः प्रजा अपप्राणा असृजत तास्वधिपतिरसीत्येव प्राणमदधाद्य-न्तेत्यपानँ सँ सर्प इति चक्षुर्वयोधा इति श्रोत्रम्” (सं. का. ५ प्र. ३ अ. ६) इति।
एवमिन्द्रिययुक्तैः शरीरैर्व्यवहरन्तीषु प्रजासु मन्त्रचतुष्टयेन मिथुनीभाव-संपत्तिं दर्शयति—“ताः प्रजाः प्राणतीरमानतीः पश्यन्तीः शृण्वतीर्न मिथुनी अभव-न्तासु त्रिवृदसीत्येव यिथुनमदधात्” [सं. का. ५ प्र. ३ अ. ६] इति।
मिथुनीभूतासु प्रजासु मन्त्रचतुष्टयेन प्रजोत्पादनसामर्थ्यं दर्शयति—
“ताः प्रजा मिथुनी भवन्तीर्न प्राजायन्त ताः सँ रोहोऽसि नीरोहाऽसी-त्येव प्रजानयत्” (सं. का. ५ प्र. ३ अ. ६) इति।
अपत्योपेतानां प्रजानां मन्त्रत्रयेण प्रतिष्ठा भवतीत्येतद्दर्शयति—
“ताः प्रजाः प्रजाता न प्रत्यतिष्ठन्ता वसुकोऽसि वेषश्रिरसि वश्यष्टिर-सीत्येवैषु लोकेषु प्रत्यस्थापयद्यदाह वसुकोऽसि वेषश्रिरसि वस्यष्टिरसीति प्रजा एव प्रजाता एषु लोकेषु प्रति ष्ठापयति” (सं. का. ५ प्र. ३ अ. ६) इति।
एतद्वेदनं प्रशंसति—
“सात्माऽन्तरिँ रोहसि सप्राणोऽमुष्मिल्लोँके प्रति तिष्टत्यव्यर्धकः प्राणापानाभ्यां भवति य एवं देद” (सं. का. ५ प्र. ३ अ. ६) इति।
सात्मा सशरीरोऽन्तरिक्षँ गत्वा यज्ञगन्धर्वादिलोकेषु भोगान्भुङ्क्ते, स्वर्गलोकेऽपि प्राणशरीरयुक्त एव प्रतितिष्ठति, प्राणापानाभ्यां कदाचिदपि न वियुक्तो भवति ।
अत्र विनियोगसंग्रहः—
इष्टका रश्मिरित्येकत्रिंशस स्तोमभागकाः ।। इति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे चतुर्थप्रपाठके
प्रथमोऽनुवाकः ।। १ ।।
[[2048]]