११

अथ चतुर्थकाण्डे तृतीयप्रपाठके एकादशोऽनुवाकः ।
इ॒यमे॒व सा या प्र॑थ॒मा व्यौच्छ॑द॒न्तर॒स्यां
च॑रति॒ प्रवि॑ष्टा । व॒धूर्ज॑जान नव॒गज्‍जनि॑त्री॒
त्रय॑ एनां महिमा॒नः॑ सचन्ते । छन्द॑स्वती

[[2017]]

उ॒षसा॒ पेपि॑शाने समा॒नं योनि॒मनु॑ सं॒चर॑-
न्ति । सूर्य॑पत्‍नी॒ वि च॑रतः प्रजान॒ती के॒तुं-
कृ॑ण्वा॒ने अ॒जरे॒ भूरि॑रेतसा । ऋ॒तस्य॒ पन्था॒-
मनु॑ ति॒स्र आऽगु॒स्त्रयो॑ ध॒र्मासो॒ अनु॒ ज्योति॒-
षाऽगुः॑ । प्र॒जामेका॒ रक्ष॒त्यूर्ज॒मेका॑ [ १ ]
व्र॒तमेका॑ रक्षति देवयू॒नाम् । च॒तुष्टो॒मो अ॑-
भव॒द्या तु॒रीया॑ य॒ज्ञस्य॑ प॒क्षावृ॑षयो॒ भव॑न्ती।
गा॒य॒त्रीं त्रि॒ष्टुभं॒ जग॑तीमनु॒ष्टुमं॑ बृ॒हर्द॒कं यु॑ञ्जा-
नाः सुव॒राऽभ॑रन्नि॒दम् । प॒ञ्चमि॑र्धा॒ता विद॑-
धावि॒दं यत्तासाँ॒ स्वसॄ॑रजनाय॒त्पञ्च॑पञ्‍च।
तासा॑मु यन्ति प्रय॒वेण॒ पञ्‍च॒ नाना॑ रू॒पाणि॒
क्रत॑वो॒ वसा॑नाः । त्रिँ॒शत्स्वसा॑र उप॑ य-
न्ति निष्कृ॒तँ स॑मा॒नं के॒तुं प्रतिमु॒ञ्‍चमा॑नाः
[२] । ऋ॒तूँस्त॑न्वने क॒वयः॑ प्रजान॒तीर्म-
घ्ये॑छन्दसः॒ परि॑ यन्ति॒ भास्व॑तीः । ज्योति॑-
ष्मती॒ प्रति॑ मुञ्‍चते॒ नमो॒ रात्री॑ देवी॑ सूर्य॑स्य
व्र॒तानि॑ । विवप॑श्यन्ति प॒शवो॒ जाय॑माना॒
नाना॑रूपा मातुर॒स्या उ॒पस्थे॑ । ए॒का॒ष्ट॒का
तप॑सा॒ तप्य॑माना ज॒जान॒ गर्भं॑ महि॒मान॒भि-
न्द्र॑म् । तेन॒ दस्यू॒न्व्य॑सहन्त दे॒वा ह॒न्ताऽसु॑
राणामभव॒च्छची॑भिः । अना॑नुजामानु॒जां
माम॑कर्त स॒त्यं वद॒न्त्यन्वि॑च्छ ए॒तत् । भू॒या-

[[2018]]

स॑म् ( ३ ) अ॒स्य॒ सु॒म॒तौ यथा॑ यू॒यम॒न्या
वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । अभू॒न्प्रम॑ सु-
म॒तौ वि॒श्ववे॑दा॒ आष्ट॑ प्रति॒ष्ठामविदा॒द्धि गा॒-
धम् । भू॒यास॑मस्य सुम॒तौ यथा॑ यू॒यम॒न्या
वो॑ अ॒न्यामति॒ मा प्र यु॑क्त । पञ्‍च॒ व्युष्ट॒रिनु॒
पञ्‍च॒ दोहा॒ गां पञ्‍चनाम्‍नीमृ॒तवोऽनु पञ्‍च॑ ।
पञ्‍च॒ दिशः॑ पञ्च॑द॒शेन॑ क्‍लृप्‍ताः स॑मा॒नमू॑-
र्घ्‍नीर॒मि लो॒कमेक॑म् ( ४ ) ऋ॒तस्य॒ गर्भः॑
प्रथ॒मा व्यू॒षुष्य॒पामेका॑ महि॒मानं॑ बिभर्ति ।
सूर्य॒स्यैका॒ चर॑ति निष्कृ॒तेषु॑ घ॒र्मस्यैका॑ स
वितैकां॒ नि य॑च्छति । या प्र॑थ॒मा व्यौच्छ॒-
त्सा धे॒नुर॑भवद्य॒मे । सा नः॒ पय॑स्वती धु
क्ष्वोत्त॑रा॒मुत्तराँ समा॑म् । शु॒क्रर्ष॑भा॒ नभ॑सा॒
ज्योति॒षाऽभा॑द्वि॒श्वरू॑पा शब॒लीर॒ग्निके॑तुः ।
समा॒नमर्थँ॑ स्वप॒स्यमा॑ना॒ विभ्रती ज॒राम॑
जर उष॒ आऽगाः॑ । ऋ॒तूनां पत्‍नी॑ प्रथ॒मेय
माऽगा॒दहनां॑ ने॒त्री ज॑नि॒त्री प्र॒जाना॑म् ।
एका॑ स॒ती ब॑हु॒धोषो॒ व्यु॑च्छ॒स्यजी॑र्णा॒ त्वं
जरयसि॒ सर्व॑म॒न्यत् [ ५ ] ॥
[ऊर्ज॒मेका॑ प्रतिमु॒ञ्चमा॑ना भू॒यास॒मेकं॒ षत्‍न्‍येका॒न्‍नविँ॑श॒तिश्च॑]।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥

[[2019]]

(अथ चतुर्थकाण्डे तृतीयप्रपाठके एकादशोऽनुवाकः)।
दशमेऽनुवाके सृष्टिनामिका इष्टका उक्ताः । अथैकादशे व्युष्टिनामिका उच्यन्ते।
कल्पः—“इयमेव सा या प्रथमा व्यौच्छदिति षोडश व्युष्टिः” इति ।
तत्र प्रथमामाह—
इयमेव सेति । अत्रोपधीयमाना येष्टकाऽस्ति, इयमेव सा तथाविधव्यु-ष्टिरूपा, तच्छव्देन परामृश्यमाना पुनर्विविच्यते । सेयं व्युष्टिरूपा कालानां प्रथम-भूता सती व्यौच्छद्विशेषेण प्रकाशरूपाऽभूत् । आदिसृष्टिकाले प्रथमो यः प्रभात-कालस्तद्रूपेयमिष्टकेत्यर्थः । सा सृष्टिकालीना प्रथमा व्युष्टिरादित्येमानुप्रविष्टा सती, अस्यां पृथिव्यां दिनेदिनेवभातरूपेण चरति । तत्र दृष्टान्तः वधूर्जजान नवमज्‍ज- नित्री । नवं वरं गच्छतीति नवगन्‍नूतनविवाहवती वधूर्जनित्री, उत्तरोत्तरप्रजोत्पा-दिका यथा जजान जाता तद्वदियमपि व्युष्टिरुत्तरोत्तरप्रभातनिष्पादिकेत्यर्थः। त्रय-स्त्रिसंख्याका महिमानो महिमोपेता अग्निसूर्यचन्द्ररूपा देवा एनां व्युष्टिं सचन्ते सम-वयन्ति । देवतात्रयप्रकाशकानुग्रहादस्याः प्रभातरूपत्वमित्यर्थः । एवंविधव्युष्टिरू-पामिष्टकामुदधामीत्यभिप्रायः । अथ द्वितीयामाह—
छन्दस्वतीति । द्वे ह्युवसावका सृष्टिकालीना प्रथमेति पूर्वमन्त्रोक्ता । अपरा प्रतिदिनसंचारिणी । साऽप्यस्यां चरति प्रविष्टेति पूर्वमन्त्रोक्ता । एवं सत्यु-पसा विचरतो द्वे अप्युषसौ विविधं चरतः । रात्राविव प्रलयकाले तिरोहितजगत आविर्भावलक्षणसृष्टिरूपा सती दिवससादृश्यमापादयति । तदिदमेकस्या व्युष्ट्या-श्चरणं, शार्वरतमेनिवर्तकत्वमपरस्याश्चरणम् । कीदृश्यावृषसौ, छन्दस्वती छन्दोयु-क्तैंर्मन्त्रैः स्तूयमानतया छन्दस्वत्यौ, पेपिशाने भृशं प्रकाशयन्त्यौ, समानं योनिपनु संचरन्ती, उभयोः कालविशेषत्वत्कालसामान्यमेव तयोर्योनिर्हेतुः । स चोभयोः समानः, महाप्रभातं सृष्टिरूपमल्पप्रभातं दैनंदिनं चेत्युभौ कालविशेषौतौ च स्व-कीयं कालसामान्यमनुसृत्य वर्तते इत्यनुसंचरन्त्यावुषसौ । ते च सूर्यपत्‍नी सूर्यस्य जाये, प्रजानती स्वयं देवतारूपत्वेन प्रज्ञानवत्यौ, केतुं कृण्वाने ज्ञानं कृर्वत्यौ प्रकाशप्रदानेन हि प्राणिनां रूपज्ञानं जनयन्त्यौ, अजरे कदाचि-

[[2020]]

दपि जरारहिते, भूरिरेतसा प्रभूतरेतस्के बहुव्यापाराकारणभूते इत्यर्थः । अथ तृतीयामाह—
ऋतस्य पन्थामिति । तिस्र उषस यतस्य ज्ञज्ञस्य पन्थां मार्गमन्वागुर-नुप्राप्‍ता यज्ञरक्षकत्वेन व्यक्ता व्यवस्थिता इत्यर्थः । त्रयो धर्मासा दीप्‍तिरूपा अग्नि-चन्द्रादित्या ज्योतिषा प्रकाशप्रदानेन यज्ञमार्गमन्वागुरनुप्राप्‍ताः । तिसृणामुपसां देवीनां मध्ये यजमानस्य प्रजामेका रक्षति । यजमानस्योर्जं बलमेका रक्षति । देव-यूनां देवानात्मन इच्छतां यजमानानां व्‍रतं कर्मानुष्ठानमेका रक्षति । अथ चतुर्थी-माह—
चभूष्ठोमो अतुवदिति । यद्यप्यकैवोषा तथाऽपि जगद्रक्षणाय योगैश्व-र्याद्यनेकशरीरस्वीकारे सति वहव उषसो भवन्ति । या तत्र तुरीया चतुर्थी सा चोषाश्चतुष्टोमस्त्रिवृदादिस्तोमचतुष्टययुक्ताग्निष्टोमरूपाऽभवत् । कीदृशी, यज्ञस्य पक्षौ प्राच्यप्रतीच्याङ्गरूपौ पक्षसदृशा द्वाववयवौ भवन्ती भावयन्ती जनयन्ती त्यर्थः। तथर्षय ऋषीन्यज्ञनिष्पादकानृत्विजो जनयन्ती । तथा बृहदर्कं प्रौढमर्चन-रूपं स्तोत्रं युञ्चानाः संपादयन्ती । गायत्र्यादिदेवताश्चतस्त्रः सुवः फलभूतं स्वर्गमिदं कर्म चाऽऽभरन्सर्वतो भरन्ती पोषयन्तीत्यर्थः अथ पञ्‍चमीमाह—
पञ्चमिर्घाता वि दधाविति । यदिदं जगदस्ति तत्सर्वं धाता स्रष्टा प्रजा-पतिः पञ्‍चभिरूषोभिर्देवीभिर्विदधौ निर्मितवान् । तासां पञ्चानामुषसां प्रत्येकं पञ्‍च पञ्‍च स्वसॄरजनयत् । एवं च सति पञ्‍चसंख्याका ज्येष्ठा उषसस्तासां स्वसारः पञ्‍चविंशतिसंख्याका इत्येकस्मिन्मासि प्रतिपदादितिथिरूपास्त्रिंशदुषसः संपद्यन्ते । तासामु तासामप्युषसां प्रयवेण प्रकृष्टरूपेण मिश्रणेन पञ्‍च मुख्या उषसः ऋतवः ऋतुनिष्पादिका वसाना आच्छादयन्त्यः क्रत्वङ्गानि सर्वाणि व्याप्‍नुवत्यो नाना रूपाणि बहुविधस्वरूपाणि यन्ति प्राप्‍नुवन्ति । तत्रैका दैनंदिनमग्निहोत्रं निष्पाद यति। ततोऽन्ये दर्शपूर्णमासौ निष्पादयतः । औपवसथ्यदिनकृत्यमेका निष्पाद-यति । सुत्यादिनकृत्यमेकेत्येवं पञ्चानामुपयोगात्प्रकृष्ठमिश्रणानां प्रकृष्टोपकारित्वं, ऋत्ववान्तरभेदनिष्पादकत्वेन नानारूपत्वम् ।

[[2021]]

त्रिँ शत्स्वसार इति । त्रिंशन्मासगततिथिरूपेण त्रिंशत्संख्याकाः स्वसारो भगिन्य उपसो देव्यो निष्कृतमजस्रं कृतमग्निहोत्रादिकर्मोपयन्ति प्राप्‍नुवन्ति। कीदृश्यः, समानं केतुं सदृशं चिह्नं प्रकाशरूपंप्रतिमुञ्‍चमानाः कञ्‍चुकबद्धारयन्त्यः । ताश्च कवयो विद्वत्पुरुषसमानाः प्रजानतोस्ततद्दिनसंपादनीयं प्रजानन्त्य ऋतूस्तन्त्रते स्वयमेव पुनः पुनरावर्तनेन वसन्तादीनृतून्संपादयन्ति। छन्द-सां वेदानां मध्ये तिष्टतीति मध्येछन्दाः सूर्यः । तथा चान्यत्राप्याम्‍नायते—“ऋग्मिः पूर्वाह्‍णे दिवि देव ईयते । यजुर्वेदे तिष्ठति मध्ये अह्‍नः । सामवेदेनास्तमये मही-यते । वेदरैशून्यस्त्रिमिरेति सूर्यः” इति । तस्य मध्येछन्दस सूर्यस्य एरि पार्श्वेषु भास्वतीर्भास्वत्यः प्रकाशमानायन्ति गच्छन्ति । वर्तन्त इत्यर्थः । अथ सप्तमीमाह—
ज्योतिष्मतीति । इयमुषा ज्योतिष्मती । ज्योतीरूपैर्नक्षत्रैर्युक्तत्वात् । रात्री चेयं सूर्योदयात्पूर्वभात्वित्वाद्देवी दीप्यमाना । तादृगृषा नभो नभस्थस्य सूर्य-स्यव्रतानि सूर्यसंबन्धित्वेन व्‍रतवन्नियतानि रश्मिजालानि प्रतिमुञ्‍चते कञ्‍चुकमिव स्वी करोति । तस्यान्मुषति नानारूपा गोमहिषादिजातिभेदभिन्नाः पशवो जायमाना सन्मसदृशं निद्रायाः प्रबोधं प्राप्‍नुवन्तो मातुर्मातृसमानाया अस्या भूम्याउपस्थ उत्स-ङ्गे विपश्यन्ति विविधमरण्यगमनादिव्यवहारमवलोकयन्ति ।
अथाष्टमीमाह—
एकाष्टका तपसेति । एकाष्टकेति माघकृष्णाष्टमी कथ्यते । तथा चाऽऽपस्तम्बः—“या माध्याः पौर्णमास्या उपरिष्टादद्व्यष्टका तस्यामष्टमी ज्येष्ठया संपद्येत तामेकाष्टकेत्याचक्षते” इति । सेयमेकाष्टका तपसा तप्यमाना पुत्रार्थं तप-श्चरन्तति महिमानं महिमोपेतं गर्भं स्वोदरवर्तिनमिन्द्रं जजानोत्पादयामास । तेनेन्द्रेण देवाः सर्वे दस्यूंस्तस्कररूपान्‍राक्षसान्व्यसहन्त विशेषेणाभिभूतवन्तः । स चेन्द्रः शचीभिः स्वकीयशक्तिभिरसुराणां हन्ताऽभवत् ।
अथ नवमीमाह—
अनानुजामिति । हे एकाष्टका देव्यो मां यजमानं पूर्वमनानुजां सन्तमि-

[[2022]]

दानीमनुजामकर्त कृतवत्यः । आ समन्तात्कर्मानुष्ठानस्यानुकूलत्वेन जायत इ-त्यनुजास्ताद्विपरीतस्त्वनानुजाः । अनुष्टानरहितं मामनुष्ठानोपेतं कृतवत्य इत्यर्थः। कीदृश्य एकाष्टकाः सत्यं वदन्त्यवितथं धर्मं वदन्त्यो हे यजमानौवमेतं धर्ममनु तिष्टेत्येवं बोधयन्त्य इत्यर्थः। अतस्त्वत्प्रसादात्सन्मार्गवृत्तिरहमेतदन्विच्छे वक्ष्यमाण-मपेक्षितं प्रार्थये । किं तदपेक्षितमिति तदुच्यते-हे एकाष्टका यूयमस्य युष्मत्पुत्रस्ये-न्द्रस्य सुमतौ कल्याणबुद्धौ यथा स्थिता एवमहमष्यस्येन्द्रस्य सम्यगनु ग्रहचित्ते भूयासम् । वो युष्माकं मध्येऽत्या काचिदन्यामितरामतिलङ्ध्य मा प्रयुक्त प्रयोगं व्यवहारं न करोति, किंतु परस्परानुकूल्यनैव व्यवहरति, तद्वदहमप्यृत्विजामनुकू-लव्यवहारयुक्तो भूयासम् । अथ दशमीमाह—
अभून्ममेति । मम यजमानस्य सुमता भक्तियुक्तायां बुद्धौ विश्ववेदा सर्व जमदभिज्ञेयमुषा अभूत्स्थितवती । सा च प्रतिष्ठामाष्टास्मदनुग्रहे स्थैर्यं व्याप्त-वती । हि यस्मादियमुषा गाधं प्रतिष्ठानिमित्तभूतं यजमानमविदल्लब्धवती तस्मान्म-दनुग्रहे स्थैर्यवतीत्यर्थः । भूयासमित्यादि पूर्ववत् । अथैकादशीमाह—
पञ्‍च व्युष्टीरिति । अग्निहोत्रदर्शपूर्णमासौपवसथ्यसुत्याख्यकर्मानिष्पा-दिकाः पञ्च मुख्या उषसो याः पूर्वमुक्तास्ताः पञ्‍च व्युष्टीरनु पञ्‍चात्मकं सर्वमिदमु-त्पन्नम् । किमुत्पन्नमिति तदुच्यते-पञ्‍च दोहा उत्पन्‍नाः । तमिस्त्रा ज्योत्स्ना संध्याद्व-यमहरित्येते पञ्‍च दोहाः । ते च होतुब्राह्मणे ‘इदं वा अग्रे नैव किंचनाऽऽसीत् ।’ इत्यनुवाके ‘याऽस्य सा तनूरासीत् । तामपाहत । सा तमिस्त्राऽभवत्’ इत्यादिना समाम्‍नाताः । तत्रैव ‘तेभ्यो मृन्मयो पात्रेऽन्नमदुहत्’ इत्यादिना दोहा आम्‍नाताः । आम्‍नाये चान्ते तदुपशंहृतम्—‘एते वै प्रजाषतेर्दोहाः’ इति । त एते पञ्च दोहाः पञ्‍च व्युष्ठीरनूत्पन्‍नाः । येयं गौः पृथिवी (तां ) पञ्‍चनाम्‍नीं पञ्‍चविघनाम्‍नोपेतामपि पञ्‍च व्युष्टीरनूत्पन्‍नां विद्यात् । वसन्तर्तौ पुष्पवतीति नाम । ग्रीष्मर्तौ तापवतीति नाम । वर्षर्तौ वृष्टिमतीति नाम । शरदि जलप्रसादवतीति नाम । हेमन्तशिशिरयोः शैत्यवतीति नाम । तैषा पञ्‍चानाम्‍नी पृथिवी व्युष्टीरनूत्पन्‍ना । तथा हेमन्तशिशिर-योरैक्येन पञ्‍चर्तवो व्युष्टीरनूत्पन्‍नाः ।

[[2023]]

तथा प्राच्यादयः सहोर्ध्वया पञ्‍च दिशो व्युष्टीरनूत्पन्‍नाः । पञ्‍चदशाख्यस्तोमेन क्‍लृप्ताः संपादिताः प्रञ्चविधवृत्त्युपेताः स्तोत्रियाः पञ्‍च व्युष्टीरनूत्पन्‍नाः। तस्य स्तोमस्य निरूपके ब्राह्मणे ‘पञ्चभ्यो हिं करोति’ इत्येवं त्रिवारमाम्‍नातम् । एताः पञ्‍च व्युष्टयः । एकं लोकमभि समानमूर्ध्‍नीलोक आलोकः प्रकाशस्तमेकं प्रति समानस्वभावाः । मूर्घशब्द उत्तमाङ्गवाची सन्मुख्यं स्वभावमुपलक्षयति । मुख्य-स्वभावश्च व्युष्टीनां प्रकाशकत्वम् । एवंविधव्युष्टिरूपेयमिष्टकेति स्तूयते । अथ द्वादशीमाह—
ऋतस्य गर्भ इति । या एताः पूर्वोक्ताः पञ्‍चोषसो मुख्यास्तासां मध्ये प्रथमा या व्युषूषी व्युष्टिरुषःकालरूमाऽस्ति सर्वस्य सत्यस्य गर्भो गर्भसदृशी तेना-ऽऽदित्येन सहैव वर्तते । एका काचिदुषा रश्मिसहकारिण्यपां महिमान विभर्ति। घर्मकाले रश्मिद्वारा जलमानीय मेधोदरे गर्भरूपं भइत्वं पोषयति । एका काचिदन्योषाः सूर्यस्य संबन्धिषु निष्कृतेषु संस्कृतेषु चरति प्रकाशं कुर्वती वर्त ते। एका काजिदन्योषा धर्मस्य दीष्यमानस्याग्नेः संबन्धिषु चरति प्रकाशं करोति। एका कांचिदन्यामुषसं सविता नियच्छति दैनंदिनप्रकाशकारित्वेन नियतां करोति। अथ त्रयोदशीमाह—
या प्रथमा व्यौच्छदिति । मुख्यासु पञ्‍चसूषःसु या प्रथमेषा व्यौच्छत्तमो व्यवासयत्प्रकाशोत्पादनेन तमो निराकरोदित्यर्थः । सा तादृगुषा यमे धेनुरभवद्यमस्वामिके लोके प्रकाशप्रदानेन धेनुवत्प्रीतिहेतुरभवत् । तथाविधे हे उषः सा त्वं पयस्वती वृष्ट्युदकयुक्ता सती नोऽस्मदर्थमुत्तरामुत्तरां समामुत्तरोमुत्तरेषु सर्वेष्वपि संवत्सरेषु निरन्तरं घुक्ष्व दोहनं कुरु । यथा धेनुः क्षीरं प्रयच्छति तथा त्वं व्युष्टिं प्रकाशं च प्रयच्छेत्यर्थः । अथ चतुर्दशीमाह—
शुक्रर्षभा नभसेति । येयमुषाः शक्रर्षभा शुक्रेषु प्रकाशरूपेषु नक्षत्रा-दिषु मध्ये श्रेष्ठा सेयमुषा नभसा ज्योतिषऽऽकाशवर्तिप्रकाशेन युक्ता सत्यागादिह-समागता । कीदृशी, विश्वरूपा सर्वाणि रूपाणि प्रकाश्यानि यस्याः सा विश्वरूपा शबलीः सूर्योदयात्पूर्वमन्धकारलेशानुवृत्तेर्मिश्रवर्णा, अग्निकेतुरग्निहोत्रिभिरुषः

[[2024]]

काले विहृत्य प्रज्वालिता येऽग्नयस्त एव केतवो ध्वजस्थानीया यस्याः साऽग्निकेतुः समात्‍ननर्थं विभ्‍रती सूर्यस्य यत्प्रयोजनमन्धकारनिवारणरूपं तदेवोषसोऽपि प्रयोज-नमतः सूर्येण सह समानप्रयोजना, स्वपस्यमाना शोभनान्यपांसि कर्माणि तान्या-त्मन इच्छतीति स्वपस्यमाना । हेऽजर उषस्‍त्‍वं जरामागा बलीपलितादिरूपजरार-हिताऽपि सृष्ट्यादिमारभ्य मवृत्तत्वाच्चिरकालावस्थानलक्षणां जरां प्राप्‍ताऽसि । तादृगुवारूपेयमिष्टकेत्यर्थः । अथ पञ्चदशीमाह—
ऋतुनां पत्‍नीति । इयं प्रथमोषा आगादिह कर्मण्यायाता । कीदृशी, ऋतूनां वसन्तादीनां पत्‍नी पालयित्री, उषःकालस्यासकृदावृत्त्या ह्यृतवः संपद्यन्ते । अह्‍नां नेत्री नयनस्य हेतुः प्रकाशप्रदानेन निष्पादिकेत्यर्थः । प्रजानां जनित्र्युत्पाद-यत्री । उषःकालावृत्त्या नवमासगर्भधारणादिना प्रजोत्पद्यते । हे उषस्त्वं स्वरूपे-णैका सती बहुधा दिनभेदेन बहुप्रकारा भूत्वा व्युच्छसि तमो विवासयसि निष्का-सयसीत्यर्थः । ईदृशी त्वमजीर्णा वलीपलितादिजरारहिता सर्वमन्यन्मनुष्य शरीरा-दिकं जरयसि चीर्णं करोषि । इत्यं पञ्चदशाऽऽम्‍नाताः । षोडशी त्वन्यत्र द्रष्यव्या। एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“न वा इदं दिवा न नक्तमासीदव्यावृत्तं ते देवा एता व्युष्टीरपश्यन्ता उषादधत ततो वा इदं व्यौच्छद्यस्यैता उपधीयन्ते व्येवास्मा उच्छत्यथो तम एवाप हते” (सं. का. ५ प्र. ३ अ. ४) इति।
इदं कालस्वरूपं दिवारात्र्योर्व्यावतिकयोषसा रहितत्वादव्यावृत्तमा-सीत् । तथा सति दिवाऽपि नाऽऽसन्निक्तमपि नाऽऽसीत् । व्यावृत्तरवरूपस्य निश्चेतुमशक्यत्वात् । तदानीं देवा व्यावृत्तिकारिणीर्त्र्युष्टिसंज्ञका एता इष्टका अपश्यन् । विशेषेणोच्छति तमो विनाशवतीति ष्युष्टिरुषःकालस्तद्गाचकशब्दो-नोपेतैर्मन्त्रैरुपधेया इष्टका व्युष्ट्यः । ता दृष्ट्‍‍वोपादधत । तत ऊर्ध्वगिदं कालस्वरूपं व्बौच्छदव्यावर्तिकया व्युष्ट्या दिवानक्तभेदेन व्यावृत्तगासीत्। तस्माद्व्युष्टीरुपदध्या-त् । तदुपधाने हि यजमानार्थं व्युच्छत्येव परलोकपरलोकप्रकाशं करोत्येव । अपि च बुद्धिगतभ्‍रान्तिरूपं तमो विनाशयति । अत्र विनियोगसंग्रहा—
इयं व्युष्टीरुपादध्यान्मन्त्राः पञ्चदशेरिताः ।।

[[2025]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठकेऽ
एकादशोऽनुवाकः ।। ११ ।।