०७

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः)।
मा नो॑ हिँसीज्‍जनि॒ता यः पृ॑थि॒व्या यो
वा॒ दिवँ॑ स॒त्यध॑र्मा ज॒जा॑न । यश्‍चा॒पश्‍च॒-
न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ वि-
धेम । अ॒भ्याव॑र्तस्व पृथिवि य॒ज्ञेन॒ पय॑सा
स॒ह । व॒पां ते॑ अ॒ग्निरिषि॒तोऽव॑ सर्पतु । अग्ने॒
यत्ते॑ शु॒क्रं यच्‍च॒न्द्रं यत्पू॒र्त यद्य॒ज्ञिय॑म् । त-
द्दे॒वेभ्यो॑ भरामसि । इष॒मूर्ज॑म॒हमि॒ति आ [१]
द॒द ऋ॒तस्य॒ धाम्‍नो॑ अ॒मृतस्य॒ योनेः॑ । आ
नो॒ गोषु॑ विश॒त्वेष॑धीषु॒ जहा॑मि से॒दिमनि॑-
रा॒ममी॑वाम् । अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑
भ्राजन्त्य॒र्चयो॑ विभावसो । बृह॑द्भानो॒ शव॑सा॒
वाज॑मु॒क्थ्यं॑ दधा॑सि दा॒शुषे॑ कवे । इ॒र॒ज्य-
न्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्म रायो॑ अमर्त्य ।
स द॑र्शतसय् वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सा-
न॒सिँ र॒यिम् । ऊर्जो॑ नपा॒ज्‍जात॑वेदः सुश॒-
स्तिभि॒र्मन्द॑स्व ( २ ) धी॒तिभि॑र्हि॒तः । त्वे
इ॒षः सं द॑धु॒र्भूरिरेतसश्‍चि॒त्रोत॑यो वा॒मजा॑
ताः पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒

[[1921]]

उदि॑यर्षि भा॒नुना॑ । पु॒त्रः पि॒तरा॑ वि॒चर॒न्न
षा॑वस्यु॒भे पृ॑णक्षि॒ रोद॑सी । ऋ॒तावा॑नं महि॒षं
वि॒श्‍वच॑र्षणिम॒ग्निँ सुम्‍नाय॑ दधिरे पु॒रो ज-
नाः॑ । श्रुत्क॑र्णँ स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒
मानु॑षा यु॒गा । नि॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒-
क्षय॑न्तँ॒ राध॑से म॒हे । रा॒तिं भृगू॑णामु॒शिजं॑
क॒विक्र॑तुं पृ॒णक्षि॑ सानसिम् ( ३ ) र॒यिम् ।
चितः॑ स्थ परि॒चित॑ ऊर्ध्व॒चितः॑ श्रयध्वं॒
तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्‍रुवाः सी॑दत । आ
प्या॑यस्व॒ समे॑तु ते वि॒श्‍वतः॑ सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य संग॒थे । सं त॒ पयाँ॑ सि॒ समु॑
यन्तु॒ वाजाः॒ सं वृष्णि॑यान्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑
स्युत्त॒मानि॑ धिष्व [ ४ ] ।।
(आ मन्द॑स्व सान॒सिमेका॒न्नच॑त्वारिँ॒शच्च॑) ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके सप्तमोऽनुवाकः)।
षष्ठोऽनुवाक ओषधिवापोऽभिहितः । अथ सप्तमे लोष्टक्षेपादिकमभि-धीयते।
कल्पः “मा नो हिँसीज्‍जनिता यः पृथिव्या इति चतुसृभिर्दिग्भ्यो लोष्ठान्त्समस्यति येऽन्तर्विधाद्‍‍वहिर्विधमापन्ना भवन्ति” इति।

[[1922]]

कर्षणे ये लोष्टाः परिमितक्षेत्राद्वहिः पतन्ति तान्पुनरन्तः पातयोदित्यर्थः ।
तत्र प्रथमामाह—
मा नो हिँसीदिति । यः प्रजापतिः पृथिव्या जनितोत्पादको यो वाप्रजा-पतिः सत्यधर्माऽवितथधारणशक्तिः सन्दिवं जजानोत्पादयामास । पुनरपि यः प्रजा-पतिश्चन्द्रा आह्लादकारिणीर्बृहतीर्बहुला अपो जजानोत्पादयामास, तादृशः प्रजा-पतिर्नोऽस्मान्मा हिंसीत् । तादृशाय कस्मै प्रजापतये हविषा विधेम परिचरेम ।
अथ द्वितीयामाह—
अभ्यावर्तस्वेति । हे पृथिवि यज्ञेनानुष्ठातव्येन पयसा च तत्फलभूतेन सहा-भ्यावर्तस्वास्मदाभिमुख्येनाऽऽगच्छ । इषित इच्छावानाग्निस्ते वपां त्वदीयवपासदृशमिमं प्रदेशभवसर्पतु प्राप्‍नोतु । अथ तृतीयामाह—
अग्ने यत्त इति । हेऽग्ने ते त्वदीयं यदङ्गं शुक्रं दीप्‍तिमत्, यच्‍चान्यदङ्गं चन्द्रमाह्लादकरं, यदप्यन्यदङ्गं पूतं शुद्धं, यदप्यन्यदङ्गं यज्ञियं यज्ञार्हं, तत्सर्वं लोष्टरूपं देवेभ्यो देवानामर्थे भरामसि संपादयामः ।
अत चतुर्थीमाह—
इदभूर्जमिति । ऋतस्य यज्ञस्य धाम्‍नः स्थानभूतादमृतस्य योनेः कारणभूता-दितो देशादिषमन्नरूपभूर्जं रसरूपं लोष्टमाददे स्वी करोमि । स लोष्टो नोऽस्मदीयेषु गोष्वाविशत्वागत्य प्रविशतु । तथौषधीष्वाविशतु । सीदन्त्यत्रेति तेदिर्भूमि [स्ता]मनिरा-मन्नरहिताममीदां रोगयुक्तां जहामि परित्यजामि । एतैर्मन्त्रैः साध्यं लोष्टानां क्षेत्रमध्ये स्थापनं विधत्ते—
“दिग्भ्यो लोष्टान्त्समस्यति दिशामेव वीर्षमरुध्य दिशां वीर्येऽग्‍निं चिनुते” (सं. का. ५ प्र. २ अ. ५) इति।
कर्षणावतरे ये लोष्टा वेणना विमितादाग्निक्षेत्राद्वहिर्दिक्षु पतितास्ताभ्यो दिग्भ्यस्ताल्लोष्टानानीय क्षेत्रे संयोजयेत् । तथा सति दिशां सामर्थ्यमस्मिन्क्षेत्रेऽवरुध्य वस्मिन्सामर्थ्येऽग्निं चितवान्भवति ।
चतुर्थमन्त्रे कंचिद्विशेषं विधत्ते—

[[1923]]

“यं द्विष्याद्यत्र स स्यात्तम्यै दिशो लोष्टमा हरेदिषमूर्जमहमित आ दद इतीषमेवोर्जं तस्यै दिशोऽव रुन्धे क्षोघुको भवति यस्तस्यां दिशि भवति” (सं. का. ५ प्र. २ अ. ५) इति।
अयमग्निचिद्यं पुरुषं द्विष्यात्स पुरुषो यस्यां दिश्यवतिष्ठेत तस्या दिशो-लोष्टमिषमूर्जमिति मन्त्रेणाऽऽहरेत् । तया सति तदीयमन्न रसं च स्वी करोति । स्वीकृते सति तस्यां दिशि यो द्वेष्यो भवति वर्तते स द्वेष्यः क्षोधुकः क्षुधां प्राप्‍तोऽन्नरहितो भवति।
यदुक्तं सूत्रकारेण “उत्तरवेदिमुपवपति यावानग्निर्व्याधारणान्तं कृत्वा।” इति, तदेतद्बिधत्ते—
“उत्तरवेदिमुप वपत्युत्तरवेद्याँ ह्यग्निश्चीयतेऽथो पशवो वा उत्तरवेदिः पशूनेवाव रून्धेऽथो यज्ञपुरुषोऽनन्तरित्यै” (सं. का. ५ प्र. २ अ. ५) इति।
प्राकृतेन प्रकारेणोत्तरवेदिं कुर्यात् । तस्यामुत्तरवेद्यां पश्चादग्निश्चीयते । अपि चोत्तरवेद्याः समीपगतेषु युपेषु पशुबन्धात्वशव एवोत्तरवेदिः । पशूनां प्राप्‍तये भवति । अपि च प्रकृतावुत्तरवेदिरूपं यज्ञस्य परुः पर्व तस्यान्तरायो मा भूदित्युत्तरवेदिः कर्तव्या।
कल्पः—“अग्ने तव श्रवो वय इति षड्‍‍भि सिकता न्युप्य” इति।
तत्र प्रथमामाह—
अग्ने तवेति। वीयते प्राणिभिरश्यत इति वयोऽन्नम् । हेऽग्‍ने तव श्रवस्त्व-तीयत्वेन श्रूयमाणं वयोऽन्नं महि महदस्ति । विभा दीप्‍तिरेव वसु धनं यस्यासौ विभाव-सुः। हे विभावसोऽर्चयस्तव दीप्‍तयो भ्राजन्ति दीप्यन्ते । बृहन्तो भानवो यस्यासौ बृह-द्भानुः । कविर्विद्वान्यजमानाभिप्रायाभिज्ञः । तादृश हेऽग्ने दाशुषे हविर्दत्तवते यजमा-नायोक्थ्यं शस्राद्युपेतयज्ञयोग्यं वाजमन्नं शवसा त्वदीयेन बलेन दधासि । अथ द्वितीया-माह– इरज्यमिति।
हेऽमर्त्य मरणरहिताग्ने जन्तुभिः पुरोडाशादिहविःप्रदैः प्राणिभिरिरज्यन्दी-

[[1924]]

ष्यमानः सन्नस्मे अस्मासु रायो धनानि प्रथयस्व विस्तारय । स दर्शतस्य वपुषो दर्शनीयस्य चित्यग्निरूपस्य शरीरस्य मध्ये विराजासे विशेषेण द्रीप्यसे । ज्ञानसिं बहुविधदानर्हं रयिं धनं पृणक्षि अस्मदर्थं पूरय । अथ तृतीयामाह—
उर्जो नपादिति । ऊर्जोऽन्‍नस्य नपादविनाशयिता, तादृश भो जातवेदो धीतिभिर्हितो दीप्तिभिर्युक्तः सन्सुशस्तिभर्मन्दस्व शोभनस्तुतिभिर्हर्ष्यस्व । भूरिरेतसः प्रभूतसारा इषोऽन्‍नरूपा आहुतीस्त्वे त्वयि संदधुर्यजमाना संपादितवन्तः । कीदृश यजमानाः, चित्रोतयो विचित्रास्त्वया कृता ऊतयो रक्षा येषां ते चित्रोतयो वामजाता * वननीये संभजनीये देशे कुले चोत्पन्नाः । अथ चतुर्थीमाह—
पावकवर्चा इति । पावकवर्चाः शोधकदीप्‍तिः शुक्रवर्चा निर्मलदीप्‍तिः । अन्‍‍‍‍‍‍नवर्चाः संपूर्णदीप्‍तिः । ईदृशस्त्वं भानुना भासोदियर्षि उत्कर्षं गच्छसि । उभे रोदसी द्यावापृथिव्यौ विचरन्‍नुपावसि समीपमागत्य रक्षति, पृणक्षि च तयोः संपूर्तिमपि करोषि। परिचरणे दृष्ठान्तः – पुत्रः पितरा यथा लोके शास्त्रीयमार्गेणानुशिष्टः पुत्रः पितरौ परिचर-ति तद्वत् । अथ् पञ्‍चमीमाह—
ऋतावानमिति । मानुषा जना मुष्यजातियुक्ता जन्तव ऋत्विग्यजमानाः पुरः पूर्वस्मिन्काले युगा गिरा योग्यया स्तुतिरूपया वाचा सुम्‍राय सुखार्थमग्निमत्र दधिरे स्था-पितवन्तः । कीदृशमग्निम । ऋतावानं सत्यवन्तं, महिषं महान्तं, विश्व(श्वे)चर्पणयो मनुष्याः परिचारकत्वेन यस्य सन्ति सोऽयं विश्वचर्षणिः (तं), श्रुत्कर्णं शृण्वत्कर्णं, यद्‍‍विज्ञाप्यते तत्सद्य एव कर्णेन श्रुत्वा संपादयतीत्यर्थः । सप्रथस्तममतिशयेन प्रथासहितं कीर्तिमन्तम् । तादृशं त्वामग्निं दैव्यं देवेभ्यो हितं दधिर इत्यन्वयः अथ षष्ठीमाह—
निष्कर्तारमिति । हेऽग्ने त्वं यजमानं रयिं पृणक्षि संपृक्तं कृणोषि प्रापय-सीत्यर्थः । कीदृशं यजमानम् । अघ्वरस्य निष्कर्तारं यज्ञस्य निष्पादकम् । प्रचेतसं प्रकृष्टचित्तयुक्तं श्रद्धालुमित्यर्थः महे राधसे गहते हविर्लक्षणायान्नाय क्षयन्तं हविर्दातुमिह निवसन्तमित्यर्थः । रातिं दातारं, भृमूणां महर्षीणां तपस्विनां मध्य उशिजं कमनीमत्यन्तं तपोयुक्तमित्यर्थः । कविक्रतुं कवीनां विदुषामिव
*ख पुस्कते ‘वमनीये’ इति पाठो भवितुं युक्त इति टिप्पणी।

[[1925]]

ऋतुः कर्मानुष्ठानं यस्यासौ कविक्रतुस्तं, सर्वमपि कर्तव्यं सम्यग्ज्ञात्वानुतिष्ठती(न्तमि)- त्यर्थः। सानसिशब्दो यजमानविशेषणं धनविशेषणं वा । यजमानपक्षे दानशीलमित्यर्थः। धनपक्षे संभजनीयमित्यर्थः । एतान्मन्त्रान्विनियुङ्‍क्ते—
“अग्ने तव श्रवो वय इति सिकता नि वपत्येतद्‍वा अग्नेर्वैश्वानरस्य सूक्तँ-सूक्तेनैव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. २ अ. ६) इति।
एतत्षडृचात्मकं वैश्वानरस्य सर्वमनुष्यप्रियस्याग्‍नेः संबन्धि सूक्तम् । अत एतेन सिकतानिवापे सति वैश्वानररूपमग्निं प्राप्नोति । सूक्तगतमन्त्रसंख्यां विधत्ते—
“षड्‍‍भिर्नि वपति पड्‍वा ऋतवः संवत्सरः संवत्सरोऽग्निर्वैश्वानरः साक्षादेव वैश्वानरमव रुन्धे” [सं. का. ५ प्र. २ अ. ६] इति।
संवत्सरमुख्यं भूत्वेत्यादौ संवत्सरधारणसंबन्धादग्‍नेः संवत्सररूपत्वम् । ऋतुसंवत्सराव्यबधानेन वैश्वानरं साक्षादेव सर्वथैव प्राप्नोति।
सूक्तगतास्वृक्षु परस्परविलक्षणं यच्छन्दस्तत्प्रशंसति—
“समुद्रं वै नामैतच्छन्दः समुद्रमनुषप्रजाः प्र जायन्ते यदेतेन सिकता मि वपति प्रजानां प्रजननाय” [सं. का. ५ प्र. २ अ. ६] इति।
यथा समुद्रो बहुल एवमत्रत्यच्छन्दोऽपि बहुविधत्वात्समुद्रमित्युच्यते । तथा हि-प्रथमा विस्तारपङ्‍‍क्तिर्मध्यमयोः पादयोरेकादशाक्षरत्वात् । द्वितीया पदपङ्‍‍क्तिरयु-क्पादयोर्द्वादशाक्षरत्वात् । यथा द्वितीया तथा तृतीया । यथा प्रथमा तथा चतुर्थी । उप-रिष्टाज्ज्योतिः पञ्चमी । चतुर्थपादस्याष्टाक्षरत्वात् । तथा षष्ठी । *

  • अत्र ख. पुस्तके ‘एष च संदर्भो न पिङ्गलसूत्रतद्वृत्त्योः संवादी । तत्र हि तृतीयाध्याये ‘विस्तारपङ्‍‍‍क्तिरन्तः। ४२’ । ‘पदपङ्‍‍‍क्तिः पञ्च । ४६’ उपरिष्टाज्ज्योतिरन्तेन । ५३’ । इति सूवत्रयेण, ‘यदासिजागतौ[ १२ अ. ] पादौमध्ये भवतः, आद्यन्तयो श्च गायत्रौ (८ अ.) तदा विस्तारपङ्‍‍क्तिर्नाम । पञ्चका इत्यनुवर्तते, यदा पञ्‍चाक्षरा पञ्‍च पादा भवन्ति, तदा पदपङ्‍‍क्तिर्नाम च्छन्दः । यदा चत्वारो गायत्रा पादा भवन्ति, अन्ते च त्रैष्टुभः (११ अ) तदोपरिष्टाज्ज्योतिर्नाम त्रिष्टुब्भवति । तथा जगतीत्यनुवर्तनीयं, तेन, अन्तेन जागते-न शेषैश्च गायत्रैश्चतुर्भिरुपरिष्टाज्ज्योतिर्नाम जगती भवति । इति तदवृत्त्या चान्यथैव लक्षणानि प्रदर्शितानि । एवं द्वितीयातृतीयोः प्रथमाचतुर्थ्योः पञ्‍चमीतष्ठ्योश्च परस्परं विलक्षणाक्षरसंख्याकतया तुल्यतामिधानमपि न सम्यगिव प्रतिभातीत्यवधेयम्’ । इति टिप्पणिका।

[[1926]]

एषं बहुविधत्वाच्छन्दसः समुद्रत्वम् । लोके हि समुद्रमनुसृत्य प्रजा उत्पद्यन्ते । समुद्रो बहुलस्तथा प्रजा अपि बहुविधाः । तथा सति समुद्रसदृशेन च्छन्दसा सिकतानिवापः प्रजानामुत्पत्त्यै संपद्यते ।
कल्पः—“चितः स्थ परिचित इत्परिमिताभिः शर्कराभिराहवनीयचितेशयतनं परिश्रयति” इति । पाठस्तु—
चितः स्थेति । चीयन्ते भूमौ प्रक्षिप्यन्त इति चित शर्कराः । हे शर्करा यूयं चितः स्थ भूमौ प्रक्षिप्ताः स्थ, परिचितः परितः प्रक्षिप्ताः स्थ, ऊर्ध्वचित उपरि प्रक्षिप्‍ताः स्थ। तादृश्यो यूयं श्रयध्वमिमां चितिं सेवध्वम् । युष्माकं मध्ये यस्याः शर्कराया या देवता तया सार्धं यूयै ध्रुवाः स्थिराः सत्यः सीदतेह तिष्ठत । तत्र दृष्टान्तः—अङ्गिरस्यत, यथाऽङ्गिरसां चयने ध्रुवाः सीदन्ति तद्वत् । अनेन मन्त्रेण साध्यं शर्करास्थापनं विधत्ते—
“इन्द्रो वृत्राय वज्‍रं प्राहरत्स त्रेधा व्यभवत्स्फ्यस्तृतीयँ रथस्तृतीयं यूपस्तृ-तीयं येऽन्त शरा अशीर्यन्त ताः शर्करा अभवन्तच्छर्कराणाँ शर्करत्वं वज्‍रो वै शर्कराः पशुसग्निर्यच्छर्करामिरग्‍निं परिमिनोति वज्‍रेणैवास्मै पशून्परि गृह्‍णाति तस्माद्वज्‍रेण पशवः परिगृहीतास्तस्मात्स्थेयानस्थेयसो नोप हरते” (सं. का. ५ प्र. २ अ. ६) इति।
इन्द्रेण प्रहितो वज्‍रोऽत्यन्तकठिनं वृत्रशरीरं प्राप्य त्रिधा भग्‍नोऽभवत् । तेषु त्रिषु भागेषु स्फ्य एको भागो रथोऽपरो भागो यूपोऽन्यः । तदा वज्‍रस्यान्तः शीर्णा अवयवा भूमौ पतिताः । ता भूमिगताः शर्करा अत्यन्तं दृढाः क्षुद्रपाषाणा अभवन्। शरैः क्रियन्ते निष्पाद्यन्त इति व्युत्पत्त्या शर्करा इति नाम संपन्नम् । अतो वज्‍र एव शर्कराः अग्निस्तु पशुसाधनत्वात्पशुस्वरूपः । अतोऽग्‍निप्रदेशे शर्कराभिः परिश्रयेत् । तथा सति वज्‍रेणैव साधनेन यजमानार्थं पशून्परिगृह्‍णाति । यस्मादेवं तस्माल्लोकेऽपि वज्‍रसमानेन करेण पाशाद्विना वा पशवः परिगृहीता भवन्ति । यस्मादत्राग्‍नेर्दार्ढ्याय शर्करापेक्षा न तु शर्कराजामग्न्यपेक्षा तस्माल्लोकेऽपि स्थेयान्स्थिरतरोऽतिप्रबलः पुरुषः कच्चिदपि, अस्थेस्सोऽत्यन्तमस्थिरान्दुर्बलान्पुरुषान्नेपहरते नैवोपाश्रयति ।

[[1927]]

शर्करासु काम्यां संख्यां विधत्ते—
“त्रिसप्ताभिः पशुकामस्य परि मिनुयात्सप्‍त वै शीर्षण्याः प्राणाः प्राणाः पशवः प्राणैरेवास्मै पशूनव रुन्धे” (सं. का. ५ प्र. २ अ. ६) इति।
त्रीणि सप्‍तकाने यासां शर्कराणां तास्त्रिसप्‍ताः, नाभिरेकर्विशतिसंख्याका भिरित्यर्थः । परिमिनुयात्परिमित्य स्थापयेत् । सप्‍तसंख्ययां परिच्छिन्नाः शिरो वस्थिता-श्छि(तच्छि)द्रगताः प्राणा स्मर्यन्ते। तैश्च प्राणैस्तद्यु(र्यु)क्ताः प्राणाः पशवः। तथा सति सप्‍तसंख्यया प्राणैरेव युक्तान्पशून्प्रप्‍नोति ।
अथान्यां काम्यां संख्यां विधत्ते—
त्रिणवाभिर्भ्रातृव्यवतस्रिवृतमेव वज्‍रँ संभृत्य भ्रातृव्याय प्र हरति स्तृत्यै” (सं. का. ५ प्र. २ अ. ६) इति।
त्रीणि नवकानि यासां तास्रिणवाः सप्‍तविंशतिसंख्याका इत्यर्थः । त्रिणव-संख्योपेतस्त्रिवृत्स्तोमः स्मर्यते । तमेव त्रिवृत्स्तोमं वज्‍रत्वेन संपाद्य भ्रातृव्यव हिंसायै प्रहरति । पक्षान्तंर विधत्ते
“अपरिमिताभिः परि मिनुयादपरिमितस्यावरुद्‍ध्यै” (सं. का. ५ प्र. २ अ. ६) इति।
अथान्वयव्यतिरेकाभ्यां परिश्रयणं दृढी करोति—
“यं कामयेतापशुः स्यादित्यपरिमित्य तस्य शर्कराः सिकता व्यूहेदपरिगृहीत एवास्य विषूचीनँ रेतः परा सिञ्चत्यपशुरेव भवति यं कामयेत पशुमांन्त्स्यादिति परिमि-त्य तस्य शर्कराः सिकता व्यूहेत्परिगृहीत एवास्मै समीचीनँ । रेतः सिञ्चति पशुमानेव भवति” (सं. का. ५ प्र. २ अ. ६) इति।
पूर्वन्युप्‍तायाः सिकताया व्यूहनं विधास्याति । यजमानस्य पशुराहित्यं कान-यमानोऽध्वर्युः परितः शर्करास्थापनमकृत्वैव सिकताप्रसन्‍रणं कुर्यात् । तथा सति परिश्रयणाभावादपरिगृहीत एव स्थाने यजमानस्य रेतो विविधं यथा गच्छति तथा विना-शयति । ततोऽयमपशुरेव भवति । सोऽयं व्यतिरेकः । एतस्माद्विपरीतोऽन्वयः । तस्मात्पशुलाभाय शर्करापरिश्रयणपूर्वकमेव सिकताव्यूहनं कर्तव्यमिति तात्पर्यार्थः।

[[1928]]

कल्पः—“आ प्यायस्व समेतु त इति सिकता व्यूहत्युत्तरया त्रिष्टुभा राज-न्यस्य” इति । तत्र प्रथममन्त्रमाह—
आ प्यायस्वेति । हे सोम त्वमाप्यायस्व सर्वतो वर्धयस्य । वे तव वृष्णियं रेतो विश्वतः सर्वस्माद्‍वृष्णियादाहारात्समेतु संप्राप्‍नोतु । वाजस्यान्नस्य संगथे संगमने त्वं निमित्तं भव । अथोत्तरां त्रिष्टुभमाह—
सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्‍नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के—
“सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्‍ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति ।
मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते—
“गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।
आ प्यायस्वेति गायत्री । सं त इति त्रिष्टप् । अत्र विनियोगसंग्रहः—
माचतुर्भिः क्षिपेल्लोष्ट नग्नेषट्‍केन वालुकाः ।
चित आहवनीयस्य परिक्षिदिति शर्कराः ।।
आ प्या विप्रस्य सिकता व्यूहेत्सं ते पयांस्यथ ।
क्षत्त्रियस्य भवेद्व्यूह इति मन्त्रास्त्रयोदश ।।

[[1929]]

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
सप्तमोऽनुवाकः ।। ७ ।।