०९

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः)।
ध्‍रु॒वाऽसि॑ ध॒रुणाऽस्तृ॑ता वि॒श्वक॑र्मणा॒ सुकृ॑-
ता । मा त्वा॑ समु॒द्र उद्व॑धी॒न्मा सु॑प॒र्णो व्य॑-
थमाना पृथि॒वीं दृँह । प्र॒जाप॑तिस्त्वा सा
दयतु पृथिव्याः पृ॒ष्ठे व्यच॑स्वतीं॒ प्रथ॑स्वतीं॒
प्रथो॑ऽसि पृथि॒व्य॑सि॒ भूर॑सि॒ भूमि॑र॒स्यदि॑ति-
रसि वि॒श्‍वधा॑या॒ विश्‍व॑स्य॒ भुव॑नस्य ध॒र्त्री

[[1939]]

पृ॑थि॒वीं य॑च्छ पृथि॒वीं दृँ॑ह पृथि॒वीं मा
हिँ॑ सी॒र्विश्व॑स्मै प्रा॒णाया॑पा॒नाय॑ व्या॒नायो॑-
दा॒नाय॑ प्रति॒ष्ठायै॑ (१) च॒रित्रा॑या॒ग्नि॑स्‍त्‍वा॒-
ऽभि पातु म॒ह्या स्व॒स्त्या छ॒र्दिषा॒ शंत॑मेन॒
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्‍ध्‍रु॒वा सीद॑ । का-
ण्डा॑त्काण्डात्प्र॒रोह॑न्ती॒ परु॑षःपरुषः॒ पर्रि ।
ए॒वा नो॑ दुर्वे॒ प्र त॑नु॒ स॒हस्रे॑ण श॒तेन॑ च ।
या श॒तेन॑ प्रत॒नोषि॑ स॒हस्रे॑ण वि॒रोह॑सि । त-
स्या॑स्ते देवीष्टके वि॒धेम॑ ह॒विषा॑ व॒यम् । अ-
षा॑ढाऽसि॒ सह॑माना॒ सह॒स्वारा॑तीः॒ सह॑स्वा-
रातीय॒तः सह॑स्व॒ पृत॑ना सह॑स्व पृतन्य॒तः ।
स॒हस्र॑वीर्या ( २ ) अ॒सि॒ सा मा॑ जिन्व ।
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः । मधु॒ नक्त॑मुताषेसि॒
मधु॑म॒त्पार्थि॑वँ॒ रजः॑ । मधु॒ द्यौर॑स्तु नः पि॒
ता । मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒
सूर्यः॑ । माध्वी॒र्गावो॑ भवन्तु नः । म॒ही द्यौः
पृथि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒-
पृ॒तां नो॒ भरी॑माभिः । तद्विष्णोः पर॒मम् ( ३ )
प॒दँ सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒-
रात॑तम् । घ्‍रु॒वाऽसि॑ पृथिवि॒ सह॑स्व पृत-
न्य॒तः । स्यू॒ता देवेभि॑र॒मृते॒नाऽगाः॑ । यास्ते॑

[[1940]]

अग्ने॒ सूर्ये॒ रुच॑ उद्य॒तो दिवमात॒न्वन्ति॑ र॒-
श्मिभिः॑ । ताभिः॒ सर्वा॑मी रु॒चे जना॑य न-
स्कृधि । या वो॑ देवा॒ सूर्ये॒ रुचो॒ गोष्वश्वे॑षु॒
या रुचः॑ । इन्द्रा॑ग्नी॒ ता॑भिः॒ सर्वा॑भी॒ रुचं॑
नो धत्त बृहस्पते । वि॒राट् [ ४ ] ज्योति॑र-
धात्यत्स॒म्‍राड्ज्योति॑रधारयत्स्व॒राड्ज्योति॑रधा-
रयत् । अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव
सा॒धवः॑ । अरं॒ वह॑न्त्या॒शवः॑ । यु॒क्ष्वा हि
दे॑व॒हूत॑माँ अश्वाँ॑ अग्ने रथीरि॑व । नि
होता॑ पू॒र्व्यः स॑दः । द्र॒प्सश्च॑स्कन्द पृथिवी॒मनु॒
द्यामि॒मं च॒ योनि॒म॒नु यश्‍च॒ पूर्वः॑ ।
तृ॒तीयं॒ योनि॒मनु॑ सं॒चरतं द्र॒प्सं जु॑हो॒भ्यनु॑
स॒प्त [ ५ ] होत्राः॑ । अभू॑दि॒दं विश्व॑स्य॒ भुव॑-
नस्य॒ वाजि॑नम॒ग्नेर्वैश्‍वा॑न॒रस्य॑ च । अ॒ग्नि
र्जोति॑षा॒ ज्योति॑ष्मान्‍रु॒क्मो वर्च॑सा॒ वर्च॑-
स्वान् । ऋ॒चे त्वा॑ रु॒चे त्वा॒ समित्स्र॑वन्ति
स॒रितो॒ न धेनाः॑ । अ॒न्तर्हृदा मन॑सा पू॒यमा॑-
नाः । घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि ।
हि॒र॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् । तस्मि॑
न्‍त्‍सुप॒र्णो॑ म॑धु॒कृत्कु॑ला॒यी॒ भज॑न्नास्ते॒ मधु॑
दे॒वता॑भ्याः । तस्या॑ऽऽसते॒ हर॑यः स॒प्‍त तीरे॑
स्वा॒धां दुहा॑ना अ॒मृत॑स्य॒ धारा॑म् ।। ६ ।।

[[1941]]

(प्र॒ति॒ष्ठायै॑ स॒हस्र॑वीर्या प॒रमं वि॒राट्स॒प्त तीरे॑ च॒त्वारि॑ च) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके नवमोऽनुवाकः ।। ९ ।।

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके नवमोऽनुवाकः)।
अष्टमेऽनुवाके पुष्करपर्णाद्यमृन्मयेष्टकापेधानमुक्तम् । अथ नवमे स्वयमातृण्णादीष्टकोमधानमुच्यते ।
कल्पः—“ध्‍रुवाऽसि धरुणाऽस्तृतेति स्वयमातृण्णामभिमृश्याश्वेनोपघ्राप्य च प्रजापतिस्‍त्‍वा सादयतु पृथिव्याः पृष्ठ इत्यविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति” इति। तत्राभिमर्शनमन्त्रपाठस्तु—
ध्‍रुवाऽसि धरुणेति । हे स्वयमातृण्णे त्वं ध्‍रुवा स्थिराऽसि । कीदृशी, धरुणा भूमिरूपेण विश्वस्य धारयित्री, अत एवास्तृता केनाप्यहिंसिता । विश्वकर्मणा जगत्कर्त्रा सुकृता सुष्ठु निर्मिता । समुद्रस्त्वां मोद्ववधीत्स्वोदरमध्ये निमज्‍जनलक्षणं वधं मा कार्षीत् । सुपर्णः पक्षिराजोऽपि सर्पोर्द्धरणवेलायां त्वामादाय मोद्वधीद्दूरे परित्या-गलक्षणं वधं मा कार्षीत् । एवं सत्यव्यथमाना भयरहिता त्वं पृथिवीमिमां दृंह दृढी कुरु । उपधानमन्त्रपाठस्तु—
प्रजापतिस्‍त्‍वेति । हे स्वयमातृण्णे प्रजापतिस्त्वामस्मिन्र्पदेशे पृथिव्या उपरि सादयतु । कीदृशीं त्वां, व्यचस्वतीं विस्तारयुक्तां प्रथस्वतां पृथुलाम् । किंच प्रथोऽसि अस्याश्चितेः प्रथनं विस्ताररूपमसि । त्वया हि चितिविस्तारो भवति । पृथिव्यामुत्पन्न-त्वात्पृथिव्यसि, भूरसि सुखानां भावयित्र्यसि, भूमिरसि मृन्मयपृथिव्यभिमानिभूमिदेव-ताऽसि, अदितिरसि अखण्डनीयाऽसि । विश्वधाया विश्वस्य पोषयित्र्यसि । तथा विश्वस्य भुवनस्य सर्वस्य लोकस्य घर्ती धारयित्र्यसि । तादृशी त्वं पृथिवीं यच्छ नियतां कुरु । पृथिवीं दृंह दृढी कुरु । पृथिवीं मा हिंसीः पृथिव्या हिंसां मा कुरु । विश्वस्मै सर्वस्मै प्राणापानव्यानोदानाख्यवायुवृ-

[[1942]]

त्तिलाभाय, प्रतिष्ठायै स्वगृहस्थितिलाभाय, चरित्राय शास्त्रीयाचरणलाभाय । प्राणिन-मेतस्य सर्वस्य सिद्ध्यर्थमयमग्निस्त्वामभितः पातु । केन रक्षणमिति तदुच्यतेमह्या स्वस्त्या महत्या योगक्षेमसंपत्त्या शंतमेन च्छर्दिषाऽत्यन्तसुखकारिणा दीप्तिविशेषेण । तव स्वामिभूता या देवता तयाऽनुगृहीता त्वं ध्रुवा स्थिरा सती सीदेहोपविश । अङ्गिरस्वत्, अङ्गिरसां चयनानुष्ठाने यथा त्वं ध्रुवा स्थिरा तद्वत् । एतन्मन्त्रसाध्यमु-पधानं विधत्ते—
“स्वयमातृण्णामुप दधातीयं वै स्वयमातृण्णेमामेवोप धत्ते” (सं. का. ५ प्र. २ अ. ८) इति।
शर्कराख्यानां[णां] क्षुद्रपाषाणानां मध्ये पुरुषप्रयत्‍नमन्तरेण या स्वत एव च्छिद्रयुक्ता सेयं शर्करा स्वयमातृण्णा तामत्रोपदध्यात् । सा च स्वयमातृण्णा पृथिवी-जन्यत्वात्पृथिव्येव । अथः पृथिवीमेवोषधत्ते ।
तस्याः स्वयमातृण्णाया अश्वोपघ्रापणं विधत्ते—
“अश्वमुप घ्‍रापयति प्राणमेवास्यां दधात्यथो प्राजापत्यो व अश्वः प्रजापति-नैवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ८) इति।
अन्तरस्या इष्टकायाः स्वतः सिद्धं छिद्रं प्रशंसति—
“प्रथमेष्टकोपधीयमाना पशूनां च यजमानस्य च प्राणमपि दधाति स्वयमा-तृण्णा भवति प्राणानातुत्सृष्ट्या अथो सुवर्गस्य लोकस्यानुख्यात्यै” (सं. का. ५ प्र. २ अ. ८) इति।
पुष्करपर्णादिषूपधेयत्वसाम्येनेष्टकात्वमुपचरितम् । स्वयमातृण्णा तु यद्यपि पुरुषैरनिर्मिता तथाऽपि तस्या इष्टकात्वं मुख्यमित्यभिप्रेत्य मुख्यास्विष्टकास्वस्याः प्राथ-म्यमुच्यते । प्रथमेष्टकोपधीयमाना सती पशूनां यजमानस्य च श्वासं निरुध्या[न्ध्या] त्। अतः श्वासस्य निर्गमनाय स्वतःसिद्धच्छिद्रयुक्ता कार्या । अथो अपि च सच्छिद्रत्वे सत्यावरणाभावात्स्वर्गलोकेऽपि प्रकाशितो भवति ।
यदुक्तं सूत्रकारेण—“अविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति” इति। तदेतद्विधत्ते—
“अग्नवग्निश्चेतव्य इत्याहुरेष वा अग्निर्वैश्वानरो यद्‍ब्राह्मणस्तस्मै प्रथमामि-

[[1943]]

ष्टकां यजुष्कृतां प्र यच्छेत्तां ब्राह्मणश्चोप दध्यातामग्नावेव तदग्निं चिनुते” (सं. का. ५ प्र. २ अ. ८) इति।
अग्निमेवाऽऽधारं कृत्वा तस्मिन्नग्नावेवायमग्निश्चेतव्य इत्यभिज्ञा आहुः । तस्य उपाय इति तदुच्यते-योऽयं ब्राह्मणः स एवाऽऽधारभूतो वैश्वानरनामकोऽग्निः । अग्ने-र्ब्राह्मणाभिमानिदेतत्वाद्‍ब्राह्मणस्याग्नित्वम् । अतोऽग्निरूपस्य ब्राह्मणस्य हस्ते मन्त्रसंस्कृतां स्वयमातृण्णां दद्यात् । ततः स ब्राह्मणोऽध्वर्युश्च मिलित्वा तामुपदध्यातां तावतांऽग्‍नावेवाग्निश्चितो भवति ।
अथ यदुक्तं सूत्रकारेण “अविद्वान्ब्राह्मणो वरं ददात्येकं द्वौ त्रीन्वा” इति। तदेतद्विधत्ते—
“ईश्वरो वा एष आर्तिमाप्तोर्योऽविद्वानिष्टकामुपदधाति त्रीन्वरान्दद्यात्‍त्रयो वै प्राणाः प्राणानाँ स्पृत्यै द्वावेव देयौ द्वौ हि प्राणवेक एव देय एको हि प्राणः” (सं. का. ५ प्र. २ अ. ८) इति।
यः स्वयमविद्वान्सन्निष्टकामुपदधाति स्वयमातृण्णां स एष आर्तिमाप्‍तुं समर्थो भवति । अतस्तत्परिहारायाध्वर्यवे वरदानं कुर्यात् । वरशव्देन श्रेष्ठत्वाद्गौरुच्यते । त्रीन्द्वावेक इति पक्षा विकल्पिताः । प्राणोऽपानो व्यान इति त्रित्वं, व्यानमन्तर्भाब्य प्राणापानाविति द्वित्वम्, अपनामन्तर्भाव्य प्राण इत्येकत्वम् ।
कल्पः—“काण्डात्काण्डात्प्ररोहन्तीति द्वाभ्यां दूर्वेष्टकाम्” इति। उपदध्या दित्यनुवर्तते। तत्र प्रथमामाह—
काण्डादिति । काण्डशब्दः स्तम्बवाची । परुःशब्दः पर्ववाची । यावन्तः काण्डाः स्तम्बाः सन्ति तत्रैकैकस्मात्स्तम्बात्प्रकर्षेण दूर्वोत्पद्यते । एकस्मिन्नपि स्तम्बे यावन्ति परुंषि पर्वाणि सन्ति तेष्वेकैकस्य पर्वणः परितः प्रकर्षेण दूर्वोत्पद्यते । हे दूर्वे त्वं तत्तत्काण्डोत्थत्वात्तत्तत्पर्वणि प्रकर्षेणोत्पद्यमाना वर्तसे । एवा, एवमनेन प्रकारेण नोऽस्मदर्थं शतसंख्याकेन सहस्रसंख्याकेन च त्वदीयभेदेन त्वत्स्वरूपं प्रतनु प्रकर्षेण विस्तृतं कुरु । अथ द्वितीयामाह—
या शतेनेति । हे दूर्वे या त्वं शतसंख्याकेन स्वरुपेण प्रतनोषि अत्यन्तं विस्तारयसि । तथा सहस्रसंख्याकेनाऽकारेण विरोहसि विविधमुत्पद्यसे । हे इष्ठके देवि तस्यास्ते वयं हविषा विधेम परिचरेम ।

[[1944]]

एतन्मन्त्रद्वयसाध्यमुपधानं विधत्ते—
“पशुर्वा एष यदग्निर्न खलु वै पशव आयवसे रमन्ते दुर्वेष्टकामुप दधाति पशूनां धृत्यै” (सं. का. ५ प्र. २ अ. ८) इति।
पशुप्राप्तिहेतुत्वादग्‍नेः पशुत्वम् । ईषदर्थवाच्याङ् । यवसशब्दो घासवाची । अल्पघासे प्रदेशे पशवो नैव रमन्ते । अतः पशूनां धारणाय घासरूपां दूर्वेष्टकामुपद-ध्यात् । तस्याश्च स्वरूपं सूत्रकारेणोक्तं– “सलोष्टं हरित दूर्वास्तम्बमप्रच्छिन्नाग्रम्” इति। मन्त्रद्वयं प्रशंसति—
“द्वाभ्यां प्रतिष्ठित्यै” [सं. का. ५ प्र. २ अ. ८] इति।
प्रथममन्त्रस्य प्रथमपादार्थः प्रसिद्ध इति दर्शयति—
“काण्डात्काण्डात्प्‍ररोहन्तीत्याह काण्डेनकाण्डेन ह्येषां प्रतितिष्ठति” (सं. का. ५ प्र. २ अ. ८) इति।
द्वितीयेऽर्धे सहस्रशब्दतात्पर्यं दर्शयति—
“एवा नो दूर्वे प्र तनु सहस्रेण शतेन चेत्याह साहस्रः प्रजापतिः प्रजापते- राप्‍त्‍यै” (सं. का. ५ प्र. २ अ. ८) इति।
सहस्रसंख्याकप्राण्युत्पादकत्वात्प्‍रजापतेः साहस्रत्वम् ।
कल्पः—“आषाढाऽसीति द्वाभ्यामषाढामुपरिष्टाल्लक्ष्माणम्” इति । उपद ध्यादिति शेषः । तत्र प्रथमामाह—
अषाढाऽसीति । उखानिर्माणकाल एव येयमिष्टका निर्मिता सेयमषाढा । तथा च सूत्रकारेणोक्तम् “य उखां करोति सोऽषाढामेतस्या एव मृदस्तूष्णीं चतुरस्रां त्र्यालिखितामिष्टकाम्” इति । हे इष्टके त्वमषाढा केनाप्यपरिभूता सहमाना विरोधिनः परिभव । ये तु पर्वमरातयो न भवन्तीतः परमरातित्वमिच्छन्ति तानप्यरातीञ्शत्रून्सह-स्व परिभव । अथ द्वितीयमाह—
सहस्व पृतना इति । हे इष्टके पृतना वैरिसेनाः सहस्व परिभव । ये तु पूर्वं सेनारहिता अपि वैरिण इतः । परं सेनामिच्छन्ति तानपि पृतन्यतो वैरिणः सहस्व परिभव । सहस्रसंख्याकं वीर्यं सामर्थ्यं यस्याः सा सहस्रवीर्याऽसि । सातादृशी त्वं मा मां जिन्व प्रीणय ।

[[1945]]

अन्वयव्यतिरेकाभ्यामषाढायाः स्थापनप्रकारविशेषं विधत्ते—
“देवलक्ष्मं वै त्र्यालिखिता तामुत्तरलक्ष्माणं देवा उपादधताधरलक्ष्माणाम-सुरा यं कामयेत वसीयान्‍त्‍स्‍यादित्युत्तरलक्ष्माणं तस्योप दध्याद्वसीयानेव भवति यं कामयेत पापीयान्‍त्‍स्‍यादित्यघरलक्ष्माणं तस्योप दध्यादसुरयोनिमेवैनमनु परा भा वयति पापीयान्भवति” (सं. का. ५ प्र. २ अ. ८) इति।
यस्यामार्द्रायामिष्टकायां त्रिपुण्ड्रवद्रेखात्रयं क्रियते सेयं त्र्यालिखिता । त-त्त्र्यालिखितत्वं देवानां चिह्नम् । ततो देवास्तामषाढामूर्ध्वदेशवर्तिचिह्‍नयुक्तामुपाद-धत । असुरास्‍त्‍वधोदेशवर्तिचिह्‍नयुक्तामुपादधत । तस्माद्देववद्धनसमृद्ध्यर्थमूर्ध्वभावि-चिह्नयुक्तामेवोपदध्यात् । सोऽयमन्वयः । असुरवदधोमुखचिह्‍नयुक्तत्वे सत्येनं यज-मानमसुरजात्यनुसारिणं कृत्वा पराभूतं करोति ।
अथ देवचिह्‍नं विधत्ते—
“त्र्यालिखिता भवतीमे वै लोकाख्यालिखितैभ्य एव लोकेभ्यो भ्रातव्य-मन्तरेति” [सं. का. ५ प्र. २ अ. ८] इति।
तिसृभिरङ्‍गुलिभिरालिखिता त्र्यालिखिता, तथाविधां कुर्यात् । तथा सति त्रित्वसामान्याल्लोकत्रयरूपा भवति । तेन लोकत्रयाद्भातृव्यो निःसारितो भवति ।
कल्पः—“मधु वाता ऋतायत इति तिसृभिर्दध्‍ना मधुमिश्रेण कूर्ममभ्यज्य” इति । तत्र प्रथमामाह—
मधु वाता इति । ऋतं यज्ञमात्मन इच्छतीत्यृतायन्, तस्मै यजमानाय वाता वायवो मधु क्षरन्ति मधुरं रसं स्रवयन्ति । सिन्धवः समुद्राश्च मधुरं रसं स्रावयन्ति । ओषधीरोषधयोऽपि नोऽस्मदर्थं माध्वीर्मधुररसोपेताः सन्तु ।
अथ द्वितीयामाह—
मधु नक्तमुतेति । नक्तं रात्रौ मध्वस्माकमस्तु । उतापि चोषसि प्रभाते मध्वस्तु । तथा यत्षार्थिवं रजस्तत्सर्वं मधुमन्माधुर्यरसोपेतमस्तु । नोऽस्माकं पिता पितृस्थानीया द्यौर्मध्वस्तु मधुररसोपेताऽस्तु । अथ तृतीयामाह—

[[1946]]

मबुमान्न इति । वनस्पतिरश्वत्थादीर्नोऽस्मदर्थं मधुमानस्तु माधुर्यरसोपेतोऽस्तु । सूर्योऽपि मधुमान्संतापराहित्यलक्षणमाधुर्यरसोपेतोऽस्तु । तथा गावो नोस्मदर्थं माध्वीर्म-धुरक्षीरोपेता भवन्तु ।
कल्पः—“मही द्यौः पृथिवी च न इति पुरस्तात्स्वयमातृण्णायाः प्रत्यञ्चं जीवन्तं कूर्मं प्राङ्‍मुख उपदधाति” इति । पाठस्तु—
मही द्यौरिति । मही द्यौर्येयं महती द्यौः पृथिवी च द्यावापृथिवी ते उभे नोऽस्मदी-यमिमं यज्ञं मिमक्षितां फलवृष्ट्या सेक्‍तुमिच्छताम् । भरीमभिर्भरणशक्तिभिर्नोऽस्मन्पितृतां पूरयेताम् । एतन्मन्त्रसाध्यमुपधानं विधत्ते—
अङ्गिरसः सुवर्गं लोकं यतः पुरोडाशः कूर्मो भूत्वाऽनु प्रासर्पद्यात्कूर्ममुपदधाति मथा क्षेत्रविदञ्जसा नयत्येवमेनैवं कूर्मः सुवर्गं लोकमञ्जसा नयति” [सं. का. ५ प्र. २ अ. ८] इति।
अङ्गिरसो महर्षयो यदा स्वर्गं लोकं गतास्तदा ताननु कूर्मोप्यन्वग ( प्यग ) च्छत्। अतः स्वर्गमार्गाभिज्ञः कूर्मः क्षेत्रज्ञ इव सम्यग्नेतुं शक्त इति तमत्रोपदघ्वात् । प्रकारान्तरेण कूर्मापधानं प्रशंसति—
“मेघो वा एष पशूनां यत्कूर्मो यत्कूर्ममुपदधाति स्वमेव मेधं पश्यतः पशव उप तिष्ठन्ते” [सं. का. ५ प्र. २ अ. ८] इति।
योयं कूर्मः स एष पशूनां मेधो यज्ञवत्प्राप्तिहेतुः । अतः कूर्मोपधानेन तं कूर्मं पशवः स्वहेतुभूतयज्ञत्वेन पश्यन्तो यजमानगृहे प्राप्ता भवन्ति ।
उपधेयस्य कूर्मस्य जीवनोपेतत्वगुणं विधत्ते—
“श्मशानं वा एतत्क्रियते यन्मृतानां पशूनाँशीर्पाण्युपधीयन्ते यज्‍जीवन्तंकूर्ममुप-दधाति तेनाश्मशानचिद्वास्तव्यो वा एष यत्कूर्मः” [सं. का. ५ प्र. २ अ. ८] इति।
मृतानां पशूनामश्ववृषभवृष्णिवस्तानां शिरांस्युपधेयानीत्युपरिष्टाद्वाक्ष्यति । तदेत-त्स्थानं श्मशानमेव कृतं भवति । जीवकूर्मोपधानेनायं यजमानोऽश्मशानचिद्भ-

[[1947]]

वति । किंच यः कूर्मोस्ति स एष वास्तव्यो निवासयोग्यः कूर्मपृष्टे भूमेरवस्थितत्वात् । ततोऽपि कूर्मोपधानमित्यर्थः ।
उपधानात्पूर्वमभ्यञ्जनं विधत्ते—
“मधु वाता ऋतायत इति दघ्‍ना मधुमिश्रेणाभ्यनक्ति स्वदयत्येवैनम्” [सं. का. ५ प्र. २ अ. ८] इति।
अभ्यञ्जनेनैनं कूर्मं स्वादू करोति । अभ्यञ्जनसाधनद्रव्यद्वयं प्रशंसति—
“ग्राम्यं वा एतदन्नं यद्दध्यारण्यं मधु यद्दघ्‍ना मधुमिश्रेणाभ्यनक्त्युभयस्यावरुदध्धै” (सं. का. ५ प्र. २ अ. ८) इति।
उभयस्य ग्राम्यस्याऽऽरण्यस्य च भोग्यजातस्य ।
कूर्मापधानमन्त्रे द्योः पृथिवी चेतिशब्दद्वयस्य तात्पर्यं दर्शयति—
मही द्योः पृथिवी च न इत्याहाऽऽभ्यामेवैनमुभयतः परि गृह्‍णाति” [सं. का. ५ प्र. २ अ. ८] इति।
स्वयमातृण्णायाः पूर्वदेशं कूर्मस्य विधत्तेः—
“प्राञ्चमुप दधाति सुवर्गस्य लोकस्य समष्ट्यै” (सं. का. ५ प्र. २ अ. ८) इति ।
प्राञ्चं प्राग्देशवर्तिनम् । स्वर्गलोकोऽपि प्राग्देशवर्ती ।
तस्मिन्प्राग्देशे कूर्मस्य प्रत्यङ्‍मुखत्वं विधत्ते—
पुरस्तात्प्रत्यञ्चमुप दधाति तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुप तिष्ठन्ते” [सं. का. ५ प्र. २ अ. ८] इति।
स्वयमातृण्णायाः पुरस्तादुपधेयः कूर्मस्तं कूर्मं प्रत्यङ्‍मुखमुपदध्यात् । यस्यादेवं तस्मादाहवनीयस्य पुरस्ताद्युपे बद्धाः पशवः प्रत्यङ्‍मुखा यज्ञं सेवन्त ।
यदुक्तं सूत्रकारेण—“प्रादेशभात्रं चतुःस्रवत्यौदुम्बरमुलूखलमुत्तरेऽँस प्रत्युनक्ति सर्वौषधस्य पूरयित्वाऽवहत्य परापूयेदं विष्णुर्वि चक्रम इति मध्येऽग्नेरुप दधाति” इति । तदिदं विधत्ते—

[[1948]]

“यो वा अपनाभिमाग्निं चिनुते यजमानस्य नाभिमनु प्र विशति स एनमी श्वरो हिँ सितोरुलूखलमुप दधात्येषा वा अग्नेर्नाभिः सनाभिमेवाग्निं चिनुतेऽहिँसायै” (सं. का. ५ प्र. २ अ. ८) इति।
नाभिरहितत्वेन चीयमानो ग्‍निर्यजमानस्य नाभिं प्रविश्य हिंसितुं प्रभवति ।
अतो नाभिस्थानीयमुलूखलमुपदध्यात् । तथा सति सनाभित्वेनास्य हिंसा न भवति। उलूखलस्य प्रकृतिद्रव्यं विधत्ते—
“औदुम्बरं भवत्यूर्ग्वा उदुम्बर ऊर्जमेवावा रुन्धे” (सं. का. ५ प्र. २ अ. ८) इति।
देवविशेषं विधत्ते—
“मध्यत उप दधाति मध्यत एवास्मा ऊर्जं दधाति तस्मान्मध्यत ऊर्जां भुञ्जते” (सं. का. ५ प्र. २ अ. ८) इति।
हस्तेनाभिनीयोलूखलस्य प्रादेशपरिमाणं विधत्ते—
“इयद्भवति प्रजापतिना यज्ञमुखेन संमितम्” (सं. का. ५ प्र. २ अ. ८) इति।
उपधानात्पूर्वभाविनं सर्वौषधावधातं विधत्ते—
“अव हन्त्यन्नमेवाकः” (सं. का. ५ प्र. २ अ. ८) इति।
अन्यत्राऽऽम्रातमिदं विष्णुरिति मन्त्रमुलूखलोदधाने विनियुङ्‍क्ते—
“वैष्णव्यर्चोप दधाति विष्णुर्वै यज्ञो वैष्णवा वनस्पतयो यज्ञ एव यज्ञं प्रतिष्ठापयति” [सं. का. ५ प्र. २ अ. ८] इति।
कल्पः “तद्विष्णोः परमं पदमिति मुसलम्” इति । पाठस्तु—
तद्विष्णोः परममिति । सूरयो विद्वांसो वेदान्तपारं गता विष्णोस्तत्परमं पदं सदा पश्यन्ति । कीदृशं, दिव्याकाशे निरावरणे चक्षुरिऽऽवाततं व्याप्तम् । तादृशस्य विष्णोरनु-ग्रहात् । वैष्णववनस्पतिकार्यं मुसलमुपदधातीत्यर्थः । एतन्म न्त्रसाध्यमुसलोपधानविधि-त्वेनापि पूर्वोदाहृतं वैष्णव्यर्चेत्यादिब्राह्मणं योजनीयम्।
कल्पः—“ध्रुवाऽसि पृथिवीति मध्येऽग्नेरुपदधाति” इति । तत्र प्रकृतत्वादुखामित्यनुवर्तते।
पाठस्तु—
ध्रुवाऽसि पृथिवीति । हे पृथिवि पृथिवीकार्यतया तत्स्वरूपे हे उखे त्वं ध्रुवाऽसि पृतन्यतः संग्रामं कर्तुमिच्छतः शत्रून्सहस्वामिभव । देवेभिर्देवैरमृतेन-

[[1949]]

स्यूताऽमृतसमानेन घृतेन पूरिता सत्यागा आगच्छः । एतन्मन्त्रसाध्यमुखोपधानं विधत्ते—
“एषां वा एतल्लोकानां ज्योतिः । संभृतं यदुखा यदुखामुपदधात्येम्य एव लोकेभ्यो ज्योतिरव रुन्धे” [सं. का. ५ प्र. २ अ. ९] इति।
उखारूपं यद्वस्त्वस्ति तदिदमेषां पृथिव्यादीनां लोकानां संबन्धि ज्योतिर्भवति। अतस्तत्संपादनायोखामुपदथ्यात् । देशविशेषं विधत्ते—
“गध्यत उप दधाति मध्यत एवास्मै ज्योतिर्दधाति तस्मान्मध्यतो ज्योतिरुपास्महे” (सं. का. ५ प्र. २ अ. ९) इति।
मध्यत उदरमध्ये जठराग्निरूपं ज्योतिरुपास्महे प्रतिदिनमनुभवामः।
उपधेयाया उखायाः सिकतापूरणं विधत्ते—
“सिकताभिः पूरयत्येतद्वा अग्नेर्वैश्वानस्य रूपँ रूपेणैव वैश्वानरमव रुन्धे” [सं. का. ५ प्र. २ अ. ९] इति।
अन्वयव्यतिरेकाभ्यां पुरणं प्रशंसति—
“यं कामयेत शोधकः स्यादित्यूनां तस्योप दध्यात्क्षोधुक एव एवति यं कामयेता-नुपदस्यदन्नमद्यादिति पूर्णां तस्योप दध्यादनुपदस्यदेवान्नमसि” (सं. का. ५ प्र. २ अ. ९) इति।
सिकताभिः पूरिताया ईषन्न्यूनाया उखाया उपधाने सति क्षोघुकोऽन्नरहितः क्षुधाशीलो भवति । सोऽयं व्यतिरेकः । सिकतापूर्णाया उपधाने त्वनुपदस्यदेवाक्षीय-माणमेवान्नमत्ति । सोऽयमन्वयः ।
कल्पः—“प्रबाहुगिष्टकायां हिरण्यशकलावध्यू (ध्यु) ह्य यास्ते अग्ने रुच इति द्वाभ्यां वामभृतम” इति । तत्र प्रथमामाह—
यास्ते अग्न इति । हेऽग्‍ने सूर्ये सूर्यमण्डल उद्यत उदयं गच्छतस्ते तव रुचो दीप्तयो रश्मिभी रश्मिस्वरूपेण दिवमातन्वन्ति सर्वतो व्याप्‍नुवन्ति । रात्रौ या अग्नेदीप्तयस्या एव सूर्योदयकाले सूर्यरश्मयो भवन्ति । एतच्‍चाग्निहोत्रब्राह्मणे

[[1950]]

समाम्‍नातम्—“उद्यन्तं वावाऽऽदित्यमग्‍निरनुसमाराहति” इति । ताभिः सर्वाभिर्दीप्तिभिर्नो-ऽस्मदीयाय जनाय यजमानाय प्रकाशं कुरु । अथ द्वितीयामाह—
या वो देवा इति । हे देवा वो युष्माकं संबन्धिन्यः सूर्यमण्डले वर्तमाना या रुचो दीप्‍तयः सन्ति । तथा गोष्वश्वेषु च या दीप्‍तयः सन्ति । हे इद्राग्‍नी हे बृहस्पते त्रयोऽपि यूयं ( ताभिः सर्वाभिः ) नोऽस्मदर्थं रुचं धत्त प्रकाशं संपादयत । एतन्मन्त्रसाध्यं वामभृ-दाख्याया इष्टकाया उपधानमौपानुवाक्यकाण्डे द्रष्टव्यम् ।
कल्पः—“विराडज्योतिरिति तिस्रो रेतःसिचः” इति । पाठस्तु—
वराड्ज्योतिरिति । विशेषेण राजत इति विराट्, एवंविधा रेतःसिगाख्या प्रथमेष्टकाऽस्मदनुग्रहार्थे ज्योतिरधारयत् । सम्यग्राजत इति सम्राट्, तादृशी द्वितीया रेतःसिगिष्टका । स्वयमेय राजा इति स्वराट्, तादृशी तृतीया रेतःसिगिष्टका ।
कल्पः “अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमानिति द्वाभ्यामुखायाहुत्वा” इति। तत्र प्रथममाह—
अग्ने युक्ष्वेति । हेऽग्ने देव तव संबन्धिनो येऽश्वासो ये केचिदश्‍वाः साधवो दान्ताः स त आशवः शीघ्रगामिनो[णो] भूत्वा रमलं वहन्ति सुष्टु वहन्तीत्यर्थः । तानश्‍वान्युक्ष्व योजय । अथ द्वितीयामाह—
युक्ष्वा हीति । हेऽग्‍ने त्वं देवहूतमान्देवानामदिशयेनाऽऽह्‍वातॄन्युक्ष्व योजय । हिशब्दः प्रसिद्धार्थवाची । प्रसिद्धेऽस्मिकर्मणीत्यर्थः । योजने दृष्टान्तः रथीर श्‍वानिवेति । रथस्वामी यथाऽश्‍वान्योजति तद्वत् । किंच त्वं पूर्वाः षुरातनो होता होमोत्पादको भूत्वा निषदोऽस्मिन्यागस्थाने निषीद । वामभृन्मन्त्रयोरिव रेतःसि ङ्मन्त्राणां होममन्त्रपोश्च ब्राह्मणमौपानुवाक्यकाण्डे द्रष्टव्यम् ।
कल्पः— “षुरुषशिरसि हिरण्यशल्कान्प्रत्यस्यति द्रप्सश्चस्कन्देत्यास्येऽभूदिदं विश्‍वस्य भुवनस्येति वर्चे त्वेति दक्षिणेऽक्षिणोलके रुचे त्वेवि सब्ये द्युते त्वेति कर्णयो-र्भासे त्वेति दक्षिणस्यां नासिकायां ज्योतिषे त्वेत्युत्तरस्याम्” इति ।
उदाहृतेपु मन्त्रेषु प्रथमामृचमाह—

[[1951]]

द्रप्सश्चस्कन्देति । द्रव्यान्तरसंघट्टनेन स्फुटितो हिरण्यशल्को द्रप्सः । पृथिवीमधु चस्कन्द पृथिव्यां पतित इत्यर्थः । स च द्रप्सो हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽ-न्तरिक्षलोके भूलोके च । तदतदभिप्रेत्य स्मर्यते—
“अग्‍नौ प्रास्ताऽऽडुतिः सम्यगादित्यमुपतिष्ठते ।
आदित्याज्‍जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” ।। इति ।
सोऽयमर्थो द्यामित्यादिनाऽभिधीयते। द्यामिमं च योनिमनु अन्तरिक्षरूपमिदं स्थानमनु संचरीत। यश्व पूर्वः, योऽपि पृथिवीमनु चस्कन्देति पूर्वोक्तस्थान विशेषस्त-मप्यनु संचरति। तृतीयं योनिं द्युलोकरुपमादित्यस्थानमनु संचरति। तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होम इति तदुच्येत – अनु सप्त होत्रा इति। यस्यां दिशि द्रप्सः पतितस्तद्ब्यतिरिक्ता होमयोग्याः सप्त दिशो याः सन्ति तासु अनुक्रमेण जुहोमि। यथाऽयं द्रप्सो हुत आदित्यादिस्थानत्रयेषु संचरन्नुपकरोति तथा बावयमत्यर्थः। अथ विकल्पितां द्वितीयामृचमाह—
अभूदिदमिति। इदं हिरण्यं विश्वस्व भुवनस्य भूतजातस्य वाजिनमन्नमभूत्। तथा वैश्वानरस्य च षिस्वेषां नराणां स्वामिनोऽग्नेश्वान्नमभूत्। अयमग्निर्हिरण्येन ज्योतिषा स्वयं ज्योतिष्मानभूत्। तथा रुक्मो रोचमानोऽग्निर्वर्चसा हिरण्यकान्त्या वर्चस्वामस्वयमपि कान्तिमानभूत। अत्र बाह्यप्रभा ज्योतिः। शरीरर्गतकांन्तिर्वर्च इति।
ऋचे त्वेति। ऋचे त्वा रुचे त्वेति यजुर्द्वयम्। हे हिरण्यशकल येयमृकस्स्तो-त्ररूपा तदर्थे त्वां दक्षिणाक्षिगोलके प्रत्यस्यामि। तथा हे हिरण्यशकल याऽसौरुग्दी-प्तिस्तदर्थं त्वां वामाक्षिगोलके प्रत्यस्यामि।
एसैर्मन्त्रैर्यस्यावयवेषु हिरण्यशकलानि प्रत्यस्याते तस्य पुरुषशीर्षस्योपधानं षिधत्ते—
“सहस्रं वै प्रति पुरुषः पशूनां यच्छति सहस्रमन्ये पशवो मध्ये पुरुषशीर्षमुप दधाति सवीर्यत्वाय” [सं. का. ५ प्र. २ अ. ९] इति।

[[1952]]

अत्र हि पुरुषशीर्षाश्वर्षभवृष्णि स्तानां शिरांस्युपधेयानि । तेषां मध्ये यः पुरुषः स एक एव पशूनां सहस्रं यजमानाय प्रयच्छति । अन्ये त्वश्वर्षभवृष्णिवस्ताश्चत्वारः पशवो मिलित्वा पशूनां सहस्रं प्रयच्छन्ति । तथा सत्यश्वादिभ्यः पुरुषस्यातिप्रशस्तत्वा-त्तदीयं शिरो मध्य उपदध्यात् । तच्‍चोषधानं वीर्यसाहित्याय संपद्यते । तस्य षुरुषशी-र्षस्योखासमीपदेशं विधत्ते—
“उखायामपि दधाति प्रतिष्ठामेवैनद्वमयति” (सं. का. ५ प्र. २ अ. ९) इति। उखायामुखासमीपे ।
तस्य पुरुषशीर्षस्याऽऽस्यादिच्छिद्रेषु हिरण्यशकलप्रक्षेपं विधत्ते—
“व्यृद्धं वा एतत्प्राणैरमेध्यं यत्पुरुषशीर्षममृतं खलु वै प्राणा अमृतँ हिरण्यं प्राणेषु हिरण्यशल्कान्प्रत्यस्यति प्रतिष्ठामवैनद्वमयित्वा प्राणैः समर्धयति” (सं. का. ५ प्र. २ अ. ९) इति।
तदेतत्पुरषस्य शिरः प्राणैर्वियुक्तत्वाद्यज्ञानर्हं, प्राणास्तु मरणहीनत्वादमृतमि-त्युच्यन्ते । लोके हि प्राणवियोगे सति शरीरस्यैव मरणं न तु प्राणानाम् । हिरण्यं चाग्‍निसंयोगे सति विनाशाभावादमृतम् । अतः प्राणसंचारस्थानेष्वास्यादिषु हिरण्य-शकलान्प्रक्षिपेत् । तथा सत्युखायां प्रतिष्ठापितं शिरः प्राणैः समृद्धं भवति ।
कल्पः—“समित्स्रवन्तीति शतातङ्क्यनां दघ्‍न मधुमिश्रेण परुषशिरः पूरयति” इति । पाठस्तु—
समित्स्रवन्तीति । धेनाः पानयोग्या दधिमध्ववयवाः समित्स्रावन्ति सम्यक्प्र-वहन्त्येव । तत्र दृष्टान्तः- सरितो न सरित इव, यथा नद्यः प्रवहन्ति तद्वत् । ते चान्तः शरीस्याभ्यन्तरे हृदा मनसा हृदयपुण्डरीकवार्तिनाऽन्तःकरेणन पूयमानाः शोध्यमाना दधिमध्ववयवा घृतस्य धाराः संपद्यन्ते । ताश्च बारा अभिचाकशीमि अभितः प्रकाश-यमि । अनुभवामीत्मर्थः । आसां घृतधारणां मध्ये हिरण्मयः सुवर्णमय इव तेजोरूपः पुरुषस्य मूर्धा वेतसो जलप्रवाहमध्यगतवेतसवृक्ष इवाव भासते । एतन्मन्त्रसाध्यं पूरणं विधत्ते—
“दघ्‍ना मधुमिश्रेण पूरयति मधव्योऽसानीति” [सं. का. ५ प्र. २ अ. ९] इति।

[[1953]]

अहं मधव्योऽसानि मधुररसभोगयोग्यो भवानीत्यनेनाभिपायेणैतत्पुरुषशिरो मधुयुक्तेन दघ्‍ना पूरयेत् । तस्य दघ्‍नो गुणविशेषं विधत्ते—
“शृतातङ्क्येन मेध्यत्वाय” (सं. का. ५ प्र. २ अ. ९) इति।
द्विविधं दधि, तत्रैकं रजतप्रक्षेपादिना स्वयमेव घनी भवति, अन्यत्तु पक्‍व क्षीरादातञ्चनेन निप्पद्यते । तत्र क्षीरातञ्चनाभ्यां निष्पन्नं यागयोग्यम् । तस्मात्तादृशेनैव पूरयेत् । तदिदं दधिमधुद्वयं प्रशंसति—
“ग्राभ्यं वा एतदन्नं यद्दध्यारण्यं मधु यद्दघ्‍ना मधुमिश्रेण पूरयत्युभयस्यावरुध्यै” (सं. का. ५ प्र. २ अ. ९) इति।
कल्पः—“तस्मिन्त्सुपर्णो मधुत्कुलायीति पुरुषशिर आदाय” इति ।
पाठस्तु—
तस्मिन्त्सुपर्ण इति । तस्मिन्वेतसस्थानीये पुरुषशिरसि मधुकृत्कश्विन्मधुकर आस्ते। कीदृशः, रुपर्णः शोभनपक्षोपेतः। कुलायी कुलायो मधुकराणां निवासस्थानं सोऽस्यास्तीति कुलायी। किं कुर्वन्, देवताभ्यो देवतार्थं मधु भजन्संपादयन। तस्य पुरुषशिरसस्तीरे समीपे हरयो मधुहरणशीलाः सप्तच्छिद्रवर्तीत्वेन सप्तसंख्याका मधुकरा आसते। किं कुर्वन्तः, स्वधां स्वधाकारोपलक्षितभोग्यवस्तुरुपाममृतस्य मधुनो धारां दुहानाः शावयन्तस्ते। पुरुषशिरसि प्राणसमृद्धिसंपादनाय हिरण्यशकलपक्षेपः पूर्वंमभिहितः। प्राणेष समृद्धेषु सत्सु चेतनं जीवात्मानमासाद्य मधुकररूपत्वं संपाद्य तेन पुरुषशिरः प्रशस्यते। मथा लोके मधुकरः कास्मिंश्विद्वृक्षे स्वनिवासाय कुलायं कृत्वा मधु संदापयति, तत्र मध्वर्थं यदपा, (प) रं कुलायं कृतं तस्य च्छिद्ररुपासु नाडीषु क्षुद्रा मधुकराः स्वस्वशक्त्यनुसारेण मधू संपादयन्तो वर्तन्ते तद्वत्। तदेतत्सर्वत्र रूपककल्पनया संपादितम्। इत्थं प्रशस्तमिदं पुरुषशिरोऽनेन मन्त्रेण स्वी कुर्यात्। यत्पूर्वं विहितं पुरुषशीर्षमुपदधातीति तदेतदुपधानं कर्तुमिदं पुरुषशीर्षादानं द्रष्टव्यम् अत्र विनियोगसंग्रहः—

[[1954]]

ध्रुवेति स्वयमातृण्णां स्पृशेत्प्रेति दधाति ताम्।
काण्डाद्दूर्वेष्टकां द्वाभ्यामषाढां मधु बा त्रिभि।।
अनक्ति मधुमित्रेण दघ्ना कूर्मं महीत्वतः।
कूर्मं दधाति तद्विष्णोर्मुसलं हि घ्रुवेत्युखाम्।।
यास्ते वामभृतं द्वाभ्यां विराड्रेतःसिचस्त्रिभिः।
अग्ने द्वाभ्यामुखाहोमो द्रप्सः पुरुशशीर्षके ।।
आस्ये स्वर्णं क्षिपेत्तत्र मन्त्रोऽभूरिति वा भवेत्।
ऋचे रुचेद्वयादक्ष्णोः सुवर्णशकले क्षिपेत्।।
समिद्दघ्ना च मधुना परयेन्नरशीर्पकम्।
तस्मिंस्तच्छिर आदत्ते पञ्चविंशतिरीरिताः।।

अत्र मीमांसा।
तृतीयाध्प्रयास्याष्टमे पादे द्वितीयाधिकरणे चिन्तितम्—
इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः।
स्वामिनः पूर्ववन्नैवमध्वर्योर्वचनादिदम्।।

य एतमिष्टकामुपदध्यात्स त्रीन्वरान्दद्यात् ” इत्यत्राध्वर्योर्गोत्रयदानं वा चनिकम्। नह्यति वचनस्यातिभारः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
नवमोऽनुवाकः ।। ९ ।।