[अथ चतुर्थाष्टके तृतीयप्रपाठकेऽष्टमोऽनुवाकः]।
आ॒शुस्त्रि॒वृद्भा॒न्त प॑ञ्चद॒शो व्यो॑म सप्तद॒शः
प्रतू॑र्तिरष्टाद॒शस्तषो॑ नवद॒शो॑ऽभिव॒र्तः स॑विँ
शो ध॒रुण॑ एकविँ॒शो वर्चे॑ द्वाविँ॒शः सं॒-
भर॑णस्रयाविँ॒शो योनि॑श्चतुर्विँ॒शो गर्भा॑
[[2001]]
पञ्चविँ॒श ओज॑स्त्रिण॒वः क्रतु॑रेकत्रिँ॒शः
प्र॑ति॒ष्ठा त्र॑यस्त्रिँ॒शो व्र॒घ्नस्य॑ वि॒ष्टपं॑ चतु-
स्त्रिँ॒शो नाकः॑ षट्त्रिँ॒शो वि॑व॒र्तोऽष्टाच-
त्वारिँ॒शो ध॒र्त्रश्च॑तुष्टो॒मः ( १ ) ॥
[आ॒शुः स॒प्तत्रिँ॑ शत्]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
(अथ चतुर्थकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः ) ।
सप्तमेऽनुवाके बृहत्याद्यां इष्टका अभिहिताः । तावता तृतीया चितिः समाप्ता । अथाष्टमे चतुर्थ्यां चितावक्ष्णयास्तोमीयाख्यास्विष्ठकासु काश्चिदुच्यन्ते ।
कल्पः—“श्वोभूते पौर्वाह्णिकीभ्यां प्रचर्य चतुर्थी चितिं चिनोत्याशुस्त्रिवृ-दग्नेर्भागोऽसीत्येताभ्यां यथाब्राह्मणमुपधाय” इति।
तत्राऽऽद्यानुवाकपाठस्तु—
आशुस्त्रिवृद्भान्त इति । अत्र त्रिवृत्पञ्चदशसप्तदशाष्टादशनवदशादि-शब्दाः स्तोमविशेषवाचिनः । स्तोमाश्च तृचनिष्ठस्य साम्न आवृत्तिभेदान्निष्पद्यन्ते । आवृत्तिप्रकारस्तु त्रिवृत्पञ्चदशसप्तदशानां समिधमा तिष्ठेत्यस्मिन्ननुवाके साम-ब्राह्मणोदाहरणेनास्माभिर्व्याक्षातः । एकविंशत्रिणवत्रयस्त्रिंशाख्या अपि स्तोमाः सामब्राह्मणे निरूपिताः । अष्टादशनवदशादयस्तु न्यायेनोन्नेया उपस्तोमाः । ते तु ब्राह्मण आम्नाताः । तदुन्नयनार्थस्त्वावृत्तिप्रकारः सामसूत्रादवागन्तव्यः । अत्र त्रिवृदादयश्चतुष्टोमान्ता अष्टादशसंख्याकाः स्तोमविशेषा आम्नाताः । आशुर्भान्त इत्यादीनि स्तोमविशेषणानि । तत्र कानिचिद्गुणवाचीनि कानिचिद्द्रब्यवाचीनि । तथा सति गुणसंबन्धं द्रव्यतादात्म्यं वा स्तोमेषूपचर्य तत्तत्स्तोमरूपत्वं तत्तदिका-याः प्रशंसार्थमुपन्यस्यते । तत्रैवमक्षरयोजना आशुः शैघ्ऱ्यगुणोपेतो यस्त्रिवृतस्तोमो हे इष्टके तद्रूपा त्वमसि । एवमुत्तरत्रापि याज्यम् । भान्तो भासमानः । व्योम प्रसिद्वं द्रव्यम् । प्रकृष्टां तूर्तिस्त्वरा यस्यासौ प्रतूर्तिः । शघ्रिकारिणी-
[[2002]]
त्यर्थः । तपः प्रसिद्धम् । अभिवर्तः सामविशेषः । सह विंशत्या संख्यया वर्तत इति सविंशः स्तोमविशेषः । धरुणो धारकः । वर्चो बलहेतुः । संभरणः सम्य-क्पोषकः । योनिः प्रजोत्पादकः । गर्भाः प्रसिद्धाः । ओजोऽष्टमधातु । क्रतु-र्ज्योर्तिष्टोमादिः । प्रतिष्ठा स्थितिहेतुः । व्रध्नस्याऽऽदित्यस्य विष्टपं निवासस्थानम् । ‘असौ वा आदित्यो ब्नघ्नः’ इतिश्रुत्यन्तरात् । नाकः स्वर्गाख्यभोगभूमिः । विपरी-तत्वेन वर्तनं यस्यासौ विवर्तः । त्रिवृत्पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशा अन-नैवाऽऽम्नातक्रमेण क्वचिदनुष्ठीयन्ते, क्वचितु विपरीतक्रमेण । अत एव सूत्रकारे-ण क्वचिदुक्तम्—‘त्रयस्त्रिंशारम्मणास्त्रिवृदुत्तमाः” इति । धर्त्रो धारकः । चतुष्टोमस्त्रिवृत्पञ्चदशसप्तदशैकविंशानां समूहः । एतैः स्तोमावाचिभिरष्टादशाभि-र्मन्त्रैः स्तोमरूपत्वमापादिता अष्टादशेष्टका उपदध्यात्।
एत्रैर्मन्त्रै, साध्यमुपधानं विधत्ते—
“देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते देवा एता अक्ष्णयास्तो-मीयाय अपश्यन्ता अन्यथाऽनुच्यान्यथोपदधत तदसुरा नान्ववायन्ततो देवा अभ-वन्षराऽसुरा यदक्ष्णयास्तोमीया अन्यथाऽनूच्यान्यथोपदधाति भ्रातृव्याभिभूत्यै भव-त्यात्मना पराऽस्य भ्रातृव्यो भवति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
पुरा कदाचिद्देवसाम्यं प्राप्तुमसुरा देवसमीपे गूढचारिणं पुरुषमवस्थाप्य तन्मुखेनावगत्य देवा यज्ञे यद्यदङ्गमकुवंर्स्तत्सर्वं स्वयमपि तथैवानुष्ठितवन्तः । तत-स्तान्वञ्चयितुं देवा अक्ष्णयास्तोमीयाख्या एता इष्टका अपश्यन्। स्तामेवाचि शब्दोपेतर्मन्त्रैरुपधेयत्वात्स्तोमीयाः । तत्रापि मन्त्रपाठक्रममुल्लङ्ध्य वक्रत्वेनानुष्ठे यत्वादक्ष्णयास्तोमीयाः । कथं वक्रत्वमिति तदुच्यते-अन्यथा मन्त्रानुवचनमन्य-थेष्टकोपधानमिति वक्रत्वम् । भान्तः पञ्चदश इत्ययमनुवचने द्वितीयो मन्त्रः, उप-धाने तुरीयः । व्योम सप्तदश इत्यनुवचने तृतीयो मन्त्रः, उपधाने तद्वितीयः । एवं सर्वत्र वक्रत्वं द्रष्टव्यम् । तदानीं गूढचारी विभ्रान्तः । तन्मुखादनवगतशब्दा असुरा देवाननुगन्तुं नाशक्नुवन् । ततोऽसुराणां पराभवो देवानां जयश्चाऽऽसीत् । तस्माद्यजमानोऽपि तथैवोपदध्यात् । तदुपधानं भ्रातृव्यभिभूत्यै स्वस्य जयाय च संपद्यते ।
[[2003]]
तदेवं सामान्याकारेण विधाय विशेषाकारेण प्रथमं मन्त्रं विनियुङ्क्ते—
आशुस्त्रिवृदिति षुरस्तादुप दधाति यज्ञमुखं वै त्रिवृद्यज्ञमुखमेव पुर-स्ताद्वि यातयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
स्तोमानां मध्ये प्रथमभावित्वात्त्रिवृतो यज्ञमुखत्वम् । तन्मन्त्रेणोप-धानेन पूर्वस्यां दिशि यज्ञमुखं प्रसारयति । अथानुवचने तृतीयं मन्त्रं विनियुङ्क्ते—
“व्योम सप्तदश इति दक्षिणतोऽन्नं वै व्योमान्नँ सप्तदशोऽन्नमेव दक्षि-णतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
व्योमवदाकाशबहुले क्षेत्रे बहुधान्यनिष्पत्तेर्व्योम्नोऽन्नत्वम् । सप्तदश-स्तामस्यान्नसंपादकैर्वैश्शैः सह प्रजापतेर्मध्यदेशादुत्पन्नत्वम् । यस्मादीदृशेन मन्त्रेण दक्षिणस्यां दिश्युपधानं तद्दिश्यन्नोपधानतुल्यं तस्माल्लोकेऽपि हि दक्षिणहस्तेनान्नं भुज्यते । अथ सप्तममन्त्रं विनियुङ्क्ते—
“धरुण एकविँश इति पश्चात्प्रतिष्ठा वा एकविँ शः प्रतिष्ठित्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
सामिधेनीप्रकरण एकविंशस्तोमानां प्रतिष्ठेत्याम्नातत्वादस्य प्रतिष्ठात्वम्।
अथ द्वितीयं मन्त्रं विनियुङ्क्ते—
“भान्तः पञ्चदश इत्युत्तरत ओजो वै भान्त ओजः पञ्चदश ओज एवो सरतो धते तस्मादुत्तरतोभिप्रमायी जयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
भासनस्यौजःकार्यत्वादोजस्त्वम् । अन्मत्र पञ्चदशो वज्र इत्यान्नात-त्वादो जोवब्दलहेतुत्त्वाच्चौजरत्वम् । अथ चतुर्थं मन्त्रं विनियुङ्क्ते—
“प्रतूर्तिरष्ठादश इति पुरस्तादुप दधाति द्वौ त्रिवृतावभिपूर्वं यज्ञमुखे वियातयति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
अष्टादशस्तोमस्य पूर्वोत्तरभागयोर्नवसंख्योपेतत्वाद्द्वौ त्रिवृतौ संपद्येत। तौ चाभिपूर्वमनुक्रमेण यज्ञमुखे प्रसारयति । अथ षष्ठं मन्त्रं विनियुङ्क्ते—
“अभिवर्तः सविँ श इति दक्षिणतोऽन्नं वा अभिवर्तोऽन्नँ सविँशोऽ–
[[2004]]
न्नमेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
अभिवर्तसाम्नोऽन्नसाधनत्वादन्नत्वम् । विंशस्तोमस्य दशसंख्याकद्व-योपेतस्य विराडू द्वाराऽन्नत्वम् । अथाष्टमं मन्त्रं विनियुङ्क्ते—
“वर्चो द्वाविँश इति पश्चाद्यद्विँ शतिर्द्वे तेन विराजौ यद्द्वे प्रतिष्ठा तेन विराजोरेवाभिपूर्वमन्नाद्ये प्रतितिष्ठति” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
द्वावि॑शतिसंख्यामध्ये येयं विंशतिस्तेन विंशतिसंख्याविशेषेण दशसंख्यो पेते द्वे विराजौ संपद्येते । विंशतेरुपरि ये द्वे तेन द्विसंख्याविशेषेण पादयोरिव प्रतिष्ठाहेतुत्वम् । तथा सति विराजोः संबन्धिन्येवान्नाद्ये क्रमेण प्रति-ष्ठितो भवति । अथ पञ्चममन्त्रं विनियुङ्क्ते—
“तपो नवदश इत्युत्तरतस्तस्मात्सव्यो हस्तयोस्तपस्वितरः” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
यस्मादुदीच्यां दिशि तप इति मन्त्रः प्रवर्तते तस्मादुत्तरदिग्वर्ती वाम-हस्तो द्वयोर्हस्तयोर्मध्येऽतिशयेन तपस्वी । दक्षिणहस्तवद्भोजनशक्त्यभावादन-शनस्य तपोरूपत्वात् । अथ दशमं मन्त्रं विनियुङ्क्ते—
“योनिश्चतुर्विँश इति पुरस्तादुप दधाति चतुर्विँ शत्यक्षरा गायत्री गायत्री यज्ञमुखं यज्ञमुखमेव पुरस्ताद्वि यादयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
प्रातःसवने प्रवृत्तत्वाद्गायत्र्या यज्ञमुखत्वम् ।
अथैकादशं मन्त्रं विनियुङ्क्ते—
“गर्भाः पञ्चविँ श इति दक्षिणतोऽन्नं वे गर्भा अन्नं पञ्चविँशोऽन्न-मेव दक्षिणतो धत्ते तस्माद्दक्षिणेनान्नमद्यते” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
गर्भाणामन्नकार्यत्वादन्नत्वं, पञ्चविंशस्यान्नहेतुत्वादन्नत्वम्।
अथ द्वादशं मन्त्रं विनियुङ्क्ते—
[[2005]]
“ओजस्त्रिणव इति पश्चादिये वै लोकस्त्रिणत्र एष्वेव लोकेषु प्रति तिष्ठति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
त्रिणवे त्रिसंख्याया विद्यमानत्वाल्लोकत्रयरूपत्वम् ।
अथ नवमं मन्त्रं विनियुङ्क्ते—
“संभरणस्रवोवँश इत्युत्तरतस्तस्मात्सव्यो हस्तयोः संभार्यतरः” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
सम्यग्भरणीयं भिक्षापात्रादिकं येन वामहस्तेन सोऽयं संभार्यतरः । यतः सो तिशयेन हस्तयोर्मध्ये धार्यं धारयति ।
अथ त्रयोदशं मन्त्रं विनियुङ्क्ते—
“क्रतुरेकत्रिँश इति पुरस्तादुप दधाति वाग्वै ऋतुर्यज्ञमुख बाग्यज्ञमु-खमेव पुरस्ताद्वि यातयति” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
मन्त्रनिष्पाद्यत्वात्क्रतोवार्ग्रूपत्वम् । सा च वाग्यज्ञस्य मुखम् । प्रथमं मन्त्र मुच्चार्य पश्चादनुष्ठेयत्वात् । अथ पञ्चदशं मन्त्रं विनियुङ्क्ते—
“ब्रघ्नस्य विष्टपं चतुस्रिँश इति दक्षिणतोऽसौ वा आदित्यो ब्रघ्नस्य विष्टपं ब्रह्मवर्चसमेव दक्षिणतो धत्ते तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
यद्यप्यादित्य एव व्रघ्नो विष्टपं तु तस्य निवासस्थानं तथाऽप्यत्राभेद उषचर्यते । दक्षिणस्यां दिश्यादित्यसंवन्धिमन्त्रेणोपधानाद्दक्षिणहस्तो ब्रह्मवर्चसाधिकः । दक्षिणहस्ते ब्रह्मवर्चसशब्दाभिधेयं यद्वैदिकहोमपूजादिकं धारयति तस्माद्दक्षिणभागः एवातिशयेन ब्रह्मवर्चसयुक्तः । अत एवाऽऽशीर्वादादौ स एवं हस्तः प्रसरति ।
अथ चतुर्दशं मन्त्रं विनियुङ्क्ते—
“प्रतिष्ठा त्रयस्त्रिँश इति पश्चात्प्रतिष्ठित्यै” [सं॰ का॰ ५ प्र॰ ३ अ॰ ३] इति।
मन्त्रगतेनैव प्रतिष्ठाशब्देन प्रतिष्टा सूचिता । अथ षोडशं मन्त्रं विनि-युङ्क्ते–
[[2006]]
“नाकः षट्त्रिँश इत्युत्तरतः सुवर्गो वै लोको नाकः सुवर्गस्य लोकस्य समष्ट्यै” (सं॰ का॰ ५ प्र॰ ३ अ॰ ३) इति।
नाकशष्दार्थः प्रसिद्ध एव । अत्र विनियोगसंग्रहः—
आशुरष्टादशाऽऽदध्यादक्ष्णयास्तोमसंयुताः—
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठकेऽ
ष्टमोऽनुवाकः ॥ ८ ॥