०६

[अथ चतुर्थकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः]।
इन्द्रा॑ग्नी॒ अव्य॑थमाना॒मिष्ट॑कां दृँहतं यु॒-
वम् । पृ॒ष्ठेन॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं च॒ वि
बाधताम् । वि॒श्वक॑र्मा त्वा सादयत्वन्तरि॑

[[1993]]

क्षस्य पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒ भास्व॑-
तिँ सरि॒मती॒मा या द्यां भास्या पृ॑थि॒वी
मोर्व॑न्तरि॑क्षमन्तरि॑क्षं यच्छा॒न्तरि॑क्षं दृँहा-
न्तरि॑क्षं॒ मा हिँ॑सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑
व्या॒नायो॑दा॒नाय॑ प्रति॒ष्ठायै॑ च॒रित्रा॑य वा॒यु-
स्त्वा॒ऽभि षा॑तु म॒ह्या स्व॒स्त्या छ॒र्दिषा॑ ( १ )
शंत॑मेन॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑-
द । राज्ञ्य॑सि॒ प्राची॒ दिग्वि॒राड॑सि दक्षि॒णा
दिक्स॒म्राड॑सि॒ प्र॒तीची॒ दिक्स्व॒राड॒स्युदी॑ची॒
दिगधि॑पत्न्यासि बृह॒ती दिगायु॑र्मे पाहि प्रा॒णं
मे पाह्यपा॒नं मे षाहि व्या॒नं मे॑ पाहि॒ चक्षु॑
र्मे पाहि॒ श्रोत्रं॑ मे पाहि॒ मनो॑ मे जिन्व॒
वाचं॑ मे पिन्वाऽऽत्मानं॑ मे पाहि ज्योति॑र्मे
यच्छ [ २] ।।
(छ॒र्दिषा॑ पिन्व॒ षट् च॑)

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
तृतीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

( अथ चतुर्थकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः )।
पञ्चमेऽनुवाके वयस्वाख्या इष्टका उक्ताः । तावता द्वितीयचितिः समाप्ता।
अथ षष्टे तृतीयस्यां चित्तौ स्वयमातृण्णाद्या उच्यन्ते ।
कल्पः—“श्वोभूते पौर्वाहनिकीभ्यां प्रचर्य तृतीयां चितिं चिनौतीन्द्राग्नी अव्यथमानमिति स्वयमातृण्णाममिमृश्याश्वेनोपघ्राप्य” इति । पाठस्तु—

[[1994]]

इन्द्राग्नी इति । हे इन्द्राग्नी युवं युवाव्यथमानां भङ्गरहितां स्वयभातृण्णा-ख्यामिष्टकां दृंहतं दृढी कुरुतम् । इयं चेष्टका स्वकीयेनोपरिभागेन [ ण] लोकत्रयं विवाधतां बाधमानेव व्याप्नोत्वित्यर्थः ।
कल्पः “विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठ इत्याविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपधाति” इति । पाठस्तु—
विश्वकर्मा त्वेति । विश्वानि कर्माणि यस्यासौ विश्वकर्मा प्रजापतिः । हे स्वयमातृण्णे प्रजापतिस्त्वामन्तरिक्षस्य पृष्ठ उपरि सादयतु । कीदृशीं, व्यचस्वतीं व्यक्तियुक्तां प्रथस्वतीं विस्तारयुक्तां भास्वतीं भायुक्तां सूरिमतीं विद्वद्भिर्ऋत्विग्भि-र्युक्तां, तां येयं स्वयमातृण्णा त्वं द्युलोकमाभासि सर्वतः प्रकाशयसि । तथा पृथिवीमाभासि । उरु विस्तीर्णमन्तरिक्षं चाऽऽभासि । तादृशी त्वमन्तरिक्षमिदं यच्छ गन्धर्वाप्सरोगणादिधारकतया नियमय । तथाऽन्तरिक्षं र्दृह परोपद्रववराहित्येन दृढी कुरु । त्वमपि तदन्तरिक्षं मा हिंसीः । विश्वस्मै सर्वस्मै प्राणापानव्यानोदानाख्यवायु-वृत्तिलाभाय, प्रतिष्ठायौ स्मगृहे प्रतिष्ठालाभाय, चरित्राय शास्त्रीया चरणाय, प्राणिना-मेतस्य सर्वस्य सिद्ध्यर्थमयं वायुस्त्याममितः पातु । केन रक्षणमिति तदुच्यते-मह्या स्वस्त्या महत्या योगक्षेमसंपत्त्या शंतमेन च्छर्दिषा सुखकारिणा दीप्तिविशेषेण । तव स्वामिभूता या देवता तयाऽनुगृहीत ध्रुवास्थिरा सती सीदहोपविश । अङ्गिरस्वदङ्गि-रसां चयनानुष्ठाने यथा घ्रुवा स्थिरा तद्वत् । एतन्मन्त्रद्वयसाध्यमभिमर्शनपूर्वकमुपधानं विधत्ते—
“इन्द्राग्नी अव्यथमानामिति स्वयमातृण्णामुप दधातीन्द्राग्निभ्यां वा इमौ लोकौ विधृतावनयोर्लोकयोर्विधृत्यै” [सं. का. ५ प्र. ३ अ. २] इति।
यस्मादिन्द्राग्निभ्यां लोकद्वयं विधृतं तस्मादत्रापि लोकद्वयधारणायेन्द्राग्नी इति मन्त्रः प्रयुज्यते । प्रकारान्तरेणेन्द्राग्नी मन्त्रगतौ प्रशंसति—
“अधृतेव वा एषा यन्मध्यमा चितिरन्तरिक्षमिव वा एषेन्द्राग्नी इत्याहे न्द्राग्नी वै देवानामोजोभृतामोजसैवैनामन्तरिक्षे चिनुते घृत्यै” [सं. का. ५ प्र. ३ अ. २] इति।
अधस्ताच्चितिद्वयं पूर्वमुक्तमुपरितनं तु चितिद्वयं वक्ष्यते । तस्मादियं तृतीया चितिर्मध्यमा सा च भूमिस्पर्शभावत्केनाप्यधृता वर्तते । अतोऽन्तरिक्षस-

[[1995]]

दृशी । अतस्तस्याश्चितेर्धृतिसिद्ध्यर्थमिन्द्राग्नी इति मन्त्रं पठेत् । देवानां मध्येता-विद्राग्नी बलधारिणौ । तद्वलेनैवैनामन्तरिक्षे भूमिस्पर्शमन्त्ररेण चिनुते । भूमिस्पर्शा-भावेऽपि तद्बलेन चितत्वाद्धृता भवति ।
पूर्वं विहितां स्वयमातृण्णामनूद्य प्रशंसति
“स्वयमातृण्णामुप दधात्यन्तरिक्षं वै स्वयमातृण्णाऽन्तरिक्षमेवोप धत्ते” (सं. का. ५ प्र. ३ अ. २) इति।
भूमिस्पर्शभावादन्तरिक्षसादृश्यम् । यदा त्वयमुपधाविधिस्तदानीमेतदनु-वादेन पर्वोक्तो मन्त्रविनियोगो द्रष्टव्यः ।
उपधानात्प्राचीनमश्वोपघ्‍रापणं विधत्ते—
“अश्वहूप घ्रापयति प्राणमेवास्यां दधात्यथो प्राजापत्यो वा अश्वः प्रजाष-तिनैवाग्निं चिनुते” (सं. का. ५ प्र. ३ अ. २) इति।
इष्टकागतं छिद्रं प्रशंसति—
“स्वयमातृण्णा भवति प्राणानामुत्सुष्ठ्या अथो सुवर्गस्य लोकस्यानुख्यात्यै” [सं. का. ५ प्र. ३ अ. २] इति।
सति हि च्छिन्द्रे श्वासोऽनुपरुद्धः सन्निर्गच्छति । आवरणाभावत्स्वर्गोऽपि द्रष्टुं शक्यते कल्पः “राज्ञ्य सि प्राची दिगिति पञ्च दिश्याः प्रतिदिशमेकां मध्ये” इति। पाठस्तु—
राज्ञ्यसि प्राचीति । हे इष्टके त्वं राज्ञी राजमाना दीप्यमाना सती प्राची दिगासि पूर्वदिग्रूपाऽसि । विराड्‍‍विविधं राजमाना दक्षिणा दिगासि । सम्राट् सम्यग्रा-जमाना प्रतीची दिगसि । स्वराट्स्वयमेव राजमानोदीची दिगसि । अधिकं पातीत्य-धिपत्नी, तादृशी त्वं वृहती प्रौढोर्ध्वा दिगसि ।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“देवानां वै सुवर्गं लोकं यतां दिश, समबूब्लीयन्त त एता दिश्या अप-श्यन्ता उपादधत तामिर्वै ते दिशो दृँहन्याद्दिश्या उपदधाति दिशां विधृत्यै” (सं. का. ५ प्र. ३ अ. २) इति।
देवाः पुरा भूमौ स्थिताः कदाचित्स्वर्गं लोकं गताः । तत्र गच्छतां देवानां

[[1996]]

संबन्धिन्यो या भूमिष्टा दिशस्ताः समब्लीयन्त रक्षकाभावात्सम्यग्विशीर्णाः । दिग्व-र्तिनां प्राणिनामस्वास्थ्यमेव दिशां विशरणम् । ते देवा विचार्य दिशां धारण सगर्था एता दिश्या नामेष्टका अपश्यन् । दिक्शब्दोपेतैर्मन्त्रैरुपधेया इष्टका दिश्याः । तदुपधानद्देवानामिव यजमानस्यापि दिशो दृढा भवन्ति ।
कल्पः—“आयुर्मे पाहीति दश प्राणभृतः पुरस्तादुपधाय” इति। पाठस्तु—
आयुर्मे पाहीति । हे इष्टके मे मदीयमायुः पाहि रक्ष । एवमुत्तरत्रापि योज्यम् । जिन्व प्रीणय । आत्मानं जीवस्वरूपम् । ज्योतिर्यच्छ देहि ।
एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“दश प्राणभृतः पुरस्मादुप दधाति नव व पुरुषे प्राणा नाभिर्दशमी प्राणानेव षुरस्ताद्धत्ते तस्मात्पुरस्तात्प्राणाः” (सं. का. ५ प्र. ३ अ. २) इति।
प्राणशब्दोपेतान्मन्त्रानुपधानकाले बिभ्रतीति प्राणभृतः । शिरसि सप्त च्छिदाणि । अधस्तादुभे । तेषु च्छिद्रेषु संचरन्तः प्राणा नवसंख्याकाः । नामिर्दशमी छिद्ररूपा । अतस्तत्रत्यप्राणेन सह दश प्राणान्पूर्वस्यां दिश्युपधत्ते यस्मादेते पूर्वस्यां दिश्युपहितास्तस्गाल्लोकेऽपि प्राङ्‍पुखस्य पुरुषस्य श्वासदृष्टिप्रसारादयः पूर्वस्यामेव दिशि भवन्ति । चरमन्त्रे ज्योतिःशब्दं प्रशंसति—
“ज्योतिष्गतीमुत्तमामुप दधाति तस्मात्प्राणानां वाग्ज्योतिरुत्तमा” [सं. का. ५ प्र. ३ अ. २] इति।
ज्योतिःशब्दयुक्तेन मन्त्रेणोपधातव्येष्टका ण्योतिष्मती । यस्गात्सा चरमा तस्माल्लोकेऽपि स्वार्थप्रकाशकत्वेन ज्योतीरूपा वाक्सर्वेषामिन्द्रियाणामुतमा भवति । संख्यां प्रशंसति—
“दशोप दधाति दशाक्षरा विराड्विराट्छन्दसां ज्योतिर्ज्योतिरेव पुरस्ताद्धत्ते तस्मात्पुरस्ताज्ज्योतिरुपास्महे” (सं. का. ५ प्र. ३ अ. २) इति।
दीप्तिवाचिना राजतिधातुजन्येन निर्दिश्यमानत्वादिर्य विराट्छन्दसां मध्ये ज्योतिः । तथा सति तादृग्धशानां पूर्वदिश्युपधानेन ज्योतिरेव तत्र धारितं भवति । यस्मात्पूर्वस्यां दिशि ज्योतिर्धृतं तस्माद्वयं प्रातःसंध्याकाले षूर्वस्यां दिशि ज्योतिर्मण्ड-लमुपास्महे । अत्र विनियोगसंग्रहः–

[[1997]]

तृतीयस्य चिताविन्द्रा स्वयमातृण्णकां स्पृशेत् ।
विश्वेत्युपदधात्येनां राज्ञी दिश्यास्तु पञ्चभिः ।
आयुर्दश प्राणभृतो मन्त्राः सप्तदशेरिताः ।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।