(अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः )।
या जा॒ता ओष॑धयो दे॒वेभ्य॑स्रियु॒गं पु॒रा ।
मन्दा॑मि ब॒भ्राणा॑म॒हँ श॒तं धामा॑नि स॒प्त
च॑ । श॒तं वो॑ अम्ब॒ धामा॑नि स॒हस्र॑मु॒त वो॒
रुहः॑ । अथा॑ शतक्रत्वो यू॒ममि॒मं मे॑ अग॒दं
कृ॑त । पुष्पा॑वतीः प्र॒सूव॑तीः फ॒लिनी॑रफ॒ला
उ॒त । अश्वा इव स॒जित्व॑रीर्वी॒रुधः पारयि-
ष्णवः॑ । ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑
ब्रुवे । रपाँ॑ सि विघ्न॒तीरि॑त रप॑: ( १ )
चा॒तय॑मानाः । अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे
वो॑ व॒सतिः कृ॒ता । गो॒भाज॒ इत्किलासथ॒
यत्स॒नव॑थ॒ पुरु॑षम् । यद॒हं वा॒जय॑न्नि॒मा ओ-
ष॑धी॒र्हस्त॑ आद॒धे । आ॒त्मा यक्ष्म॑स्य नश्य-
ति पु॒रा जी॑व॒गृभो॑ यथा । यदोष॑धयः सं॒ग-
च्छ॑न्ते॒ राजा॑नः॒ समि॑ताविव । विप्रः॒ स उ॑-
च्यते भि॒षग्र॑क्षो॒हाऽमी॑वचात॑नः । निष्कृ॑ति॒-
र्नाम॑ वो मा॒ताऽथा॑ यू॒यँस्थ॒ संकृ॑तीः ।
स॒राः प॑त॒त्रिणीः॑ [ २] स्थ॒न॒ यदा॒मय॑ति॒
निष्कृ॑त । अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्याऽन्यस्या॒
उपा॑वत । ताः सर्वा॒ ओष॑धयः संविदा॒ना
इ॒दं मे॒ प्राव॑ता॒ वचः । उच्छुष्मा॒ ओष॑धीनां॒
गावो॑ गो॒ष्ठादि॑वरते । धनँ॑ स॒निष्यन्ती॑ना-
[[1912]]
मा॒त्मानं॒ तव॑ पूरुष । अति॒ विश्वाः॑ परि॒ष्ठाः
स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओषधयः॒ प्राचु॑च्य-
वु॒र्यक्तिं च॑ त॒नुवाँ॒ रपः॑ । याः (३) त॒
आ॒त॒स्थरा॒त्मानं॒ या आ॑विवि॒शुः परुः॑परुः ।
तास्ते॒ यक्ष्मं॒ वि बा॑धन्तामु॒ग्रो म॑ध्यम॒शीरि॑-
व । सा॒कं य॑क्ष्म॒ प्र प॑त श्य॒नेन॑ किकिदी॒-
विना॑ । सा॒कं वात॑स्य घ्राज्या॑ सा॒कं न॑श्य
नि॒हाक॑या । अ॒श्वा॒वतीँ सो॑मव॒तीमू॒र्जय॑-
न्ती॒मृदो॑जसम् । आ वि॑त्सि॒ सर्वा॒ ओष॑-
धीर॒स्मा अ॑रि॒ष्टता॑तये । याः फ॒लिनी॒र्या
अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ । बुह॒स्प-
ति॑प्रसृता॒स्ता नो॑ मुञ्च॒न्त्वँह॑सः । याः (४ )
ओष॑धयः॒ सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ ।
तासां॒ त्वम॑स्युत्त॒मा प्र णो॑ जी॒वात॑वे सुव ।
अ॒व॒पत॑न्तीरवदन्दि॒व ओष॑धयः॒ परि । यं
जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः । या-
श्चे॒दमु॑पशृण्वन्ति॒ याश्च॑ दू॒रं परा॑गताः ।
इ॒ह सं॒गत्य॒ ताः सर्वा॑ अ॒स्मै सं द॑त्त भेषज-
म् । मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑
मि वः । द्वि॒पच्चतुष्पद॒स्माकँ॒ सर्व॑म॒स्त्व
ना॑तुरम् । ओष॑धयः॒ सं व॑दन्ते॒ सोमे॑न सह
[[1913]]
राज्ञा॑ । यस्मै॑ करोति॑ ब्राह्म॒णस्तँ रा॑जन्पा-
रयामसि (५) ।।
[रपः॑ पत॒त्रिणी॒र्या अँह॑सो॒ याः खना॑मि वो॒ऽष्टाद॑श च] ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
(अथ चतुर्थकाण्डे द्वितीयप्रपाठके षष्ठोऽनुवाकः)।
पञ्चमेऽनुवाकेऽग्निक्षेत्रकर्षणमुक्तम् । अथ षष्ठ ओषधिवापो विधीयते ।
कल्पः—“या जाता ओषधय इति चतुर्दशभिरोवधीर्वपति” इति ।
तत्र प्रथमामाह–
या जाता इति। युगशब्दः कालवाची । त्रियुगं वर्षाः शरद्वसन्त इति कालत्रयमुद्दिश्य पुरा सृष्ट्यादौ देवेभ्यः सकाशाद्या ओषधय उत्पन्ना बभ्रूणां प्राणिभ-रणसमर्थानां परिपपाकेन (ण) पिङ्गलवर्णानां वा तासामोषधीनां शतं धामानि शतसं-ख्याकाञ्जातिभेदान्सप्त च विशेषाकारेण ग्राम्यानारण्यांश्च सप्त धान्यमेदानवेक्ष्य मन्दामि हृष्यामि । अथ द्वितीयामाह—
शतं वो अम्बेति । हेऽम्ब मातृस्थानीया ओषधयो वो युष्माकं धामानि जातिभेदाः क्षेत्राणि वा शतं सन्ति । उतापि च वो युष्माकं रुहः प्ररोहा अङ्कुराश्च सहस्रं सन्ति । सहस्रमित्यासामपरिमितत्वमुपलक्ष्यते । अथैवं बहुभेदोपेतत्वे सति शतसंख्याकाः क्रतवो याभिर्युष्माभिर्निष्पाद्यन्ते तादृश्यः शतक्रत्वे यूयं मे मदीयमिमं यजमानमगदं कृत क्षुत्पिपासादिरोगरहितं कुरूत । अथ तृतीयामाह–
पुष्पावतीरिति । अत्रौषधयो नानाविधैर्विशेषणैः प्रशस्यन्ते । पुष्पावतीः काश्चिदोषधयः पुष्पमात्रपर्यवसायिन्यो न तु फलन्ति । प्रसूवतीरन्या ओषधयः पुष्पपूर्व-कफलोत्पत्तिस्थायिन्यः । फलिनीरपराः काश्चिदोषधयः पुष्पं विना केवलेन फलेन युक्ताः। उतामि चाफला अन्याः काश्चिदोषधयः फलेन तद्धेतुपुष्पेण च
[[1914]]
विरहिताः। तदेतत्सर्वं लोकसिद्ध्यनुसारेणोदाहरणीयम् । वीरुधः काश्चिदोषधयो लता-रूपाः, पारयिष्णवः फलपाकान्तत्वं परित्यज्य पारं बहुसंवत्सरावसानं प्राप्तुं शीलं यासां तास्तथाविधाः। तद्यथा-नागवल्लीप्रभूतय एताः सर्वा ओषधयोऽश्वा इव सजित्वरीः । यथाऽश्वा युद्धे बहवः सह शीध्रं गत्वा जयशीला भवन्ति, एवमोषधयोऽपि बह्व्यः सहोत्पन्नाः फलपर्यन्तलक्षणजयशीला भवन्ति । अथ चतुर्थीमाह–
ओषधीरितीति । हे मातरो मातृसमाना देवीर्देव्यः। इतिशब्दोऽत्र हेत्वर्थे वर्तते । यस्मादोषधीर्युयमोषधयस्तत्तस्माद्वो युष्मानुपब्रुवे प्रार्थये । ओषो दाहः फल-पाको धीयते स्थाप्यते यासु ता ओषधयः । अतो युष्मान्प्रति प्रार्थनमुचितमित्यर्थः । कथं प्रार्थनमिति तदुच्यते-रपांसि विघ्नतीः पापानि विनाशयन्त्यो रपश्चातयमानाः पापफलं दुःखमपि विनाशयन्त्य इत प्राप्नुत। अथ पञ्चमीमाह–
अश्वत्थे व इति । हे ओषधिदेवता वो युष्माकमश्वत्थे निषदनं पर्णे पला-शवृक्षे वो युष्माक वसतिः कृता निवासकारणं गृहं कृतम् । देवताधिष्ठतत्वादेव लोके-ऽश्वत्थवृक्षः प्रदक्षिणनस्कारादिभिः पूज्यते । पलाशवृक्षश्चेघ्मादिरूपेण कर्म साधनं संपन्नः । ईदृश्योऽपि यूयं गोभाज इद्भवदीयस्थावररूपेण भूमिभाज एव भूत्वाऽसथ किल स्थिता इत्येतल्लोके प्रसिद्धम् । तत्किमर्थमिति तदुच्यते-यद्यस्मात्कारणात्पूरुषं मनुष्यं सनवथान्नदानेन पोषयथ तस्मादेवं स्थावररूपावस्थानमित्यर्थः । अथ षष्ठीमाह—
यदहं वाजयन्निति । यद्यदाऽहं वाजयन्नन्नमिच्छन्निमा ओषधीर्हस्त आदधामि तदानीमेव यक्ष्मस्य क्षुधादिरोगस्याऽऽत्मा स्वरूपं पुरा नश्यति भोजनात्प्रगेव नष्टसदृशो भवति । तत्र दृष्टान्तः—यथा लोके जीवगृभो धीवरैर्जीवस्य शशादेर्ग्रहणात्पुरा भीतः शशः कर्णाभ्यां नेत्रे पिधाय भूमिसंश्लिष्टो मृत इव तिष्ठति तद्वत्। अथ सप्तमीमाह–
यदोषधय इति । यद्यदौषधयः सर्वाः संगच्छन्ते फलदानाय क्षेत्रसंगता
[[1915]]
भवन्ति, तत्र दृष्टान्तः—राजानः समिताविव, यथा युद्धे प्रतिपक्षिणः सेनां जेतुं परस्परमनुकूला राजानः संगच्छन्ते तद्वत् । तदानीं संगतास्वोषधीषु विप्रो मेधावी सरवीर्यभावनाभिज्ञो यः पुरुषः स भिषगुच्यते क्षुधादिरोगचिकित्सक इत्यभिधीयते । कथं भिषक्त्वमिति तदुच्यते—रक्षोहा पक्वाभिरेताभिः पुसेडाशं राक्षोघ्नं कृत्वा रक्षसां हन्ता तदुपद्रवरूपं रोगं विनाशयति । अमीवचातन ओषधिजन्यपथ्यादिभिरमीवान्रोगां-श्चातयति विनाशयतीत्यमीवचातनः ।
अथाष्टमीमाह—
निष्कृतिर्नामेति । हे ओषधयो वो युष्माकं निष्कृतिर्नाम क्षुधादिविनाशन-मव माता मातृवदुत्पत्तिनिमित्तं क्षुदादिकं निवारयितुमेव हि भवतीनामुत्पत्तिः । अथैवं सति यूयं संकृतीः स्थ सम्यक्स्वकार्ये क्षमा भवत । सराः क्षुदादीनामपवारयित्र्यः पतत्रि-णीः पतत्त्रं पत्रं तस्मात्प्रत्यागमनं तेनाऽऽगमनेनोपेताः स्थन भक्त । यत्क्षुदादिकमामयति रोगवद्वाधते तन्निष्कृत विनाशयत । अथ नवमीमाह—
अन्या व इति । हे ओषधयो वो युष्माकं मध्येऽन्या काचिदोषधिव्यक्तिर-न्यामितरामोषधिव्यक्तिमवतु रक्षतु । तथा रक्षिता साऽन्याऽप्यन्यस्या रक्षिकाया उपावत समीपमागत्य तामप्यवतु । संभूयकारित्वात्परल्पररक्षकत्वमुचितम् । तथाविधाः सर्वा हे ओषधयः संविदानाः परस्परमैकमत्यं गता इदं मे मदीयं वचो वाक्यं प्रार्थनारूपं प्रावत प्रकर्षेण रक्षत । अथ दशमीमाह—
उच्छुष्मा इति । ओषधीनां शुष्मास्तदु भोगजन्या बलविशेषा उदीरत उद्ग- गच्छन्ति । तत्र दृष्टान्तः-गावो गोष्ठादिव, यथा गांवो निवासस्थानाद्गृहादरण्यदेशं प्रत्यु-द्गच्छन्ति तद्वत्। कीदृशीनामोषधीनां पूरुष तवाऽऽत्मानं धनं सनिष्यन्तीनां हे यजमान त्वदीयं शरीरं धनमिव दातुमिच्छन्तीनां यथा धनं दास्यन्ति एवमोषधयोऽपि त्वदीयशरी-राकारेण परिणता शरीरं दास्यन्तीत्यर्थः ।
अथैकादशीमाह—
[[1916]]
अति विश्वा इति । परिष्ठाः शरीरस्योपरि स्थिता उदरमध्ये प्रविष्टा विश्वाः सर्वा ओषधयोऽत्यजीर्णादिदोषमतिलङ्घ्याक्रमुः क्रान्ता देहे व्याप्ता इत्यर्थः । तत्र दृष्टान्तः—स्तेन इव व्रज्रं, यथा रात्रौ गुप्तचोरो गोष्ठं प्रविश्य गामपहर्तुं सावधानो गोशालयां[लां] सर्वतो व्याप्नोति तद्वत् । तनुवां शरीराणां संबन्धि यक्तिंच रपो स्वरशिरोव्याधिगुल्मातिसारादिरूपं पापफलं यत्किंचिदस्ति तत्सर्वमोषधयः प्राचुच्यवुर्वि-नाशितवत्यः । अथ द्वादशीमाह—
यास्त इति । हे यजमान ते तवाऽऽत्मानं शरीरं या ओषधय आतस्थु-राक्रम्य तिष्ठन्ति, या ओषधयः परुःपरुराविविशू रसरूपेण तत्तत्पर्व प्रविष्टवत्यस्ताः सर्वास्ते तव यक्ष्मं रोगं विबाधन्तां विशेषेण नाशयन्तु । तत्र दृष्टान्तः—मध्यमशीरिव, मध्यमेन स्वकीयपरकीयपक्षपातरहितेन शास्त्रीयमार्गेण शेते वर्तत इति मध्यमशीः तादृशो राजा दुष्टान्त्पत्युग्रो भूत्वा यथा विनाशयति तद्वत् । अथ त्रयोदशीमाह—
साकं यक्ष्मेति । श्लेष्मावरुद्धकण्ठजन्यध्वनेरनुकरणार्थोऽयं किकिशब्दस्तेन किकिना ध्वनिविशेषेण दीव्यति व्यवहरतीति रोगविशेषः किकिदीविः । स च श्लेष्म-जन्यः श्येनवत्तीव्रतरत्वात्पित्तजान्यो रोगः श्येनः । हे यक्ष्म राजयक्ष्मादिरोग त्वं पित्त-जन्येन श्लेष्मजन्येन च रोगेण साकं प्रपत प्रकर्षेज नष्टो भव । तथा यया पीडया निह-तोऽस्मि हा कष्टमिति शब्दं करोमि सा निहाका तया सह नष्टो भव । अथ चतुर्दशीमाह—
अश्वावतीमिति । काचि॑दोषधिजातिरश्वावती, अश्वा अस्यां सन्तित्यश्वा वती, ओषधिसमृद्धौ सत्यां धनद्वारेणाश्वा लभ्यन्त इत्यर्थः । अन्या काचिदो षधिजातिः सोमवती सोमयागोऽस्यामस्तीति सोमवती, धान्यसमृद्धौ सत्यां सोमयागः कर्तुं शक्यत इत्यर्थः । अपरोर्जयन्ती, ऊर्ज बलं प्राणचेष्टां वा करोतीत्यर्थः । अन्या जातिरुदोजाः, उत्कृष्टयोजोऽष्टमधातुरूपं यस्याः सोदोजाः अन्नद्वारेण शरीरधातून्पोषयतीत्यर्थः । ताः सर्वा ओषधीरहमावित्सि लब्धवानस्मि । किमर्थम् । अस्मा अरिष्टतातये अरिष्टस्य ता-तिररिष्टतातिः । अस्य यजमानस्य हिंसाराहित्ययेत्यर्थः ।
[[1917]]
तदेवमोषधिवापार्था ऋचश्चतुर्दशाऽऽम्नाताः । अथात्रैव विकल्पिताः षडृच आम्नायन्ते । तत्र प्रथमामाह—
या फलिनीरिति । या ओषधयः फलयुक्ता याः फलरहिता याश्च पुष्प रहिता याश्च पुष्पयुक्तास्ताः सर्वा बृहस्पतिप्रसूताः सत्यो नोऽस्मानंहसः पापान्मोचयन्तु । अथ द्वितीयामाह—
या ओषधय इति । सोमो राजा यासां ताः सोमराऽयस्तादृश्यो या ओष-धयः पृथिवीमनु प्रविष्टास्तासां मध्य इदानीमुप्यमाने हे ओषधे त्वमुत्तमाऽसि । अतो नोऽस्माञ्जीवातवे जीवनौषधाय प्रसुव प्रकर्षेण प्रेरय ।
अथ तृतीयामाह—
अवपतन्तीरिति । द्युरोकात्पतन्तो वृष्टिबिन्दव ओषधिरूपेणोत्वद्यन्ते । तथा चाग्निहोत्रब्राह्मणे समाम्नायते– “यावन्तः स्तोका अवापद्यन्त । तावतीरोषधयो-ऽजायन्त” इति । अत्रापि दिवः परि स्वर्गस्योऽपरितनप्रदेशादवपतन्तीरधस्ताद्भूमौ पतन्त्य ओषधयोऽवदन्नेतद्ववचनमुक्तवत्यः । कीदृशं वचनमिति तदुच्यते—यं जीवमश्नवामहै व्याप्नुमः स पुरुषो न रिष्याति नैव विनश्यति ।
अथ चतुर्थीमाह—
याश्चेदमिति । याश्चौषधिदेवता इदं मदीयं प्रार्थनमुपशृणवन्ति, याश्चा न्या ओषधिदेवता इह कर्मणि संगता भूत्वाऽस्मै यजमानाय भेषजं संदत्त क्षुदादिरोगचिकि-त्सां सम्यक्कुरुत । अथ पञ्चमीमाह—
मा वो रिषादमिति । हे ओषधयो वो युष्माकं खनिता चिकित्सायै युष्मदीयं मूलं ग्रहीतुं खननस्य कर्ता मा रिषन्मा विनश्यतु । अहं च यस्मै रुग्णाय चिकित्सार्थं खनामि युष्मन्मूलं ग्रहीतुं खननं करोमि सोऽपि मा विनश्यतु । किं वहुनाऽस्माकं संब-न्धि यद्द्विपच्चतुष्पाद्वा प्राणिजातं युष्मदुपजीवति तत्सर्वमनातुरं रोगरहितमस्तु । अथ षष्ठीमाह—
ओषधय इति । ओषधय ओषधिदेवताः स्वकीयेन स्वामिना सोमेन राज्ञा
[[1918]]
सह संवादं कुर्वन्ति । कथं संवाद इति तदुच्यते-यस्मै रुग्णाय चिकित्सास्मदीयमूलादिना ब्राह्मणः करोति, हे राजंस्तमातुरं वयं पारयामसि व्याधेरुत्तारयामः । एतैर्मन्त्रैः साध्यमो-षधिवापं विधत्ते—
“ओषधीर्वपति ब्रह्मणाऽन्नमव रुन्धेऽर्केऽर्कश्चीयते” [सं. का. ५ प्र. २ अ. ५] इति।
ब्रह्मणौषधिवापहेतुभूतमन्त्रसामर्थ्येनान्नं व्याप्नोति । किंचैवं सत्यर्केऽर्चनीये स्थानेऽर्कोऽर्चनीयोऽग्निश्चितो भवति । मन्त्रसंख्यां विधत्ते—
“चतुर्दशभिर्वपति सप्त ग्राम्या ओषधयः सप्ताऽऽरण्या उभयीषामवरुद्ध्या अन्नस्यान्नस्य वपत्यन्नस्यान्नस्यावरुद्ध्यै” [सं. का. ५ प्र. २ अ. ५] इति।
तिलमाषव्रीहियवाः प्रियङ्ग्वणवो गोधूमाश्चेति सप्त ग्राम्या ओषधयः । वेणु श्यामाकनीवारजर्तिला गवीधुका मर्कटका गार्मुताश्चेति सप्ताऽऽरण्या ओषधयः। नाना-विघस्यान्नस्य बीजवापेन नानाविधमन्नमाप्नोति ।
यदुक्तं सूत्रकारेण “सप्त ग्राम्याः कृष्टे सप्ताऽऽरण्या अकृष्टे” इति । तत्र ग्राम्याणां देशविशेषं विधत्ते—
“कृष्टे वपति कृष्टे ह्योषधयः प्रतितिष्ठन्ति” [सं. का. ५ प्र. २ अ. ५] इति।
कृष्टे देशे वपति ग्राम्या इति शेषः । मूलानां सर्वतः प्रसरणे दृढावस्थानां प्रतिष्ठा ।
एकैकस्यां सीतायां मूलमारभ्याग्रपर्यन्तमनुगतं वपनं विधत्ते—
“अनुसीतं वपति प्रजात्यै” [सं. का. ५ प्र. २ अ. ५] इति।
प्रभूतत्वेनोत्पत्तिः प्रजातिः । सर्वास्वपि सीतासु व्रीजावापं विधत्ते—
“द्वादशसु सीतासु वपति द्वादश मासाः संवत्सरः संवत्सरेणवास्मा अन्नं पचति” [सं. का. ५ प्र. २ अ. ५] इति।
यदुक्तं सूत्रकारेण—“यामोषधिं नाधिगच्छेत्तस्याः स्थाने यवान्मधुमिश्रान्व-पेदुप्ता मेऽसीति वा मनसा ध्यायेदधिगतायां यः प्रथम इघ्म आगच्छेत्तस्मिन्ने-
[[1919]]
नामुपसंनह्येह्ये वनस्पतीनां फलग्रहयस्तामिध्य उपसंनह्य प्रोक्षेत्” इति, तदिदं वनस्पति-प्रोक्षणं विधत्ते—
“यदग्निचिदनवरुद्धस्याश्नीयादवरुद्धेन व्यृध्येत ये वनस्पतीनां फलग्रहय स्तानिऽध्येपि प्रोक्षेदनवरुद्धस्यावरुद्धे” [सं. का. ५ प्र. २ अ. ५] इति।
यदयमग्निचित्पुरुषोऽनवरुद्धस्य सीतास्वनुप्तस्य द्रव्यास्यान्नमश्नीयात्तदानीम-वरुद्धेन सीतासूप्तेन धान्येनापि वियुक्तो भवेत् । अतोऽत्रानुप्तस्याप्युप्तत्वसिद्धये वनस्प-तीनां मध्ये ये पुष्पमन्तरेण फलं गृह्णन्त्युदुम्बरादयस्तानप्यादायेध्येन सह संनह्य प्रोक्षणं कुर्यात् । ततः सर्वमपि भक्ष्यजातमस्यात्ररुद्धमेव भवति । अत्र विनियोगसंग्रहः—
“या जा ग्राम्यास्तथाऽऽरण्याः कृष्टाकृष्टभुवोर्वपेत् ।
चतुर्दशभिरन्यास्तु षडत्रैव विकल्पिताः ।।
अत्र मीमांसा।
दशमाध्यायस्य पञ्चमपादे चिन्तितम्—
धूनने वपने चाग्नौ सप्त चोक्ताश्चदुर्दश ।
किमाद्यारभ्भनियमः किंवाऽऽरम्भो निजेच्छया ।।
कपालवत्क्रमः प्राप्तः केचित्प्रकरणोदिताः ।
व्यर्थाः स्युस्तेन मन्त्राणामारम्भोऽत्र विकल्पितः ।।
अग्निचयने मन्त्रा आधूननार्था आवपनार्थाश्च बहवः पठिताः । प्रयोगे तु तदेकदेशसंख्याऽनिहिता “सप्तभिराधूनोति, चतुर्दशभिरावपति” इति । तत्र प्रथमा-धिकराणोक्तकपालसामिधेनीन्यायेन प्रथमपठितस्यैव मन्त्रस्योपक्रमः प्राप्नोति। तदयुक्तम्। कुतः । यथोक्तसंख्यातिरिक्तानां प्रकरणपठितानां मन्त्राणां वैयर्थ्यप्रसङ्गात् । तस्मात्प्र-करणेन क्रमं बाधित्वा निजेच्छयैव प्रथममन्यं बोपक्रम्य विहितसंख्या पूरणीया ।।
[[1920]]
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।