०३

( अथ चतुर्थकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः )।
प्राची॑ दि॒शां व॑स॒न्त ऋ॑तू॒नाम॒ग्निर्दे॒वता॒ ब्रह्म॒
द्रवि॑णं त्रि॒वृत्स्तोमः॒ स उ॑ पञ्चद॒शव॑र्तनि-
स्त्र्यवि॒र्ययः॑ कृ॒तमया॑नां पुरोवा॒तो वातः॒ का॒
न॑ग॒ ऋषि॑र्दक्षि॒णा दि॒शां ग्री॒ष्म ऋ॑तू॒नामि

[[1978]]

न्द्रो दे॒वता॑ क्ष॒त्र्रं द्रवि॑णं पञ्चद॒शः स्तोमः॒
स उ॑ सप्तद॒शवर्तनिर्दित्य॒वाङ्‍वय॒स्त्रेताऽयानां
दक्षिणाद्वा॒तो वातः॑ सना॒तन॒ ऋषिः॑ प्र॒तीची॑
दि॒शां व॒र्षा ऋंतू॒नां विर्श्वे॑ देवा दे॒वता॒ विट्‍
(१) द्रवि॑णँ सप्तद॒शः स्तोमः॒ स उ॑वे-
कविँ॒ शव॑र्तनिस्त्रिव॒त्सो वयो॑ द्वाप॒रोऽया॑नां
षश्चाद्वा॒तो वातो॑ऽह॒भून॒ ऋषि॒रुदी॑ची दि॒-
शाँ श॒रदृ॑तू॒नां मि॒त्रावरु॑णौ दे॒वता॑ प॒ष्टं द्र-
वि॑णमेकविँ॒शः स्तोमः॒ स उ॑ त्रिण॒वव॑र्त-
निस्तुर्य॒वाड्‍वय॑ आस्क॒न्दोऽया॑नामुत्तराद्वा॒तो
वातः॑ प्र॒त्न ऋषि॑रू॒र्ध्वा दि॒शाँ हे॑मन्तशि
शि॒रावृ॑तू॒नां बृह॒स्पति॑र्दे॒वता॒ वर्चो॒ द्रवि॑णं
त्रिण॒वः स्तोमः॒ स उ॑ त्रयस्रिँ॒ शव॑र्तनिः
षष्ठ॒वाद्वयो॑ऽभि॒भूरया॑नां विष्वग्वा॒तो वातः॑
सु॒पर्ण ऋषिः॑ पि॒तरः पिताम॒हाः परेऽव॑रे॒ ते
नः॑ पान्तु॒ ते नो॑ऽवन्त्व॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्त्रे॑-
ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒-
स्या॑ दे॒वहू॑त्याम् [२] ॥
( विट्ष॑ष्ठवाद्वयो॒ऽष्टाविँ॑श॑तश्वि ) ।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥

[[1979]]

( अथ चतुर्थकाण्डे तृतीयप्रपाठके तृतीयोऽनुवाकः )।
द्वितीयोऽनुवाके प्राणभृत इदृका उक्ताः। अथ तृतीयेऽपानभृत उच्यन्ते।
कल्पः- “बाह्यां बाह्यां प्राची दिशमिति पञ्चाशतमपानभूतो यथा प्राणभृतः ” इति। तत्र प्राच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह—
प्राची दिशामिति। हे इष्टके दिशां मध्ये या प्राची सा त्वमसि। ऋतूनां मध्ये यो वसन्तस्तद्रूपाऽसि। देवतानां मध्ये योऽग्निस्तद्रूपाऽसि। स्वकीयत्वने संपादनीयानां द्रविणानां मध्ये विशिष्टब्राह्मण्यरूपं यद्धनं तद्रूपा त्वमसि। स्तोमानां मध्ये त्रिवृन्नामको यः स्तोमस्तद्रूपा त्वमसि। स उ सोऽपि त्रिवृत्स्तोमः पञ्चदशवर्तनिः पञ्चदशस्तोमस्य प्रवर्तकः। बहिष्पवमानस्तोत्रे त्रिवृत्स्तोमप्रवृत्तौ सत्यां तत ऊर्ध्व-भाविष्वाज्यस्तोत्रेषु पञ्चदश स्तोमाः प्रवर्तन्ते, तत्प्रवर्तकश क्तिरूषा त्वमसि। वयसां मध्ये सार्धसंवत्सररूपं यद्वयस्तद्रूपा त्वमसि। त्र्यविशब्दः सार्धसंवत्सरमुपलक्षयति। तथा हि-अविजातै, प्रायेण गर्भधारणमारभ्यषष्टे मास्येव शिशुर्जायते। त्रिसँख्वाका अविजन्मकाला यस्य वयसस्तद्वयरूपविशब्देनोच्यते। अयानां युगानां मध्ये यत्कृतयुगं तद्रूपा त्वमसि। वायूनां मध्ये पुरोवाताख्यो यो वायुस्तद्रूपा त्वमसि। ऋषीणां मध्ये यः सानगाख्य ऋषिस्तद्रूपा त्वमसि। अथ दक्षिणस्यां दिश्युपधेयानां मन्त्रमाह—
दक्षिणा दिशामिति। माध्यंदिनसवने पञ्चदशस्तोममनूष्ठाय तत ऊर्ध्वभाविषु पृष्ठस्तोत्रेषु सप्तदशः स्तोमोऽनुष्ठातव्यः। तथा च स एव पञूचदशः स्तोमसप्तद्वशस्तोमं प्रवर्तयति, तत्र या प्रवर्तनशक्तिः सा त्वमसि। वयसां मध्ये द्विसंवत्सरवयोरूपाऽसि। दित्यवाट्शब्देन संवत्सरद्वयमुपलक्ष्यते। तथा हि-दित्यं पुरुषं बालं वहतीति दित्यवाडजादिभेदपु यः कश्र्विदवान्तरजातिरेडकः। स च संवत्सरद्वयेन पुंबालं वहतीति दित्यवाट्शब्दः संवत्सरद्वयोपलक्षकः। दितिः स्वण्डनं भाण्डभङ्गादिचापलं तदर्हतीति दित्यः पुंबाल इत्यर्थः। दक्षिणादित्यव्ययं तु दक्षिणस्यां दिशीत्यमुमर्थं ब्रूते। यो वायुर्दक्षिणस्यां वाति स दक्षिणा-

[[1980]]

र्बातः। तेन वातविशेषणेन विशेष्यो यो वायुस्तद्रूपा त्वमसि । शेषं पूर्ववत् ।
प्रतीच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह—
प्रतीची दिशामिति । त्रयोवत्सा वत्सरा यस्यासौ त्रिवत्सो वर्षत्रयं तत्प-रिमितं यद्वयस्तद्रूपा त्वमसि । अयसि गच्छति तत्तत्कालानुसारेण वर्तन्ते प्राणिनोऽत्रेत्यया युगरूपाः कालविशेषाः तेषां मध्ये यो द्वापरस्तद्रूपा त्वमसि । पश्चिमायां दिशि यो वायुर्वाति तस्य पश्चाद्वात् इति संज्ञा । पतत्संज्ञको यो वा-तविशेषस्तद्रूपा त्वमसि । अहभून इति कस्यचिदृषेर्नामधेयम् ।
उदीच्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह—
उदीची दिशामिति । पुष्टशब्दः परिचर्यया वर्णत्रयपोषकत्वाच्छूद्रजाति-माचष्टे । अत एव वाजसनेयिनः समामनन्ति “स शौद्रं वर्णमसृजत्पूषणम्” इति तुर्यं चतुर्थ चतुर्थसंवत्सरोपक्रमं वहतीति तुर्यवाट्, सार्धत्रिसंवत्सररूपं यद्वयस्तद्रूपा त्वमसि । आ समन्तात्स्कन्दनं धर्मस्य शोषणं यस्मिन्कलौ सोऽयमास्कन्दः । प्रत्‍न इति कस्यचिदृषेर्नाम् ।
मध्यदेश उपधेयानामिष्टकानां मन्त्रमाह—
ऊर्ध्वा दिशामिति । वर्चो वर्चस्वान्, चतुर्ष्वपि वर्णेषु यो बलवांस्तद्रूपं धनं त्वमसि । षष्ठे पृष्ठे भारं वहतीति पष्ठवाट्, स एव दकारान्तशब्देनोच्यते । चतुर्थे वर्षे संपुर्णे सति प्रायेण बलीवर्दो भारं वहति । अतो वर्षचतुदृयरूपं याद्वयस्तद्रूपा त्वमसि कृत्स्रं धर्ममभिभवतित्यमिभूः कलियुगावसानकालस्तदुपात्व-मसि । नानादिक्षु सौकर्येण संचरन्वायुर्विष्षग्वातसंज्ञकः, तथाविधो यो वायुस्तद्रूपा त्वमसि । सुपर्ण इति कस्यचिट्टषेर्नामधेयम् ।
सर्वेष्वेतेषु पञ्‍चसु मन्त्रेष्वनुषञ्जनीयं शेषमाह—
पितर पितामहा इति । हे पितरो हे पितामहा हे परे प्रपितामहादयो हऽवरे भ्रातृपुत्रादय ईदृशा ये भवन्तः सन्ति ते भवन्तो नोऽस्मान्कर्मानुष्ठानाय पान्तु पालयन्तु । किंच ते भवन्तो नोऽस्मान्पालनसिद्ध्यर्थमवन्तु । अस्मिन्ब्रह्मन्नस्यां ब्राह्मणजातौ, अस्मिन्क्षत्त्रेऽस्यां क्षत्त्रियजातौ, अस्यामाशिष्येतस्यां कामनायाम अस्यां देवहूत्यामेतस्यां देवताह्‍वानरूपायां क्रियायां च निमिभूतायां सत्यां हे इष्टके त्वामुपदधामीति शेषः। एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—

[[1981]]

“प्राणभृत उपधाय संयत उप दधाति प्राणनेवास्मिन्धित्वा संयद्भिः संयच्छति तत्संयताँ संयत्त्वमथो प्राण एवापानं दधाति तस्मात्प्राणापानौ संचरतः” (सं. का. ५ प्र. २ अ. १०) इति।
अन्तर्देशे प्राणमृदाख्याः पूर्वोक्ता इष्टका उपधाय बहिर्देशे संयदाख्या इमा अपानभृता इष्टका उपदध्यात् । तथा सत्यग्नौ प्राणान्स्थापयित्वा संयदाख्याभिरिष्टका-मभिः संयच्छति दृढी करोति । अतः संयच्छत्येताभिरिति व्युत्पत्त्या संयन्नामसंपन्नम्। अपि च बहिःसंचाररूपे प्राणे पुनरन्तःसंचाररूपमपानं स्थापयति । तस्माल्लोकेऽपि प्राणापानौ संभूय संचरतः । प्राणभृद्भ्यो विपरीतप्रकारं विधत्ते—
“विषूचीरुप दधाति तस्माद्विष्वञ्चौ प्राणापनौ” [सं. का. ५ प्र. २ अ. १०] इति।
यस्मात्प्राणभृतामपानभृतां चान्योन्यविपर्ययक्रमस्तस्माल्लोकेऽपि प्राण-पानावन्योन्यविपरीतस्वरूपौ । बहिर्गतिः प्राणोऽन्तर्गतिरपानः ।
संयतामासामुपधानं प्रशंसति—
“यद्वा अग्नेरसंयतमसुवर्ग्यमस्य तत्सुवर्ग्योऽग्निर्यत्संयत उपदधाति समेवैनं यच्छति सुवर्ग्येमेवकः” (सं. का. ५ प्र. २ अ. १०) इति।
अग्नेः संबन्धि यदङ्गं सम्यङ्न नयमितं तदङ्गं स्वर्गहितं न भवति, अग्नि-स्तु स्वर्गहितोऽस्माकमपेक्षितः, तस्मादाग्निं स्वर्ग्यं कर्तुं संयत उपदध्यात् ।
प्रथममन्त्रे कस्यचिदंशस्य तात्पर्यमाह—
“त्र्यविर्वयः कृतमयानामित्याह वयोभिरेवायानव रुन्धेऽयैर्वयाँसि” [सं. का. ५ प्र. २ अ. १०] इति।
सार्धसंवत्सरादिरूपैर्वयोविशेषैस्याभिधेयानि कृतादियुगानि प्राप्नोति। तैश्च युगैस्तान्वयोविशेषान्प्राप्नोति। नहि वयोविशेषमन्तरेण जन्महीनस्य कृतादियुगैः संबन्धोऽस्ति नापि कृतादियुगरूपस्य कालस्याभावे कश्चिद्वयोविशेषः संभवति । महाप्रलेय युगराहित्येन जन्मरहितानी वयोविशेषाद्यदर्शनात् । तस्मादन्योन्यसा-पेक्षयोर्वयोयुगयोरुभयोरप्यत्रोपादानम् ।

[[1982]]

पञ्चस्वपि मन्त्रेषु पुरोवातो दक्षिणाद्वात इत्यदिन्वायुविशेषान्प्रशंसति-
“सर्वतो वायुमतीर्भवन्ति तस्मादयँ सर्वतः पवते” (सं. का. ५ प्र. २ अ. १०) इति।
यस्मादेता इष्टकाः सर्वा अपि वायुशब्दोपेतैर्मन्त्रैरुपधेयास्तस्मादयं लोकेऽपि वायु सर्वासु दिक्षु संचरति । अत्र विनियोगसंग्रहः—
प्राचीत्यपानभृत्संयदितिनामद्वयान्विताः ।
पञ्चाशत्पूर्ववद्दिक्षु मध्ये चोदपदधाति ताः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
तृतायोऽनुवाकः ।। ३ ।।