[अथ चतुर्थाष्टके तृतीयप्रपाठके चतृर्थोऽनुवाकः]।
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वाऽसि॑ ध्रु॒वां योनि॒मा
सी॑द सा॒ध्या । उख्य॑स्य के॒तुं प्र॑थ॒मं पुर॒-
स्ता॑द॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑। स्वे
दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती
ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं विश॑स्व पि॒-
तवै॑धि सु॒नव॒ आ सु॒शेवा॒ऽश्विना॑ऽध्व॒र्यू सा॑-
दयतामि॒ह त्वा॑। कु॒लायिनी॒ वसु॑मती वयो॒-
धा र॒र्यि नो॑ वर्ध ब॒हुलँ सु॒वीर॑म् [ १] ।
अ॒पाम॑तिं दुर्म॒तिं बाध॑माना रा॒यस्पोषे॑ य॒ज्ञ-
प॑तिम॒ भज॑न्ती॒ सुव॑र्धेहि॒ यज॑मानाय॒ पोष॑म॒-
श्विना॑ऽध्व॒यूं सा॑दयतामि॒ह त्वा॑ । अ॒ग्नेः पु-
री॑षमसि देव॒यानी॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑-
[[1983]]
णन्तु दे॒वाः । स्तोम॑पृष्ठा घ॒तव॑ती॒ह सी॑द
प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽयजस्वा॒श्विना॑ऽध्व॒र्यू
सा॑दयदामि॒ह त्वा॑ । दि॒वो मू॒र्धाऽसि॑ पृथि॒व्या
नाभि॑र्वि॒ष्टम्भनी दि॒शामधि॑पत्नी॒ भुवनानाम्
[ २] । ऊ॒र्मिर्द्र॒प्सो अ॒पामसि॑ वि॒श्वक॑र्मा
त॒ ऋषि॑र॒श्विना॑ऽध्व॒र्यू साद॑यतामि॒ह त्वा॑ ।
स॒जूर्ऋ॒तुभिः॑ सजू॒र्विधा॒भिः॑ स॒जूर्वसु॑भिः स॒जू
रु॒द्रैः स॒जूरा॑दि॒त्यैः स॒जूर्विश्वै॑दे॒वैः स॒जूर्दे॑वैः
स॒जूर्दे॒वैर्वैयोना॒धैर॒ग्नये त्वा वैश्वान॒राया॒श्वि
ना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑। प्रा॒णं मे॑ पा-
ह्यपा॒नं मे॑ पाहि व्या॒नं मे॑ पाहि॒ चक्षु॑र्म ऊ॒
र्व्या वि भा॑हि॒ श्रोत्रं॑ मे श्लोकया॒पस्पि॒न्वौष॑-
धीर्जिन्व द्वि॒पात्पा॑हि॒ चतु॑ष्पादव दि॒वो वृष्टि॒-
मेर॑य [ ३] ।।
(सु॒वीरं॒ भुव॑नानामू॒र्व्या स॒प्तद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
( अथ चतुर्थकाण्डे तृतीयप्रपाठके चतुर्थोऽनुवाकः )।
तृतीयेऽनुवाकेऽपानभृदाख्या इष्टका उक्ताः । तावता प्रथया चितिः समाप्ता । अथ चतुर्थानुवाके द्वितीयस्यां चितावाश्विन्याख्या इष्टका अभिधीयन्ते ।
कल्पः—“श्वोभूते पोर्वाह्णिकीभ्यां प्रचर्य द्वितीयां चिति चिनोति ध्रुव-क्षितिरिति पञ्चऽऽश्विनीरुपदधाति” इति । तत्र प्रथमामाह—
[[1984]]
ध्रुवक्षितिरिति । ध्रुवा स्थिरा क्षितिर्निवासभूमिर्यस्या इष्टकायाः साऽध्रु- वक्षितिः । यस्यां भूमाविष्टका निवसन्ति तस्या भूमेश्चाञ्चल्याभावात्स्थैर्थं द्रष्टव्यम् । ध्रुवा विनाशरहिता योनिरुत्पन्तिहेतुर्मृद्रूपा यस्या इष्टकायाः सा ध्रुवयोनिः । हे इष्टके तादृशी त्वं स्वरूपतोऽषि ध्रुवाऽसि । अर्मकपालादिभिः संयोज्य निर्मितत्वाद्ध्रुवत्व-म् । साध्याऽस्माभिः साघनीयोपधातव्मा त्वं ध्रुवां योनिं स्थिरमग्निक्षेत्ररूपं स्थानमा-सीदाऽऽगत्योपविश । तदेव स्थानं विशष्यते-उख्यस्योखायां स्थितस्याग्नेः केतुं ज्ञापक्तं प्रथममिष्टकोपधानात्पूर्वमवे निष्पन्नम् ।अतो हे इष्टके इहास्मिन्नग्निक्षेत्रे पुरस्ता-त्पूर्वस्यां दिशि देवनामध्वर्यू उभावश्विनौ त्वां सादयतां स्थापयताम् । अथ द्वितीयामाह—
स्वे दक्षे दक्षपितेति । हे इष्टके स्वस्थाने निषीद । तत्र दृष्टान्तः—दक्ष-पितेति लुप्तोमा । यथा दक्षपिता दक्षाणां व्यवहारकुलानां पुत्राणां गृहे पिता निषीदति तद्वत् । देवत्रा देवेषु मध्ये तनुवा स्वकीयेन शरीरेण संविशस्व सम्य गवस्थिता भव। कीदृशी, पृथिवी मृत्कार्यत्वेन भूमिस्वरूपां बृहती प्रौढा रराणा निरुपद्रवत्वाद्रममाणा स्वासस्था सुखकरेऽस्मिन्स्थाने स्थिता । हे इष्टके आसुशेवा सर्वतः सुखेन सेवितुं शक्यौधि भव । क इव, सूनवे पितेव । यथा पुत्रार्थं पिता सुखेन सेव्यो भवति तद्वत् । अश्विनेत्यादि पूर्ववत् ।
अथ तृतीयामाह—
कुलायिनीति । ह इष्टके त्वं कुलायिनी निवासस्थानवती वसुमति धन-वती धनप्पदेत्यर्थः । वयोघा दीर्घायुष्मस्य संपादिका सती नोऽस्मदर्थं बहुलं रयिं प्रभूतं धनं सुवीरं शोभनं पुत्रं च वर्ध संपादय । अमतिं प्रज्ञामान्द्यं दुर्मतिं पाप बुद्धिं चापबाधमाना निःशेषेण विनाशयन्ती रायस्पोषे धनपुष्टौ यज्ञपतिमाभजन्ती सर्वतः प्रापयन्ती सुवः स्वर्गलोके यजमानाय यजमानार्थं पोषं पुष्टिं धेहि संपादय । अश्विनेत्यादि पूर्ववत् । अथ् चतुर्थीमाह—
अग्नेः पुरीषमसीति । हे इष्टके देवयानी देवान्प्राप्नुवती त्वमग्नेः पुरीष-मसि चित्यस्याग्नेः पूरकं वस्त्वसि । तां तादृशीं त्वां विश्वे देवाः सर्वेऽपि देवा अभि-गृणन्तु सर्वतः कीर्तयन्तु । स्तोमपृष्ठा सर्वस्तोमैर्युक्तानि पृष्ठस्तोत्राणि यस्याः
[[1985]]
सा स्तोमपृष्ठा । पृष्ठैरुपतिष्ठत इति वक्ष्मति । घृतवती । होष्यमाणघृतसंयुक्ता सती हास्मिन्सधस्थे सीद तिष्ठ । अस्मे अस्मभ्यं प्रजावत्पुत्रपौत्रपौत्रादियुक्तं द्रविणा धनमा-यजस्व सर्वतो देहि । अश्विनेत्यादि पूर्ववत् । अथ् पञ्चमीमाह—
दिवो मूर्धाऽसीति । हे इष्टके त्वं सर्वात्गिकाऽसि । कथमिति तदुच्यते-दिवो मूर्धाऽसि द्युलोकस्य शिरःस्थानीय आदित्योऽसि । पृथिव्या नाभिर्भूमेर्नाभिस्था-नीयो मेर्वादिरसि । दिशां विष्टम्भनी प्राच्यादीनां दिशां विविधसांकर्येण स्तम्भयन्ती व्यवस्थापयन्ती । तथा भुवनानां सर्वेषामधिपत्न्याधिक्येन पालयित्री । तथाऽपां य ऊर्मिर्द्रप्सश्च तदुभयरूपाऽसि । विश्वकर्मा प्रजापतिरेव ते तव ऋषिर्द्रष्टा । अश्विनेत्यादि पूर्ववत् ।
एतैर्मन्चेः साध्यमुपधानं विधत्ते—
“उत्सन्नयज्ञो वा एव यदग्निः किं वाऽहैतस्य क्रियते किं वा न यद्वै य-ज्ञस्य क्रियमाणस्यान्तर्यन्ति पूयति वा अस्य तदाश्विनीरुप दधात्यश्विनौ वै देवानां भिषजौ ताम्वामेवास्मै भेषजं करोति” [सं. का. ५ प्र. ३ अ. १] इति।
योऽयं चियमानोऽग्निः स एष उत्सन्नयज्ञ एव । अस्मिन्नग्नावनुष्ठेयाना-मतिबहुलत्वात्सर्वथाऽपि प्रमादादिना क्वचित् र्किचिदङ्गमुत्सन्नं भवत्येव । एतस्याग्नेः संबन्धि किं नामाङ्गमनुष्ठितं किं नानुष्ठितमिति को ज्ञातुं शक्नोति । अहशब्दोनिषे-धार्थः । सर्वथा ज्ञातुं न शक्नोत्येव । तथा सत्यनुष्ठीयमानस्य यज्ञस्य यदङ्गमन्तर्य-न्त्बन्दरितं कुर्वन्ति, अस्य यज्ञस्यैतदङ्गं पूयत्येव नश्यत्येव । तत्तस्माद म्तरायदोष-परिहारार्थमाश्विनीरिष्टका उपदध्बात् । अश्विदेवयुक्तैर्मन्त्रैरुपधेया इष्टका आश्विन्यः । तदुपधानेन देवभिषग्भ्यामस्मै यज्ञायौषधं करोति । संख्यां विधत्ते—
“पञ्चोप दधाति पाङ्क्तो यज्ञो यावानेव यज्ञस्तस्मै भेषजं करोति” [सं. का. ५ प्र. ३ अ. १] इति।
कल्पः—“सजूर्ऋतुभिरिति पञ्चर्तव्या आश्विनीरनूपधाय” इति । पाठस्तु
[[1986]]
सजूर्ऋतुमिरिति । हे इष्टके त्वमृतुभिर्वसन्तादिभिः सजुः समानप्री-तिरासि, वसन्तादीनां यादृशी प्रीतिस्तादृशी तवेत्यर्थः । एवमुत्तरत्रापि सजूःशब्दो योज्यः। विविधं जगद्दधति पोषयन्तीति ब्रह्मादयो विधस्तैर्विधाभिः । वसवो रुद्रा आदित्या विश्वे देवा देवाश्च प्रसिद्धास्तैरेतैः पञ्चविधैः पञ्चधा गन्त्रभेदः। पूर्वोत्तर भागौ सर्वत्रानुषज्येते । विधाभिरित्यन्तः पूर्वो भागः । सजूर्देवैर्वयोनाधैरित्याद्युत्तरो मागः । एतस्मिन्भागे पूर्वोक्ताः सर्वेऽपि समानदेवशब्दाभिधेयाः । ते च सर्वे देवा वयोनाधा आयुष्प्रदा इत्यर्थः । तादृशैर्देवैः समानप्रीतिस्त्वं वैश्वानरायाग्रये सर्वपुरुषा-णां हितकारिषह्न्यर्थं त्वामुपदघामीति शेषः । मयोपहितां त्वां देवानामध्वर्यू अश्वि-नाविह क्षेत्रे स्थापयताम् । एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“ऋतव्या उप दधात्यृतूनां क्लृप्त्यै” (सं. का. ५ प्र. ३ अ. १०) इति।
वसन्तादीनामृतूनां स्वस्वव्यापारसामथ्यायैतदुपधानम् । इष्ठकासंख्यां विधत्ते—
“पञ्चोप दधाति पञ्च वा ऋतवो यावन्त एवर्तवस्तान्कल्पयति” (सं. का. ५ प्र. ३ अ. १) इति।
हेमन्तशिंशिरयोः समासेनर्तूनां पञ्चत्वम् । कल्पयति स्वस्वोचितव्यवहा-रक्षमान्करोति । मन्त्राणामाद्यन्तानुषङ्गौ विधत्ते—
“समानप्रभृतयो भवन्ति समानोदर्कास्तस्मात्समाना ऋतवः” (सं. का. ५ प्र. ३ अ. १) इति।
सजूर्ऋतुभिः सजूर्विधाभिरित्ययमुपक्रमो भागः प्रभृतिः । समानप्रभृ-तयः स मानोपक्रमाः सर्वे मन्त्रा इत्यर्थः । सजुर्देवैर्वयोनाधैरित्याद्यवसानमुदर्कः । सोऽपि सर्वेषां मन्त्राणां समानः । यस्मान्मन्त्राः समानास्तस्माल्लोकेऽपि मासद्वयात्म-कत्वेन सर्वेऽप्युतवः समानाः ।
मन्त्रेषु समानमंशमुक्त्वा भेदकमंशं दर्शयति—
“एकेन पदेन व्यावर्तेन्ते तस्मादृतयो व्यावर्तन्ते” (सं. का. ५ प्र. ३ अ. १) इति।
[[1987]]
वसुभिरित्येकं पदं, वेनेतरेभ्यो मन्त्रेभ्य आद्यमन्त्रो ब्यावर्तते । एवं रुद्रादित्यादिमिव्यांमृत्तिर्योजनीया । यस्मादत्रोपक्रमावसानसाम्ये पदमात्रेण व्यावृत्ति-स्तस्माल्लोके मासद्वयात्मकत्वसाम्येऽपि वसन्तग्रीष्गादिपदभेदेन ऋतूनां परस्परं व्यावृत्तिः ।
कल्पः—“प्राणं मे पहीति पञ्च प्राणभृत ऋतव्या अनूपधाय” इति।
पाठस्तु—
प्राणं मे पाहीति। हे इष्टके गे मदीयं प्राणं पाहि पालय । एवमुत्तरत्रापि। उर्व्या विशालया दृष्ट्या विभाहि विशेषेण प्रकाशय दर्शनसमर्थं कुर्वित्यर्थः । श्लोकय शब्दसंघात शक्तं कुरु बहुविधवेदशास्त्राश्रवणसमर्थ कुर्वित्यर्थः । एतैमन्त्रैः साध्यमुपधानं विधत्ते—
“प्राणभृत उप दधात्यृतृष्वेव प्राणान्दधाति तस्मात्समानाः सन्त ऋतवो न जीर्यन्त्यथो प्र जनयत्येवैनान्” (सं. का. ५ प्र. ३ अ. १) इति।
ऋतव्गोपधानादूर्ध्वं प्राणभृत उपधाने सत्यृतुष्वेव प्राणान्स्थापयति । यस्मादेषु स्थापिताः प्राणास्तस्मात्पुनः पुनरावृत्तावप्यृतवः समाना एव दृश्यन्ते न तु जीर्णाभवन्ति । अपि च प्राणस्थापनादेता ( ना )नृतून्पुनः पुनरुत्पादयत्येव ।
ऋतव्याभ्य उत्तरभाविनीः प्राणभृतः प्रकारान्तरेण प्रशंसति-
“एष वै वायुर्यत्प्राणो यदृतव्या उपधाय प्राणभृत उपदधाति तस्मासर्वा-नृतूननु वायुरा वरीबर्ति” (सं. का. ५ प्र. ३ अ. १) इति।
योऽयं प्राणः स एष वायुरेव । तथा सत्यृतव्यानामूर्ध्वं प्राणभृतामुपधा-नेन सर्वानप्यृतूननुसृत्य वायुः पुनः पुनरावर्तते ।
कल्पः—अपस्पिन्वेति पञ्चापस्या अनुपरिहारम्” इति। पाठस्तु—
अपस्पिन्वेति । वे इष्टके त्वमपो जलानि पिष्व प्रीणय । ओषधीश्च जिन्व प्रीणय । द्विपान्मनुष्यशरीरं पाहि पालय । चतुष्पात्पशुशरीरमव रक्ष । दिवः सकाशाद्वृष्टिमेरयाऽऽसमन्तात्प्रववर्तय । एतैर्मन्त्रेः साध्युपधानं विधत्ते—
“वृष्टिसनीरुप दवाति वृष्टिमेवाव रुन्धे” (सं. का. ५ प्र. ३ अ. १) इति।
[[1988]]
वृष्टिसनीर्वृष्टिप्रदानेनैतन्नामिका इष्टकाः । तत्र प्रकारविशेषं विधत्ते—
“यदेकधोपदध्मादेकमृतुं वर्षेदनुपरिहारँ सादयति तस्मात्सर्वानृतून्वर्षति” (सं. का. ५ प्र. ३ अ. १) इति।
षञ्चानामेकप्रयत्नोपधाने सत्येकस्मिन्नेवर्तौ वृष्टिर्भवेन्नेतरेष्व तृषु । अत-स्तत्परिहारायानुक्रमेण परितो हृत्वा स्थापयेत् । प्राचीमुपघाय प्रदक्षिणमिष्टकामावर्त्य दक्षिणामुपदध्यात् ।
पुनरपीष्टकाहस्तं प्रदक्षिणीकृत्य पश्चिमामुदध्यादित्येवं योजनीयम् । तथा सति सर्वानप्यृतुन्प्रति वृष्टिर्भवति ।
प्राणभृतां वृष्टिसनीनां च पूर्वोत्तरभावं प्रशंसति—
“यत्प्राणभृत उपधाय वृष्टिसनीरुपदधाति तस्माद्वायुप्रच्युता दिवो वृष्टिरीर्ते” (सं. का. ५ प्र. ३ अ. १) इति।
“यत्प्राणभृतः पूर्वभाविन्यो वृष्टिसनयः पश्चाद्भाविन्यस्तस्माल्लोकेऽपि दिवः सकाशात्पूर्वं वायुना प्रेरिता वृष्टिः पश्चात्प्रवर्तते ।
अत्र विनियोगसंग्रहः—
द्वितीयस्यां क्षितौ पञ्च घ्रुदेत्याद्याश्विनीस्तथा ।
पञ्चर्तव्याः सजूर्मन्त्रैराद्यन्तावनुषङ्गकौ ।।
वसुरुद्रादित्यविश्वैर्दैवर्मन्त्रभिदा भवेत् ।
प्राणं प्राणभृतः पञ्च ह्यपोऽपस्याश्च पञ्च हि ।।
ता एव वृष्टिसन्याख्याः प्रोक्ता मन्त्रास्तु विंशतिः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।