[अथ चतुर्थाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकः]।
त्र्यवि॒र्वय॑स्त्रि॒ष्टुपछन्दो दित्य॒वाड्वर्यो॑ वि॒रा-
ट्छन्दः॒ पञ्चा॑वि॒र्वयो॑ गायत्री छन्द॑स्त्रिव॒त्सो
[[1989]]
वय॑ उ॒ष्णिहा॒ छन्द॑स्तुर्य॒वाड्वयो॑ऽनु॒ष्ट॒प्छन्दः॑
पष्ठ॒वाद्वयो॑ बृह॒ती छन्द॑ उ॒क्षा वयः॑ स॒तोबृ-
हती॒ छन्द॑ ऋष॒भो वयः॑ क॒कुच्छन्दो॑ धे॒नुर्व-
यो॒ जग॑ती॒ छन्दो॑ऽन॒ड्वान्वयः॑ प॒ङ्क्तिश्छन्दो॑
ब॒स्तो वयो॑ विव॒लं छन्दो॑ वृ॒ष्णिर्वयो॑ विशा॒लं
छन्दः॒ पुरु॑षो॒ वय॑स्त॒न्द्रं छन्दो॑ व्या॒घ्रो वयो
ऽना॑धृष्टं छन्दः॑ सिँ॒हो वय॑च्छ॒दिश्छन्दो॑
विष्ट॒म्भो वयोऽधि॑प॒तिश्छन्दः॑ क्ष॒त्त्रं वयो॒ म-
य॑न्दं॒ छन्दो॑ वि॒श्वक॑र्मा॒ वयः॑ परमे॒ष्ठी छ-
न्दो॑ मू॒र्धा वयः॑ प्र॒जाप॑ति॒श्छन्दः॑ ( १ ) ।।
( पुरु॑षो वयः॒ षड्विँ॑शतिश्च ) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
( अथ चतुर्थकाण्डे तृतीयप्रपाठके पञ्चमोऽनुवाकः )।
चतुर्थानुवाक आश्विन्यादीष्टका उक्ताः । अथ पञ्चमे बयस्याख्या इष्टका उच्यन्ते ।
कल्पः—“त्र्यविर्वय इति पञ्च दक्षिणस्यां श्रोण्यां षष्ठवाद्वय इति पञ्चो- त्तरस्यां बस्तो वय इति दक्षिर्णेऽसे वृष्णिर्वय इत्युत्तरे व्याघ्नो वय इति दक्षिणे पक्षे सिँ हो वय इत्युत्तर एतद्वा विपरीतं पुरुषो वय इति मध्ये विष्यम्भ्यो वय इति चत-स्त्रो वयस्याः पुरस्तात्प्रतीचीः” इति । पाठस्तु—
त्र्यविर्वय इति । अविशब्दः पूर्वोक्तरीत्या मासषट्कगुपलक्षयति । ततः सार्धसंवत्सरपरिगितः कालस्त्रूयविरित्युच्यते । हे इष्टके तथाविधं यद्वयस्तद्रू–
[[1990]]
पाऽसि । त्रिष्टुपूचतुश्चत्वारिंशदक्षरा, तादृशं छन्दस्त्वमसि । एवं सर्वत्र योज्यम् । दित्यवाड्द्विवत्सरपरिमितम् । पञ्चाविः सार्धद्विवत्सरपरिमितम् । त्रिवत्सो वत्सरत्रय-परिमितम् तुर्यवाट्सार्धसंवत्सरत्रयपरिगितम् । षष्ठवात्संवत्सरचतुष्टयपरिमितम् । उक्षा सार्धसंवत्सरचतुष्टयपरिमितम् । तावति हि काले गौः सेक्ता भवति । एव मृषभादिशब्दास्तत्तत्प्रसिद्धार्थद्वारेण तत्तदर्थसंबन्धिवयोविशेषार्थत्वेनोन्नेयाः । विवलविशालादिशब्दा लोकप्रसिद्धच्छन्दांस्यनभिदघाना अपि शतपथब्राह्मणादि-प्रसिद्धच्छन्दोविशेषवाचिन इति द्रष्टव्यम् । विश्वकर्मशब्दः प्रजापतिवाची । तत्सांनि-घ्याद्विष्टम्भक्षत्त्रमूर्धशब्दाश्च तदीयमेकदेशविशेषमाचक्षते । तत्र विश्वकर्मशब्देन प्रजापत्यायुःपरिमितः काल उपलक्ष्यते । विष्टभ्भशब्देण जगद्धारणवाचिनैकस्याः सृष्टेः स्थितिकाल उपलक्ष्यते । क्षत्त्रशब्दो बलवाची । ततो यावता कालेनो त्पन्नं ब्राह्मण्यं प्रबलं भवति तावान्कालः क्षत्त्र शब्दोनोपलक्ष्यते । मूर्धंशब्दो द्युलोकरूपं विराजो मूर्धानमाचष्टे । तेन द्युलोकस्य यावान्कालस्तावान्कालो लक्ष्यते । नाना-विधवयोरूपा नानाविधच्छन्दोरूपा च त्वमप्तीति तात्पर्यार्थः ।
एतैर्मन्त्रैरुपधेप्रा वयस्याख्या इष्टकास्तासां पूर्वानुवाकावसाने पठिताभिर-पश्याभिः सह पौर्वापर्यं निश्चेतुं प्रस्तौति—
“पशवो वै वयस्या नानामनसः खलु वै पशवो नानाव्रतास्तेऽप एवाभि समनसः” (सं. का. ५ प्र. ३ अ. १) इति।
वयस्यानां पशुप्रातिहेतत्वात्तद्रूपत्वम् । पशवश्च नानाविधरुचियुक्ताः । य [ एक]स्मै पशवे यादृशं तृणादिकं रोचते तादृशमेवान्यस्मा अपि रोचत इति नास्ति नियमः । एकेनाऽऽप्राय परित्यक्तस्यापि तृणस्यान्येन भक्षणदर्शनात् । अतो नानामनस्कत्वम् । ततो नानाव्रता भिन्नकर्माणः। एकः पशूर्लाङ्गलं वहतेऽपरः शक-टमन्यतु पृष्टभारम् । एवं विविधरुचयो विविधव्यापारा अपि पशवोऽपोऽभिलक्ष्य सर्वेऽपि समानमनस्का एव । मध्यान्हकाले युगपदुदकपानदर्शनात । तत्रान्वय-व्यतिरेकाभ्यां वयस्यानामुत्तरभावित्वं विधत्ते—
“यं कामयेतापशुः स्यादिति वयस्यास्तस्योपधायापस्या उप दध्यादसंज्ञान-
[[1991]]
मेवास्मै पशुभिः करोत्यपशुरेव भवति यं कामयेत पशुमान्त्स्यादित्यपस्यास्तस्योपघाय वयस्या उप दध्यात्संज्ञानमेवास्मै पशुभिः करोति पशुमानेव भवति” (सं. का. ५ प्र. ३ अ. १) इति।
वयःशब्दोपेतैस्त्रूयविर्ययस्त्रिर्ष्टुप्छन्द इत्यादिभिर्मन्त्रैरुपधेया इष्टका वयस्याः। अप्शब्दोपेतैरपस्पिन्वेत्यादिभिर्मन्त्रैरुपधेया इष्टका अपस्याः । तत्रापस्याना-मुत्तर भवित्वे ताभिरितरासां पशुरूपाणामभिभूतत्वादस्य यजमानस्य पशुभिरसंज्ञानं करोति, पशुनिमित्तकं संज्ञानमकृतं भवति । अतः पशूनामयज्ञातत्वात्पशुरईतो भवति । पशुरूपाणां वयस्यानामुत्तरभावित्वे पुनरनभिभूतत्वादस्य यजमानस्य पशुभिः संज्ञानं करोति, पशुनिमित्तकं संज्ञानं कृतं भवति । अवज्ञाविपरीत आदरः संज्ञानम् । तेनायं पशुमान्भवत्येव । तस्मादपस्याः पूर्वभाविन्यो वयस्या उत्तरभा-विन्य इत्यर्थः ।
विष्टन्भो वय इत्यादिभिर्मन्त्रैरुपधेयानां प्राग्देशं विधत्ते—
“चतस्त्रः पुरस्तादुप दधाति तस्माच्चत्वारि चक्षुषो रूपाणि द्वे शुक्ले द्वे कृष्णे” (सं. का. ५ प्र. ३ अ. १) इति।
चक्षुरिन्द्रियसंबन्धिनोर्द्वयोर्गोलकयोर्मध्ये प्राढे द्वे शुक्लमण्डले, तयोर्मध्ये द्वे कृष्णमण्डले इत्येवं रूपचतुष्टयम् ।
तेषु चतुर्षु मन्त्रेष्वन्तिममन्त्रे यो मूर्धशब्दस्तं प्रशंसति—
“मूर्धन्वतीर्भवन्ति तस्मात्पुरस्तान्मूर्धा” (सं. का. ५ प्र. ३ अ. १) इति।
मूर्धञ्शब्दोपेतैर्मन्त्रैरुपधेया इष्टका मूर्धन्वत्यः । यस्मात्पूर्वस्यां दिश्युपधे-या मूर्धञ्शब्दोपेतमन्त्रसाध्मास्तस्मात्पक्ष्याकारेण चीयमानस्याग्नेरपि मूर्धा पूर्वस्यां दिशि भवति ।
त्र्यविर्वय इत्यादिमन्त्रपञ्चकेन पष्ठवाद्वय इत्यादिमन्त्रपञ्चकेन चोप्रधेया-नामिष्टकानां देशविशेषं विबत्ते—
“पञ्च दक्षिणायाँ श्रोण्यामुपदघाति पञ्चोत्तरस्यां तस्मात्पश्चाद्वर्षीयान्पु-रस्तात्प्रवणः पशुः” (सं. का. ५ प्र. ३ अ. १) इति।
[[1992]]
यस्मादत्र श्रोण्योर्बहव इष्टकारतस्मात्पशोरपि श्रोणितः पूर्वभागो निम्नः।
श्नथ मन्त्रद्वयेनोपधेययोर्विशेषो विधत्ते—
“यस्तो वय इति दक्षिणेऽँ स उप दधाति वृष्णिर्वय इत्युत्तरेऽँसविव प्रति दधाति” (सं. का. ५ प्र. ३ अ. १) इति।
उत्तरे, अंस उपदधातीत्यनुवर्तते । तेनोपधानद्वयेनाग्नेरंसावेव संपादयति। अन्येन मन्त्रद्वयेनोपधेययोर्देशविशेषौ विधत्ते—
“व्याघ्रो वय इति दक्षिणे पक्ष उप दधाति सिँहो वय इत्युत्तरे पक्षयोरेव वीर्यं दथाति” [सं. का. ५ प्र. ३ अ. १] इति।
उत्तरे, पक्ष उपदधातीत्यनुवर्तते । व्याघ्रसिंहयोरधिकवीर्योपतेत्वादनेनो-पधानद्वयेन षक्षयोर्वीर्यं स्थापयत्येव ।
अन्येन मन्त्रोणोपधेयाया इष्टकायाः स्थानं विधत्ते—
“पुरुषो वय इति मध्ये तस्मात्पुरुषः पशूनामधिपतिः” [सं. का. ५ प्र. ३ अ. १] इति।
यस्मान्मध्यदेश उपधानमन्त्रे पुरुषशब्दोऽस्ति तस्माल्लोके परुषः पशूनां स्वामी भवति । इतरास्तु वयस्याः पशव इत्युक्तम् ।
अव विनियोगसंग्रहः—
त्रियविस्तु ( त्र्यविर्वयो ) वयस्याख्या दध्यादिकोनविंशतिः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।