१०

(अथ चतुर्थकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः) ।
एक॑याऽस्तुवत प्र॒जा अ॑धीयन्त प्र॒जाप॑ति॒र-
धि॑पतिरासीत्ति॒सृभि॑रस्तुवत॒ ब्रह्मा॑सृज्यत॒ ब्र-
ह्म॑ण॒स्पति॒रधि॑पतिरासीत्प॒ञ्‍चभि॑रस्तुवत भू॒-
तान्य॑सृज्यन्त भू॒तानां॒ पति॒रधि॑पतिरसीत्स॒प्‍त-
भि॑रस्तुवत सप्‍त॒र्षयो॑ऽसृज्यन्त धा॒ताऽधि॑प-
तिरासीन्न॒वभि॑रस्तुवत पि॒तरो॑ऽसृज्य॒न्तादि
ति॒रधि॑पत्‍न्‍यासीदेकाद॒शभिरस्तुवत॒र्तवो॑ऽसृज्य-
न्ताऽऽर्तवोऽधिपतिरासीत्‍त्रयोदशभि॑रस्तुवत
मासा॑ असृज्यन्त संवत्स॒रोऽधिपतिः
( १ ) आ॒सी॒त्प॒ञ्‍च॒द॒शभि॑रस्तुवत क्ष॒त्त्रम॑सृ
ज्ये॒तेन्द्रोऽधिपतिरासीत्सप्‍त॒शभिरस्तुबत प॒श-
वो॑ऽसृज्यन्त॒ बृह॒स्पति॒रधि॑पतिरासीन्नवद॒शभि॑-
रस्तुवत शूद्रा॒र्याव॑सृज्येतामहोरात्रे अधि॑-
पत्‍नी आस्ता॒मेक॑विँशत्याऽस्तुव॒तैक॑शफाः
प॒शवो॑ऽसृज्यन्त॒ वरुणोऽधिपतिरासी॒त्त्रयो॑-
विँ शत्याऽस्तुवत क्षु॒द्राः प॒शवो॑ऽसृ-
ज्यन्त पू॒षाऽधि॑पतिरासी॒त्पञ्‍च॑विँ शत्याऽ-

[[2014]]

स्तुवताऽऽर॒ण्याः प॒शवो॑ऽसृज्यन्त वा॒युरधि॑
पतिरासीत्स॒प्‍तविँ॑ शत्याऽस्तुवत॒ द्यावा॑पृ-
थि॒वी वि [ २ ] ऐ॒तां॒ वस॑वो रु॒द्रा आ॑दि॒-
त्या अनु॒ व्या॑य॒न्तेषा॒माधि॑पत्यमासी॒न्नव॑
विँ शत्याऽस्तुवत॒ वन॒स्पतयो॑ऽसृज्यन्त॒ सो-
मोऽधि॑पतिरासी॒देकत्रिँ शताऽस्तुवत प्र॒जा
अ॑सृज्यन्त॒ यावा॑नां॒ चाया॑वानां॒ चाऽऽधि॑प-
त्यमासी॒त्त्रय॑स्त्रिँ शताऽस्तुवत भू॒तान्य॑शा
म्यन्प्र॒जाप॑तिः परमेष्ठ्यधिपतिरासीत् [ ३ ] ॥
( सं॒व॒त्स॒रोऽधिपनि॒र्वि पञ्च॑त्रिँशत् )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥

( अथ चतुर्थकाण्डे तृतीयप्रपाठके दशमोऽनुवाकः ) ।
नवमेऽनुवाकेऽवशिष्टा अक्ष्णयास्तोमीया उक्ताः। अथ दशमे सृष्टिश-ब्दाभिधेया इष्टका उच्यन्ते ।
कल्पः— “एकयाऽस्तुवतेति सप्‍तदश सृष्टीः” इति। पाठस्तु—
एकयाऽस्तुवतेति । पूर्वे महर्षयः कदाचिद्यागकाल एकया स्तोत्रिय-यर्चा स्तुतिमकुर्वन् । तत्तत्सामर्थ्यात्प्रजा अधीयन्त तैर्महर्षिभिरुदपाद्यन्त । तदानीं प्रजापतिस्तासां प्रजानामधिपतिरासीत् । अथ कदाचित्तिसृभिः स्तोत्रियाभिरस्तुवत्। तत्सामर्थ्याद्‍ब्रह्म ब्राह्मणजातिस्तैरसृज्यत । ब्रह्मणस्पतिरिति प्रसिद्धो यो देवः सोऽयं ब्राह्मणजातेरधिपतिरासीत् एवं सर्वत्र योज्यम् । भूतानां पतिः कश्चिद्देय विशेषः । अत एवान्यत्राऽऽम्‍नातम्—“भूतानां पतये स्वाहा” इति । सोऽयमत्र तिप तभूनिंराधपतिः स्वाम्यासीत् । घाता जगत्स्त्रष्टा । अदितिर्भूमिः । आर्तव

[[2015]]

ऋतुपालकः कश्चिद्देवविशेषः । क्षत्त्रं क्षात्‍त्रियजातिः। शूद्रार्यौ शूद्रो वैश्यश्चेति जातिद्वयम् । अहर्देवता रात्रिदेवता चेत्येते जातिद्वयस्याधिपत्‍नी स्वामिरूपे आ-स्ताम् । सप्‍तविंशतिस्तोत्रसामर्थ्यात्पूर्वमेकीभूते द्यावापृथिव्यौ परस्परं वियुक्ते अ-तामभु । तयोर्वियोमेन वस्वादयस्त्रयो गणाः परस्परं वियुक्ता अभवन् । तेषां वस्वादीनां द्यावापृथिव्यौ प्रत्याधिपत्यमासीत् । यावा मासदेवता अथवा अर्धमास-देवताः । उभयविधदेवतानां प्रजाः प्रति आधिपत्यमासीत् । भूतान्यशाम्यन्, प्राणीनः शान्तानुपद्रवरहितानकुर्वत । परमे सत्यलोके तिष्ठतीति परमेष्ठी । तादृशः प्रजापतिः स्वाम्यभूत् ।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“सृष्टीरुप दधाति यथासृष्टमेवाव रुन्धे” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
सृजतिधातुयुक्तैर्मन्त्रैरुपधेया इष्टकाः सृष्टयः । तासामुपधाने सति यद्वस्तु यथा सृष्टं तत्तथैव प्राप्‍नोति । अत्र विनियोगसंग्रहः—
एक सप्‍तदशाऽऽदध्यादिष्टकाः सृष्टिसंज्ञिताः ॥
अत्र मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्—
सृष्टीरुपधातीति ये मन्त्राः सृष्टिलिङ्गकाः ।
विधेयास्ते गुणत्वेन वादो वाऽत्र गुणे विधिः ॥
आख्यातेनाभिसंबन्धादविध्यन्तरयोगत् ।
लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवातः ॥
ताननूद्येष्टकाधानं विदध्यात्स्तोष्णते यतः ।
यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥
एकयाऽस्तुवतेत्यादौ मन्त्रसंघे क्‍वचिन्नहि ।
सृष्टिशब्दस्तथाऽप्युक्तिः सृष्टिशब्देन भूमतः ॥
अग्निचयने श्रूयते– “सृष्टिरुपदधाति” इति । सृष्टिशब्दोपेता मन्त्राः

[[2016]]

यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय इत्युच्यन्ते । सृष्टिमानासा मुपदधानो मन्त्र इति विगृह्य “तद्वानासामुपधानः” इत्यादिव्याकरणसूत्रसिद्धप्र-क्रियया तन्नित्पादनात् । सृष्टिशब्दोपेताश्चोपधानमन्त्रा एकयाऽस्तुवेत्यस्मिन्ननुवाके समाम्‍नाताः। ब्रह्मासृज्यत भूएन्यसृज्यन्तेत्यादिना सृजतिधातोस्तेषु मन्त्रेषु प्रयुक्तत्वात् । ते च मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतः उपदधातीत्यनेनाऽऽश्यातेनाभिसंबन्धात् । न चार्थवादत्मस्य संभवति । विध्य-न्तरेण सहैकवाक्यत्वाभावादिति प्राप्‍ते ब्रूमः अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवगम्यते । विशेषसंबन्धस्तु सृजतिलिङ्गादवग न्तव्यः । तथा सति प्राप्‍तत्वान्‍न ते मन्त्रा अत्र विघीयन्ते, किंतु तान्मन्त्राननूद्येष्ट-कोपघानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्यर्थः । “यथासृष्ट-मेवावरुन्बे” इति हि वक्ष्यमाणोऽर्थवादः । यदि विधिवाक्ये मन्त्राणा मनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयघिकरण्यभ्रमः स्यात। तस्मान्मन्त्रानुवादी सष्टिशब्दो न गुणविधायकः, किंत्वर्थवादः । ननु प्रथम-मन्त्रे सृजतिधातुर्न प्रयुक्तः । ‘एकयाऽस्तुवत प्रजा अधीयन्त’ इति पाठात् । वाढं, तथाऽपि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिघातुप्रयोगाद्‍भूमरूपं सादृश्य-मस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिभूमां तथाऽत्रापि भूमगुणयोगेन सृष्ट्यसृष्टिसंघे सृष्टिशब्द प्रयोगः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
दशमोऽनुवाकः ॥ १० ॥