( अथ चतुर्थकाण्डे तृतीयप्रपाठके द्वितीयोऽनुवाकः )।
अ॒यं पु॒रो भु॒वस्तस्य॑ प्राणो भौ॑वाय॒तो व॑
स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वास॒न्ती गा॑यत्रि॒यै
गा॑यत्रं गा॑य॒त्रादु॑पाँ॒ शुरू॑पाँ॒ शोस्त्रि॒वृत्र्रि॒
वृतो॑ रथंत॒रँ र॑थंत॒रद्वसि॑ष्ठ ऋषिः प्र॒जाप॑-
तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑हणामि प्र॒जा-
भ्यो॒ऽयं द॑क्षि॒णा वि॒श्वक॑मां॒ तस्य॒ मनो॑ वै-
श्वकर्मणं ग्री॒ष्मो मा॑न॒सस्त्रि॒ष्टुग्ग्रै॒ष्मी त्रि॒-
ष्टुभ॑ ऐ॒डमै॒डाद॑न्तर्या॒मो॑ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑-
ञ्चद॒शाद्बृ॒हद्बृह॒तो भ॒रद्वा॑ज ऋषिः॑ प्र॒जाप॑-
तिगृहीतया॒ त्वया॒ मनः॑ [१] गृ॒ह्णा॒मि॒ प्र॒-
जाभ्यो॒ऽयं प॒श्वाद्वि॒श्वव्य॑चा॒स्तस्य चक्षु॑र्वैश्व-
व्यच॒सं व॒र्षाणि॑ चाक्षु॒षाणि जग॑ती वा॒र्षी
जग॑त्या॒ ऋक्ष॑म॒मृक्ष॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः
स॑प्तद॒शाद्वै॑रू॒पं वै॑रू॒पाद्वि॒श्वामि॑त्र॒ ऋषिः॑ प्र॒-
जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जा-
भ्य॑ दृ॒दमु॑त्त॒रात्सृव॒स्तस्य॒ श्रोत्रँ सौ॒वँ श॒र-
च्छौ॒त्र्य॑नुष्टुप्छा॑र॒द्य॑नु॒ष्टुभः॑ स्वा॒रँ स्वा॒रान्म॒-
न्थी म॒न्थिन॑ एकविँ॒श ए॑कविँ॒शाद्व॑रा॒जं
वै॑राजाज्ज॒मदग्नि॒र्ऋ॑षिः॑ प्र॒जाप॑तिगृहीतया
[२] त्वया॒ श्रोत्रं॑ गृहणामि प्र॒जाभ्य॑ इ॒यमु-
परि॑ म॒तिस्तस्यै॒ वाङ्मा॒ती हे॑मन्तो वा॑च्या-
[[1974]]
य॒नः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒ध-
न॑वत आग्रय॒ण आ॑ग्रय॒णात्र्रि॑णवत्रयस्त्रिँ॑ शौ
त्रि॑णवत्रयस्त्रिँ॒ शाभ्याँ॑ शाक्वररैव॒ते शा॑व्क
ररैव॒ताभ्यां॑ वि॒श्वकर्मषिः॑ प्र॒जाप॑तिगृहीतया॒
त्वया॒ वाचं॑ गृहणामि प्रजाभ्यः॑ [३] ॥
[ त्वया॒ मनो॑ ज॒मद॑ग्नि॒र्ऋषि॑ प्र॒जाप॑तिगृहीतया त्रिँ॒शञ्च॑]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
( अथ चतुर्थकाण्डे द्वितीयप्रपाठके द्वितीयोऽनुवाकः )।
प्रथमेऽनुवाकेऽपस्या उक्ताः। अथ द्वितीये प्राणभृत उच्यन्ते। कल्पः—“अयं पुरो भुव इति पञ्चाशतं प्राणभृतो दशदश प्रतिदिशमक्ष्णया दश मध्येऽन्तरा मन्तरा मुपधाय ” इति।
तत्र पूर्वस्यां दिश्युपथेयानां दशेष्टकानां मन्त्रमाह—
अयं पुरो भुव इति। भवत्यस्माज्जगदिति भुवः। भुवःशब्दः प्रजा-पतिमाचष्टे। पुरः पूर्वस्यां दिशि अयं भुवो वर्तत इति शेषः। हे इष्टके तद्रूपाऽसी-त्यभिप्रायः। एवमुत्तरेष्वपि वाक्येषु योज्यम्। तस्य भुवः शब्दाभिधेयस्य प्रजापतेः संबन्धी प्राणः । अत एवापत्मत्वमुपचर्य भौवायनू इत्युच्यते। तस्य च प्राणस्य श्वासवृत्तिरू स्यापत्यत्वेनोपचस्तिः प्राणायनो वसन्त ऋतुः। तस्य च वसन्तस्य संबीन्धनी वासन्ती गायत्री। तस्याश्छन्दोरूपाया गायत्र्याः संबन्धि गायत्रं साम। तस्माञ्च गायत्रसाम्न उत्पन्न इवोपांशुग्रहः। तस्माच्चोपांशुग्रहादुत्पन्न इव त्रिवृत्स्तोमः। तस्माञ्च त्रिवृत्स्तोमादुत्पन्नमिव रथंतरं साम। तस्माद्रर्थतरसाम्न उत्पन्न इव वसिष्टाख्य ऋषिः । हे इष्टके यथोक्तप्रकारेण प्रजापतिप्रणवसन्तादी रूपोपचारेण प्रजापतिगृहीतया त्वया प्रजाभ्यः सर्वासां प्रजानां प्राणं गृह्णामि
[[1975]]
प्रजानां प्राणसिद्धये त्वामुपदधामीत्यर्थः। यद्यप्ययमेकवाक्यत्वादेक एव मन्त्रस्त थाऽपि प्रतीष्टकमावृत्त्या दश मन्त्राः संपद्यन्त।
अथ दक्षिणस्यां दिश्युपधेयानामिष्टकानां मन्त्रमाह—
अयं दक्षिणेति। विश्वानि कर्माणि जगद्व्यापाररूपाणि यस्यासौ विश्वकर्मा प्रजापतिः। दक्षिणा दक्षिणस्यां दिशि योऽयं विश्वकर्मा हे इष्टके तद्रूपात्वमसि। प्राणवसन्तादिपरम्परेव मनोग्निष्मादिपरम्परा व्याख्येया। ऐडमिति साम विशेषः।
अथ पश्र्विमायां दिश्मुपधेयानामिष्टकानां मन्त्रमाह—
अयं पश्चाद्विश्वेति विश्वं सर्वं जगद्व्यचति व्याप्नोततिति विश्वव्यचाः प्रजापतिः। शेषं पूर्ववद्योजनीयम्। वर्षाणि वर्षर्तुः। ऋक्षममिति सामविशेप:।
अथोत्तरस्यां दिश्युपधेयानां मम्त्रमाह—
इदमृत्तरादिशि। सौति सर्वं जगत्प्रेरयतीति सुवःशब्दः प्रजापतिवाची। उत्तरस्यां दिशि यदिदं सुवः प्रजापतिशरीरं हे इष्टके त्वं तद्रूपाऽसीति योज्यम। स्वारमिति सामविशेषः। शेषं पूर्ववद्योज्यम।
अथ मध्यदेश उपधेबानामिष्टकानां मन्त्रमाह—
इयमुपरि मतिरिति। मन्यते कृत्स्रं जगज्जानातीति मतिः प्रजापतिः। ऊर्ध्वायां दिशि येयं मतिः प्रजापतितनुर्हे इष्टके तद्रूपा त्वमसि। मतिनाम्नः प्रजापतेरपत्यरूपा येयं वाक्सा माती। वाचोऽपत्यं वाच्यायनः। निधनवदिति सामविशेषः। तत्रैकैकस्मिन्यन्त्रे प्रजापतिरिन्द्रियमृतुश्छन्दः सामविशेषो ग्रहः स्तोमः पृष्ठस्तोत्रं सामर्षिरिति नवानामेतेषां पदार्थानां यद्यपि लोकप्रसिद्धो जन्यजनकभावो नास्ति, तथाऽपि मन्त्रर्थत्वेन मनसा भावयितुमिदमुक्तमित्यविरोधः। एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“प्राणभृत उप दधाति रेतस्येव प्राणान्दधाति तस्माद्वदन्प्राणन्पश्मञ्शृ-ण्वन्पशुर्जायते ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
पूर्वं रेतोरूपा अपस्या उपहिताः । तत ऊर्ध्मं प्राणभृतामुपधानेन रेतसि प्राणान्स्थाषयति। यस्मादेवं गर्भाशये सिक्ते रेतसि प्राणः स्थाप्यन्ते तस्माद्रेतः कार्य पशुर्वदनादिभिर्वागादिव्यापारैर्युक्तो जायते।
[[1976]]
सामान्येन विहितं पुनर्विशेषाकारेण विधत्ते—
“अयं पुरो भुव इति पुरस्तादुप दधाति प्राणमेवैताभिर्दाधारायं दक्षिणा विश्वकर्मेति दक्षिणतो मन एवैताभिर्दाधारायं पश्र्वद्विश्वव्यचा इति पश्र्वच्चक्षुरेवैता-भिर्दाधारेदमुत्तरात्सुवरित्युत्तरतः श्रोत्रमेवैताभिर्दाधारेयमुपरि मतिरित्युपरिष्टाद्वाच मेवैताभिर्दाधार ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
तत्तदिष्टकोपधानेन चित्त्यस्याग्नेर्यजमानस्य वा प्राणादयो धृता भवन्ति।
एकैकस्यां दिश्युपधेयानामिष्टकानां संख्यां विधत्ते—
“दशदशोप दधाति सवीर्यत्वाय ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
एकैकं मन्त्रं दशकृत्व आवर्त्य दशेष्टका उपदध्यात्। तथा सति चितेः
सवीर्यत्वदार्ढ्यं भवति। अत्रोपधाने वक्रत्वं विधत्ते-
“अक्ष्णयोप दधाति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।
प्रतीच्यामुपक्रम्य प्राच्यामवसाने सत्यार्जवं भवति। नैर्ऋत्यामुपक्रम्यै-शान्यां समापनं वक्रत्वम। एवमितरत्रापि। तदिदमक्ष्णयेत्यनेनोच्यते। पशवोऽपि दक्षिणं पुरोवर्तिनं पादं प्रचाल्य प्राश्वात्त्यं वामाङ्गवर्तिपादं प्रचालयन्ति। एवं पशूनां पादचालनेन वक्रत्वम।
तत्तद्दिग्विशिष्टा इष्टकास्तत्तन्मन्त्रगतान्वसिष्ठादीनृषींश्व प्रशंसति—
“याः प्राजीस्ताभिर्वसिष्ठ आर्ध्नोद्या दक्षिणास्ताभिर्भरद्वाजो याः प्रतीची स्ताभिर्विश्वामित्रो या उदीचीस्ताभिर्जमदग्निर्या ऊर्ध्वास्तामिर्विश्वकर्मा ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति। स्पष्टम्। एतद्वेदनं प्रशंसति—
“य एवमेतासामृद्धिं वेदर्ध्नोत्येव य आसामेवं बन्धुतां वेद वन्धुमान्भ-वति य आसामेवं क्लृतिं वेद कल्पतेऽस्मै य आसामेवमायतनं वेद्राऽऽयतनवान्भवति आसामेवं प्रतिष्ठां वेद प्रत्येव तिष्ठति ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
[[1977]]
ऋद्धिः समृद्धिहेतुत्वं, वन्धूनां समूहो बन्धुता। देशानां समूहाकार इत्यर्थः। क्लृर्प्ति क्र (त्व) कल्पना। आयतनं प्रागादिदेशविशेषः। प्रतिष्ठा तत्र स्थापनम्।
अत्र विनियोगसंग्रहः—
अयं प्राणभृतो दध्यात्पञ्चाशत्पञ्चमन्त्रकैः [ तं तु पञ्चभिः] ।
अत्र मीमांसा
प्रथमाध्यायस्य चतुर्थपादेऽष्टादशाधिकरणे चिन्तितम—
सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः।
अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते॥
“प्राणभृत उपधाति ” इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वः पक्षः। लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधाने विधिः “रेतस्येव प्राणान्दधाति ” इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः। पूर्वत्र द्वितीयादिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम। इह तु प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते – “अयं पुरो भुवस्तस्य प्राणो भौवायनः ” इति। एकस्यैव मन्त्रस्य प्राणभृत्तेऽपि च्छत्रिणो गच्छन्तीतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे तृतीयप्रपाठके
द्वितीयोऽनुवाकः ॥१ ॥