( अथ चतुर्थाष्टके तृतीयप्रपाठके नवममोऽनुवाकः )
अ॒ग्नेर्भा॒गो॑ऽसि दी॒क्षाया॒ आधि॑पत्यं॒ ब्रह्मं
स्पृ॒तं त्रि॒वृत्स्तोम॒ इन्द॑स्य भा॒गो॑ऽसि विष्णो॒-
राधि॑पत्यं क्ष॒त्त्रँ स्पृ॒तं प॑ञ्चद॒श स्तोमो॑
नृ॒चक्ष॑सां भा॒गो॑ऽसि धा॒तुराधि॑पत्यं ज॒नित्रँ॑
स्पृ॒तँ स॑प्तद॒शः स्तोमो॑ मि॒त्रस्य॑ भा॒गो॑ऽसि॒
वरु॑ण॒स्याऽऽधि॑पत्यं दि॒वो वृ॒ष्टिर्वाताः॑ स्पृ॒ता
ए॑कविँ॒शः स्तोमोऽदि॑त्यै भा॒गो॑ऽसि पू॒ष्ण
आधि॑पत्य॒मोजः स्पृ॒तं त्रि॑ण॒वः स्तोमो॒ वसू॑
नां भा॒गो॑ऽसि [ १ ] रु॒द्राणा॒माधि॑पत्यं॒ च
तु॑ष्पात्स्पृ॒तं च॑तुर्विँ॒शः स्तोम॑ आदि॒त्यानां॑
भा॒गो॑ऽसि म॒रुता॒माधि॑प त्यं॒ गर्भाः॑ स्पृ॒ताः
प॑ञ्चविँ॒ शः स्तोमो॑ दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसि॒
बृह॒स्पते॒राधि॑पत्यँ स॒मीची॒दिंशः॑ स्पृ॒ताश्च॑-
तु॒ष्टोमः स्तोमो॒ यावा॑नां भा॒गो॑ऽस्यया॑वाना॒
[[2007]]
माधि॑पत्यं प्र॒जाः स्पृ॒ताश्व॑तुश्चत्वारिँ॒शः
स्तोम॑ ऋभू॒णां भा॒गो॑ऽसि॒ विश्वे॑षां दे॒वाना॒-
माधि॑पत्यं भू॒तं विशा॑न्तँ स्पृ॒तं त्र॑यस्त्रिँ॒शः
स्तोमः॑ [ २ ] ॥
[वसू॑नां भा॒गो॑ऽसि॒ षट्च॑त्वारिँशञ्च]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके नवममोऽनुवाकः ॥ ९ ॥
(अथ चतुर्थकाण्डे तृतीयप्रपाठके नवममोऽनुवाकः) ।
अष्टमेऽनुवाके काश्चिदक्ष्णयास्तोमीयास्र्या इष्टका उक्ताः। अथ नवमेऽवं शिष्टास्ता उच्यन्ते । तासामवशिष्टानामिष्टकानां मन्त्रेषु प्रथमं मन्त्रमाह—
अग्नेर्भागोऽसीति । हे इष्टके योऽयमग्नेर्भागो हविर्लक्षणः, यच्च दीक्षा-देवताया आधिपत्यं स्वामित्वं स्पृतं ब्रह्म देवानां प्रीतिकरं मन्त्रजातं ब्राह्मणजा तिर्वा, योऽपि त्रिवृदाख्यः स्तोमविशेषस्तत्सर्वं त्वमसि । अथ द्वितीप्रं मन्त्रमाह—
इन्द्रस्य भागोऽमीति । हे इष्टके योऽयमिन्द्रस्य भागो हविर्विशेषः यच्च विष्णोः परमेश्वरस्याऽऽधिपत्यं, यदपि स्पृतं प्रीतिहेतुः क्षत्त्रं बलं क्षत्त्रियजातिवां, योऽपि पञ्चदशाख्यः स्तोमस्तत्सर्वं त्वमसि । अथ तृतीयं मन्त्रमाह—
नृचक्षसामिति । ये मनुष्याः सन्तश्चक्षते वेदं व्यक्तमुच्चारयग्ति ते नृचक्षस ऋत्विगादयस्तेषां भागो दक्षिणारूपो गवादिः। धातुः प्रजापतेर्यदाधिपत्यं, यच्च स्पृतं प्रीतिकरं जनित्रं, यो हि(ऽपि) सप्तदशाख्यः स्तोमविशेषस्तत्सर्वं त्वमसि । अथ चतुर्थं मन्त्रमाह—
मित्रस्य भागोऽसीति । स्पृताः प्रीतिहेतवो वाता वायवो दिवः सका-शादागता वष्टिश्च । अथ पञ्चमं यन्त्रमाह—
अदित्यै भागोऽसीति । ओजो बलमष्टमधातुर्वा । अथ षष्ठं मन्त्रमाह—
[[2008]]
वसूनां भागोऽसीति । चतुष्पाद्गवाश्वादिः । अथ सप्तमं मन्त्रमाह—
आदित्यानां भागोऽसीति । गर्भा द्विपदां चतुष्पदां चोदरगताः। अथाष्टमं मन्त्रमाह—
देवस्य सवितुरिति । यासु दिक्ष्ववस्थिताः प्राणिनोऽनुकूलास्ता दिशः समीच्यस्ता एव स्पृताः । अथ नवमं मन्त्रमाहः—
यावानां मागोऽसीति । यतो मिश्री भवतः शुक्लकृष्णपक्षावत्रेति यावामासाः। अतथाविधत्वादयावा अर्धमासः । अथ दशमं मन्त्रमाह—
ऋभूणां भागोऽसीति । ऋभुशब्दो देवसामान्यवाची । गणविशेषो विश्वे देवाः । भूतं निष्पन्नं, निशान्तं गृहम् । एतैर्मन्त्रैरुपधेयास्वक्ष्णयास्तोमीयास्वि-ष्टकासु मन्त्रविशेषेषु देशविशेषु च सहोपधानं विधीयते । तत्र प्रथमं मन्त्रं विनि-युङ्क्ते—
“अग्नेर्भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वा अग्निर्यज्ञमुखं दीक्षा यज्ञ मुखं ब्रह्म यज्ञमुखं त्रिवृद्यज्ञमुखमेव पुरस्ताद्वि यातयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
प्रथममाहितेऽग्नौ पश्चाद्यज्ञस्य प्रवृत्तरेग्निर्युज्ञमुखम् । सोमयागस्य दीक्षोपक्रमत्वाद्दीक्षाया यज्ञमुखत्त्वम् । यज्ञस्य ऋत्विग्वरणपूर्वकत्वादार्त्विज्यस्य च ब्राह्मणध र्मत्वाद्ब्राह्मणजातिर्यज्ञमुखम् । स्तोत्राणां मध्ये प्रथमस्तोत्रस्य बहिष्पव-मानस्य त्रिवृत्स्तोमेन निष्पाद्यमानत्वात्त्रिवृतो यज्ञमुखत्वम् । अनेन मन्त्रेणोपधाने तत्सर्वं यज्ञमुखं पुरस्तात्प्रसारयति । अथ तृतीयं मन्त्रं विनियुङ्क्ते—
“नृचक्षसां भागोऽसीति दक्षिणतः शुश्रुवाँसो वै नृचक्षसोऽन्नं धाता जातायैवास्मा अन्नमति दधाति तस्माज्जातोऽन्नमत्ति जनित्रँ स्पृतँ सप्तदशः स्तोम इत्याहान्नं वै जनित्रमन्नः सप्तदशोऽन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
वेदशास्त्रपारं गताः शुश्रुवांसः । त एव नृचक्षःशब्देनाभिधीमन्ते । चक्षते यर्क्त ब्रुवत इति चक्षसः । नरश्च ते चक्षस इति नृचक्षसः । यद्वा नृषु मनुष्येषु
[[2009]]
मध्ये चक्षसो व्यक्तं वक्तारः । धातुरन्नोत्पादकत्वादन्नत्वम् । अतो मन्त्रे धातृशब्द-पाठेनोत्पन्नाय यजमानायान्नं संपादयति । तस्मिन्मन्त्रे जनित्रमित्याद्युत्तरभागमपि ब्रूयात् । जायत इति व्युत्पत्त्या जनित्रशब्दोऽन्नवाची । सप्तदशस्तोमस्यान्नकारण-त्वादन्नत्वम् । एवं सति कृत्स्नमप्यन्नं दक्षिणस्यां दिशि संपादयति । यस्माद्दक्षिण-दिशोऽन्नभागित्वं तस्माद्दक्षिणहस्तेनान्नं भुङ्क्ते।
अथ चतुर्थं मन्त्रं विनियुङ्क्ते—
“मित्रस्य भागोऽसीति पश्चात्प्राणो वै मित्रोऽपानो वरुणः प्राणपानावे-वास्मिन्दधाति दिवो वृष्टिर्वाताः स्पृता एकविँश स्तोम इत्याह प्रतिष्ठा वा एकविँ-शः प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
मित्रावरुणयोः प्राणपानाभिमानित्वात्तद्रूपत्वम् । तस्य मन्त्रस्योत्तरभागे सर्वस्तोमप्रतिष्ठारूपस्यैकविंशस्याभिघानं प्रतिष्ठित्यै संपद्यते ।
द्वितीयं मन्त्रं विनियुङ्क्ते—
“इन्द्रस्य भागोऽसीत्युत्तरत ओजो वा इन्द्र ओजो विष्णुरोजः क्षत्त्रमोजः पञ्चदश ओज एवोत्तरतो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
इन्द्रादीनां बलवत्त्वादोजोरूपत्वम् । ततः सर्वमप्योज उदीच्यां दिशि स्थापितं भवति । ओजोयुक्तत्वादेवोत्तरदिग्गामी तीर्थयात्रादिषुण्येन स्वर्गं जयति ।
अथ षष्ठं मन्त्रं विनियुङ्क्ते—
“वसूनां भागोऽसीति पुरस्तादुप दधाति यज्ञमुखं वै वसवो यज्ञमुखः रुद्रा यज्ञमुखं चतुर्विँशो यज्ञमुखमेव पुरस्ताद्वि यातयति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
वसूनां प्रातःसवनाभिमानित्वाद्यज्ञमुखत्वम् । प्रातःसवनाभिमानित्वं च च्छन्दोगा आमनन्ति—“ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनम्” इति । रुतं शब्दं मन्त्ररूपं द्रावयन्ति प्रवर्तयन्तीति रुद्राः । तथा सति रुद्रप्रवर्तितमन्त्रपूर्वक-त्वाद्यज्ञस्य रुद्राणां यज्ञमुखत्वोपचारः । चतुर्विशचतुश्चत्वारिंशाष्टाचत्वार्विशरूपेषु च्छन्दोमेषु प्रथमत्वाच्चतुर्विंशस्य यज्ञमुखत्वम्।
[[2010]]
अथ सप्तमं मन्त्रं विनियुङ्क्ते—
“आदित्यानां भागोऽसीति दक्षिणतोऽन्नं वा आदित्या अन्नं मरुतोऽन्नं गर्भा अन्नं पञ्चविँशोऽन्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
‘आदित्याज्जायते वृष्टिर्वृष्टेरत्न्नंततः प्रजाः’ इत्यन्नहेतुत्वादादित्यानाम- न्नत्वम् । मरुतां वैश्यरूपत्वेनान्नसंपादकत्वादन्नत्वम् । गर्भाणामन्नकार्यत्वाद-न्नत्वम् । पञ्चविंशस्तोमस्य शास्त्रसिद्धान्नहेतुत्वाद्न्नत्वम् ।
अथ पञ्चमं मन्त्रं विनियुङ्क्ते—
“अदित्यै भागोऽसीति पश्चात्प्रतिष्ठा वा अदितिः प्रतिष्ठा पूषा प्रतिष्ठा त्रिणवः प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ. ४) इति।
अदितिर्भूमिः । सा च निवासहेतुत्वात्प्रतिष्ठा । पूष्णः पोपकत्वेन प्रतिष्ठा त्वम् त्रिणवस्तोमस्य शास्त्रसिद्धं प्रतिष्ठात्वम् । अथाष्टमं मन्त्रं विनियुङ्क्ते—
“देवस्य सवितुर्भागोऽसीत्युत्तरतो ब्रह्म वै देवः सविता ब्रह्म बृहस्प-तिर्ब्रह्म चतुष्टोमो ब्रह्मवर्चसमेवोत्तरतो धत्ते तस्मादुत्तरोऽर्धो ब्रह्मवर्चसितरः सावि-त्रवती भवति प्रसूत्यै तस्माद्ब्राह्मणानामुदीची सनिः प्रसूता” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
प्रातःसंध्यादौ ब्राह्मणेरुपास्यमानत्वात्सवितुर्ब्रह्मत्वम् । बृहस्पतेर्ब्राह्मण-जात्यभिमानित्वाद्ब्रह्मत्वम् । तच्च “ब्रह्म वै देवानां बृहस्पतिः” इति श्रुत्यन्तरादव-गम्यते । चतुष्टोमस्य शास्त्रासिद्धं ब्रह्मत्वम् । सवितृप्रतिपादको मन्त्रः सावित्रस्तेन मन्त्रेणोपहितेष्टका सावित्रवती । अतः सा प्रसवाय संपद्यते । यस्माद्ब्रह्मरूपस-वितृप्रतिपादकमन्त्रसाध्येष्टकोत्तरस्यां दिश्युपहिता तस्माद्ब्राह्मणानामुदीची सनिः प्रसूनोत्तरस्यां दिशि यज्ञभिक्षादिरूपा याच्ञा शास्त्रोणाभ्यनुज्ञाता। विन्ध्यस्योत्तर-भागे हि पुण्यभूमौ शुद्धा ब्राह्मणा वर्तन्ते, तस्मात्तत्र प्रतिग्रहः प्रशस्तः ।
[[2011]]
पूर्वानुवाकाम्नातौ सप्तदशाष्टादशमन्त्रावितः पूर्वं न विनियुक्तौ। तत्रा-ष्टादशंमन्त्रमिदानीं विनियुङ्क्ते—
“धर्त्रश्चतुष्टोम इति पुरस्तादुप दधाति यज्ञमुखं वै धर्त्रो यज्ञमुखं चतु-ष्टोमो यज्ञमुखमेव पुरस्ताद्वि यातयति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
धर्त्रो धारयिताऽग्निष्टोमः स च सोमयागानां प्रथमभावित्वाद्यज्ञमुखम् । चतुष्टोमः (* षष्टिस्तोमस्तृतीयः ) । तस्य यज्ञमुखभूतत्रिवृदात्मकत्वाद्यज्ञमुखत्वम्। अथ प्रकृतानुवाकगतं नवमं मन्त्रं विनियुङ्क्ते—
“यावानां भागोऽसीती दक्षिणतो मासा वै यावा अर्धमासा अयावा-स्तस्माद्दक्षिणावृत्तो मासा अन्नं वै यावा अन्नं प्रजा अन्नमेव दक्षिणतो धत्ते तस्मा-द्दक्षिणेनान्नद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
गोलकस्य प्रादक्षिण्येन संचास्ताऽऽदित्येन निष्पाद्यत्वान्मासानां दक्षि-णावृत्वम । यावशब्दवाच्यानां मासानां कालरूपाणामन्नपाकहेतुत्वादन्नत्वम् । प्र-जानामन्नभोक्तृत्वादन्नत्वम् । अथ दशमं मन्त्रं विनियुङ्क्ते—
“ऋभूणां भागोऽतीति पश्चात्प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
देवानामनुग्राहकत्वेन प्रतिष्ठाहेतुत्वम् ।
अथ पूर्वानुवाकगतं सप्तदशं मन्त्रं विनियुङ्क्ते—
“वितर्तोऽष्टाचत्वारिँश इत्युत्तरतोऽनयोर्लोकयोः सवीर्यत्वाय तस्मा-दिमौलोकौ समावद्वीर्यौ” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
स्तोमानां मध्येऽष्टाचत्वारिंशः स्तोमः सर्वोत्तमः । ततोऽप्यधिकस्य स्तोमस्याभावात् । मनुष्यलोके दिशां मध्ये विन्ध्यादुत्तरा दिगुत्तमां अत उत्तमद्वय-मेलनेन मनुष्यलोको वीर्यवान्संपन्नः । स्वर्गलोकस्य देवाधिष्ठितत्वाद्वीर्यवत्त्वं प्रसिद्धम् । एवं च सत्युभयोर्लोकयोः समानवीर्यत्वं भवति । तस्मादेबं मनुष्य-लोकस्य
- धनुश्चिह्नान्तर्गतस्थाने भट्टभास्करभाष्यानुसारी “समष्टिस्तोत्रीयः स्तोमः” इति पाठो भवितुं युक्तः।
[[2012]]
विर्यवत्त्वं संपादितं तस्मादिमौ लोकौ समावद्वीर्यौ । मनुष्यलोकः पुण्यानुष्ठाननि-ष्पादनेन वीर्यवान्स्वर्गलोकः पुण्यफलनिष्पाननेन वीर्यवानिति समत्वम् । अनुवा-कद्वयेन वक्रत्वेनोपहितानामिष्टकानां मध्य एकैकस्यां दिशि या उपहितास्ताः सर्वा दिग्विशेषोपाधिनां संगृह्य प्रशंसति—
“यस्य मुख्यवतीः पुरस्तादुषधीयन्ते मुख्य पव भवत्याऽरय मुख्यो जायते यस्यान्नवतीर्दक्षिणतोऽत्यन्नमाऽस्यान्नादो जायते यस्य प्रतिष्ठावतीः पश्चात्प्र-त्येव तिष्ठति यस्यौजस्वतीरुत्तरत ओजस्व्येव भवत्याऽस्यौजस्वी जायते” [सं॰ का॰ ५ प्र॰ ३ अ॰ ४] इति।
मुखत्वेन पूर्वोक्तेष्वर्थवादेषु स्तुता इष्टका मुख्यवत्यः । तासां पूर्वस्यां दिश्युपधानेन स्वयं मुख्यो भवति, स्वपुत्रश्च पुख्यो जायते । अन्नत्वेन स्तुता इष्टका अन्नवत्यः । तासां दक्षिणादिश्युपधानेन स्वयं पुत्रश्चान्नबन्तौ संपद्येते । प्रतिष्ठात्वेन स्तुता इष्टकाः प्रतिष्ठावत्यः। तासां पश्चिनदिश्युपधानेन प्रतिष्ठितो भवति। ओजस्त्वेन स्तुता इष्टका ओजस्वत्यः। तासामुत्तरदिश्युपधानेन स्वयं पुत्रश्चौजस्विनौ भवतः । वक्रत्वेन योऽयमुपधानप्रकारोऽभिहितस्तमेतं स्तोत्रशास्त्र-रूपत्वेन प्रशंसति—
“अर्को वा एष यदग्निस्तस्यतैदेव स्तोत्रमेतच्छस्त्रं यदेवा विधा विधीय तेऽर्क एव तदर्क्यमनु विघीयते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
योऽग्निरस्ति स एषोऽर्कोऽर्चनीयः । तस्यार्चताङ्गत्वेन स्तोत्रशस्त्रो अपेक्षिते । तथा सति योऽयं वक्रत्वेनोपघानप्रकारोऽभिहितस्तत्रैकेनानुवाकेनोक्तं स्तोत्रमितरेणानुवाकेनोक्तं शस्त्रम् । एवं सत्यर्चनीये वह्नावेवार्चनयोग्यमनुष्ठानां क्रमेण संपादितं भवति । तदनुष्ठानं तद्वेदनं च प्रशंसति—
“अत्यन्नमाऽश्यान्नादो जायते यस्यैषा विधा विधीयते य उ चैनामेवं वेद” (सं॰ का॰ ५ प्र॰ ३ अ॰ ४) इति।
एनां विधाम् । अत्र विनियोगसंग्रहः—
अग्नेः शिष्टा दशाऽऽदध्यादक्ष्णयास्तोमसंज्ञकाः । इति ॥
[[2013]]
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
नवममोऽनुवाकः ॥ ९ ॥