( अथ चतुर्थाष्टके द्वितीयप्रपाठके दशमोऽनुवाकः )।
आ॒दि॒त्यं गर्भं॒ पय॑सा सम॒ञ्जन्त्सह॒स्र॑स्य
प्रति॒मां वि॒श्वरू॑पम् । परिवृङ्ग्धि॒ हर॑सा॒
[[1955]]
माऽभि मृ॑क्षः श॒तायु॑षं कृणुहि ची॒यमा॑नः।
इ॒मं मा हिँसीर्द्वि॒पादं॑ प॒शूनाँ सह॑स्त्राक्ष॒-
मेध॒ चा ची॒यमा॑नः । म॒युमा॑र॒ण्यमनु॑ ते
दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द।
वात॑स्य॒ ध्राजिं॒ वरु॑णस्य॒ नाभि॒मश्वं जज्ञा॒-
नँ स॒रि॒रस्य॒ मध्ये॑ । शिशुं॑ न॒दीनाँ॒ हरि॒-
मद्रि॑बुद्ध॒मग्ने॒ मा हिँ॑सीः [ १] प॒रमे व्यो॑-
मन् । इ॒मं मा हिँ॑सी॒रेक॑शफं पशू॒नां क॑-
निक्र॒दं वा॒जिनं॒ वाजि॑नेषु । गौ॒रमा॑र॒ण्यमनु॑
ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।
अज॑स्र॒मिन्दु॑मरु॒षं भु॑र॒ण्युम॒ग्निमी॑डे पू॒र्वचि॑त्तौ॒
नमो॑भिः । स पर्वभिर्ऋतु॒शः क्रल्प॑मानो॒ गा
मा हिँ॑सी॒रदि॑तिं वि॒राज॑म् । इ॒मँस॑मुद्रँ
श॒तधा॑र॒मुत्सं॑ व्य॒च्यमानं॒ भुव॑नस्य॒ मध्ये॑ ।
घृ॒तं दुहा॑नामदि॑तिं॒ जना॒याग्ने॒ मा ( २ )
हिँ॒॑सीः॒ प॒र॒मे व्यो॑मन् । ग॒व॒यमा॑र॒ण्यमनु॑
ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द ।
वरू॑त्रिं॒ त्वष्टु॒र्वरु॑ण॒स्य नाभि॒मर्वि॑ जज्ञा॒नाँ
रज॑सः॒ पर॑स्मात् । म॒हीँ सा॑ह॒स्रीमसु॑रस्य
मा॒यामग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् । इ॒-
मामू॑र्णा॒युं वरु॑णस्य भा॒यां त्वचं॑ पशू॒नां
द्वि॒पदां॒ चतु॑ष्पदाम् । त्वष्टः॑ प्र॒जानां॑ प्रथ॒मं
[[1956]]
ज॒नित्र॒मग्ने॒ मा हिँ॑सीः पर॒मे व्यो॑मन् ।
उष्ट्र॑मार॒ण्यमनु॑ ( ३ ) ते॒ दि॒शामि॒ तेन॑ चि-
न्वा॒नस्त॒नुवो॒ नि षी॑द । यो अग्निर॒ग्नेस्त-
प॒सोऽधि॑ जा॒तः शोचा॑त्पृथि॒व्या उ॒त वा॑
दि॒वस्परि॑ । येन॑ प्र॒जा वि॒श्वक॑र्मा॒ व्यान॒ट्
तम॑ग्ने॒ हेडः॒ परि ते वृणक्तु । अ॒जा ह्य॑ग्ने-
रज॑निष्ठ॒ गर्भा॒त्सा वा अ॑पश्यज्जनि॒तार॒मग्रे॑ ।
तया॒ रोह॑माय॒न्नुप॒ मेध्या॑स॒स्तया॑ दे॒वा दे॒व-
ता॒मग्र॑ आयन् । श॒र॒भमा॑र॒ण्यमनु॑ ते दिशा-
मि॒ तेन॑ चिन्वा॒नस्त॒नुवो॒ नि षी॑द [ ४] ।।
( अग्ने॒ मा हिँ॑सी॒रग्ने॒ मोष्ट्र॑मारण्यमनु॑ शर॒मो नव॑ च )
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके दशमोऽनुवाकः ।। १० ।।
( अथ चतुर्थकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः )।
[अथ चतुर्थकाण्डे द्वितीयप्रपाठके दशमोऽनुवाकः]।
नवमेऽनुवाके स्वयमातृण्णाद्युपधानमुक्तम् । दशमे पशुशीर्षोपधानं वक्तव्यम् ।
कल्पः “आदित्यं गर्भमित्युखायां पुरस्ताच्चु( च्चि )बुकं प्राचीनमुत्तानं प्राङ्मुख उपधाय” इति । पुरुषशिर इत्यनुवर्तते । पाठस्तु—
आदित्यं गर्भमिति । हेऽग्ने त्वं चीयमानः सन्नादित्यं गर्भमदितिदेवतायाः संबन्धि तत्कार्यरूपं गर्भसदृशमिदं परुषशीर्षं परिवृङ्ग्धि परितो वर्जितं कुरु । हरसा तेजसा त्वदीयज्वालरूपेण माऽभिवृक्षोऽभिमर्शनं स्पर्शं मा कुरु । ज्वालया सर्वं दहन्नप्येत-त्पुरुषशीर्षं मा दहेत्यर्थः । अनेन दाहाभावेन तं गर्मं यजमानं वा शतायुषं कृणुहि कुरु। कीदृशं गर्भं, सहस्त्रस्य प्रतिमां पशुसहस्रेण तुल्यं सदृ
[[1957]]
शम् । अत एव ब्राह्मणेऽभिहितम्—“सहस्र वै प्रति पुरुषः पशूनां यच्छति सहस्त्रमन्ये पशवो प्रध्ये पुरुषशीर्षमपु दधाति सवीर्यत्वाय” इति।
कल्पः—“पशूशीर्षाण्युपदधाति यं कामयेतापशुः स्यादिति विषूचीनानि तस्ये-त्युक्तं वातस्य घ्राजिमिति पुरस्तात्प्रतीचीनमश्षस्याजस्त्रमिन्दुमिति पश्चात्प्राचीनमृषभस्य वरूत्रिं त्वष्टुरिति दक्षिणत उदी॑चीनं वृष्णेर्यो अग्निरग्नेरित्युत्तरतो दक्षिणं वस्तस्य तान्यव्यवायेनोत्सर्गैरुपतिष्ठत इमं मा हिँसीर्द्विपादमिति पुरुषस्येमं मा हिँसीरेकशफ-मित्यश्वस्येमँ समुद्रमित्यृषभस्येमाभूर्णायुमिति वृष्णोरजा ह्यग्नेरिति वस्तस्य” इति ।
तत्तन्मूर्धोपधानमन्त्रेभ्योऽनन्तरमेवाऽऽम्नातास्तत्तदुपस्थानमन्त्रा अनु ते दिशा-मीत्युत्सर्गलिङ्गत्वादुत्सर्गा इत्युच्यन्ते । तैस्तैर्मन्त्रैस्ततच्छिरस उपस्थानं कुर्यात् ।
तत्र पुरुषशीर्षस्योपस्थानमन्त्रमाह—
इमं भा हिँ सीरिति । हे सहस्राक्ष सहस्रसंख्याकज्वालारूपचक्षुर्युक्त (* हे मेध यज्ञनिष्पादक,) आचीयमानः सर्वतः पशुमूर्धभिरूपचर्य प्राप्नुवानः पशूनां ग्राम्याणामारण्यानां च मध्य इमं पुरुषभूर्यरूपं द्विपादं ग्राम्यंपशुं मा हिंसीदार्हरूपां हिंसा मा कार्षीः । यदि तव भक्ष्यापेक्षा तर्हि ते नव भक्षणायेममारण्यं मयुं कृष्णमृग-मनुदिशामि पुरुषशीर्षमनु त्वद्भक्ष्यत्वेनातिसृजामि । तेन मधुभक्षणेन ज्वालारूपास्तनु-वस्त्वदीयतनूश्चिन्वानः पोषयन्निह निषीद ।
अथाश्वशिरस उपधानमन्त्रमाह—
वातस्य प्राजिमिति । हेऽग्नेऽश्वं मा हिंसीर्ज्वालया मा दह । विविधरोगेभ्यो रक्षणप्रदाहः । सहस्रमश्वस्य रोगाः सन्ति, तेभ्यः सर्वेभ्यः पालनमित्यर्थः । तच्च परममुत्कृष्टं, रक्षितस्याश्वस्य पूनरुपद्रवकथा यथा न जायते तथा रक्षणं रक्षणस्य परमत्वं, तादृशे परमे व्योमन्नेनमश्वं स्थापयेति शेषः । कीदृशमश्वं, वातस्य ध्राजिं वायोर्गतिस्वरूपं वायुवच्छीघ्रगतिमित्यर्थः । वरुणस्य नाभिम्, अपामधिपतेर्वरुणस्य नाभिस्थानीयं, यथा स्वोदरमध्यवर्तिनी नाभिर्वस्त्रप्रावरणा
- धनुश्चिन्हान्तर्गतद्यन्थस्थाने ‘मेधे यज्ञ’ इति भवितुं युक्तम्।
[[1958]]
दिना पाल्यते तद्वदत्यन्तप्रियत्वाद्वरुणेन पालनीयमित्यर्थः । अत एव प्रियत्वमाभि प्रेत्य “प्रजापतिर्वरुणायाश्वमनयत्” इत्याम्नायते । अश्वमेधकाण्डेऽपि “वारुणो वा अश्वः” इत्याम्नातम्। सरिरस्य मध्ये जज्ञानं समुद्रजलस्य मध्ये वडवारूपेणोत्पन्नम् । अत एवाप्सुयोनिर्वा अश्व इत्यन्यत्र श्रुतम् । नदीनां शिशुम । यदा नदीनां षतिः समुद्रः पूर्वोक्तन्यायेन पिता तदा नदीनां मातृत्वादयं तच्छिशुः । हरिमुपर्यारूढस्य पुरुषस्य हर्तारं नेतारम् । आद्रिबुद्धं मार्गमध्ये खुरैश्चुर्णीकृता येऽद्रयः शुद्रापाषाणास्तैर्बुद्धं, तादृशान्पाषाणान्दृष्ट्वा मार्गेऽस्मिन्नश्वो गत इति घोद्धुं शक्यते । अथाश्वशिरस उपस्थानमन्त्रमाह—
इमं मा हिँ सीरिति । पशूनां चतुष्पदां मध्य एकशफमिमगश्वं माहिंसीः । कीदृशमश्वं, कनिक्रदं हेषाशब्दरुपेणात्यन्तक्रन्दनेनोपेतं, वाजिनेषु वाणिनं शीघ्रगति-युक्तेषु प्राणिष्वत्यन्तशीघ्रगतियुक्तम् । गौरः सिंहः । शेषं पूर्ववत् ।
अथ ऋषभशिरस उपधानमन्त्रमाह—
अजस्रमिन्दुमिति । पूर्वेषां महर्षीणां चित्तिर्बुद्धिस्तत्र पूज्यत्वेन वर्तमानमिति शेषः । तैर्ध्यैयमतमग्निं नमोभिर्नमस्कारैर्युक्तोऽहमीडे स्तौमि । कीदृशमग्निम् । अज-स्रीमन्दुं निरन्तरं परमैश्वर्योपेतम् । अरुःशब्दो मर्मबाची । अरुषं मर्मसंघातं भुरण्युं भरन्तं पालयन्तम् । यथा यजमानस्य मर्माणि वैरिणो नोद्घाटयन्ति तथा कुर्वन्तमि-त्यर्थः । सोऽग्निरादित्यरूपेण स्थित्वा पर्वभिरमावस्यादिभिस्तिथिभिर्ऋतुशस्तस्मिंस्त-स्मिन्नृतौ कल्पमानः कर्माणि संपादयन्वर्तते । तादृश हेऽग्ने गामृषभमूर्धानमेतं मा हिंसीः । कीदृशं गाम्, अदितिमखण्डनीयं विराजं विशेषेण राजमानम् । अथर्षभशिरस उपस्थानमन्त्रमाह—
इमँ समृद्रमिति । हेऽग्ने जनाय यजमानार्थमिमं गामृषभमूर्धानं माहिंसीः, किंतु परमे व्योमन्नुत्तमे विविधरक्षणे स्थितं कुरु । कीदृशम्, इमं समुद्रं सम्यगुन्नतं, शतधारं स्वजातीयधेनुद्वारा शतसंख्याकक्षीरोपेतम् । अत एवोत्सं
[[1959]]
जलप्रवाहसहशं भुवनस्य मध्ये व्यच्यमानं विद्यमानं सेव्यमानं वा, घृतं दुहानां स्वजातियधेनुक्षीरादिद्वारा घृतदोहनयुक्तम्, अदितिमखण्डनीयम्। गवयो गोसदृश आरण्यो मृगाविशेप:। शेषं पूर्ववत् ।
अथ वृष्णिशिरस उपधाननन्त्रमाह—
वरू त्रिंत्वष्टुरिति । हेऽग्नेऽविं वृष्णिशिरो मा हिंसीः । कीदृशीमविं, त्वष्टुर्वरूत्रिं रूपाणां निर्माता यस्त्वष्टा तस्यानुग्रहाद्वरणीयरूपयुक्तां, वरणस्य नाभिमनिष्टनिवारक-स्याग्नेर्नाभिस्थानीयां परस्माद्रजसो जज्ञानामुत्कृष्टाज्जगद्रञ्जनात्प्रजा पत्युरस उत्पन्नाम् । सप्तमकाण्डे उरसो बाहुभ्यमित्यादिवाक्येऽविः पशूनामिति श्रुतम् । महीं महतीं साहस्रीं सहस्रमूल्यामसुरस्य मायां सुवर्भानोरसुरस्य संबन्धित्वेन निर्मिताम् । अत एव द्विती-काण्डे सुवर्भानुरित्यादिवाक्येनाभिहिता । वृष्णिशिरस उपस्थानमन्त्रमाह—
इमामूर्णायुमिति । हेऽग्ने इमामूर्णायुमविं वृष्णिशिरोरूपां मा हिंसीः । कीदृशीं वरुणस्य मायामनिष्टनिवारकस्याग्नेः संबन्धित्वेन निर्मितां द्विपदां मनुष्याणां चतुष्पदां गवादीनां च त्वचं त्वक्सदृशीम् । यथा त्वचा शरीरमावृतं तथा द्विपादो मनुष्याः शीतनिवारणायाविजन्येन कम्बलेनाऽऽच्छादितो भवन्ति । चतुष्पादोऽप्यश्वा बलीव-र्दाश्च भारबाहने मार्दवाय पृष्टे कम्बलेनाऽऽच्छादिता भवन्ति । तथा त्वष्टुः प्रजापतेः सकाशादुत्पद्यमानानां प्रजानां मध्ये प्रथमं जनित्रं प्रधानत्वेनोत्पन्नम् । प्राधान्यं च वीर्यवत्त्वात् । वीर्यवत्त्वं च बाहुजन्यानां सर्वेषामाभ्नातं “तस्मात्ते वीर्यावन्तो वीर्या-द्ध्यसृज्यन्त” इति । उष्ट्रः प्रसिद्धः । अथ बस्तशिरस उपधानमन्त्रमाह—
यो अग्निरग्नेरिति । अत्र पञ्चम्यन्तोऽग्निशब्दोऽग्रणीत्वयोगेन प्रजापतिवाची । तस्य च सृष्टिसंकल्परूपं यत्तपस्तस्मात्तपसो योऽयमग्निर्व्यवहारहेतुर्जातः । तपोयुक्ता-दग्निर्जात इत्येतश्रोतृब्राह्मणे समाम्नातम्—“तदूभूयोऽतप्यत । तस्मात्तेपानादग्निरजायत” इति। प्रजापतेस्तपसोऽधि जातो योऽग्निः पृथिव्याः परि-
[[1960]]
भूमेरुपरि शोचाच्छोचति तपतीत्यर्थः । उत वा दिवस्परि अपि च स्वर्गस्योपरि शोचति। किंच येन वस्तरूपेण विश्वकर्मा जगत्स्रष्टा प्रजापतिर्व्यानड्विविधाप्रजाः पशून्व्याप्तवान् । बस्तस्य प्रजापशुसृष्टिसाधनत्वं काम्यपशुकाण्डे समाम्नाः तम्—“ततोऽजस्तूपरः समभवत्तँ स्वायै देवतायां आलभत ततो वै स प्रजाः पशूनसृजत” इति। हेऽग्ने तपसो योऽधिजातस्तथाविध तव हेडः कोपो येन बस्तेन विश्वकर्मा ससर्ज तं बस्तं परिबृणक्तु परिवर्जितं करोतु मा विनाशयत्वित्यर्थः । तस्यैव वस्ताशिरस उपस्थानामन्त्रमाह—
अजा ह्यग्नेरिति । हि यस्मादियमजाऽग्नेर्गर्भादुदरादजनिष्ट । अत एवाऽऽभ्ना- तम्—“स आत्मनो वपामुदक्खिदत्तामग्नौ परागृह्णात्ततोऽजस्तूपरः समभवत्” इति। सैवाग्नेः प्रजापतेश्चोत्पन्ना जनितार स्वोत्पादकं प्रजापतिमपश्यदुत्पत्त्यनन्तर मेव इष्ट-वती । यस्मादेवमजा प्रशस्ता तस्मात्तयाऽजया मेध्यासो याग योग्यायजमानारोहं स्वर्गमुपायन्सामीप्येनैव प्राप्ता विलम्बमन्तरेणैव प्राप्ता इत्यर्थः। किंचेदानीं वर्तमाना देवा अग्रे पूर्वस्मिञ्जन्मनि तगैवाजया कर्माण्यनुष्ठाय देवता मायन्देवत्वं प्राप्ताः। ईदृश (शोऽ) स्य वस्तशिरसो महिमेति तात्पर्यार्थः। शरभः सिंहधाती क्रूरमृगः। उक्तैर्मन्त्रैः साध्यं शीर्षोपधानं विधत्ते—
“पशुशीर्षाण्युप दधाति पशवो वै पशुशीर्षाणि पशूनेवाव रुन्धे ” [ सं॰ का॰ ५ प्र॰ २ अ॰ ९] इति।
अन्वयव्मतिरेकाभ्यां पशुशीर्षाणां पुरुषशीर्षाभिमुख्यं विधत्ते—
“यं कामयेतापशुः स्यादिति विषूचीनानि तस्योप दध्याद्विषूच एवास्मात्प-शून्दधात्यपशुरेव भवति यं कामयेत पशुमान्त्स्यादिति समाचीनानि तस्योप द ध्यात्समचि एवास्मै पशून्दधाति पशुमानेन भवति ” [ सं॰ का॰ ५ प्र॰ २ अ॰ ९] इति।
विषूचीनानि बहुमुखानि पुरुषशिरः प्रति विमुखानीत्यर्थः। सोऽयं व्यतिरेकः। समीचीनानि पुरुषशिरः प्रत्यभिमुखानीत्यर्थः। सोऽयमन्वयः।
सामान्येन बिहितं पुनर्विशेवाकारेण विधत्ते—
“पुरस्तात्पतीचीनमश्वस्योप दधाति पश्वात्प्राचीनमृषभस्यापशवो वा अन्ये
[[1961]]
गोअश्वेभ्यः पशवो गोअश्वानेवास्मै समीचे दधाति ” (सं॰ का॰ ५ प्र॰ २ अ॰ ९) इति।
अश्वशिरः पूर्वस्यां दिशि प्रत्यङ्मुख उपदध्यात्। ऋषभशिरः प्रतीच्यां दिशि प्राङ्मुख उपदध्यात्। गोभ्योऽश्वेम्यश्व येऽन्ये जातितः। पशुत्वेऽप्यप्रशस्तत्वादपशव एव। तस्मात्प्रशस्तयोर्गवाश्वशिरसोराभिमुख्योपधानेन यजमानार्थं सर्वान्पशूनभिमुखा-नेव करोति।
अथोपस्थानमन्त्रेष्वारण्यानामनुदेशनस्य तात्पर्यं दर्शयति—
“एतावन्तो वै पशवो द्विपादश्व चतुष्पादश्व तान्वा एतदग्नौ प्र दधाति यत्प-शुशीर्षाण्युपदधात्यमुमारण्यमनु ते दिशामीत्याह ग्राम्येभ्य एव पशुभ्य आरण्या-न्पशूञ्छुचमनूत्सृजति तस्मात्समावत्पशूनां प्रजायमानानामारण्याः पशवः कनीयाँसः शुचा ह्यृताः” (सं॰ का॰ ५ प्र॰ २ अ॰ ९) इति।
ये द्विपादो मनुष्यादयो येऽपि गवादयश्वतुष्पादा एतावन्त एव लोके विद्य-मानाः पशवः । एवं सति पुरुषशीर्षाणां चोपधानेन तान्सर्वानग्नौ प्रक्षिपति। अतस्त-त्परिहारायाऽऽरन्यपशूनामेनुदशनम्। तेन चानुदेशनेन ग्राम्येभ्यः पशुभ्योऽपकृष्या-ऽऽरण्यान्पशून्प्रति शुचं वह्नितापं प्रेरयति। हि यस्माच्छुचा वह्नितापेनाऽऽरण्याः पशव ऋताः प्राप्तास्तस्माद्ग्राम्यैः पशुभिरुत्पत्तिसम्योऽपि ते कनीर्यासो मूल्यानर्हाः।
यदुक्तं सूत्रकारेण—“नमो अस्तु सर्पेभ्य इति दक्षिर्णेऽसे सर्पशिर उप दध्याद्विषूचीनं पशुशीर्षेरपि वा यजुरेव वदेन्नोपदध्यात् ” इति।
तत्रोपधानं विधत्ते—
“सर्पशीर्षमुप दधाति यैव सर्पे त्विषिस्तामेवाव रुन्धे” (सं॰ का॰ ५ प्र॰ २ अ॰ ९) इति। त्विषिर्दीप्तिः। मन्त्रपाठमात्रं विधत्ते-
“यस्तमीचीनं पशुशीर्षैरुपदध्याद्ग्राम्यान्पशून्दँ शुकाः स्युर्यद्विषूचीनमारण्या-न्यजुरेव वदेवव तां त्विषिँ रुन्धे या सर्पे न ग्रान्यान्पशुन्हिनस्ति नाऽऽण्यान् ” (सं॰ का॰ ५ प्र॰ २ अ॰ ९) इति।
[[1962]]
सर्पशीर्षस्य संमुखत्वे विमुखत्वे च भावसद्भावात्प्रकारान्तरासंभवाच्च तदुप-धानं परित्यज्य मन्त्रमेव पठेत्। तदा मन्त्रपाठेन सर्पत्विषिरपि प्राप्यते। संमुखविमुख-त्वयोरभावाद्दोषद्वयमपि नास्ति।
तमिमं केवलमन्त्रपक्षमुपेक्ष्योपधानपक्षस्यैव प्राप्तिप्रतिप्रसवं विधत्ते—
“अथो खलूपधेयमेव यदुपदधाति तेन तां त्विषिमेव रुन्धे या सर्पे यद्यजुर्वदति तेन शान्तम” (सं॰ का॰ ५ प्र॰ २ अ॰ ९) इति।
सर्पे या त्विषिस्तामुपधानेन लभते। मन्त्रपाठेन सर्पशिरसः शान्तत्वादेशनमपि न भवति। अत्र विनियोगसंग्रहः—
आद्युखायां शिरो घत्त इममित्युपतिष्ठते।
वाताश्वस्य शिरः प्राच्यां दध्यादिमं जपेत्तथा॥
अजर्षभशिरः पश्वादिममित्यनुमन्त्रणम्।
वरु दक्षिणतो बृष्णिशिरस्तन्मन्त्रणं त्विमाम्॥
य उदिच्यां बस्तशिरस्तन्मन्त्रणमजेत्यतः।
दशमे त्वनुवाकेऽस्मिन्दश मन्त्रा उदीरिताः॥
अथ मीमांसा।
प्रथमाध्यायस्य चतुर्थपादे षोडशाधिकरणे चिन्तितम्—
पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम्।
अजादिष्वपशुत्वं यद्गुणवादोऽथवा स्तुतिः॥
स्तुत्यमभावाद्गुणस्तेषु पशुकार्यनिषेधनम्।
अशक्यत्वान्निषेधस्य धटाद्यर्थाभिधायिना॥
पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः।
लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः॥
इदमाम्नायते – “अपशवो वा अन्ये गोअश्वेभ्यः पशवः ” इति। अत्राजादिषु श्रूयमाणां यदपशुत्वं तस्यार्थवादत्वं न संभवति। पशुत्वमात्रनिषेधेन स्तुतेरप्रति-भानात्। ततः पशुकार्यनिषेधरूपो गुणोऽभिधीयत इदि चेत्। मैवम्। अ-
[[1963]]
जादिपशुविधिवैयर्थ्यप्रसङ्गेन निषेद्धुमशक्यत्वात्। अपशुशब्दः पशुव्यतिरिक्तं घटा-दिपदार्थमभिदधाति। तस्मिन्धटादौ गवाश्ववत्प्राशस्त्यं नास्ति। सोऽयं प्राशस्त्याभा-वोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव तव सन्तोऽप्यजादयो घटादिसाम्या-दपशुशब्देन लक्ष्यन्ते। पूर्वत्र यजमानकार्यसिद्धिराग्नेये मुखजत्वमादित्ववत्तेजस्वित्वं च यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम्। तत्प्रवृत्तिफलं प्रस्तरादि-प्रशंसा। इह त्वपशुशब्दस्यागादिषु प्रवृत्तौ गावश्वयोः प्रशसैव निमित्तं फलं च। द्विप्रकारा हि प्रशंसा-वस्तुनि विद्यमानगुणोत्कर्ष एकः प्रकारः, स्तावकेन शब्देन संपादितो गुणो-त्कर्षोऽपरः प्रकारः। गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम्। अजादयः स्वभावतः पशवोऽपि सन्तो वाश्वौ प्रत्यपशवः संपन्नाः। ईदृशो गवाश्वयोर्म-हिमेति स्तुतिः फलम। तस्मात्। “अपशवो वा अन्ये ” इत्ययमर्थवादः। अयमेव न्याय उदारहणान्तरे योजनीयः। “अयज्ञो वा एष योऽसामा ” इत्येकमुदाहरणम्। “ असत्रं वा एतद्यदच्छन्दोमम् ” इत्यपरमुदाहरणम्। अग्निहोत्रदर्शंपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति। ईदृशः साम्नो महिमा। छन्दोमशब्दन चतुर्विंशस्वत्वारिं-शोऽऽष्टाचरवारिंश इत्येते त्रयः स्तोमा उच्यन्ते। अक्षरसख्यासाम्येन गायत्रीत्रिष्टुब्जगतीछन्दोभिर्मीयमानत्वात्। तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या। अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोमरहितत्वादसत्रं भवति। ईदृशश्छन्दोमानां महिमेत्येवं स्तावकत्वादर्धवादत्लम्।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
दशमोऽनुवाकः ॥ १० ॥