१२

( अथ चतुर्थकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः )।
अग्ने॑ जा॒तन्प्र णु॑दा नः स॒पत्‍ना॒न्प्रत्यजा॑-
ताञ्जातवेदो नुदस्व । अ॒स्मे दी॑दिहि सु॒मना॒
अहे॑ड॒न्तव॑ स्याँ॒ शर्म॑न्त्रि॒वरू॑थ उ॒द्भित् ।
सह॑सा जा॒तान्प्र णु॑दा नः स॒पत्‍ना॒न्प्रत्यजा-
ताञ्जातवेदो नुदस्व । अधि॑ नो ब्रूहि सुमन॒-
स्यमा॑नो व॒यँ स्या॑म॒ प्र णु॑दा नः स॒पत्‍ना॑
न् । च॒तु॒श्च॒त्वा॒रिँ॒शः स्तोमो॒ वर्चो॑ द्रवि
णँ षोड॒शः स्तोम॒ ओजो॒ द्रवि॑णं पृथि॒व्याः
पुरी॑षमसि [ १ ] अप्सो॒ नाम॑ । एव॒श्छन्दो॒
वरि॑व॒श्छन्दः॑ श॒म्भूश्छन्दः॑ परि॒भूश्छन्द॑ आ॒-
च्छच्छन्दो॒ मन॒श्छन्दो॒ व्यच॒श्छन्दः॒ सिन्धु॒-
श्छन्दः॑ समु॒द्रः छन्दः॑ सलि॒लं छन्दः॑ सं॒य-
च्छन्दो॑ वि॒यच्छन्दो॑ बृ॒हच्छन्दो॑ रथंत॒रं छन्दो॑
निका॒यश्छन्दो॑ विव॒धश्छन्दो॒ गिर॒श्छन्दो॒
भ्रज॒श्छन्दः॑ स॒ष्टुपछन्दो॑ऽनु॒ष्टुप्छन्दः॑ क॒कु-
च्छन्द॑स्त्रिक॒कुच्छन्दः॑ का॒व्यं छन्दो॑ऽङ्‍कुपं
छन्दः॑ [ २ ] प॒दप॑ङ्‍‍‍क्ति॒श्छन्दो॒ऽक्षर॑प

[[2026]]

ङ्‍‍‍क्ति॒श्छन्दो॑ विष्टा॒रप॑ङ्‍‍‍क्ति॒श्छन्दः॑ क्षु॒रो
भृज्वा॒न्छन्दः॑ प्र॒च्छच्छन्दः॑ प॒क्षश्छन्द॒ एव॒-
श्छन्दो॒ वरि॑व॒श्छन्दो॒ वय॒श्छन्दो॑ वय॒स्कृच्छ-
न्दो॑ विशा॒लं छन्दो॒ विष्प॑र्धा॒श्छन्द॑श्छ॒दिश्छन्दो॑
दूरोह॒णं छन्द॑स्त॒न्द्रं छन्दो॑ऽङ्‍का॒ङ्‍कं छन्दः॑
[ ३ ] ।।
(अ॒स्यङ्‍कु॒पं छन्द॒स्त्रय॑स्त्रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।

( अथ चतुर्थकाण्डे तृतीयप्रपाठके द्वादशोऽनुवाकः )।
एकादशेऽनुवाके व्युष्ट्याख्या इष्टका उक्ताः । तावता चतुर्थचितिः समाप्ता । अथ द्वादशे पञ्‍चम्यां चितावसपत्‍नाद्या इष्टका उच्यन्ते ।
कल्पः—“श्वोभूते पौर्वाह्‍‍‍णिकीभ्यां पचर्य पञ्‍चमीं चितिं चिनोत्यग्ने जातान्प्रणुदा नः सपत्‍नानिति पुरस्तादुपदधाति” इति । पाठस्तु—
अग्ने जातान्प्रेति । हेऽग्ने नोऽस्माकं जातान्सपत्‍नान्ये पूर्वमुत्पन्नाः शत्रव स्तान्प्रणुद प्रकर्षेण नाशय । हे जातवेदो ये पूर्वमनुत्पन्ना इतः परमुत्पत्ति-प्रसक्तियु क्तास्तानजाताञ्छत्रून्प्रति नुदस्वोत्पत्तिप्रतिबन्धेन निराकुरु । सुमनाः सानुग्रह चित्तस्त्वमहेढन्नकुध्यं स्त्रिवरुथः प्राग्वंशसदोहविर्धानरूपगृहत्रयोपेत उद्भिद-नुष्ठेयकर्मोत्पादकः सन्‍नस्मे दीदिहि अस्मान्प्रकाशय । तव प्रसादाच्छमंन्स्यां सुखवा न्भवेयम् । एतन्मन्त्रसाध्यमुपधानं विधत्ते—
“अग्ने जातान्प्र णुदा नः सपत्‍नानिति पुरस्तादुप दधाति जातानेव भ्रातृ व्यान्प्र णुदते” [सं. का. ५ प्र. ३ अ. ५] इति।
कल्पः—“सहसा जातानिति पश्चात्” इति। पाठस्तु—

[[2027]]

सहसा जातान्प्रेति । सहसा बलेन जातानिति पूर्ववत् । सुमनस्यमानः सौमनस्यं प्राप्तः सजोऽस्मानधिब्रूहि । वयमपि त्वदानुग्रहादधिकाः स्याम । नोऽस्म-दीयान्सपत्‍नाञ्छत्रून्प्रणुद । एतन्मन्त्रसाध्यमुपधानं विधत्ते—
“सहसा जातानिति पश्चाज्‍जनिष्यमाणानेव प्रति नुदते” (सं. का. ५ प्र. ३ अ. ५) इति।
“पश्चादुपदधानीत्यनुवर्तते । पूर्वमन्त्र उत्पन्नविनाशनप्राधान्यमिह तूत्प-त्स्यमानप्रतिबन्धप्राधान्यम् । अनेनाभिपायेणोभयत्रैवकारप्रयोगः ।
कल्पः—“चतुश्चत्वारिँशः स्तोम इति दक्षिणतः” इति। पाठस्तु—
चतुश्‍चत्वाँ श इति । योऽयं स्तोमश्चतुश्चत्वारिंशदावृत्त्या संपन्नो यच्च वर्चो बलरूपं धनं हे इष्टके तदुभयरूपा त्वमसि । इमं गन्त्रं विनियुङ्‍क्ते
“चतुश्चत्वारिँशः स्तोम इति दक्षिणतो ब्रह्मवर्चसं वै चतुश्त्वारिँशो ब्रह्मवर्चसमेव दक्षिणतो धत्ते तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः” (सं. का. ५ प्र. ३ अ. ५) इति।
ब्राह्मणानामेवाऽऽर्त्विज्यात्तैर्निष्पाद्यस्य स्तोमस्य ब्रह्मवर्चसरूपत्वम् ।
कल्पः—“षोडशः स्तोम इत्युत्तरतः” इति। पाठस्तु—
षोडश इति । षोडशभिरावृत्तिभिर्निष्पाद्यः षोडशः । यस्तादृशः स्तोमो यच्चाष्टगधातुरूपं धनं हे इष्ठके तदुभयरूपा त्वमसि । एतं मन्त्रं विनियुङ्‍क्ते—
“षोडशः स्तोम इत्युत्तरत ओजो वै षोडश ओज एवोत्तरसो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं. का. ५ प्र. ३ अ. ५] इति।
षोडशस्तोमस्यौजोवृद्धिहेतुत्वादोजस्त्वम् अथेष्टकाद्वयं सह प्रशंसति—
“वज्‍रो व चतुश्चत्वारिँशो वज्‍रः षोडशो यदेते इष्टके उपदधाति जाताँ श्चैव जनिष्यप्राणाँश् भ्रातृव्यान्प्रणुद्य वज्‍रमनु प्र हरति स्तृत्यै” (सं. का. ५ प्र. ३ अ. ५) इति।
स्तोमयोरनिष्टनिवारकत्वेन वज्‍रत्वं, प्रणोदनमस्मात्स्थानान्निःसारणं ततो वज्‍रस्यानुप्रहारः स्तृत्यै हिंसयै संपद्यते ।

[[2028]]

कल्पः—“इष्टकायां पुरीषमध्यू(ध्यु)रू पृथिव्याः पुरीषमसीति मष्येऽम्नेः पुरीषवतीम्” इति । पाठस्तु—
पृथिव्या पुरीषमिति । द्दे इष्टकास्वरूष त्वं पृथिव्यातिरूपायाः पुरीषं पूरकमसि । प्साति भक्षयति विनाशयतीति प्सः । न प्सातीत्यप्सः । हे इष्टके त्वमप्सो नामासि । एतन्मन्त्रसाध्यमुपधानं विधत्ते—
“पुरीषवतीं मध्य उप दधाति पुरीषं वै मध्यमात्मनः सात्मानमेवाग्निं चिनुते” (सं. का. ५ प्र. ३ अ. ५) इति।
पुरीषमध्यू (ध्यु) ह्य तस्योपर्युपधीयमानत्वात्पुरीषवती । पुरीषं वा आत्मनो गवादिशरीरस्य मध्यमुदरमध्ये वर्तमानत्वात् । अतः पुरीषवत्त्वेन सात्मानं शरीरसहितमेवाग्निं चिनुते । एतद्वेदनं प्रशंसति—
“सात्माऽमुष्मिल्लोँके भवति य एवं वेद” (सं. का. ५ प्र. ३ अ. ५) इति।
नामकरणपूर्वकमुक्तमिष्टकापञ्‍चकं प्रशंसति—
“एता वा असपत्‍ना नामेष्टका यस्यैता उपधीयन्ते नास्य सपत्‍नो भवति” (सं. का. ५ प्र. ३ अ. ५) इति।
सपत्‍नानां शत्रूणां विनाशकत्वादसपत्‍ना इत्येतासामिष्टकानां नामधेयम्।
कल्पः— “एवश्छन्दो वरिवश्छन्द इति चत्वारिंशतं विराजो दशदश प्रति दिशमक्ष्णया” इति । पाठस्तु—
एवश्छन्दो वरिव इति । ऐवो वरिव इत्याद्याः शब्दाः सर्वर्गलोक-वर्तिनां छन्दोविशेषाणां नामधेयानि । हे इष्टके त्वमेवश्छन्दो यत्तद्रूपऽसि । एवं सर्वत्रो हनीयम् । एतन्मन्त्रसाध्यमुषधानं विधत्ते—
“पशुर्वा एष यदग्निर्विराज उत्तमायां चित्यामुप दधाति विराजमेवोत्तमां षशुषु दधाति तस्मात्पशुमानुत्तमां वाचं वदति” [सं. का. ५ प्र. ३ अ. ५] इति।
पशुप्राप्तेहेतुत्वादग्नेः पशुत्वम् । अतः मशुषूत्तमां विराजं क्षीरदध्य-दिरूपमन्नं

[[2029]]

स्थापयितुमस्मिन्प शुरूपेऽग्‍नावुत्तमायां पञ्‍चम्यां चितौ विराडाख्या इष्टका उपद-ध्यात् । विराड्‍रूपत्वं तु वक्ष्यमाणदशसंख्यया संपद्यते । यस्मात्पशुरूपेऽग्नावन्न-रूपं विराजमुपदधाति तस्माल्लोकेऽपि बहुपशुयुक्तः पुरुषः समागतानतिथीन्प्रत्युत्तमां वाचं वदति-श्रान्ता यूयं मद्‍गृहे समागच्छत भुज्यतामिति । सेयमुत्तमा वाक् । एकैकस्यां दिशीष्टकासंख्यां विधत्ते—
“दशदशोप दधाति सवीर्यत्वाय” [सं. का. ५ प्र. ३ अ. ५] इति ।
सवीर्यत्वं दार्ढ्योपेतत्वं, तच्‍च वहुभिरिष्टकाभिः संपद्यते ।
सन्यक्पङ्‍‍क्तिरूपत्वं वारयितुं वक्रत्वं विधत्ते—
“अक्ष्णयोषा दधाति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै” [सं. का. ५ प्र. ३ अ. ५] इति।
उक्ता विराजः प्रशंसति—
“यानि वै छन्दाँसि सुवर्ग्याण्बासन्तैर्देवाः सुवर्गं लोकमायन्तेनर्षयो-ऽश्राभ्यन्ते तपोऽप्यन्त तानि तपसाऽपश्यन्तेभ्य एता इष्टका निरमिमतैवश्छन्दो वरिवश्छन्द इति ता उपादधत ताभिर्वै ते सुवर्गं लोकमायन्यदेता इष्टका उपदधाति यान्येव छन्दाँसि सुवर्ग्याणि तैरेव यजमानः सुवर्गं लोकमेति” (सं. का. ५ प्र. ३ अ. ५) इति।
स्वर्गगर्हन्तीति सुवर्ग्याणि । तादृशानि यान्याम्‍नातानि छन्दांसि स्वर्ग-लोकेस्थितानि तैच्स्रन्दोभिर्देवाः स्वर्गं प्राप्ताः । तत्पाठस्तेषां स्वर्गप्राप्तिसाधानम् । ऋषयश्च तेन स्वर्गप्राप्तिनिमित्तेनाश्राम्यन्‍नुपायमन्विष्यालभमानाः खिन्ना आसन् । ते पुनर्विचार्य स्वर्गप्राप्‍त्यर्थं तपः कृतवन्तः । ततोऽनुष्ठितेन तपसा तानि च्छन्दांसि स्वर्गसाधनान्यपश्यन् । तेभ्यश्छन्दोभ्य एता विराडाख्या इष्टका निर्मितवन्तः । निर्माय चैवश्छन्दो वरिवश्छन्द इति मन्त्रैस्ता विराज उपादधत । ततस्ताभिरिष्टका-भिस्त ऋषयः स्वर्गं प्राप्ताः । अतो यजमानोऽपि तदुपधानेन सुवर्ग्यैस्तैश्छन्दोभिः स्वर्गं प्राप्नोत्येव । अत्र विनियोगसंग्रहः—
पञ्चम्यां तु चितावग्‍ने ह्यसपत्‍नास्तु पञ्‍च च ।
एवश्चत्दारिंशदुक्ता विराजो दिक्षुं वक्रगाः ।। इति ।।

[[2030]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
द्वादशोऽनुवाकः ।। १२ ।।