०१

(तत्र प्रथमोऽनुवाकः)।

हरिः॑ ॐ ।
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादया-
न्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पांत्वां॒ ज्योति॑षि
सादयाम्य॒पां त्वाऽय॑ने सादयाम्यर्ण॒वे सद॑ने
सीद समु॒द्रे सद॑ने सीद सलि॒ले सद॑ने सी-
दा॒पां क्षये॑ सीदा॒पाँ सधि॑षि सीदा॒पां त्वा॒
सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य
पां त्वा॒ पुरी॑षे सादयाम्यपां त्वा॒ योनौ॑ सा-
दयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्री
छन्द॑स्रि॒ष्टुप्छन्दो॒ जग॑ती छन्दो॑ऽनुष्टुप्छन्दः॑
पङ्‍‍क्तिश्छन्दः॑ (१) ॥
[ योनौ पञ्च॑दश च]।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १॥

[[1970]]

अथ चतुर्थकाण्डे तृतीयः प्रपाठकः ।
(तत्र प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रपाठके द्वितीयो हि चितिक्षेत्रं निरूपितम्।
वाच्यास्तृतीयके पञ्च चितयोऽत्र त्रयोदश॥
अनुवाकास्त्रिभिर्द्वाभ्यां तथा द्वाभ्यां चतुष्टयात्।
एकेन चितयो याज्या इत्यर्था अनुवाकगाः॥

तत्र प्रथमेऽनुवाके प्रथमचितिगता अपस्याभिधाना इष्टका उच्यन्ते।
कल्पः- “अपस्या उपदधात्यपां त्वेमन्त्सादयामीति पञ्च पुरस्तात्प्रती-चीरर्णवे सदने सीदेति पञ्च दक्षिणत उदीचरिपां त्वा सदने सादयमीति पञ्च पश्वा-त्प्राचीर्गायत्री छन्द इति पञ्चोत्तरतो दक्षिणा ” इति।
तत्र प्रथमपञ्चकमन्त्रानाह—
अपां त्वेमन्निति। हे इष्टके त्वा त्वामपामेमुञ्जलसंबन्धिनि प्रवाहदि-गमनप्रकारे सादयमि स्थापयामि। एवमुत्तत्रापि योज्यम। ओद्मन्वीचीतरङ्गदिरुप उन्दने भस्मन्भासके शुक्लरूपे ज्योतिषि प्रकाशनैर्मल्य इत्यर्थः। अयने नदीकू पाद्याधारे। अथ द्वितीयेष्टकापञ्चकमन्त्रानाह—
अर्णवे सदने सीदेति। अर्णवशब्देन सादृश्यत्प्रौढतटाकाद्युपलक्ष्यते। तच्चापां सदनं, तस्मिन्स्थाने हे इष्टके सीदोपविश। समुद्रः प्रसिद्धः । सलिलशब्देना-निर्धारितविशेषो जलमात्राधार उपलक्षितः। क्षीयन्ते शुष्यन्त्यापोऽत्रेति शुष्कतटा-कादीः क्षयः। जलेन सह मेघे धीयते स्थाप्यत इति सधीर्वर्षोपलादिः। अथ तृतीय-पञ्चकमन्त्रनाह
अषां त्वा सदन इति। हे इष्टके त्वामपां सदने नद्यादौ सादयामि। अद्भिः सह विद्यु दियो यत्र मेधे तिष्ठन्ति सोऽयं मेधः सधस्थः। षुरीषशब्देन नाद्यादिगताः सिकता उच्यन्ते। योनिशब्देन जलकारणभूतोऽग्निरुच्यते। “अग्ने-

[[1971]]

रापः ” इति श्रुतेः। पीयते जलं जीमूतेरत्रेति पाथः समुद्रः। चतुर्थपञ्चकमन्त्रानाह—
गायत्री छन्द इति। हे इष्टके त्वं गायत्र्याख्यच्छन्दोरूपाऽसि। एवमि तरत्रापि। एतैर्मन्त्रैः साध्यमुपधानं विधत्ते—
“पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियते यत्प्राचीनमैष्टकाद्यजुः क्रियते रेतोऽपस्या अपस्या उप दधाति योनावेव रेतो दधाति ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
योऽयमग्निः स एष पशुप्राप्तिहेतुत्वात्पशुरेव। इष्टकोपवानात्पूर्वं यदङ्गजातमनुष्ठीयते तेन षशोरेषा योनिरेव विकृता भवति। यथा लोक ऋतुकाले विकृता योनी रेतोधारणमपेक्षते तद्वदित्यर्थः। अब्लिङ्गगतैर्मन्त्रैरुपधेया इष्टका अपस्याः। ताश्व रेतःस्थानीयाः। अतस्ता उपदध्यात्। तदुपधानेन योनावेव रेतो धारितं भवति । सामान्येन विहितं विशेषाकारेण पुनर्विधत्ते—
“पञ्चोप दधाति पाङ्‍काः पशवः षशूनेवास्मै प्र जनयति ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
अत्र पुरस्तादित्यध्याहर्तव्यम। पूर्वस्यां दिशि पञ्चेष्टका उपदध्यात्। सपुच्छैः पादैः पञ्चभिर्योगात्पशवः पाङ्‍काः।
अथ द्वितीयपञ्चकस्य देशं विधत्ते
“पञ्च दक्षिणतो वज्‍रो वा अपस्या वज्‍रेणैव यज्ञस्य दक्षिणतो रक्षाँस्यपहन्ति ” (सं॰ का॰ ५ प्र॰ २ अ॰ १०) इति।

वज्‍रवद्वैरिनिवारणसमर्थत्वादपस्यानां वज्‍रत्वम्।
अथ तृतीयपञ्चकस्य देशं विधत्ते—
“पञ्च पश्वात्प्राचीरुप दधाति पश्वाद्वै प्राजीनँरेतो धीयते पश्र्वादेवास्मै प्राचीनँ रेतो दधाति ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
प्राचीः प्राङ्‍मुखाः। लोके हि पश्विमायां दिश्यवपस्थितेन प्राङ्‍मुखेन पुरुषेण रेतः प्राचीनं संमुखमेव गर्भाशये स्थाप्यते। अतो यजमानार्थमपि तथा कृतं भवति। पूर्वपश्र्विमयोरिष्टकाः सह प्रशंसति—

[[1972]]

“पञ्च पुरस्तात्प्रतीचीरुप दधाति पञ्च पश्र्वात्प्राचीस्तस्मात्प्राचीनँ रेतो धीयते प्रतीचीः प्रजा जायन्ते ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
प्रतीचीः प्रत्यगपवर्गाः । प्राच्यां प्रथमामाधाय ततः पश्विमायां द्वितीयां ततोऽपि पश्र्विनायां तृतीयेत्येषा रीतिः। प्राचीरित्यत्र तद्विपरीता रीतिः। लोकेऽपि पुरो योन्यभिमुखत्वेन रेतःस्थापनं, तद्विपर्ययेण प्रजननम।
चतुर्थपञ्चकस्य देशं विधत्ते—
“पञ्चोत्तरतश्छन्दस्याः पशवो वै छन्दस्याः पशूनेव प्रजातान्त्स्वमायत-नमभि पर्यूहते ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
पूर्वोपधानेन प्रजातान्वशूननेनोपधानेन स्वस्थानं प्रापयति।
देशविशेषान्विधाय समुदायाकारेण प्रशंसति—
“इयं वा अग्नेरतिदाहादविमेत्सतौ अपस्या अपश्यन्ता उपाधत्त ततो वा इमां नात्यदहद्यदपस्या उपदधात्यस्या अनतिदाहाय ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
अपां शान्तत्वादपस्याभिरतिदाहस्य परिहारः।
पुनः प्रकारान्तरेण प्रशंसति—
“उवाच हेयमददित्स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेद ” [सं॰ का॰ ५ प्र॰ २ अ॰ १०] इति।
यस्य यजमानस्यैता अपस्या उपधीयन्ते, योऽपि विद्वानेता (ना) अपस्या उक्तप्रकारेण जानाति, स यजमानः स च वेदिता ब्रह्मणा मुख्यया वृत्त्याऽन्नम ददिद-न्नमत्त्येवमिदं वाक्यमियं पृथिव्युवाच ह। तस्मादपस्याः प्रशस्ता इति तात्पर्यार्थः। अत्र विनियोगसंग्रहः—
अपामपस्या दिक्ष्वेता उपधेमास्तु विंशतिः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
प्रथमोऽनुवाकः ॥ १ ॥

[[1973]]