०८

(अथ चतुर्थाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)।

अ॒भ्य॑स्था॒द्विश्वाः॒ पृता॑ना॒ अरा॑ती॒स्तदग्नि॒-
रा॑ह॒ तदु॒ सोम॑ आह । बृ॒हस्पतिः॑ सवि॒ता
तन्म॑ आह पू॒षा मा॑ऽधात्सुकृ॒तस्य॑ लो॒के ।
यदक्र॑न्द प्रथ॒मं जायमान उ॒द्यन्त्समु॒द्रादु॒त
वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू
उप॑स्तुतं॒ जनि॑म॒ तत्ते॑ अर्वन् । अ॒पां पृ॒ष्ठ-
म॑सि॒ योनि॑र॒ग्नेः स॑मुद्रम॒भितः॒ पिन्व॑मानम् ।
वर्ध॑मानं म॒हः [ १ ] आ च॒ पुष्क॑रं दि॒वो
मात्र॑या वरि॒णा प्र॑थस्व । ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं
पुरस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः । स
बु॒घ्‍निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्‍च यो-
नि॒मस॑तश्‍च॒ विवः॑ । हि॒स्ण्य॒ग॒र्भः सम॑वर्त॒-
ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् । स
दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒-
विषा॑ विधेम । द्रप्सश्‍च॑स्कन्द पृथि॒वीमनु॑
[ २ ] द्यामि॒मं च॒ योनि॒मनु॒ यश्‍च॒ पूर्वः॑ ।
तृ॒तीयं॒ योनि॒मनु॑ सं॒चरन्तं द्र॒प्सं जुहो॒म्यनु॑

[[1930]]

स॒प्‍त होत्राः॑ । नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑
पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑
स॒र्पेभ्यो॒ नमः॑ । ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒
सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑
स॒र्पेभ्यो॒ नमः॑ । या इष॑वो यातु॒धाना॑नां॒ ये
वा॒ वन॒स्पतीँ॒रनु॑ । ये वा॑ऽव॒टेषु॒ शेर॑ते तेभ्यः॑
सर्पेभ्यो नमः॑ ( ३ ) ।।
(म॒होऽनु॑ यातु॒धाना॑ना॒मेका॑दश च)।
अथ कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टऽके
द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

(अथ चतुर्थकाण्डे द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)।
सप्तमे लोष्टसमसनादिकमुक्तम् । अथाष्टमे रुक्माद्युपधानं वक्तव्यम् । तत्राऽऽदौ तावदश्वाक्रमणमुच्यते ।
कल्पः—“प्राञ्‍चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदा दर्भस्तम्बमाक्रमय्य” इति। पाठस्तु—
अभ्यस्थाद्विश्वा इति । अयमश्वो विश्वाः सर्वाः पृतना: प्रतिपक्षसेना अरा-तीर्दातव्यस्यादातृरूपा । अभ्यस्थात्पादेनाभिऋम्य तिष्ठतु । तदभिऋमणमग्निराहा नुमो-दताम् । सोमोऽपि तदाह तदनुमोदताम् । बृहस्पतिर्मे मदर्थे तदाह तदनुमन्यताम् । तथा सविताऽपि तदनुमन्यताम् । पूषा सुकृतस्य लोके फलभूते स्वर्गे माऽधान्मां स्थापयतु ।
कल्पः—“प्रदक्षिणमावर्तयित्वा(र्त्य) यदक्रन्द इति पुनरेवाऽऽक्रमयति” इति। पाठस्तु—

[[1931]]

यदक्रन्दः प्रथममिति । हेऽर्वन्यद्यस्मात्कारणाज्‍जायमान उत्पद्यमान एव प्रथममादावक्रन्दः क्रन्दितवानसि अहो अग्न्यादीनामहं साधनमिति महान्तं शब्दम-करोस्तत्तस्मात्कारणाज्‍जनिमोपस्तुतं ते तव जन्म समीचनिमिति सर्वैरपि स्तुतमासीत्। जायमानत्वमेव विशदी क्रियते । समुद्रादुद्यन्समुद्रोपलक्षितादुदकात्त्वमुत्पद्यमानः, “अप्सु योनिर्वा अश्वः” इति श्रुतेः । उत वा पुरीषात्पुरुषात्पुंस्त्वशक्तिसंपन्नान्महतोऽ-श्वादुत्पाद्यमानः । जन्मन उपस्तुतत्वे दृष्टान्तोऽयमुच्यते श्येनस्य पक्षा हरिणस्य बाहू । उपस्तुतशब्दोऽत्राध्याहर्तव्यः । यथा श्येनाख्यस्य पक्षिणः पक्षौ शीघ्‍रोत्पतनहेतुत्वात्स-र्वैरुपस्तुतौ, यथा वा हरिणस्य मृगस्य बाहू पादौ शीघ्‍रगमनहेतुत्वादुपस्तुतौ तद्वदि-त्यर्थः।
उक्तमन्त्रसाध्यमश्वाकमणं विधत्ते—
“शंयुं बार्हस्पत्यं मेधो नोपानमत्सोऽग्निं प्राविशत्सोऽग्नेः कृष्णो रूपं कृत्वोदायत सोऽश्वं प्राविशत्सोऽश्वस्यावान्तरशफोऽभवद्यदश्वमाक्रमयति य एव मेधोऽश्वं प्राविशत्तमेवाव रुन्धे” (सं. का. ५ प्र. २ अ. ६) इति।
पुरा कदाचिच्छंयुनामानं बृहस्पतिपुत्रं केनापि निमित्तेन मेधो यज्ञपुरुषो न प्राप्‍तवान् । स पुनः शंयुनाऽन्विष्यमाणोऽन्तर्धानादग्‍निं प्राविशत् । तत्राप्यन्वेषणाय शंयावागते सति स यज्ञः कृष्णमृगो भूत्वा तदीयं रूपं साकल्येन कृत्वाऽग्नेः सकाशा-दुदायतोदगच्छत् । उद्गत्य च सोऽश्वं प्राविशत् । प्रविश्य चाश्वसंबन्धिनः प्रौढशफस्य मध्ये योऽयमवान्तरशफस्तद्रूपोऽभवत् । अतोऽश्वमाक्रमयेत् । तथा सति यो यज्ञोऽश्वं प्राविशत्तमेव प्राप्नोति ।
प्रकारान्तरेणाऽऽक्रमणं प्रशंसति—
“प्रजापतिनाऽग्निश्चेतव्य इत्याहुः प्राजापत्योऽश्वो यदश्वमाक्रमयति प्रजाप-तिनैवाग्निं चिनुते” [सं. का. ५ प्र. २ अ. ६] इति।
अयमग्निः प्रजापतिना चेतुं योग्य इत्यभिज्ञा आहुः । अश्वस्य प्राजापत्यत्वा-त्तदाक्रमणे सति प्रजापतिनैव चितो भवति ।
कल्पः—“अपां पृष्ठमसीत्यश्वस्य पदे पुष्करपर्णमुत्तानमुपधाय” इति।

[[1932]]

पाठस्तु—
अपां पृष्ठमसीति । हे पुष्करपर्ण त्वमपां पृष्ठमसि पृष्ठवदुपरिभागवर्त्यसि । तथाऽग्‍नेर्योनिरसि । “त्वामग्‍ने पुष्करादध्यथर्वा निरमन्थत” इति मन्त्रवर्णात्। तथा समुद्रमभितः पिन्वमानं समुद्रसमानस्य तटाकजलस्य प्रीतिकरं, वर्धमानमप्सूत्पद्य दिने दिने वृद्धियुक्तं, महो निर्लेपत्वाद्युक्त्या पूजनीयं, पुष्करमग्‍निनिष्पाद नद्वारा पुष्टिकरम्। तादृशं त्वं मात्रया परिमाणेन दिवो वरिणाऽऽकाशादप्याधिक्योनाऽऽसमन्तात्प्रथस्व विस्तृतं भव ।
अनेन मन्त्रेण साध्यं पद्मपत्रोपधानं विधत्ते—
“पुष्करपर्णमुप दधाति योनिर्वा अग्नेः पुष्करपर्णँ सयोनिमेवाग्‍निं चिनुते” [सं. का. ५ प्र. २ अ. ६] इति। तत्र मन्त्रं विनियुङ्‍क्ते—
“अपां पृष्ठमसीत्युप दधात्यपां वा एतत्पृष्ठं यत्पुष्करपर्णँ रूपेणैबैनदुप-दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
रूपेणैव विद्यमानार्थवाचित्वादनुरूपेणैव मन्त्रेणैतत्पुष्करपर्णमुपहितवान्भ-वति ।
कल्पः—ब्रह्म जज्ञानमिति पुष्करपर्ण उपरिष्टान्निर्बाधं रुक्ममुपधाय” इति।
पाठस्तु—
ब्रह्म जज्ञानमिति । प्रथमं जज्ञानमादावुत्पन्नमिदं रुक्मस्वरूपं ब्रह्म परिवृढ-मत्यन्तं महदित्यर्थः । तस्य रुक्मस्य दृष्टान्तत्वेन सूर्यः प्रपञ्च्यते—पुरस्तात्पूर्वस्यां दिश्यवस्थितो वेनः कमनीयः सूर्यः सीमतः सर्वस्यां सीम्‍नि सुरुचः शोभरश्मीन्विशेषे-णाऽऽवरावृणोत् । अस्य रुक्मस्योपमानभूता विष्ठा विशेषेणावस्थिता वुध्‍निया बुघ्‍ने मूले पृथिवीरूपे भवाः पदार्थाः । तानपि स वेनो विवर्विवृतवान्प्रकाशितवानित्यर्थः । सतश्च विद्यमानस्य घटपटादेर्योनिं कारणं मृदादिरूपम सतश्चाविद्यमानस्य नरविषाण-देः कारणं मनुष्यमूर्धादिकमपि विवृतवान् तथावि धेन सूर्येण सदृशोऽयं रुक्मः प्रकाशत इति तात्पर्यार्थः । तमिमं मन्त्रं विनियुङ्‍क्ते—

[[1933]]

“ब्रह्म जज्ञानमिति रुक्ममुप दधाति ब्रह्ममुखा वै प्रजापतिः प्रजा असृजत ब्रह्ममुखा एव तत्प्रजा यजमानः सृजते” (सं. का. ५ प्र. २ अ. ७) इति।
ब्रह्म ब्राह्मणजातिर्मुखमुपक्रमो यासां प्रजानां ता ब्रह्ममुखाः।
अस्मिमन्त्रे ब्रह्मपदाभिधेयस्य प्रथमोत्पत्तिवर्णने तात्पर्यं दर्शयति—
“ब्रह्म जज्ञानमित्याह तस्माद्‍ब्राह्मणो मुख्यः” (सं. का. ५ प्र. २ अ. ७) इति।
यस्मात्क्षत्त्रियादेर्जन्मप्राथम्यमनुपन्यस्य ब्रह्मशब्दार्थस्यैव प्रथमजन्मोपन्यस्यते तस्माल्लोकेऽपि ब्रह्मशब्दार्थो ब्राह्मण एव मुख्यः । एतद्वेदनं प्रशंसति—
मुख्यो भवति य एवं वेद” (सं. का. ५ प्र. २ अ. ७) इति।
रुक्मोपधानं प्रशसति—
“ब्रह्मवादिनो वदन्ति न पृथिव्यां नान्तरिक्षे न दिव्यग्निश्चेतव्य इति यत्पृ-थिव्यां चिन्वीत पृथिवीँ शुचाऽर्पयेद्धौषधयो न वनस्पतयः प्र जायेरन्यदन्तरिक्षे चिन्वीतान्तरिक्षँ शुचाऽर्पयेन्न वयाँसि प्र जायेरन्यद्दिवि चिन्वीत दिवँ शुचाऽर्पयेन्न पर्जन्यो वर्षेद्रुक्ममुप दधात्यमृतं वै हिरण्यममृत एवाग्निं चिनुते प्रजात्यै” [सं. का. ५ प्र. २ अ. ७] इति।
शुचाऽर्पयेत्संतापेन योजयेत् । तस्मिन्संतापे सति लोकत्रये दोषास्तद्व्या-वृत्तये वह्‍नेराधारत्वेन रुक्ममुपदध्यात् । हिरण्यस्याग्निसंपर्केऽपि विनाशाभावात्तस्मि-न्नमृते हिरण्येऽग्निं चितवान्भवति । अयमेव रुक्मोपधानविधिरिति यदि स्वीक्रियेत तदानीमेतदनुवादेन पूर्वो मन्त्रमात्रविधिः । यदि तु स एव विशिष्टविधिस्तदानीमर्थवाद-संबन्धाय स एवानूद्यात इति द्रष्टव्यम् ।
कल्पः—“हिरण्यगर्भः समवर्तताग्र इति तस्मिन्हिरण्मयं पुरुषं प्राचीनमुत्तानं दक्षिणेनाऽऽतृण्णं प्राङ्‍मुखे उपधाय” इति। पाठस्तु—
हिरण्यगर्भ इति । हिरण्ये ब्रह्माण्डरुपे गर्भरूपेणावस्थितः प्रजापतिर्हिरण्य-गर्भः । स च भूतस्य प्राणिजातस्याग्रे समवर्तत प्राणिजातेत्पत्तेः पूर्वं स्वयं

[[1934]]

शरीरधारी बभूव । स च जात उत्पन्नमात्र एक एवोत्पत्स्यमानस्य सर्वस्य जगतः पतिरासीत् । अत एव पृथिवीं द्यां विस्तीर्णां दिवं दाधार धृतवान् । उतापि चेमां भूमिं दाधार। तादृशाय कस्मै प्रजापतिदेवाय हविषा विधेय परिचरेम ।
एतन्मन्त्रसाध्यं हिरण्यपुरुषोपधानं विधत्ते—
“हिरण्मयं पुरुषमुप दधाति यजमानलोकस्य विधृत्यै” (सं. का. ५ प्र. २ अ. ७) इति।
यजमानलोकस्य, लोकः स्थानं तस्य धारणमनेनोपधानेन भवति । देशवि-शेषं विधत्ते—
“यदिष्टकाया आतृण्णमनुपध्यात्पशूनां च यजमानस्य च प्राणमपि दध्याद्द-क्षिणतः प्राञ्चमुप दधाति दाधार यजमानलोकं न पशूनां च यजमानस्य च प्राणमपि दधात्यथो खल्विष्टकाया आतृण्णमनूप दधाति प्राणानामुत्सृष्ट्यै” (सं. का. ५ प्र. २ अ. ७) इति।
इष्टका रुक्मरूपा तस्या आतृण्णं गलबन्धनसूत्रार्थ छिद्रं, यदि तच्छिद्रमनु-पदध्यात, अस्य च्छिद्रस्य पिधानेन पशूनां यजमानस्य च प्राणः पिहितो भवेत्, प्राणसं-चारीच्छद्रस्य पिहितत्वेन श्वासो न निर्गच्छेदित्यर्थः। तस्मात्तद्दोषपरिहाराय पश्चिमदि-ग्भागे तच्छिद्रमुपेक्ष्य रुक्मरूपाया इष्टकाया दक्षिणस्यां दिशि प्राक्शिरसं पुरुषमवस्था-पयेत्। एवं च सत्याहवनीयस्य दक्षिणदेशरूपो यो यजमानस्य लोकः स विधृतो भवति। तच्छिद्रस्यानावृतत्वाद्यजमानस्य पशूनां च प्राणोऽप्यनावृत्तो भवति। अथो खल्विति पक्षान्तरोपन्यासः। रुक्मरूपाया इष्टकायाश्छिद्रमनूपलक्ष्यैव पुरुषमुदपध्यात्। सति हि च्छिद्रे प्राणानामुत्सर्गः संचारो भवति ।
कल्पः—“द्रप्सश्चस्कन्दोति पुरुषपभिमृश्य” इति। पाठस्तु—
द्रप्सश्‍चस्कन्देति । द्रव्यान्तरसंघट्टनेन स्फुटितो हिरण्मयपुरुषस्यावयवलेशो द्रप्सः। स च पृथिवीमनु चस्कन्द पृथिव्यां पतित इत्यर्थः । स च द्रप्सो

[[1935]]

हुतः सन्स्थानत्रयेऽनुसंचरति द्युलोकेऽन्तरिक्षलोके भूलोके च । तदेतदभिप्रेत्य स्मर्यते—
अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठति (ते)।
आदित्याज्‍जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।। इति।
सोऽयमर्थो द्यामित्यादिनाऽभिधीयते । द्यामिमं च योनिमनु अन्तरिक्षरूपा-मिमं स्थानमनुसंचरति । यश्च पूर्वो यो हि पृथिवीमनु चस्कन्देति पूर्वोक्तः स्थानविशेष-स्तमप्यनुसंचरति । तृतीयं योनिं द्यलोकरूपमादित्यस्थानमनुसंचरति, तमिमं त्रिषु स्थानेष्वनुसंचरन्तं द्रप्सं जुहोमि मनसा हुतमिव भावयामि। कुत्र होमइति तदुच्यते-सम होत्रा इति । यस्यां दिशि द्रप्सः पतितस्तद्व्यातिरिक्ता होम योग्यां याः स दिशः सन्ति तासामनुक्रमेण जुहोमि । यथाऽयं द्रप्सो हुत आदित्यादिस्थानत्रयेषु संचरन्‍नुपकरोति तथा भावयामित्यर्थः ।
तमिमं मन्त्रं विनियुङ्‍क्ते—
“द्रप्सश्चस्कन्देत्यभि मृशति होत्रास्यैवैनं प्रति ष्ठापयति” (सं. का. ५ प्र. २ अ. ७) इति।
होत्रासु होतृमैत्रावरुणादिषु सप्तसु, अथवा द्रप्सस्कन्दनदिग्व्यतिरिक्तासु होमयोग्यासु सप्तसु दिक्षु ।
कल्पः—“नमो अस्तु सर्पेभ्य इति तिसृभिरभिमन्त्र्य” इति । तत्र प्रथमा-माह—
नमो अस्तु सर्पेभ्य इति । ये केचित्सर्पाः पृथिवीमनुगतास्तेभ्यः सर्पेभ्यो नमोऽस्तु । अन्तरिक्षे यक्षगन्धर्वादिलोके वर्तमाना ये सर्पा ये च दिवि द्युलोके वर्त-माना राहुप्रभृतयस्तभ्येः सर्पेभ्यो नमोऽस्तु । अथ द्वितीयामाह—
येऽदो रोचन इति । दिविऽन्तरिक्षस्य रोचने भासकेऽदोऽमुष्मिन्सूर्यस्य मण्डले मे सर्पा वसन्ति, ये चान्ये सूर्यस्य रश्मिष्वस्माभिरद्दश्यमाना वर्तन्ते, येषामन्ये-षां सर्पाणामप्स जलमध्ये सदः स्थानं कृतं, तेभ्यः सर्पेभ्यः कृत्स्नेभ्यो न मोऽस्तु । अथ तृतीयामाह—
या इषव इति । याः सर्पजातयो यातुधानानां रक्षसामिषवो बाणरूपा

[[1936]]

वर्तन्ते, ये चान्ये वनस्पतींश्चन्दनादिवृक्षाननुवेष्ट्यावस्थिताः, ये चान्येऽवटेषु बिलेषु शेरते, तेभ्यः सर्पेभ्यो नमोऽस्तु । एते मन्त्राः स्पष्टार्थत्वेन ब्राह्मण उपेक्षिताः । यथा पुष्करपर्णरुक्महिरण्मयपुरुषोखाना(णा) ममृन्मयेष्टकानामुपधानं विहितं तथैव सुचोर-मृन्मयेष्टकयोरुपधानं विधत्ते—
“स्रुचावुप दधाति” (सं. का. ५ प्र. २ अ. ७) इति।
तयोः स्रुचोर्विशेषणं दर्शयति—
“आज्यस्य पूर्णं कार्ष्मर्यमनीं दघ्‍नः पूर्णामौदुम्बरीम्” (सं. का. ५ प्र. २ अ. ७) इति।
श्रीपर्णाख्यो वृक्षविशेषः कार्ष्मर्यस्तेन निर्मिता काचित्स्रुक्कार्ष्मर्यंमयी, साचाऽऽज्येन पूर्णा। उदुम्बरेण निर्मिता काचित्, सा च दध्‍ना पूर्णा । एतद्गुणविशि-ष्टयोः स्रुचोरुपधानस्य विधानान्न वाक्यभेदः शङ्‍कनीयः ।
ते च विशिष्टे स्रुचौ लोकद्वयरूपेण प्रशंसति—
“इयं वै कार्ष्मर्यमय्यसावौदुम्बरीमे एवोप धत्ते” (सं. का. ५ प्र. २ अ. ७) इति।
इष्टकान्तरोपधानवत्सपन्त्रत्वस्य शङ्‍का लौकिकवाक्यं वा निवारयितुं विधत्ते—
तूष्णीमुप दधाति न हीमे यजुषाऽऽप्तुमर्हति” [सं. का. ५ प्र. २ अ. ७] इति।
यस्मादाम्‍नातो मन्त्रो नास्ति तस्माद्यजुषा मन्त्रेणैते उपधातुं नार्हति ।
तयोर्दिग्विशेषं विधत्ते—
“दक्षिणां कार्ष्मर्यमयमित्तरामौदुम्बरीं तस्मादस्या असावुत्तरा” (सं. का. ५ प्र. २ अ. ७) इति।
यस्माद्द्युलोकरूपौदुम्बरी स्रगुत्तरस्यां दिश्युपहिता तस्माल्लोकेऽप्यसौ द्यौर स्याः पृथिव्या उत्तरोर्ध्वभाविनी । स च दिग्विशेषः सूत्रकारण स्पष्टमभिहितः—
“आज्यस्य पूर्णा कार्ष्यर्यमयीं दक्षिणेन पुरुषम्” इति, “दध्‍नः पूर्णामौदुम्बरी मुत्तरेण पुरुषम्” इति च।

[[1937]]

प्राकारान्तरेण स्रुग्विशेषं प्रशंसति—
“आज्यस्य पूर्णं कार्ष्मर्यमयीं वज्‍रो वा आज्यं वज्‍रः कार्ष्मर्यो वज्‍रेणैव यज्ञष्य दक्षिणतो रक्षाँस्यप हन्ति दघ्‍नः पूर्णामौदुम्बरीं पशवो वै दध्यूर्गुदम्बरः पशुष्वेवोर्जं दधाति” (सं. का. ५ प्र. २ अ. ७) इति।
आज्यस्य वज्‍रत्वं तानूनप्‍त्रब्राह्मणे समाम्‍नातं – “घृतं खलु वै देवा वज्‍रं कृत्वा सोममघ्‍नन्” इति । कार्ष्मर्यस्य रक्षोपघातहेतुत्वाद्वज्‍रत्वम् । तदप्यातिथ्याब्राह्मणे समाम्‍नातं– “ते कार्ष्मर्यमयान्परिधनिकुर्वत तैर्वै ते रक्षाँस्यपावत” इति। स्रुचोर्दध्याज्यपूर्णत्वं प्रशंसति—
“पूर्णे उप दधाति पूर्णे एवैनममुष्मिँलोक उप तिष्ठेते” [सं. का. ५ प्र. २ अ. ७] इति । स्त्रगुपधानं प्रशंसति—
“विराज्यग्निश्चेतव्य इत्याहुः स्रग्वै विराड्यत्स्रचावुप दधाति विराज्येवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ७) इति।
विविधे राजमाने प्रदेशे चेतव्योऽग्निरित्यभिज्ञा आहुः । स्रुक्चाऽऽज्यादि-पूर्णत्वाद्विशेषेण राजते, तस्मात्तत्र चयनाय स्त्रचावुपदध्यात् ।
पाशुकोत्तरवेदिवद्रुक्मस्योपरि व्याघारणं विधत्ते—
“यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञँ रक्षाँ सि जिधाँसन्ति यज्ञ-मुखँ । रुक्मो यद्रुक्मं व्याघारयति यज्ञमुखादेव रक्षाँस्यप हन्ति” (सं. का. ५ प्र. २ अ. ७) इति।
यज्ञसंबन्धिन एकैकस्याङ्गस्यानुष्ठानं यज्ञमुखम् । अतो रुक्मोपधानस्यापि यज्ञमुखत्वात्तत्र प्राप्तानां रक्षसामुपघाताय व्याघारयेत् ।
कृणुष्व पाज इति पञ्‍तभिरिति ये मन्त्राः सूत्रकारेणोदाहृतांस्तानत्र विनियुङ्‍क्ते—
“पञ्‍चभिर्व्याघारयति पाङ्‍क्तो यज्ञो यावानेन यज्ञस्तस्माद्रक्षाँस्यप हन्ति” [सं. का. ५ प्र. २ अ. ७] इति।

[[1938]]

धानादिहविर्भिः पञ्‍चभिर्यज्ञस्य पाङ्‍क्तत्वम् ।
सूत्रकारेण ‘दक्षिणम्ँ समुत्तराँ श्रोणिं दक्षिणाँ श्रोणिमुत्तरमँर्स मध्यमिति’ इति पाशुकोत्तरवेदिव्याघारणे येयं वक्ररीतिरुक्ता तामत्र विधत्ते—
“अक्ष्णया व्याघारयति तस्मादक्ष्णया पशवोऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै” [सं. का. ५ प्र. २ अ. ७] इति।
अक्ष्णया वक्ररीत्या । अत एवाऽऽधारस्य विविधत्वाद्व्याधारणमित्युच्यते। यस्मादाघारणे वक्रक्रमस्तस्मात्पशवो गमनकाले स्वकीयाङ्गानि वक्ररीत्या प्रहरन्ति प्रवर्तयन्ति, पुरोवर्तिनं दक्षिणं पाद पुरतः प्रक्षिप्य पाश्चात्यं वामपादं पुरतः प्रवर्तयन्ति । तस्मात्प्रतिष्ठायै तदिदं व क्रत्वं तपंद्यते ।
अत्र विनियोगसंग्रहः-
अभ्यश्वं क्रमयेद्दर्भं यदावृत्तिः प्रदक्षिणम् ।
अपां दध्यात्पद्मपत्रं ब्रह्म रुक्मोपधानकम् ।।
हिर स्वर्णमयं दध्याद्‍द्रप्सस्तस्याभिमर्शनम् ।
नयस्त्रिभिर्मन्त्रयेव मन्त्रा अत्र नवेरिताः ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
ष्टमोऽनुवाकः ।। ८ ।।