[अथ चतुर्थाष्टके द्वितीयप्रपाठके एकादशोऽनुवाकः]।
इन्द्रा॑ग्नी रोच॒ना॒ दिवः परि॒ वाजे॑षु मूषथः।
तद्वां चेति॒ प्र वीर्यम्। श्रथ॑दूवृ॒त्रमु॒त स॑नोति॒
[[1964]]
वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात्।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तंगा॒ सह॑सा
वाज॒यन्ता॑। प्र च॑र्षणिभ्यः॑ पृतना॒ हवे॑षु॒ प्र
पृ॑थि॒व्या रि॑रिचाथे दि॒वश्व॑। प्र सिन्धु॑भ्यः॒
प्र गि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा॑ग्नी॒ विश्वा॒ भुब॒-
नाऽत्य॒न्या मरु॑तो यस्य॒ हि [१] क्षये॑
पा॒था दि॒वो वि॑महसः। स सु॑गो॒पातमो॒
जनः॑। य॒ज्ञैर्वा॑ यज्ञवाहसो विप्र॑स्य वा मती॒-
नाम्। मरु॑तः शृणु॒ता हव॑म्। श्रि॒यसे॒ कं
भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते व॒श्मिभि॒स्त ऋ
व्क॑भिः सुखा॒दयः॑। ते वाशी॑मन्त इ॒ष्मिणो॒
अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑।
अव॑ ते॒ हेड॒ उदु॑त्त॒मम्। कया॑ निश्चि॒त्र आ
भु॑वदू॒ती स॒दावृ॑धः सखा॑। कया॑ शचि॑ष्टया
व॒ता [२] । को अ॒द्य यु॑ङ्क्ते धु॒रि गा
ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून।
आ॒सन्नि॑षून्हृ॒त्स्वसो मयो॒भून्य ए॑षां भृ॒त्यामृ॒-
ण॒धत्स जी॑वात्। अग्ने॒ नयाऽऽदे॒वानाँ॒ शं
नो॑ भवन्तु॒ वाजे॑वाजे। अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒
सौष॑धी॒रनु॑ रुध्यसे। ग॒र्भे सञ्जा॑यसे॒ पुनः॑।
वृषा॑ सोम द्यु॒माँ अ॑सि वृषा॑ देव॒ वृष॑व्रतः।
[[1965]]
वृषा॒ धर्मा॑णि दधिषे। इ॒मं मे॑ वरुण॒ तत्त्वा॑
यामि॒ त्वं नो॑ अग्ने॒ स त्वं नो॑ अग्ने [३] ॥
(हि वृ॒ता म॒ एका॑दश च)
अथ कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाऽष्टके
द्वितीयप्रपाठके एकादशोऽनुवाकः ॥११॥
विष्णो॑र्दि॒वस्पर्यन्न॑प॒तेऽपे॑त॒ समि॑तं॒ या जा॒ता मा नो॒ऽभ्य॑स्थाद्ध्रु॒वाऽसि॑ ध॒रुणा॑ऽऽदि॒त्यं गर्भ॒मिन्द्रा॑ग्नी रो॒चनैका॑दश ॥ ११॥
विष्णो॑र॒स्मिन्ह॒व्येति॑ त्वा॒ऽहं धी॒तिभि॒र्होत्रा॑ अ॒ष्टाच॑त्वारिँज्ञत्॥ ४८॥
हरिः॑ ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयः प्रपाठकः ॥ २ ॥
( अथ चतुर्थकाण्डे द्वितीयप्रपाठके एकादशोऽनुवाकः )।
दशमेऽनुवाके पशुशिरसामुपधानमुक्तम्। अथैकाशे याज्यानुवाक्या उच्यन्ते।
चातुर्मास्येषु वरुणप्रघासाख्यं यद्द्वितीयं पर्व तस्मिन्हवींषि चत्वार्या-म्नातानि—
“ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुणीमामिक्षां कायमेकक-पालम् ” इति। तत्रैन्द्रग्नस्य पुरोनुवाक्यामाह—
इन्द्राग्नी रोचनेति। दिवो द्युलोकस्य रोचना भासकौ हे इन्द्राग्नी वाजेषु हविर्लक्षणेष्वन्नेषु परिभूषथः परितः प्राप्नुतो भागमिति शेषः। तत्तस्मात्कारणद्वां युव-योर्वीर्यं सामर्थ्यं प्रचेति प्रकर्षेणाज्ञायि लोके सर्वैर्ज्ञातमित्यर्थः।
तत्रैव याज्यामाह—
श्नथदूवृत्रमुतेति। यो यजमान इन्द्राग्नी सपर्यात्परिचरति। कीदृशा-विन्द्राग्नि, सहुरी समानाह्वानौ। स यजमानो वृत्रं वरिणं श्नथद्विनाशयति। उ-
[[1966]]
तापि च वाजमन्नं सनोति सर्वेभ्यः प्रयच्छति। पुनरपि भूरेर्बहुलस्य वसव्यस्येरज्यन्ता, ईश्वरत्वं प्राप्तवन्तौ, सहसा स्वकीयेन बलेन सहस्तमाऽदिशयेन सोढारौ परबलस्या-भिभवितारावित्यर्थः। वाजयन्ता वाजमन्मात्मन इच्छन्तौ।
तत्रैव विकल्पितां याज्यामाह—
प्र चर्षणिभ्य इति। हे इन्द्राग्नी पृतना संग्रामेषु हवेषु हविः स्वीकारार्थे-ष्वाहवानेषु च चर्षणिभ्यो मनुष्येभ्यः प्रिरिचाथे परिरिचाथे प्ररिक्तावतिरिक्तौ भवथ:। सर्वानपि मनुष्यानतिरिच्य वर्तेथे इत्यर्थः। तथा पृथिव्या दिवश्व प्ररिरिचाथे तदुभयमतिरिच्य वर्तेथे। तथा सिन्धुभ्यः प्ररिरिचाथे। तथा गिरिभ्यः पर्वतेभ्यः प्ररिरिचाथे। किं बहुना, अत्यन्याऽत्यन्तमितराणि विश्वा भुवना सर्वाणि भुवनानि महित्वा स्वकीयेन महिम्ना युवां प्ररिरिचाथे अतिरिच्य वर्तेथे।
अथ मारुत्या आमिक्षायाः पुरोनुवाक्यामाह—
मरुतो यस्य हीति। हे मरुतो दिवो द्युलोकादागता यूयं यस्य यजमानस्य क्षये गृहे पाथ रक्षां कुरुथ। कीदृशा मरुतः, विमहसो विशिष्टं महस्तेजो येषान्ते विमहसः। स जनस्तादृशो यजमानः सुगोपातमोऽतिशयेन रक्षको भवतु। तत्रैव विकल्पितामन्यां पुरोनुवाक्यामाह—
यज्ञैर्वा यज्ञेति। यज्ञवाहसो यज्ञस्य वोढारो हे मरुतो यज्ञैर्वा निमित्तभूतै-र्हवं मदीयमाह्वानं शृणुत। तत्रैव याज्यामाह—
श्रियसे कं भानुभिरिति। हे [ते] मरुतः पुरोवातरूपाः सन्तः कं श्रियसे प्राणिभिराश्रयितुं भानुमिर्भासकै रश्मिभिः सूर्यरश्मिभिः सहिताः सँमिमिक्षरे मेघ-वृष्टया भूमिं सम्यक्सेक्तुमिच्छन्ति। ते मरुत ऋव्कभिर्याज्यापुरोनुवाक्यारूपाभि-ऋर्ग्भिः स्तुताः सन्तः सुखादयः शोभनं हविः खादितवन्तः। ततस्ते मरुतो वाशीमन्त उत्साहजनितवोषरूपबहुविधशब्दवन्तः, इष्मिणः स्वगृहान्प्रति गतवन्तः अभिरवः स्वकार्यस्य निष्पन्नत्वेन विघ्नकारिभ्योऽसुरेभ्यो भयरहिताः, प्रियस्य मारुतस्य धाम्नो मरुतां संबन्धि यत्प्रियं स्थानं तद्विद्रे लब्धवन्तः।
[[1967]]
अथ वारुणीमामिक्षामित्येतस्य याज्यानुवाक्ययोः प्रतीके दर्शयति—
अव ते हेड इति। अव ते हेड इति पुरोनुवाक्या। उदुत्तममिति याज्या। एतच्चोभयं वैश्वानरो न उत्येत्यस्मिन्ननुवाके व्याख्यातम।
अथ कायमेककपालमित्यस्य पुरोनुवाक्यामाह—
कया नश्र्वित्र इति। कस्य प्रजापतेः संबन्धिनीत्यस्मिन्नर्थे स्रीलिङ्गः केतिशब्दो वर्तते। ऊतिशब्दो रक्षणवाची। कयोत्या प्रजापतिसंबन्धिना रक्षणेन चित्र आभुवद्विचित्रोऽयं यज्ञो नोऽस्मान्प्रत्यागतः। कीदृशो यज्ञः, सदावृधः सर्वदा वर्धमानः, सखा सखिवत्प्रियतमः। स च यज्ञः कया प्रजापतिसंबन्धिन्या शचि ष्टयाऽतिशयितया शक्त्या वृता युक्त इत्यर्थः। तत्रैव याज्यामाह-
को अद्य युङ्क्त इति। कः प्रजापतिरद्यास्मिन्दिन ऋतस्य धुरि यज्ञस्या-ग्रभागे यज्ञप्रवृत्तिवेलायामित्यर्थः। गा वाग्विशेषानस्मदीयस्तुतिरूपान्युङ्क्ते स्वचित्ते योजयति। कीदृशान्वाग्विशेषान्, शिमीवतः कर्मयुक्तानेतत्कर्मयोग्यानित्यर्थः। भामिनः स्वार्थावभासकान। दुर्हृणायून्दुःखहरणशीलान्। आसन्निषूनस्मदीययास्यं मुखमिष्यन्ति गच्छन्तीत्यासन्निषवस्तान। हृत्स्वसो हृत्सु स्तुत्यानां हृदयेषु सन्ति तिष्ठन्तीति हृत्स्वसस्तान्हृदयंगमानतिप्रियानित्यर्थः। मयोभून्सुखस्य भावयितृन। यो यजमान एषां वाग्विशेषाणां सृत्या भरणक्रियामृणधद्वर्थयति पुनः पुनः स्तौतीत्यर्थः । स यजमानो चीवाच्चिरं जीवति।
अथ स्विष्टकृतो याज्यानुवाक्ययोः प्रतीके दर्शयति—
अग्ने नयेति। अग्ने नय सुपथेति पुरोनुवाक्या। आ देवानामपि पन्था-मिति याज्या। तच्चोभयमुभा वामिन्द्राग्नी इत्यनुवाके व्याख्यातम्।
अथाऽऽमिक्षानिष्पादिनो वाजिनहविषो याज्यानुवाक्ययोः प्रतीके दर्शयति—
शं नो भवन्त्विति। शं नो भवन्तु वाजिनो हवेष्विति पुरोनुवाक्या। वाजेवाजेऽवत वाजिन इति याज्या। एचच्चोभयं देवस्याहंँ सवितुरित्यनुवाके व्याख्यातम्। अथावभृते प्रथमाज्यभागस्य पुरोनुवाक्यामाह—
[[1968]]
अप्स्वग्ने सधिष्टवेति। हेऽग्ने ते तव साधिः सहो बलमप्सु वर्तते। स त्वमोषधीरनुरुध्यसे व्रीहियवाद्योषधीरनुसरीस। जाठराग्निरूपेण तत्स्वीकारात्। अरण्योर्गर्भे स्थितः सन्पुनः पुनर्जायसे। अथ द्वितीयाज्यभागस्य पुरोनुवाक्यामाह-
वृपा सोम द्युमामिति। हे सोम त्वं वृषा कामानां वर्षयिताऽसि। द्युमान्दीप्तिमांश्चासि। हे देव यस्मात्त्वं वृषा वर्षयिता तस्मात्वं वृषव्रतो वर्षणनिमित्तं व्रतं कर्म यस्य स वृषव्रतः। किंच यस्मात्त्वं वृषा वर्षयिता तस्माद्धर्माणि पुण्यानि दधिषे। हे सोम त्वं वृषा धारयिताऽसि।
अथ वारुणस्य याज्यानुवाक्ययोः प्रतीके दर्शयति—
इमं मे वरुणेति। इमं मे वरुण श्रुधीति पुरोनुवाक्या। तत्त्वा यापि ब्रह्मणा वन्दमान इति याज्या। एतच्चोभयमिन्द्रं वो विश्वतस्परीन्द्रं नर इत्यनुवाके व्याख्यातम्। अथाग्निवारुणास्विष्टकृतः संयाज्ययोः प्रतीके दर्शयति—
त्वं नो अग्न इति। त्वं नो अग्ने वरुणस्येति पुरोनुवाक्या । स त्वं नो अग्नेऽवमो भवोतीति याज्या। एतच्योभयमायुष्ट आयुर्दा अग्न इत्यस्मिन्ननुवाके व्याख्यातम्। अत्र विनियोगसंग्रहः—
वारुणाख्यप्रघासेषु याज्या अन्त्यानुवाकगाः।
इद्राग्नी तिस्र ऐन्द्राग्ने मारुते तु मरुत्रयम्॥
अवोदु वाक्णे यागे कया के काययागके।
अग्न आ देवा [ वा] संयाज्ये शं नो वाजे तु वाजिने॥
अप्सुद्वयं चावभृथेऽनुवाक्ये आज्यभागयोः।
इमं तत्त्वा प्रधानस्य प्रोक्ते त्वं स त्वमित्यम्॥
संयाज्ये इति मन्त्रास्तु वि॑शतिः समुदीरिताः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
एकादशोऽनुवाकः ॥ ११॥
[[1969]]
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्र्वतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे द्वितीयः प्रपाठकः ॥ २ ॥