०७

[अथ चतुर्थकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः]।
मा छन्दः॑ प्र॒मा छन्दः॑ प्रति॒मा छन्दो॑ऽस्त्री॒
विश्छन्दः॑ प॒ङ्क्तिश्छन्द॑ उ॒ष्णिहा॒ छन्दो॑ बृ-
ह॒ती छन्दो॑ऽनु॒ष्टुप्छन्दो॑ वि॒राट्छन्दो॑ गायत्री॒
छन्दस्त्रि॒ष्टुप् छन्दो॒ जग॑ती॒ छन्दः॑ पृथि॒वी
छन्दो॒ऽन्तरि॑क्षं॒ छन्दो॒ द्यौश्छन्द॒ समा॒श्छन्दो॒
नक्ष॑त्राणि॒ छन्दो॒ मन॒श्छन्दो॒ वाक्छन्दः॑ कृ॒-
षिश्छन्दो॒ हिर॑ण्यं॒ छन्दो॒ गौश्छन्दो॒ऽजा छ-
न्दोऽश्व॒श्छन्दः॑ । अ॒ग्निर्दे॒वता॑ [ १] बातो॑
दे॒वता॒ सूर्यो॑ दे॒वता॑ च॒न्द्रमा॑ दे॒वता॒ वस॑वो
दे॒वता॑ रु॒द्रा दे॒वता॑ऽऽदि॒त्या दे॒वता॒ विश्वे॑ दे॒वा
दे॒वता॑ म॒रुतो॑ दे॒वता॑ बृह॒स्पति॑र्दे॒वतेन्द्रो॑ दे॒वता॑
वरु॑णो दे॒वता॑ मूर्धाऽसि॒ राड्ध्‍रु॒वाऽसि॑ ध॒रुणा॑
य॒न्त्र्य॑सि॒ यमि॑त्री॒षे त्वो॒र्जे त्वा॑ कृष्यै॒ त्वा॒
क्षेमा॑य त्वा॒ यन्त्री॒ राड्ध्‍रु॒वाऽसि॒ धर॑णी

[[1998]]

ध॒र्त्र्य॑सि॒ धरि॒त्र्यायु॑षे त्वा॒ वर्च॑से॒ त्वौज॑से
त्वा॒ बला॑य त्वा [ २] ।।
(दे॒वताऽऽयु॑षे त्वा॒ षट् च॑)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

अथ चतुर्थकाण्डे तृतीयप्रपाठके सप्तमोऽनुवाकः ।
षष्ठेऽनुवाके स्वयमातृण्णाद्या इष्टका उक्ताः। अथ सप्तमे बृहत्याख्या इष्ट का उच्यन्ते।
कल्पः—“षट्‍‍विंशतं बृहतीर्मा छन्द इति द्वादश दक्षिणतः पृथिवी छन्द इति द्वादश पश्चादग्निर्देवतेति द्वादशोत्तरयः” इति । पाठस्तु—
मा छन्दः प्रभेति । अत्र माप्रमाप्रतिमास्त्रीत्वि[ ब्यादि] शब्दाभिधे-याश्छन्दोविशेषाः केचिद्वेदे प्रसिद्धाः केचिल्लोकेष्वपि प्रसिद्धाः । हे इष्टके त्वं माना-यकच्छन्दोरूपाऽसि । प्रमानामकच्छन्दोरूपाऽसि । एवं सर्वत्र योज्यम् । अग्न्या-दीनां तु देवतात्वं प्रसिद्धम् । हे इष्टके त्वमग्निदेवतारूपाऽसि । एवमुत्तरत्रापियो-ज्यम् । एतैर्मन्त्रैरिष्टकोपधानं विधातुं प्रस्तौति—
“छन्दाँ सि पशुष्वाजिमयुस्तान्बृहत्युदजयत्तस्माद्वार्हतः पशव उच्यन्ते” (सं. का. ५ प्र. ३ अ. ३) इति।
पुरा कदाचिद्वायत्र्यादिच्छन्दोदेवताः परस्परं मात्सर्येण कांचिदाजिं मर्यादां प्राप्ताः । अहमेवाऽऽदौ पशून्स्वी करिष्यमामिति प्रतिज्ञा मर्यादा । तदानीं बृहत्याख्या छन्दोदेवता देवतान्तरण्युल्लङ्ष्य स्वयमेवाजयत् । अतस्तदीयनाम्‍ना पशवो बार्हता इत्येवं प्रसिद्धिं गताः । यथा बृहती छन्दसां मध्ये प्रशस्ता, एवं बृहत्याख्या इष्टका अपि प्रशस्ता इति तात्पर्यार्थः ।
ता इष्टका दिग्विशेषेषु विधत्ते ।
“मा छन्द इति दक्षिणत उप दधाति तस्माद्दक्षिणावृतो मासाः पृथिवी

[[1999]]

छन्द इति पश्चात्प्रतिष्ठित्या अग्निर्देवतेत्युतरत ओजो वा अग्निरोज एवोत्तरतो धत्ते तस्मादुत्तरतोभिप्रयायी जयति” [सं. का. ५ प्र. ३ अ. २] इति।
माशब्देन मासा उच्यन्ते । दक्षिणादिग्विधानेन दक्षिणादिवृतिः, सूर्यस्य गोलकप्रदक्षिणावृत्त्या निष्पाद्यामानत्वाच्‍चैत्रादिमासा दक्षिणावृताः । पश्चिमदिश्युपधे-यानामिष्टकानां मन्त्रेष्वादौ पृथिवीशब्दः पठितः । पृथिवी च सर्वस्य जगतः प्रतिष्ठा । तस्मात्तदुपधानं प्रतिष्ठित्यै भवति । उदीच्यां दिश्युपधेयानामिष्टकानां मन्त्रादावग्नि-शब्दः पठितः । अग्निश्च दाहकशक्तियुक्तत्वादोज इत्युच्यते । तस्मादोज एवोदीच्यामु-पहितं भवति । यस्मादुदीच्यामग्न्यादिदेवताशक्तिरूपमोजस्तिष्ठति तस्मादुत्तराभिमुख-त्वेन प्रयाणं कुर्वंस्तीर्थयात्रादियन्यपुण्योपेतत्वात्परलोकं जयति ।
मन्त्रपाठप्राप्तामिष्टकासंख्यां प्रशंसति—
“षट्त्रीँशत्सं पद्यन्ते पट्त्रिँ शदक्षरा बृहती वार्हताः पशवो बहत्यैवास्मै पशूनव रुन्धे बृहती छन्दसाँ स्वाराज्यं परीयाया यस्यैता उपधीयन्ते गच्छति स्वाराज्यम्” [सं. का. ५ प्र. ३ अ. २] इति।
घृहत्या जितत्वात्पशूनां बार्हेतत्वं, जेतृत्वादेव बृहत्याः स्वाराज्यमपि ।
कल्पः—“मूर्धाऽसि राडिति सप्त वालखिल्याः पुरस्तात्प्रतीचीर्यन्त्री रा-डितिसप्त पश्चात्प्राचीः” इति । पाठस्तु मूर्धासीति ।
हे इष्टके त्वं मूर्धा मूर्धवदुत्तमा राड्राजमाना चासि हे इष्टके त्वं ध्रुवा स्थिरा धरुणा धारणहेतुश्चासि । हे इष्टके त्वं यन्त्रो स्वयमपि नियता यमित्री सर्वेषां नियमनकारिणी चासि । हे इष्टके इषेष्न्नाय त्वा त्वाम्, उपदधाप्रीति शेषः । ऊर्जे वलाय त्वामुपदधामि । कृष्यै सस्यनिष्पश्चये त्वामुपदधामि । क्षेमाय संपादितस्य धनस्य रक्षणाय त्वामुपदधामि । एतैः सप्तभिर्मन्त्रेः पुरस्तादुपधेयाः । हे इष्टके त्वं यन्त्री नियमोपेता राड्र जमाना चासि । तथा ध्‍रुवा स्थिरा धरणी धारणहेतुश्चाति । धर्त्री धारणं कुर्वती धरित्री भूमिरूपा चासि । आयुष आयुवृद्धयर्थं त्वामुपदधामि । वर्चसे कान्त्यर्थं त्वामुपदधामि । ओजसेऽष्टमधातुवृद्ध्यर्थं त्वामुपैदधामि । बलाय तेजःकार्यार्थं त्वामुपदधामि । एतैः सष्तभिर्मन्त्रेः पश्चिमायां दिश्युपधाप्रम् ।

[[2000]]

तैरेतैरुभयविधमन्त्रैः साध्यमुपधानं विधत्ते—
“सप्त बालखिल्याः पुरस्तादुप दधाति सप्‍न पश्चात्सप्त वै शीर्षण्याः प्राणा द्वावावाञ्चौ प्राणानाँ सवीर्यत्वाय” (सं. का. ५ प्र. ३ अ. २) इति।
बालखिल्यनामकैर्मुनिभिरादौ दृष्टत्वादिष्टका अपि बालखिल्याख्याः । इष्टकागतया सप्तसंख्याया शीर्षण्यच्छिद्रसाम्यं, पुरस्तादेकं सप्तकं पश्चादेकं सप्तक-मिति सप्तकयोर्द्वित्वादधोदेशवर्तिच्छिद्रद्वयसाम्यम् । अतः सर्वेषां प्राणानां सवी र्यत्वायेदमुपधानम् । सप्तकद्वये मन्त्रविभागं विधत्ते—
“मूर्धा सि राडिति पुरस्तादुप दधाति यन्त्री राडिति पश्चात्प्राणानेवास्मै समीचो दधाति” [सं. का. ५ प्र. ३ अ. २] इति।
सप्तकद्वयस्य परास्पराभिमुख्येन प्राणानां सम्यक्त्वं संपद्यते । सम्यक्त्वं नाम स्वस्वव्यापारक्षमत्वम् । अत्र विनियोगसंग्रहः—
मा दक्षिणस्यां यृहतीः पृथि पञ्चादथोत्तरे ।
अग्निरित्यादिकाः सर्वा द्वादश द्वादशोदिताः ।।
मूर्धा यन्त्री ब्रालखिल्याः पुरः पश्चाच्‍च सप्तभिः ।
सप्तमे त्वनुवाकेऽस्मिन्मन्त्रः पञ्चाशदीरिताः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।