१३

( अथ चतुर्थकाण्डे तृतीयप्रपाठके त्रयदशोऽनुवाकः ) ।
अ॒ग्‍निर्बृ॒त्राणि॑ जङ्‍घनद्‍द्रविण॒स्युर्वि॑प॒न्यया॑ ।
समि॑द्धः शु॒क्र आहु॑तः । त्वँ सो॑मासि॒ स-
त्प॑ति॒स्त्वँ राजो॒त वृ॑त्र॒हा । त्वं भ॒द्रो अ॑सि॒
क्रतुः॑ । भ॒द्रा ते॑ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑
स॒तो विषु॑णस्य॒ चारुः॑ । न यत्ते॑ शो॒शिस्त-
म॑सा॒ वर॑न्त॒ न ध्व॒स्मान॑स्त॒नुवि॒ रेप॒ आ
धुः॑ । भ॒द्रं ते॑ अग्‍ने सहसि॒न्ननी॑कमुपा॒क
आ रो॑चते॒ सूर्य॑स्य [ १ ] । रुश॑द्‍दृ॒शे द॑-
दृशे नक्त॒या चि॒दरू॑क्षितं दृ॒श श्रा रू॒पे अ-
न्न॑म् । सैनाऽनी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑
दे॒वाँ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा
उ॒त नः॑ पर॒स्पा अग्‍ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ।
स्व॒स्ति नो॑ दि॒वो अ॑ग्‍ने पृथि॒व्या वि॒श्वायु॑
र्धेहि य॒जथा॑य देव । यत्सी॒महि॑ दिविजात॒
प्रश॑स्तं॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।
यथा॑ होत॒र्मनु॑षः [ २ ] दे॒वता॑ता य॒ज्ञेभिः॑
सूनो सहसो॒ यजासि । एवा नो॑ अ॒द्य स॑म

[[2031]]

ना स॑मा॒नानु॒शन्न॑ग्‍न अश॒तो य॑क्षि दे॒वान् ।
अ॒ग्‍निमी॑डे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
होतारँ॑ रत्‍न॒धात॑मम् । वृषा॑ सोम द्यु॒माँ
अ॑सि॒ बृषा॑ देव॒ वृष॑व्रतः । बृषा॒ धर्मा॑णि द-
धिषे । सांत॑पना इ॒दँ ह॒विर्मरु॑त॒स्तज्‍जु॑जुष्ट-
न । यु॒ष्माको॒ती रि॑शादसः । यो नो॒ मर्तो॑
वसवो दुर्हृणा॒युस्ति॒रः स॒त्यानि॑ मरुतः [ ३ ]
जिघाँ॑ सात् । द्रुहः पाशं॒ प्रति॒ स मु॑चीष्ट
तपिष्ठेन तप॑सा हन्तना॒ तम् । सं॒व॒त्स॒रीणां
म॒रुतः॑ स्व॒र्का उ॑रु॒क्षयाः॒ सग॑णा॒ मानु॑षेषु ।
ते॑ऽस्मत्पाशा॒न्प्र मु॑ञ्चन्त्वँह॑सः सांतप॒ना म॑
दि॒रा मा॑दयि॒ष्णवः॑। पि॒प्री॒हि दे॒वाँ उ॑श॒तो
य॑विष्ठ वि॒द्वाँ ऋ॒तु र्ऋ॑तुपते यजे॒ह । ये दै-
व्या॑ ऋ॒त्विज॒स्तोमि॑रग्ने॒ त्वँ होतॄ॑णाम॒स्या-
य॑जिष्ठः । अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒
पाव॑क [ ४ ] शो॒चे॒ वेष्ट्वँ हि यज्वा॑ । ऋ॒ता
य॑जासि महि॒ना वि यद्‍भृर्ह॒ब्या व॑ह यविष्ठ॒-
या ते॑ अ॒द्य । अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोषमे॒व
दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् । ग॒य॒स्फानो॑
अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः । सु॒मि॒त्रः सो॑-
म नो भव । गृह॑मेधास॒ आग॑त॒ मरुतो॒

[[2032]]

माऽप॑ भूतन । प्रमु॒ञ्चन्तो॑ नो॒ अँ ह॑सः। पू॒-
र्वीभि॒र्हि द॑दांशि॒म श॒रद्भि॑र्मरुतो व॒यम् ।
महो॑भिः [ ५ ] च॒र्ष॒णी॒नाम् । प्र वृ॒घ्‍निया॑
ईरते वो॒ महाँ॑ सि॒ प्र णामा॑नि प्रयज्यव-
स्तिरध्वम् । स॒ह॒स्त्रियं॒ दम्यं॑ भा॒गमे॒तं गृ॑हमे॒
धीयं॑ मरुतो जुषध्वम् । उप॒ यमेति॑ युव॒तिः
सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विप्म॑ती घृ॒ताची॑ । उप॒
स्वैन॑म॒रम॑तिर्वसू॒युः । इ॒मो अ॑ग्ने वी॒तत॑मानि
ह॒व्याऽज॑स्त्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न
ईँ सुर॒भीणि॑ वियन्तु । क्री॒डं वः॒ शर्धो॒
मारु॑तमन॒र्वाणँ॑ रथे॒शुभ॑म् [ ६ ] । कण्वा॑
अ॒भि प्र गा॑यत । अत्या॑सो॒ न ये म॒रुतः॒
स्वञ्‍चो॑ यक्ष॒दृशो॒ न शु॒भय॑न्त॒ मर्याः॑ । ते
ह॑र्म्ये॒ष्ठा शिश॑वो॒ न शुभ्रा व॒त्सासो॒ न प्र॑-
क्री॒डिनः॑ पयो॒धाः । प्रैषा॒मज्मेषु विथु॒रेव॑
रेजते॒ भूमि॒र्यामे॑षु॒ यद्ध यु॒ञ्जते॑ शुभे । ते
क्री॒डयो॒ धन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं
प॑नयन्त॒ धूत॑यः । उ॒प॒ह्व॒रे॒षु यदचि॑ध्वं य॒यिं
बय॑ इव मरुतः केन॑ [ ७ ] चि॒त्प॒था ।
श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒
मधु॑वर्ण॒मर्च॑ते । अ॒ग्निम॑ग्निँ॒ हवी॑मभिः॒ सदा॑
हवन्त वि॒श्पति॑म् । ह॒व्य॒वाहं॑ पुरुप्रि॒यम् ।

[[2033]]

तँ हि शश्वन्त॒ इड॑ते स्रु॒चा दे॒वं घृ॑त॒श्‍चुता॑ ।
अ॒ग्निँ ह॒व्याय॒ वोढ॑वे । इन्द्रा॑ग्नी रोच॒ना
दि॒वः श्नथ॑द्‍वृ॒त्रमिन्द्रं॑ वो वि॒श्वत॒स्परी॒न्द्रं॒
नरो॒ विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नो विश्व॑क-
र्म॒न्हविषा॒ वर्ध॑नेन ।। ८ ।।
( सूर्य॑स्य॒ मनु॑षो मरुतः॒ पाव॑क॒ महो॑भी रथे॒शुभं॒ केन॒ षट्च॑त्वारिँशच्‍च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

अ॒पां त्वेम॑न्न॒यं पु॒रः प्राची॑र्ध्‍रु॒वक्षि॑ति॒स्त्र्यवि॒रिन्द्रा॑ग्‍नी॒ मा छन्द॑ आ॒शुस्त्रि॒-वृद॒ग्नेर्भा॒गो॑ऽयये॒क॑ये॒यमे॒व सा याऽग्‍ने॑ जा॒तान॒ग्‍निर्वृ॒त्राणि॑ जङ्‍घन॒त्त्रयो॑दश ।।१३।।
अ॒पां त्वेन्द्रा॑ग्‍नी इ॒यमे॒व सा दे॒वता॑ता॒ षट्त्रिँ॑शत् ।। ३६ ।।
हरिः॑ ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयः प्रपाठकः ।। ३ ।।

( अथ चतुर्थकाण्डे तृतीयप्रपाठके त्रयोदशोऽनुवाकः )।
द्वादशेऽनुवाकेऽसपत्‍ना विराजश्चोक्ताः । अथ त्रयोदशस्यान्त्यानुवा-कत्वात्तत्र याज्यानुवाक्या उच्यन्ते ।
चातुर्मास्येषु साकमेधाख्ये तृतीये पर्वण्यग्नयेऽनीयवते पुरोडाशमष्टा-कपालं निर्वपति साकँ सूर्येणाद्येतत्यादिहवष्यिंम्‍नातानि । तत्र प्रथमस्याऽऽज्य-भागस्य पुरोनुवाक्यामाह—

[[2034]]

अग्निर्वृत्राणीति । अयमग्निरस्याननुगृह्‍णात्विति शेषः । कीदृशोऽग्निः, वृत्राणि जङ्घनत्कर्मानुष्टाननिवारकाणि पापान्यतिशयेन हतवान्, विपन्यया विशिष्ट-याऽस्मात्कृतया स्तुत्या द्रविणस्युरस्मदर्थं द्रविणेच्छुः, समिद्धः सम्यक्प्रज्वालितः, शुक्रः शोचमानः, आहुत आ समन्तादस्माभिराकारितोऽनेनाऽऽज्योनाऽऽहुतो वा अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह—
त्वँ सोमासीति । हे सोम त्वं सतां सम्यगनुष्ठितानां कर्मणां पतिरसि। किंच त्वं राजा दीप्तिमान् । अपि च त्वं वृत्रहा पापघाती । किंच त्वं भद्रः फलप्रदत्वेन मङ्गलः क्रतुरसि । तस्य क्रतोर्निष्पादकत्वात् । यद्यप्येतन्मन्त्रद्वयं चोद कप्राप्तं तथाऽप्यमावारयाविकृतित्व युक्तां वृधन्वत्योः प्राप्तिं वारयितुं पुनः पाठः ।
अथ प्रधानस्याग्नेरनीकवतो हविषः पुरोनुवाक्यामाह—
भद्रा ते अग्न इति । शोभनमनीकं सैन्यं यस्यासौ स्वनीकः, तादृश हेऽग्ने ते त्वदीयानि चरित्राणि भद्रा भद्राणि मङ्गलानि । कथं भद्रत्वमिति तदुच्यते— त्वं संदृक्सम्यग्यजमानादन्पिश्यसि, यजमानादिभिर्वा सम्यग्दृश्यते । तथा त्वं घोर स्योग्रस्य सतः सर्वदा विद्यमानस्य विषुणस्य बहुलज्वालरूपेण विष्वग्व्यासस्य चारुश्चरणहेतुः, अस्मदनिष्टनिवारकस्य निरन्तरस्य ज्वालासमूहस्य प्रवर्तक इत्यर्थः । यत्ते तत्र शोचिः प्रकाशनं कदाचिदपि तपसा न वरन्त नाऽव्रियते । ध्वस्मानो ध्वंसहेतवो राक्षसास्तनुवि शरीरे त्वदीये रेपः प्रहाररूपं पापं नाऽऽधुर्नैव संपदित वन्तः । अथ तत्रैव याज्यामाह—
भद्रं ते अग्न इति । सहो वलमस्यास्तीति सहसी, तादृश हेऽग्ने सूर्यस्य ते सूर्यसदृशस्य तव भद्रं कल्याणमतीकं ज्वालारूपं सैन्यमुपाक उपान्तिके समीप आरोचते सर्वतो दीप्यते । तादृशं ज्वालारूपं त्वदीयमनीकं नक्तयाचिन्नक्तमपि गाढान्धकारावृतायां रात्रावपि ददृशो विस्पष्टं दृश्यते प्राणिभिः । किमर्थं रात्रौ तज्‍ज्वालादर्शनमिति तदुच्यते रुशद्धिंसकं सपांदिकं दृशे गार्गे द्रष्टुं, तथा रात्रौ भोजनवेलायां रूपे पुरतो निरूपिते पात्रेऽरूक्षितं रूक्षोपलक्षितमक्षिकाद्युपद्रवरहि-तमन्नमादृशे सर्वतो द्रष्टुम् । अथ तत्रैव विकल्पितां याज्यामाह—
सैनाऽनीकेनेति । हेऽग्ने स त्वं द्युमद्दीप्यमान मुतापची रेवब्दहुधनयुक्तं गृह

[[2035]]

क्षेत्रादिकं दीदिहि प्रकाशय । कीदृस्त्वम् । एनाऽनीकेन सुविदत्र एनेन ज्वाला-समूहेन सुष्ठु वेदिता, अस्मे देवान्यष्टाऽस्मदर्थं देवानुद्दिश्म यागनिष्पादकः स्वस्ति विघ्‍नराहित्यं यथा भवति तथाऽऽयजिष्टोऽतिशयेन कृत्स्नयागसमाप्‍तिकारी, अदब्धः केनाप्यहिंसितो गोपा यज्ञस्य गोप्ता, उतापि च नोऽस्माकं परस्पा अतिशयेन पाल-यिता । अथ स्विष्टकृतः पुरोनुवाक्यामाह—
स्वस्ति नो दिव इति । हेऽग्ने नोऽस्मम्यं स्वस्ति निर्विघ्‍नं विंश्वायुः संपूर्णमायुर्धोहि संपादय । किमर्थ, यजथाय यागानुष्ठानार्थम् । कुत्र, दिवो ह्युलोके पृथिव्यां भूलोके । हे देव यदा द्युलोके भूलोके वा तिष्ठामस्तदा सर्वदा संपूर्णमायुः प्रयच्छेत्यर्थः । हे दिविजात स्वर्गतमुत्पन्नाग्ने यद्‍द्रविणं सीमहि वयं सेवेम तद्द्गवि-णमस्यासु धेहि संपादय । कीदृशं द्रावेणं, प्रशस्तं विद्यमानश्रेष्ट्यं चित्रं मणिमुक्तादि-नानाजात्युपेतम् । तत्रैव याज्यामाह—
यथा होतरिति । सहतो मन्थनरूपस्य वलस्य सूनुः पुत्रोऽग्निः । स च देवानामाह्वाता । हे सहसः सूनो होतरग्ने यथा मनुषो मनुष्याननुग्रहेण पालयसि, देवताता देवानपि यज्ञैर्यजासि पूजयसि । तातिप्रत्ययस्य स्वार्थे विहितत्वाद्देवा एव देवतातयः । देवताता देवतातीन् । इतरयजमानपालनं तदीयतेवयजनं च दृष्टा-न्तः । दार्ष्टान्तिकं तु स्वकीयदेवयजनमुच्यते । एवा एवमेव हेऽग्‍ने नोऽस्माकम-द्यास्गिन्क्रर्मणि देवान्यक्षि र्त्व यज । कीदृशस्त्वं समना तैर्देवैः सह समानमनस्कः। यद्वा समानस्तैर्देवैस्तुल्य इत्यर्थः । उशन्कामयमान आस्थायुक्त इत्यर्थः । कीदृशा-न्देवान्, समानांस्त्वया तुल्यानुशतः कामयमानांस्त्वयि प्रीतियुक्तानित्यर्थः ।
अथ मरुद्‍भ्यः सांतपनेभ्यो मध्यंदिने चरुमित्यत्र प्रथमाज्यभागास्यानु-वाक्यामाह—
अग्निमीड इति । इममग्निमहमीडे स्तौमि । कीदृशं, पुरोहितं पुरोदेश आहवनीये स्थापितं, यज्ञस्यानुष्टीयमानस्य कर्मण ऋत्विजमृत्विक्त्वनिष्पादकं,

[[2036]]

देवं द्योतमानं, होतारं देवानामाह्‍‍वातारं, रत्‍नधातममतिशयेन रत्‍नानां मणिमुक्ता प्रभृतीनां संपादकभ् । अथ द्वितीयाज्यभागस्य षुरोनुवाक्यामाह—
वृषा सोमेति । हे सोम त्वं वृषा कामानां वर्षयिता द्युमान्दीप्तिमां-श्चासि । हे देव यस्मात्त्वं वृषा वर्षयिता तस्मात्त्वं वृषव्‍रतो वर्षनिमित्तं कर्म यस्यासौ वृषव्‍रतः । किंच यस्मात्त्वं वृषा वर्षयिता तस्माद्धर्माणि पुण्यानि दधिषे धारयसि ।
अथ प्रधानस्य हविषः पुरोनुवाक्यामाह—
सांतपना इति । सम्यक्‍तप्यन्ते शत्रव एभिरिति सांतपनाः । तादृशो हे मरुतोऽस्गाभिदर्यिमानं यदिदं हविरस्ति तज्‍जुजुष्टन सेवध्वम् । किमर्थं, युष्माकोती युष्माकमूतये क्षुद्वाधातो रक्षणाय । कीदृशा मुरुतः, रिशादसो रिवान्ति हिंसन्तीति रिशास्तानदन्ति भक्षयन्ति विनाशयन्तीति रिशादसः । अथ तत्रैव याज्यामाह—
यो नो मतं इति । वसवो वासहेतवो हे मरुतो या मर्तो मनुष्यो दुर्ह णायुर्दुष्टकोधोऽत्यन्तं पापबुद्धिः सन्सत्यानि तिरोऽस्मान्प्रति कृतान्सर्वथा नानिष्टंक-रिष्यानीत्येवंरूपाञ्शपथांस्तिरस्कृत्य नोऽस्माञ्जिघांसाद्धन्तुमिच्छेत्स द्रुहो द्रोही पाशं भवदीयं बन्धनरज्‍जुं प्रतिमुचीष्ट प्रतिमुञ्चतु । स्वगले बध्‍नात्वित्यर्थः । ते द्रोहिणं तपिष्ठेन तपसाऽत्यधिकेन संतापेन हन्तन मारयत । तत्रैव विकल्पितां याज्या-माह—
संवत्सरीणा इति । हे मरुतः, सन्ति ते पाशात्स्वकीयबन्धनरज्‍जूरस्म-दस्मत्तोऽपनीय मानुषेषु विरोधिजनेषु प्रमुञ्‍जन्तु गले बध्‍नन्तु । कीदृद्यान्वाशानू, अंहसः पापिष्ठानत्यन्तनिर्बन्धहेतूनित्यर्थः । कीदृशो मरुतः, संवत्सरीणाः सकृद्यागे-नाऽऽराधिताः संवत्सरपर्यन्तं रक्षकाः, स्वर्काः सुष्ट्‍‍वचँनीयाः, उरुक्षया विस्तीर्ण-गृहाः, सगणाः सप्तभिर्गणेः सहिताः । “सप्‍तगणा वै मरुतः’ इति श्रुत्यन्तरात् । सांतपनाः सम्यक्शत्रूणां तापकारिणः, मदिराः स्वयं हृष्टाः मादयिष्णवोऽस्मानपि हृर्षयन्तः । अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह—
पिप्रीहि देवानिति । हे यविष्ठ युवतमाग्‍न उशतः कामयमानान्दवोन्पि-प्रीह्यतिशयेन प्रीणय । हे स्त्रतुपते सूर्यात्मना कालपरिपालक त्वमृतून्कालविशेषा-

[[2037]]

न्विद्वाञ्जानन्वर्तसे । तस्मादिहोचिते काले यज । देवेषु भवा ये दैव्या ऋत्विजः सन्ति ‘अग्निर्होता । अश्विनाऽध्वर्यू । त्वष्टाऽग्नीत्” इत्यादिनाऽऽम्रातास्तेमिर्स्तेदवैः सह त्वमस्य यजमानस्य संबन्धिनां होतॄणामृत्विजां मध्य आयजिष्ठः सर्वतो यष्टृत-मोऽसि । तत्रैव याज्यामाह—
अग्ने यदद्येति । हे स्विष्टकृदग्‍ने विशः प्रविष्टस्यानुष्ठितस्याध्वरस्य संब-न्धि यद्धविरस्ति तदद्य वरेशान भक्षय । होतर्होमकर्तः पावक शोधक शोचे दीप्य-मान, तान्येतान्यग्‍निविशेषणानि । हि यस्मात्त्वं यज्वा यागस्य कर्ता तस्मादृता ऋतेऽस्मदीययज्ञे मषिम्‍ना यजासि । देवान्प्रीणयसि । यद्यस्मात्कारणाद्विभूर्विशिष्टो भवति तत्तस्मात्कारणाद्धे यविष्ठ युवतमाद्य ते तव या हव्या यानि हव्यानि अस्मा-भिर्दीयन्ते तानि ( वह ) स्वी कुरु । यद्यप्येतन्मन्त्रद्वयं दार्शिकहौत्रकाण्डे स माम्‍नातत्वाच्‍चोदकादेव प्राप्तं तथाऽपि विस्पाष्टार्थं पुनर्वचनमिति द्रष्टव्यम् । अथ “मरुद्‍भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्” इत्यत्र प्रथमस्याऽऽज्यभागस्य पुरोनुवाक्यामाह—
अग्निना रयिमिति । अनेनाग्निना रयिं धनमश्नवत्सर्वो जनः प्राप्‍नोति । न केवलं धनस्य स्वरूपमात्रं, किंतु दिने दिने तस्य धनस्य पुष्टिमेव प्राप्‍नोति न तु ह्रासम । कीदृशं पोषं, यशसं कीर्तिकरं, वीरवत्तमं वीरा अस्मदीयाः पुत्रा अन्येति वीरवानतिशयेन तथाविधम् । अथ द्वितीयस्याऽऽज्यभागस्य पुरोनुवाक्यामाह—
गयस्फान इति । हे सोम नोऽस्मान्प्रत्युच्यमानविशेषणविशिष्टो भव । कानि तानि विशेषणानिति तान्युच्यन्ते गयस्फानो गृहाणां वर्धयिता । अमीवहा रोगाणं हन्ता । वसुविद्धनस्य लम्भयिता । पुष्टिवर्धनो गवादिषु पुष्टेर्वर्धयिता । सुमित्रः शोभनं यजमानरूपं मित्रं यस्यासौ सुमित्रः । अथ प्रधानस्य पुरोनुवाक्या-माह—
गृहभेधास इति । गृहे क्रियमाणो मेधो यज्ञो येषां ते गृहमेधासः । तादृशां हे मरुत आगतेह कर्मण्यागच्छत । माऽपभूतन कदाचिपपि माऽपगच्छत । किं कुर्वन्तः, अंहसः पापान्नोऽस्मान्नोऽस्मान्प्रमुञ्चन्तः प्रकर्षेण वियोजयन्तः । तत्रैव याज्यामाह—

[[2038]]

पूर्वीभिर्हीति हे मरुतो वयं यजमानाः पूर्वीभिरनादिकालप्रवृत्ताभिर्महो भिर्ब्रीह्यादिसंपूर्णतया महनीयाभिः शरद्भिः संबत्सरैश्चर्षणीनां मनुष्याणामृत्विजां मध्ये स्थित्वा हि यस्माद्ददाशिम हविर्दद्मस्तस्माद्यूयमिहाऽऽगच्छत ।
तत्रैव विकल्पितामन्यां याज्यमाह—
प्र बुध्‍नियेति । हे मरुतो बुध्‍निया बुध्‍ने मूले भवानि बुध्‍नियानि । अनादिकालप्रवृत्तानीत्यर्थः । बो महांसि युष्माकं तेजांसि प्रेरते प्रकर्षेण गच्छन्ति प्रवृत्तानित्यर्थः । प्रयज्यतः प्रकृष्टयागयुक्ता यूयं नामानि गृहमेधिनोमरुतो वय भि-त्यादीनि भवतीयानामधेयानि प्रतिरघ्वं प्रकर्षेण लोके रव्यापयत । सहस्रियं सहस्रसमार्हं गृहमेधीयं गृहमेधिनो युष्मानुद्दिश्य दयिमानमेतं भागं पुरोडाशरूपं जुषध्वं सेवध्वम् । अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह—
उप यमेतीति । युवतिर्मन्त्रेण मिश्रीभूता हविष्मती संपूर्णहविर्युक्ता घृताची घृतपुष्टेयमाहुतिर्दोषा रात्रौ वस्तोर्दिवसे च सुदक्षं कुशलं यं स्विष्टकृतम ग्निमुपैति प्राप्‍नोति । एनं स्विष्टकृतमग्निमरमतिः कदाचिदप्युपरतिरहितो वसूयुर्धन-मिच्छन्यजमानः स्वा स्वकीयेन हविषोपैति प्राप्‍नोति सेवत इत्यर्थः । अथ तत्रैव याज्यमाह—
इमो अग्‍न इति । हेऽग्‍ने इमो इमानि वतितमान्प्रतिशयेन कान्तानि हव्या हवींषि देवतातिमच्छ देवानभिप्राप्‍तुमजस्त्रोऽनुपरतो वक्षि वह । नोऽस्मत्संब-न्धीनि सुरमीणि सुगन्धीनि हवींषि प्रतीं प्रत्येकमेव वियन्तु देवा भक्षयतु ।
अथ “मरुद्भ्यः क्रीडिभ्यः पुरोडाशँ सप्‍तकपालं निर्वपति साकँ सूर्येणोद्यता” इत्यस्य हघिषः पुरोनुवाक्यामाह—
क्रीडं व शर्ध इति । हे कण्वाः कण्वप्रभृतयो वेदाचार्याः शर्धो बल-मभि प्रगायताभितो वैदिकैः स्तात्रैः प्रकर्षेण गानं कुरुत । कीदृशं बलं, वः क्रीडं युष्माकं क्रीडाकारणं, मारुतं मरुतां संबन्धि, अनर्वाणं भ्रातृव्यैरतिरस्कृतम् । भ्रा-तृव्यो वा अर्वेति श्रुत्यन्तरात् । रथेशुभं रथमेरणे समर्थम् । तत्रैव याज्यामाह—

[[2039]]

अत्यासो न य इति । हे मरुतः शुभयन्त शोभयन्ते स्वरुचा स्वसंचा-रण सर्वं जगदलं कुर्वन्तीत्यर्थः । तेऽस्माननुगृह्णन्त्त्विति शेषः । कीदृशा मरुतः अत्यासो न सततगमनशीला अश्वादय इव स्वञ्चः शोभनगतयः, यक्षदृशो न यर्या यागदर्शनार्थिनो मर्त्या इवौत्सुक्येनात्र समागता इति शेषः । हर्भ्येष्टाः शिशवो न शुभ्‍राः प्रासादमारूढा राजबालका इव पर्वतेषु शुभ्‍राः संचरन्तीति शेषः । वत्सासो न प्रकीडिनः । यथाऽत्यन्तवालवत्साः शीघ्‍रमितस्ततः पलायमानाः प्रकर्षेण क्रीड-न्ति तथा तत्र त्र संचरन्तः क्रीडापराः पयोवामेघानृत्पाद्य तेषु जलधारिणः । तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह—
प्रैषामज्मेषू विथुरिति । एषां मरुतामज्मेषु गगनेषु भूमिः प्ररेजते प्रकर्षेण रजत कम्पते । भृशं भूकभ्पजनकानि मरुतां गमनानीत्यथः । तत्र दृष्ठान्तः—विथुरेव यथा भर्तृरहिता योषित्पालकाभावादत्यन्तं कम्पते तद्वत् । यद्ध ये हि मरुतो यामेषु जलस्य नियामकेषु मेघेषु युञ्जते जलं योजयन्ति ते मरुतो महित्यं स्वकीयमहिमानं स्वयं पनयन्त स्वयमेव व्याहरन्ति स्तुवन्ति वा । क्रीदृशा-स्ते, क्रीडबः क्रीडापराः, धुनयः कम्पयुक्ताः सर्वदा चलन्त इत्यर्थः । भ्‍राजदृष्टयो भ्‍राजो दीप्तिर्विद्युद्रूपा दृष्टिर्येषां ते भ्‍राजदृष्टयः । धूतयः शत्रूणां कम्पहेतवः । तत्रैव विकल्पितां याज्यामाह—
उपह्वरेषु यदिति । हे मरुतो यद्यदा वय इव पक्षिण इव यूयं केनचि-चित्पथा केनापि मार्गेणोपह्‍वरेषूपेत्य हर्तव्येषु ताडनीयेषु मेधेषु यमिमचिध्वं गतिं संपादितवन्तः । यदा जलपूर्णमेघमास्फालयन्ति भवन्त इत्यर्थः । तदानीं कोशा घनपूर्णगृहसदृशा जलपूर्णा मेघा वो युष्माकं रथेषूप समीपमागतेषु सत्सु श्रोतन्ति जलं स्त्रावयन्ति । यूयमप्यर्चत यजमानाय मधुवर्णं मधुररसोपेनं घृतं घृतसमान-मुदकमा समन्तादुक्षत सिञ्चत । अथ तत्रैव स्विष्टकृतः पुरोनुवाक्यामाह—
अग्निभग्निमिति । अग्निमग्‍निं तत्तद्यागगतस्विष्टकृतं हवीमभिराह्‍वा-नपरैः सदा हवन्त सर्वदा यजमाना आह्‍‍वयन्ति । कीदृशमग्निं, विश्पतिं प्रजानां पालकं हव्यवाहं देवान्प्रति हविषो वोढारं, पुरुप्रियं पुरूणां बहूनां यजमानानां प्रीतिहेतुम् । तत्रैव याज्यामाह—

[[2040]]

तँ हि शश्वन्त इति । शश्वन्तो निरन्तरमनुतिष्ठन्त ऋत्विजो घृत-चुता घृतं क्षरता(न्त्या) स्रुचा युक्तास्तमग्निं देवमीडते स्तुवते । किमर्थं, हव्याय वोडवे हविर्वोहुम् ।
अथ यान्यन्यानि त्रीणि ववींष्याग्‍नातानि–“ऐन्द्राग्‍नमेकादशकपालमैन्द्रं चरुं वैश्वकर्मणमेककपालम्” इति, तत्रैन्द्राग्नस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति—
इन्द्राग्नी रोचनेति । इन्द्राग्नी रोचना दिव इति पुरोनुवाक्या । श्नथद्‍वृ- त्रमिति याज्या । एतच्चोभयमिन्द्राग्नी रोचना दिव इत्यनुवाके व्याख्यातम् ।
अथैन्द्रस्य याज्यानुवाक्ययोः प्रतीके दर्शयति—
इन्द्र वा विश्वत इति । इन्द्रं वा विश्वतस्परीति पुरोनुवाक्या । इन्द्रं नर इति याज्या । एतच्चोभयमिन्द्रं वो विश्वतस्परि हवामह इत्यनुवाके व्याख्यातम् । अथ वैश्वकर्मणस्य याज्यानुवाक्ययोः प्रतीके दर्शयति—
विश्वकर्मन्निति । तत्र विश्वकर्मन्हविषा वावृधान इति पुरोनुवाक्या । मिश्वकर्मन्हविषा वर्धनेनेति याज्या । एचच्चोभयं य इमा विश्वा भुवनानि जुद्रवदि- त्त्रनुवाके व्याख्यास्यते । अत्र विनियोगसंग्रहः—
अथ याज्या साकमेधे ह्यनीकवति यागके ।
आज्यभागानुवाक्ये द्वे ह्यग्निव्रृत्रेति वर्णिते ।।
भद्रा तिस्रः प्रधान स्युः स्वस्ति स्विष्टकृति द्वयम् ।
अग्निं सांतपनीयाज्यभागयोर्द्वे प्रधानके ।।
सांततिस्र पिपीह्यग्ने द्वयं स्विष्टकृतीरितम् ।
अग्निंना गृहमेधीये द्वे स्यातामाज्यभागयोः ।।
गृहे प्रधाने तिस्रः स्युरुप स्विष्टकृति द्वयम् ।
क्रीडं चतुष्टयं क्रीडियागे ह्यग्‍निमिति द्वयम् ।।
संयाज्ये स्तामथेन्द्राग्‍नी श्नथच्‍चैम्द्राग्‍नयागके ।
इन्द्रमिन्द्रं चैन्द्रयागे विश्वदे वैश्वकर्मणे ।।
त्रयर्स्त्रिशदृचः प्रोक्ता अनुवाक इहान्तिमे ।।

[[2041]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
त्रयोदशोऽनुवाकः ।। १३ ।।

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे तृतीयः प्रपाठकः ।। ३ ।।

[[2042]]