( अथ चतुर्थकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः )।
समि॑तँ॒ सं क॑ल्पेथाँ॒ संप्रि॑यौ रोचिष्णू
सु॑मन॒स्यमा॑नौ । इष॒मूर्ज॑म॒भि सं॒वसा॑नौ॒ सं
वां॒ मनाँ॑ सि॒ सं व्र॒ता समु॑ चि॒त्तान्याऽक॑-
रम् । अग्ने॑ पुरीष्याधि॒पा भ॑वा॒ त्वं नः॑ इष॒-
मू॒र्जं यज॑मानाय धेहि । पु॒री॒ष्य॑स्त्वम॑ग्ने र-
यि॒मान्पु॑ष्टिमाँ अ॑सि । शि॒वाः कृ॒त्वा दिशः॒
सर्वाः॒ स्वां योनि॑मि॒हाऽस॑दः । भव॑तं नः॒ स-
मन॑सौ॒ समो॑कसौ [ १ ] अ॒रे॒पसौ॑ । मा
य॒ज्ञँ हिँ॑ सिष्टं॒ मा य॒ज्ञप॑र्ति जातवेदसौ
[[1894]]
शि॒वौ भ॑वतम॒द्य नः॑ । मा॒तेव॑ पु॒त्रं पृ॑थि॒वी
पु॑री॒ष्य॑म॒ग्निँ स्वे योना॑वभारु॒खा । तां वि-
श्वै॑दे॑वऋ॒तु॑भिः संविदा॒नः प्र॒जाप॑तिर्वि॒श्वकर्मा
वि मु॑ञ्चतु । यद॒स्य पा॒रे रज॑सः शु॒क्रं
ज्योति॒रजा॑यत । तन्नः॑ पर्ष॒दति॒ द्विषोऽग्ने॑ वै-
श्वानर॒ स्वाहा । नभः॒ सु ते॑ निर्ऋते विश्व-
रूपे [ २ ] अ॒य॒स्मयं॒ वि चृ॑ता ब॒न्धमे॒तम् ।
य॒मेन॒ त्वं य॒म्या॑ संविदा॒नोत्त॒मं नाक॒मधि॑
रोहये॒मम् । यत्ते॑ दे॒वी निर्ऋ॑तिराब॒बन्ध॒ दाम॑
ग्री॒वास्व॑विच॒र्त्यम् । इ॒दं ते॒ तद्वि ष्या॒न्यायु॑षो॒
न मध्या॒दथा॑ जी॒वः पि॒तुम॑द्धि॒ प्रमु॑क्तः ।
यस्या॑स्ते अ॒स्याः क्रू॒र आ॒सञ्जु॒होम्ये॒षां ब॒-
न्धाना॑मव॒सर्ज॑नाय । भूभि॒रिति॑ त्वा॒ जना॑
वि॒दुर्निर्ऋ॑तिः [ ३ ] इति॑ त्वा॒ऽहं परि॑ वेद
वि॒श्वतः॑ । असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒न-
स्ये॒त्यां तस्क॑र॒स्यान्वे॑षि । अ॒न्यम॒स्मदि॑च्छ॒
सा त॑ इ॒त्या नमो॑ देवि निर्ऋते॒ तुभ्यम॑स्तु ।
दे॒वीम॒हं नि॑र्ऋतिं॒ वन्द॑मानः पि॒तेव॑ पु॒त्रं द॑सये॒
वचो॑भिः । विश्व॑स्य॒ या जाय॑मानस्य॒ वेद॒
शिरः॑ शिरः॒ प्रति॑ सू॒री वि च॑ष्टे । नि॒वेश॑नः
सं॒गाम॑नो वसू॑नां॒ विश्वा॑ रू॒पाऽभि च॑ष्टे [ ४ ]
शची॑भिः । दे॒वः इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न
[[1895]]
त॑स्थौ सम॒रे प॑थी॒नाम् । सं व॑र॒त्रा द॑धातन॒
निरा॑हा॒वान्कृ॑णोतन । सि॒ञ्चाम॑हा अव॒टमु॒-
द्रिणं॑ व॒यं विश्वाऽहाऽद॑स्त॒मक्षि॑तम् । निष्कृ॑-
ताहावमव॒टँ सु॑वर॒त्रँ सु॑षेच॒नम् । उ॒द्रि-
णँ॑ सिञ्चे॒ अक्षि॑तम् । सीरा॑ युञ्जन्ति क॒व-
यो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् । धीरा॑ दे॒वेषु॑
सुम्न॒या । युनक्त॒ सीरा॒ वि यु॒गा त॑नोत कृ॒ते
योनौ॑ वपते॒ह ( ५ ) बीज॑म् । गि॒रा च॑ श्रु॒ष्टिः
सभरा॒ अस॑न्नो नेदी॑य॒ इत्सृण्यां॒ प॒क्वमाऽय॑त् ।
लाङ्ग॑लं॒ पवीर॑वँ सु॒शेवँ॑ सुम॒तित्स॑रु । उ-
दित्कृ॑षति॒ गामर्वि॑ प्रफ॒र्व्य॑ च॒ पीव॑रीम् ।
प्रस्थाव॑द्रथ॒वाह॑नम् । शु॒नं नः॒ फाला॒ वि
तु॑दन्तु॒ भूमिँ॑ शु॒नं की॒नाशा॑ अ॒भि यन्तु वा॒-
हान् । शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो॑भिः॒ शुना॑-
सीरा शु॒नम॒स्मासु॑ धत्तम् । कामं॑ कामदुधे
धु॒क्ष्व मि॒त्राय॒ वरु॑णाय च । इन्द्रा॑याग्नये॑
पू॒ष्ण ओष॑धीभ्यः प्र॒जाभ्यः॑ । घृ॒तेन॒ सीता॒
मधु॑ना॒ सम॑क्ता॒ विश्वे॑दै॒वैरनु॑मता म॒रुद्भिः॑ ।
ऊर्ज॑स्वती॒ पय॑सा॒ पिन्व॑माना॒ऽस्मान्सी॑ते॒ प-
य॑सा॒ऽभ्याव॑वृत्स्व ( ६ ) ।।
(समो॑कसौ विश्वरूपे वि॒दुर्निऋ॑तिर॒भि च॑ष्ट इ॒ह मि॒त्राय॒ द्वाविँ॑शातिश्च)।
[[1896]]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
(अथ चतुर्थकाण्डे द्वितीयप्रपाठके पञ्चमोऽनुवाकः )।
चतुर्थेऽनुवाके गर्हपत्यचयनमुक्तम् । अथ पञ्चमेऽनुवाक आहवनीयचय-नार्थंभुवः कर्षणमुच्यते ।
कल्पः—“समितमिति तस्यां चतसृभिरुख्यं संनिवपति” इति।
तत्र प्रथममाह—
समितँ समिति । येयं गार्हपत्यचितिः पूर्वानुवाकेऽमिहिता तस्यामुख्या-ग्निसंनिवपनेवेलायां द्वावग्नी संपद्येते । पूर्वसिद्धोऽग्निरेको द्वितीयसिद्धोऽग्निरपरः-तावुभौ संबोध्येदमुच्यतेहेऽग्नी युवामुभौ समितं संगतौ भवतम् । संगत्य च संकल्पेथां सम्यग्यज्ञस्य कल्पनं निष्पादनं कुरुतम् । कीदृशावग्नी, संप्रियौ सम्य क्परस्परं प्रीतियुक्तौ, रोचिष्णू दीप्यमानौ, सुमनस्यमानौ परस्परं सौमनस्यं प्राप्तौ इषमन्नमूर्जं रसं च ( चाभि ) संवसानौ [ सर्वतः ] सम्यक्संपादयन्तौ । वां युवयो-र्मनांसि मनोजन्यान्संकल्पान्समाकरं सर्वतः संगतानि करोमि । तथा व्रतानि कर्मा-णि समाकरम् । तथा चित्तानि कर्मविषयज्ञानानि समाकरम् ।
अथ द्वितीयामाह—
अग्नेः पुरीष्येति । हे पुरीष्य पांसुयुक्ताग्ने मिलितोभयाग्निस्वरूप त्वं नोऽस्माकमधिषा भवाधिकं पालयिता भव । तादृशस्त्वं यजमानायान्नं रसं च संपादय ।
अथ तृतीयामाह—
पुरीष्यस्त्वामिति । हेऽग्ने द्रव्यात्मक त्वं पुरीष्यः पुरीषार्हो रयिमान्धन- वान्पुष्टिमानप्यसि । सर्वा दिशः शिवाः शान्ताः कृत्वेह चितौ स्वां योनिं स्वकीयं स्थानमासदः प्राप्नुहि । अथ चतुर्थीमाह—
[[1897]]
भवतं न इति । योऽग्निः पुरातनो यश्चोख्यस्तौ युवां नोऽस्मान्प्रति सम-नसौ समानमनस्कौ विप्रतिपत्तिरहितौ समोकसौ समाननिवासस्थानावरेपसौ पापचि-त्तरहितो यज्ञस्य यज्ञपतेश्च हिंसां मा कुरुतम् । अद्यास्मिन्कर्मणि हे जातवेदसौ नोऽस्मान्प्रति शिवौ शान्तौ भवतम् । एतान्मन्त्रान्विनियुङ्क्ते—
“वि वा एतो द्विषाते यश्च पुराऽग्निर्यश्चोखायाँ समितमिति चतसृभिःसं नि बिपति चत्वारि छन्दाँसि छब्दाँसि खलु वा अग्नेः प्रिया तनुः प्रिययैवैनौ तनुवा सँ शास्ति” (सं. का. ५ प्र. २ अ. ४) इति।
अग्निं चिकीर्षतः पुरुषस्य यश्च पूर्वसिद्ध आहितोऽग्नि श्चोखायां वर्तमान इदानींतनोऽग्निरेतावुभौ परस्परं विद्विषाते । अहमेवाऽऽहुत्याधारो भूयासं न त्वमित्येवंरूपो विद्वेषः । अतो विद्वेषपरिहाराय संनिवपति तावुभौ संयोजयेत् । अग्न्यादानादिषु गायत्र्यादिच्छन्दसां साधनत्वाच्छदांस्यग्नेः प्रिया तनूः । तथा सत्यत्र मन्त्रगतया चतुःसंख्यया चतुर्णो गायत्र्यादिच्छन्दसां बुद्धिस्थत्वात्प्रिययैव तनुवा संगतौ यथा भवतस्तथा संशासनं कृतवान्भवति ।
प्रथममन्त्रगतस्य समितमितिपदस्य तात्पर्यं दर्शयति—
“समितमित्याह तस्माद्ब्रह्मणा क्षत्त्रँ समेति” [सं. का. ५ प्र. २ अ. ४ ] इति।
यस्मादयं मन्त्रः संगतौ भवतमिति ब्रूते तस्माल्लोकेऽपि पुरोहितरूपेण ब्राह्मणेन क्षत्त्रियरूपो राजा संगच्छते । अत एवान्यत्र श्रुत्योदाहृतं—“तस्माद्ब्राह्मणो राजन्यवान्, तस्माद्राजन्यो ब्राह्मणवान्” इति ।
तमेवाग्न्योः संगमं पुनः प्रशंसति—
“यत्संन्हुप्य विहरति तस्माद्ब्रह्मणा क्षत्त्रं व्येति” [सं. का. ५ प्र. २ अ. ४] इति।
यस्मादग्निद्वयं संयोज्य तस्मिन्संयुक्तेऽग्नौ विहरणमुत्तरकालीनं विविध-मनुष्ठानं करोति तस्माल्लोकेऽपि ब्राह्मणक्षत्त्रिययोः संयुक्तयोः सतोः पश्चाद्ब्राह्मणेन नियमितः क्षत्त्रियो विविधं शास्त्रीयं राज्यपरिपालनं प्राप्नोति ।
[[1898]]
कल्पः—“मातेव पुत्रमिति शिक्यादुखां निरू(रु) ह्य” इति । पाठस्तु—
मात्रेव पुत्रमिति । यथा लोके माता पुत्रं बिभर्ति तथा पृथिवीरूपेयमुत्वा स्वे योनौ स्वकीयगर्मस्थाने पुरीष्यमेतमग्निप्रभा र्बिभर्ति । तामुखां प्रजापतिर्विमुञ्चतु शिक्यपाशान्युक्तां करोतु । कीदृशः प्रजापतीः । विश्वैर्देवैर्ऋतुभिश्च संविदान ऐकमत्यं गतः । विश्वं सृष्टिरूपं कर्म यस्यासौ विश्वकर्मा ।
अस्मिन्मन्त्र ऋतुभिरित पदस्य तात्पर्यं दर्शयति—
“ऋतुभिर्वा एतं दीक्षयन्ति स ऋतुभिरेव विमुच्यो मातेव पुत्रं पृथिवी पुरीष्यमित्याहर्तुभिरेवैनं दीक्षयित्वर्तुभिर्वि मृञ्चति” (सं. का. ५ प्र. २ अ. ४) इति ।
एतं यजमानमृतुभिः पुरा संस्कुर्वन्ति । “षड्भिर्दीक्षयति षड्वा ऋतव ऋतुभिरेवैनं दीक्षयति” इत्युक्तत्वात् । अतस्तादृशयजमानसंबन्धि स उख्योऽग्निर-त्राप्यृतुभिरेव विमोचनीयो भवति । अतो विमोचनसाधनेऽस्मिन्नन्त्र ऋतुप्रयोगाद्दी-क्षाविमोकयोरेकसाधनत्वं संपद्यते । यद्यपि दीक्षा यजमानस्य विमोकश्चो ख्यात्य तथाऽप्यभेदोपचारेणैकविषयत्वोपन्यासः ।
कल्पः—“यदस्य पारे रजत इति वैश्वानर्या शिक्यमादत्ते” इति ।
पाठस्तु—
यदस्य पार इति । रजसो रजःसदृशश्य धूमस्य पारेऽवसानेऽस्याग्नेः शुक्रं निर्मलं यज्ज्योतिरजायत तस्माज्ज्योतिर्द्विषोऽति द्वेष्टॄनतिक्रम्य नोऽस्मान्पर्षत्प्रीणयतु। हे वैश्वानरोख्याग्ने त्वदीयं शिक्यं स्वाहा सुष्ठ्वाहुतम् । तमेतं मन्त्रं विनियुङ्क्ते—
“वैश्वानर्या शिक्यमा दत्ते स्वदयत्येवैनत्” (सं. का. ५ प्र. २ अ. ४) इति।
वैश्वानरशब्दो यस्मामृच्यस्ति सेयं वैश्वानरी । ‘अहं वेश्वानरो भूत्वा प्राणिनां देहमाश्रितः’ इति स्मृतेर्जाठराग्निरूपस्य वैश्वानरस्य स्वादुत्वकारित्वात्तदी यमन्त्रेणोपात्तं शिक्यं स्वादूकृतं भवति ।
[[1899]]
कल्पः—‘नैर्ऋतीरिष्टकाः कृष्णास्तिह्यस्तुषपक्वास्ताः शिक्यं रुक्मसूत्र-मासन्दीं चाऽऽदाय दक्षिणमपरमवान्तरदेशं गत्वा नमः सु ते निर्ऋत इति स्वकृत इरिणे प्रदरे वा शिक्यं निधाय” इति। पाठस्तु—
नमः सु त इति । हे निर्ऋते दक्षिणपश्चिममध्यमस्थितावान्तरदिगभिमा-निनि देवते विश्वरूपे बहुविधरूपयुक्ते ते तुभ्यं नमोऽस्तु । अयस्मयं लोहनिर्मितं शृङ्खलावद्दृढमेतं बन्धं स्वर्गप्राप्तिप्रतिबन्धकमिमं पाप्मानं विचृत विनाशय। ततस्त्वं यमेनाग्निना यम्या पृथिव्या च संविदानैकगत्यं गता सतीमं यजमानमुत्तमं नाकं सर्वसुखोपेतं दुःखमात्ररहितं स्वर्गमधिरोहय प्रापय ।
अत्रोदाहृते सूत्रे या इष्टका अभिहितास्ता विधत्ते—
“नैर्ऋतिः कृष्णास्रिस्रस्तुषपक्वा भवन्ति निर्ऋत्यै वा एतद्भागधेयं यत्तुषा निर्ऋत्यै रूपं कृष्णँ रूपेणैव निर्ऋतिं निरवदयते” [सं. का. ५ प्र. २ अ. ४] इति ।
निर्ऋतिर्देवता यासामिष्टकानां ता नैर्ऋत्यः । तुषा इति यत्तदेतन्निर्ऋते राक्षसदेवताया भागधेयम् । अत एवैष्टिकप्रकरणे रक्षसां भागोऽसीति तुषोपवापमन्त्र आम्नातः । रूपं च निर्ऋतिदेवतायाः कृष्णम् । अतस्तदानुकूल्पायेष्टकास्तुषपक्वाः कृष्णवर्णाश्च कुर्युः । तथा सत्यनुरूपेणैव भागेन निर्ऋतिं निरवदयते निःसारित-वान्भवति ।
दक्षिणपश्चिमावान्तरदिशमङ्गुल्या निर्दिश्य विधत्ते—
“इमां दिशं यन्त्येषा वै निर्ऋत्यै दिक्स्वायामेव दिशि निर्ऋतिं निरवदयते” (सं. का. ५ प्र. २ अ. ४) इति।
कल्पः—“यत्ते देवी निर्ऋतिराबबन्धेति शिक्वजालेनैनाः प्रच्छाद्य” इति।
एना वक्ष्यमाणमन्त्रैरुपधेया इष्टकाः । अर्थक्रमेणायं मन्त्रो वक्ष्यमाणेभ्य-स्त्रिभ्य उत्तरभावी, पाठक्रमेण तु पूर्वभावी । तत्पाठस्तु—
यत्ते देवीति । हे यजमान ते तव ग्रीवासु ग्रीवायाः संबन्धिषु प्रदेशविशे-षेषु निर्ऋतिर्देवी यद्दाम स्वकीयं पाशमविचर्त्यं विनाशयितुमशक्यमाबवन्ध
[[1900]]
दृढं बबन्ध, तदिदं ते दाम त्वदीयग्रीवास्थं पाशं विष्यामि विमुञ्चामि । तञ्च विमोचनं त्वदीयस्याऽऽयुषो मध्यादारभ्य न भवति किंतु कृत्स्नेऽप्यायुषि । अथ पाशविमो-कानन्तरं त्वं जीवीश्चिरंजीवी सन्प्रमुक्तः सर्वैः प्रतिबन्धैर्विरहितः पितुमन्नमद्धि भक्षय।
कल्पः—“तस्येष्टकाभिः पाशमभ्युपदधाति यस्यास्ते अस्याः क्रूर आसञ्जु-होमीत्येतामिस्तिसृभिः पराचीरसंस्पृष्टा दक्षिणापवर्गं तया ( यथा ) देवतं करोति” इति । तस्य शिक्यस्य पाशमभिलक्ष्य कृष्णाभिरिष्टकाभिरुपधानं संपादयेदित्यर्थः । तिसृषु प्रथमामाह—
यस्यास्त इति । हे निर्ऋते यस्यास्ते तवास्याः क्रूर आसन्नुग्ररूप आस्ये जुहोमि आहुतिवदिष्टकामुपदधामि । किभर्थम् । एषां बन्धानामवसर्जनाय यजमान-स्य परलोकप्राप्तिप्रतिबन्धकानामेषां पाप्मनां विनाशाय । यस्यास्ते तव मुखे प्रदररूप इरिणरूपे वाऽहमिष्टकामुपदधामि त्वा तादृशीं त्वां जना जन्तुमात्ररूपाः शास्त्रासं-स्काररहिता भूमिरिति विदुर्न तु निर्ऋतिर्देवीति । अहं तु शास्त्राभिज्ञतया त्वां विश्वतः सर्वतः सर्वथा निर्ऋतिर्देवीत्येव परिवेद सम्यग्जानामि । तत्र तावान्नीर्ऋ-तिरित्येतद्देवतानामधेयम् । अवयवार्थश्चैवं व्युत्पादनीयः—सर्वदेवसाधारणाद्देवय जनान्निष्कृष्य स्वकृते प्रदरादावृतिः प्राप्तिर्यस्याः सा निर्ऋतिः । तदिदं प्रकारद्वयम-भिप्रेत्य विश्वत इत्युक्तम् । अथ द्वितीयामाह—
असुन्वन्तमिति । हे निर्ऋते यः सोमयागं न करोति यश्च हविर्यज्ञं न करोति तादृशमसुन्वन्तमयजमानं च ग्रहीतुमिच्छ । किंच यः स्तेनः प्रच्छन्नचीरो यश्च तस्करः प्रकटचोरस्तयोरित्यां गतिमन्वपि अनुगच्छ । गत्वा तावपि गृहाणेत्यर्थः । सर्वथाऽपि सोमं उन्वद्भ्यो हविर्यज्ञैश्च यष्टृभ्योऽस्मदन्यमिच्छ नास्मानिच्छ । सा दुष्टशिक्षा तवेत्या गतिश्चर्या । हे निर्ऋते देवि तुभ्यं नमोऽस्तु ।
अथ तृतीयामाह—
देवीमहमिति । देवीं निर्ऋतिं वन्दमानोऽहं वचोभिः स्तुतिरूपैर्वाक्यैर्दसय
[[1901]]
उपक्षीणां स्वाधीनां करोमि । तत्र दृष्टान्तः—यथा लोके पिता पुत्रं दुःशीलं बालं हे तात हे वत्सेत्यादिभिरुपलालनवचनैः स्वाधीनं करोति तद्वत् । या सूरी विदुषी निर्ऋतिर्जायमानस्य विश्वस्य सर्वस्य स्तेनतस्करादेः शिरःशिरः प्रति हस्तेनैकैकं शिरः प्रतिगृह्य वेद त्दीयमपराधं जानामीति विचष्टे विशेषेण कथयति तादृशीं निर्ऋतिं देवीं वन्दमान इति पूर्वत्रान्वयः ।
एतैर्मन्त्रैः साध्यमिष्टकोपधानं विधत्ते—
“स्वकृत इरिण उप दधाति प्रदरे वैतद्वै निर्ऋत्या आयतनंँ स्व एवाऽऽयतने निर्ऋतिं निरवदयते” [सं. का. ५ प्र. २ अ. ४] इति ।
स्वकृतं स्वयमेव निष्पन्नं न तु देशान्तरादानीय चयनस्थान इव प्रक्षिप्तं, तादृश इरिण ऊपरे वा प्रदरे भूछिद्रे वा कृष्णस्तिस्र इष्टका उपदध्यात् । एतदुभयमेव निर्ऋत्या आयतनं स्थानमतिस्पष्टमिति यद्यत्रेष्टक्रोपधानं क्रियते तदा स्वीय एव स्थाने तां निर्ऋतिं निरवदयते देवयजनान्निष्कृष्येमामव स्थापयति ।
“शिक्योपरि जालमूलभागं परित्यज्य पाशरूपमग्रभागममिलक्ष्यावस्थितो यो देशस्तं देशमिष्टकोपधानस्य विधत्ते—
“शिक्यमभ्युप दधाति नैर्ऋतो वै पाशः साक्षादेवैनं निर्ऋतिपाशा-न्मुञ्चति” [सं. का. ५ प्र. २ अ. ४] इति।
“शिक्यमभिलक्ष्य तत्पाशभागमभिलक्ष्यावस्थितो यो देशस्तत्रोपदध्यादि-त्यर्थः । साक्षाद्विलम्बमन्तरेण । एनं यजमानम् ।
इष्टकानां संख्यां विधत्ते—
“तिस्र उप दधाति त्रेधाविहितो वै पुरुषो यानानेव पुरुषस्तस्मान्निर्ऋति-मव यजते” (सं. का. ५ प्र. २ अ. ४) इति ।
शरीरस्योर्ध्वाधोमध्यभागैः पुरुषस्त्रेधाविहितस्तादृशात्पुरुषादादाय त्रिसंख्या निर्ऋतिमवयजते विनाशयति ।
यदुक्तं सूत्रकारेण “पराचीरसंस्पृष्टा दक्षिणापवर्गम्” इति । तदिदं विधत्ते—
[[1902]]
“पराचीरुप दधाति पराचीमेवास्मान्निर्ऋतिं प्रणुदते” (सं. का. ५ प्र. २ अ. ४) इति।
दक्षिणामुखः पुरुष एकामुपधाय ततो दक्षिणतो द्वितीयां ततोऽपि दक्षिण-तस्तृतीयामुपदध्यात्तदिदं पराक्त्वम् । एवं सत्यस्माद्देवयजनाद्यजमानाद्वा पराङ्मुखीं कृत्वा निर्ऋतिं निःसारयति ।
उपधाधादूर्ध्वं देवयजनं प्रत्यागमनं विधत्ते—
“अप्रतीक्षमा यन्ति निर्ऋत्या अन्तर्हित्यै” [सं. का. ५ प्र. २ अ. ४] इति।
अप्रतीक्षं पृष्ठतो दृष्टिमकृत्वेत्यर्थः । तच्च निर्ऋत्या अन्तर्धानाय दर्शना-भावाय भवति।
कल्पः—“निवेशनः संगमनो वसूनामित्याहवनीयं गार्हपत्यं वोपतिष्ठन्ते” इति । पाठस्तु—
निवेशन इति । अयमग्निर्निर्वेशनो यजमानानां स्वस्वगृहे निवेशयिता वसूनां संगमनः प्रजापशुरूपाणां द्रव्याणां प्रापकः सञ्शचीभिः स्वकीयाभिः शक्ति-भिर्विश्वा रूपा सर्वाणि रूपाण्यभि चष्टेऽभितः ख्यापयति । तत्र दृष्टान्तः—सविता देव इव । यथा सूर्यः सर्वाणि रूपाणि प्रकाशयति तद्वत् । कीदृशोऽग्निःसत्यधर्मा। सत्योऽवश्यंभाविफलोपेतो धर्मोऽग्निहोत्रादिलक्षणो यस्यासौ सत्यधर्मा । इन्द्रः परमे-श्वर्यवान् । अत एव पथीनां समरे न तस्थौ परिपन्थिनां शत्रूणां समागमे पुरतः स्वयमागत्य न तिष्ठति । किंतु स्वकीयनामग्रहणमात्रेण ते पलायन्त इत्यर्थः । अनेन यन्त्रेण साध्यमुपस्थानं विधत्ते—
“मार्जयित्वोप तिष्ठन्ते मेध्यत्वाय” (सं. का. ५ प्र. २ अ. ४) इति ।
शं नो देवीरिति मन्त्रेण मार्जनं कृत्वा पश्चान्निवेशन इति मन्त्रेणोपतिष्ठन्ते। अनेनोपस्थानेन यजमानो मेध्यो भवति । उपस्थेयं विधत्ते—
“गार्हपत्यमुप तिष्ठन्ते निर्ऋतिलोक एव चरित्वा पूता देवलोकमुपवर्तन्ते” (सं. का. ५ प्र. २ अ. ४) इति।
[[1903]]
दक्षिणपश्चिमावान्तरदिग्रूपे निर्ऋतिस्थान एनं [ व ] चयनार्थं चरित्वा ततो मार्जनेन पूताः सन्तो गार्हपत्यसमीपरूपं देवलोकमागच्छन्ति ।
मन्त्रगतामेकत्वसंख्यां प्रशंसति—
“एकयोप तिष्ठन्त एकधैव यजमाने वीर्यं दधति” [सं. का. ५ प्र. २ अ. ४] इति।
एकधा युगपदित्यर्थः ।
मन्त्रगतस्य वसुशब्दस्यार्थं दर्शयति-
“निवेशनः संगमनो वसूनामित्याह प्रजा वै पशवो वसु प्रजयैवैनं पशुभिः समर्धयन्ति” (सं. का. ५ प्र. २ अ. ४) इति।
अथाग्निचयनभूमेः परिमाणं विधत्ते—
“पुरुषमात्रेण वि मिमीते यज्ञेन वै पुरुष संमितो यज्ञपुरुषैवैनं वि मिमीते” (सं. का. ५ प्र. २ अ. ४) इति।
पुरुषः प्रमाणं यस्य दण्डस्य सोऽयं पुरुषमात्रस्तेन दण्डेन भूमेः प्रमाणं कुर्यात् । यज्ञाभिमानिदेवेन समानप्रमाणो लौकिकः पुरुषः । पुरुषमात्रेण विमी (मि) ते सति यज्ञस्य पुरुषा पर्वणा प्रमाणेनैवैनमग्निं विमी ( मि ) तवान्भवति ।
पुरुषो हि द्विविधोऽवाग्बाहुरूर्ध्वबाहुश्चेति, अतो विशेषं विधत्ते—
यावान्पुरुष ऊर्ध्वबाहुस्तावान्भवत्येतावद्वै पुरुषे वीर्यं वीर्यणैवैनं विमिमिते” (सं. का. ५ प्र. २ अ. ४) इति।
पुरुषोऽप्यूर्ध्व प्रसारितस्य बाहोरुपरि स्थितं वस्तु स्प्रष्टुं न शक्नोति । अतः पुरुषवीर्यस्य तावन्मात्रत्वाद्वीर्येणैव मानसिद्ध्यर्थमूर्ध्वपुरुषप्रमाणं कुर्यात् ।
वामदक्षिणपार्श्वयोः पक्षस्थानं विधत्ते—
“पक्षी भवति न ह्यपक्षः पतितुमर्हति” [सं. का. ५ प्र. २ अ. ५] इति ।
पक्षभङ्गे सत्यपक्षिण उत्पतितुमशक्यत्वात्पक्ष्याकारस्याग्नेरुत्पततः पक्ष-युक्तत्वं कुर्यात् ।
[[1904]]
यतुक्तं सूत्रकारेण—“चतुर आत्मनि पुरुषान्विमिमीते पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे रत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयत्येवमुत्तरत उत्तरम्” इति । तयोः परिमाणाधिक्यं विधत्ते—
“अरत्निना पक्षौ द्राधीयाँ सौ भवतस्तस्मात्पक्षप्रवयाँ सि वयाँ सि” [सं. का. ५ प्र. २ अ. ५] इति।
चतुर्विंशतिरङ्गुलयोऽरत्निस्तेनारत्निना पक्षौ पुरुषाद्दीर्घतरौ कुर्यात् । यस्मादेषं तस्माल्लोके पक्षिणोऽपि पक्षयोरभिवृद्धियुक्ता दृश्यन्ते ।
पक्षयोराधिक्यांशं विधाय स्वरूपपरिमाणं विधत्ते—
“व्याममात्रौ पक्षौ च पुच्छं च भवत्येतावद्वै पुरुषे वीर्यं वीर्यसंमितः” (सं. का. ५ प्र. २ अ. ५) इति।
बाह्वो प्रसारणं व्यामस्तत्पक्षयोः पुच्छस्य च परिमाणं, पुरुषव्यवहारसाम-र्थ्यस्य च तावत्त्वादयमग्निर्वीर्येण संमितो भवति । मानसाधनं विधत्ते—
“वेणुना वि मिमीत आग्नेयो वै वेणुः सयोनित्वाय” (सं. का. ५ प्र. २ अ. ५) इति।
अग्निना प्रविष्टत्वाद्वेणुराग्नेयः । तथा ह्याम्नातम्—“अग्निर्देवेभ्यो निलायत स वेणुं प्राविशत्” इति । अतोऽग्निः स्वकीयस्थानसहितत्वाय वेणुना विमानं कुर्यात्। कल्पः-“सं वरत्रा दधातनेति संप्रेष्यति” इति । पाठस्तु—
सं वरत्रेति। हे कर्षका पुरुषा वरत्रा च (श्च) र्ममयी रज्जुः ( ज्जूः ) संदधातन सम्यक्स्थापयत । तत्राऽऽहावान्बलीवर्दानामुदकपानार्थं द्रोणीविशेषान्नि-ष्कृणोतन निष्पादयत । अवटमुदकोद्धारेणाय संपादितं कूपमुद्रिणं बहुलोदकयुक्तं यथा भवति तथा सिञ्चामहै, भूतलगतपङ्कोद्धारणन सेकयुक्तं प्रस्रवणोपेतमवटं कुर्मः। कीदृशमवटम्, विश्वाऽहा सर्वेष्वप्यहःस्वदस्तं कूलपातराहित्येनाहिंसितम् । अक्षितं घर्मकालेऽपि शोषाभावलक्षणम् ।
कल्पः “निष्कृताहावमवटमित्यवटादुदकमाहविषूत्सिञ्चति” इति।
पाठस्तु—
[[1905]]
निप्कृताहावमिति । काष्ठपाषाणनिर्मितानां द्रोणीनामन्तस्थितावकाशरूपो योऽयमवटस्तमवटमहं सिञ्चे तत्रोदकं क्षारयामि । कीदृशमवटं, निष्कृताहावं पार्श्वेषु सच्छिद्रत्वेन निष्कृता निष्पादिता आहावा द्रोण्यो यस्यावटस्य सोऽयं निष्कृताहावस्त, सुवरत्रं कूपादुदकमुद्धर्तुं शोभना दृढा वरत्राश्चर्ममयरज्जवो यस्यासौ सुवरत्रस्तम् । सुषेचनं सुष्ठु सेक्तुं योग्यान्युदकोद्धरणसाधनानि पात्राणि यस्यासौ सुषेचनस्तम् । उद्रिणमुदकवन्तम् । अक्षितमुदकस्यागलितत्वेनापक्षयरहितम् ।
कल्पः—“सीरा युञ्जन्तीति द्वाभ्याँ सीरं युनक्ति” इति ।
तत्र प्रथमामाह—
सीरा युञ्जन्तीति । कवयः कृषिकर्माभिज्ञाः सीरा सीरं लाङ्गलं युञ्जन्ति सज्जी कुर्वन्तु । तथा युगा युगानि त्रिषु षट्सु वा कक्ष्याविशेषेष्वपेक्षितानि पृथग्वि-तन्वत एकैकं विस्तारयन्तु । कीदृशाः कवयः, धीरा धैर्ययुक्ता अनलसा इत्यर्थः । देवेषु देवताविशेषविषयेषु सुम्नया सुम्नं सुखमिच्छन्तीति सुम्नया ।
अत द्वितीयामाह—
युनक्त सीरेति । हे कर्षकाः सीरा युनक्त लाङ्गलं योजयत । युगा वित-नोत युगानि विस्तारयत । कृते कर्षणेन योग्य इह योनावस्मिन्स्थोन बीजं वपत । किंच, तद्वीजं गिराऽऽशीर्वादरूपेण मङ्गलवाक्येन युक्तामिति शेषः । श्रुष्टिस्तत्र निष्पन्नः स्तम्बो नोऽस्मदर्थं सभरा असत्फलभारयुक्तोऽस्तु । पक्वं फलं नो नेदीय इदन्तिकतममेवाल्पकालनिष्पाद्यमेवासत् । सृण्या लवनसाधनेन दात्रेण लूनं सन्न आयदस्मत्समीपमागच्छतु ।
कल्पः-“लाङ्गलं पवीरवमिति द्वाभ्यां कृषति” इति । पाठस्तु—
लाङ्गलं पवीरवमिति । इदं लाङ्गलमुदित्कृषत्युद्धृतानि प्रौढलोष्टानि यथा भवन्ति तथैव कृषतु । कीदृशं लाङ्गलं, पवीरवं वज्रवदतितीक्ष्णम् । सुशेवं कर्षकैः सुष्ठु सेवितुं शक्यम् । अतितीक्ष्णत्वेन सहसा भूमिभेदात्कर्षकाणां नास्ति
[[1906]]
प्रयास इत्यर्थः । सुमतित्सरु कर्षकैः शोभनमिदामिति मन्यमानः सुमति ( तिः ) त्सरुर्भूमौ निम्नोन्नतत्वेन विच्छिद्यगमविशेषो यस्य तत्सुमतित्सरु । अनेन कर्षणेन फलाधिक्ये सति गवादिकं यजमानः प्राप्नोतीति शेषः । तत्र गौरविरित्युभयं प्रसिद्धम् । प्रफर्व्या प्रथमवयस्का कन्या, पीवरी पुष्टा गौः प्रस्थावत्प्रयाणसमर्थं रथ-वाहनं रथं वोढुं योग्यमश्वादिकम् । यदा हि कृषिः समृद्धा भवति तदानीमेतत्सर्वं यजमानस्य सुलभम्* । अथ द्वितीयामाह—
शुनं नः फाला इति । नोऽस्माकं शुनं सुखं यथा भवति तथा फाला लाङ्गलमुखानि भूमिं वितुदन्तु विशेषेण कृषन्तु । कीनाशाः कर्षका वाहान्बलीवर्दा-ञ्शुनं यथा भवति तथाऽभियन्तु, अभितः प्रेरयन्तो गच्छन्तु । पर्जन्यो मेघः शुनं यथा भवति तथा मधुना मधुररसेन युक्तैः पयोभिरुदकैर्वृष्टिमतिसृजत्विति शेषः । शुनासीरा वाय्वादित्यौ युवां शुनं तुखंमस्मासु धत्तम् ।
सीरा युञ्जन्तीति मन्त्रद्वयेन साध्यं लाङ्गलयोगं लाङ्गलं पवीरवमिति मन्त्र-द्वयेन साध्यं कर्षणं च क्रमेण विधत्ते—
“यजुषा युनिक्ति यजुषा कृषति व्यावृत्त्यै” (सं. का. ५ प्र. २ अ. ५) इति।
यजुषा मन्त्रेण । लौकिकं तु कर्षणममन्त्रकमिति व्यावृत्तिः ।
बलीवर्दसंख्यां विधत्ते—
“षड्गवेन कृषति षड्वा ऋतव ऋतुभिरेवैनं कृषति” (सं. का. ५ प्र. २ अ. ५) इति।
कक्ष्यात्रयरूपेणावस्थितेषु त्रिषु युगेषु बध्यमानाः षट्संख्याका गावो बली-वर्दा यस्य लाङ्गलस्य तत्षङ्गवम् । पक्षान्तरं विधत्ते—
“यद्द्वादशगवेन संवत्सरेणैव” [सं. का. ५ प्र. २ अ. ५] इति।
- एतदनन्तरं क. पुस्तके “ईदृशलाङ्गलेन कर्षणे सति कृषिसमृद्दिद्वारा प्रफर्व्यं प्रथ-मवयस्कां पविरीं पुष्टां गामविं प्रस्थावत्प्रयाणसमर्थं रथवाहनमश्वादिकं यजमानः प्राप्नोतीति शेष इति पाठान्तरम्” इति वर्तते।
[[1907]]
कक्ष्यापट्कगतेषु वध्यमाना द्वादशसंख्याका गावो यस्य लाङ्गलस्य तद्द्वादशगवं, तेन यदि कृषेत्तदानीं द्वादशमासात्मकेन संवत्सरेणैव कर्षणं कृतं भवति ।
चयनस्थानस्य साकल्येन कर्षमाप्राप्तौ तद्वारयितुं विधत्ते—
“इयं वा अग्नेरतिदाहादबिभेत्सैतद्द्विगुणमपश्यत्कृष्टं च ततो वा इमां नात्यदहद्यत्कृष्टं चाकृष्टं च भवत्यस्या अनतिदाहाय” (सं. का. ५ प्र. २ अ. ५) इति।
साकल्येन कृष्टे स्थाने चीयमानोऽग्निर्भूमिपत्यन्तं दहति । तस्मादतिदाहा-दविभेदिति सा भूमिस्तमतिदाहं परिहर्तुपुपायं विचार्य कास्मिंश्चित्प्रदेशे कृष्टं कस्मिं-श्चिदकृष्टमित्येवमेतद्द्विगुणमुभयविधरथानमुपायत्वेनापश्यत् । लोकेऽपि प्रहारेण च्छिन्नेऽवयवेऽग्निसमीप्येन यावान्संतापो न तावानितरस्मिन्नवयेव दृश्यते । तस्मात्कृ-ष्टाकृष्टभेदेन द्वैगुण्ये सत्यग्निश्चितो भूमिं नात्यन्तं दहति । तस्माद्भूमेरनतिदाहाय किंचित्कृष्टं किंचिदकृष्टमित्येवं द्विगुणं कुर्यात् ।
तदेतद्द्वैगुण्यं प्रकारान्तरेण प्रशंसति—
“द्विगुणं त्वा अग्निमुद्यन्तुमर्हतीत्याहुर्यत्कृष्टं चाकृष्टं च भवत्यग्नेरुद्यत्यै” (सं. का. ५ प्र. २ अ. ५) इति ।
गार्हपत्यादुत्तरवेदिं प्रत्यग्निप्रणयनकाले सिकताभिरेकं पात्रमापूर्य तस्योपरि पात्रान्तरेऽग्निं प्रक्षिप्य द्विगुणेन पात्रेणाग्नेरुद्यामनं दृष्टं तद्वदत्रापि कृष्टाकृष्टभेदेन द्विगुणं स्थानमग्नेरुद्यमनयोग्यमित्यभिज्ञा आहुः । तस्मादुद्यमनाय द्विगुणं कर्तव्यम् ।
अथ कर्षणसमाप्तेरूर्ध्वं यदा बलीवर्दानुत्सृजति तदानीमुत्सर्जनाय दिग्वि-शेषं विधत्ते—
“एतावन्तो वै पशवो द्विपादश्च चतुष्पादश्च तान्यत्प्राच उत्सृजेद्रुद्रायापि दध्याद्यद्दक्षिणा पितृभ्यो नि घुवेद्यत्प्रतीचो रक्षाँ सि हन्युरुदीच उत्सृजत्येषा वे देवमनुष्याणाँ शान्ता दिक्तामेवैनाननूत्सृजत्यथो स्वल्विमां दिशमुत्सृजत्यसौ वा आदित्यः प्राणः प्राणभेवैनाननूत्सृजति” [सं. का. ५ प्र. २ अ. ५] इति।
[[1908]]
बलीवर्दप्रेरकाः कर्षका द्विपादो बलीवर्दाश्चतुष्पादस्तानुदङ्मुखत्वेन निः-सारयेत् । रुद्रः स्वदिक्सामीप्यात्प्राच्यां दिश्यागत्य निर्गच्छतो बलीवर्दान्ग्रहीष्यामी त्यवतिष्ठते । अतस्तत्र निर्गमने रुद्राय दत्ता भवन्ति। दक्षिणस्यां दिशी पितरः स्वत एव तिष्ठन्ति, तत्र निर्गमने तेभ्यो निधुवेन्नितरामर्पयति । प्रतीच्यां वरुणप्रेरितानि रक्षांस्यवतिष्ठन्ते, तानि च पशून्हन्युः । उदीची तुं बाधकरहितत्वाद्देवानां मनुष्याणां च शान्ता । अतस्तामेवानु एनान्बलीवर्दानुत्सृजेत् । अथो खल्वपि च येयमुदीची तामिमां दिशं प्रति यदोत्सृजति तदानीं प्राणरूपमादित्यमनूत्सर्जनं कृतं भवति । आदित्यस्य प्राणरूपत्वं प्राणस्वामित्वादवगन्तव्यम् । अत एवारण्यकाण्डे समाम्नायते—“योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायतेदेति” इति । आथर्वणिकाश्चाऽऽमनन्ति—“आदित्यो ह वै बाह्यः प्राण उदयत्येव ह्येन चाक्षुषं प्राणमनुगृह्णानः” इति। तस्य चाऽऽदित्यस्योत्तरदिग्वर्तित्वं पुरुषविशेषापेक्षया द्रष्ट्व्यम् । मेरोः परितस्तत्तल्लोकेषु तत्तत्प्राणिनो वर्तन्ते । तथा सति मेरुं प्रदक्षि-णीकुर्वन्नादित्योऽस्मदपेक्षया योदीची तस्यामप्या गच्छति । तदानीं कस्मिंश्चिन्मेरुपा-र्श्वेऽवस्थितैरादित्यो विलोक्यते । सोऽयं तेषां प्रत्युदयः । एतत्सर्वमभिप्रेत्य तस्योत्त-रदिगुदयमङ्गीकृत्य सा दिक्प्रशस्यते ।
कर्षणादूर्ध्वमुत्सर्जनप्रकार उक्तः । अथ् कर्षणकाले कश्चिद्विशेष उच्यते ।
कल्पः-“पुच्छाच्छिरोऽधि कृषति कामं कामदुघे घुक्ष्वेति प्रदक्षिणमावर्त-यांस्तिस्रस्तिस्रः सीताः संहिताः कृषति मध्ये संभिन्ना भवन्ति दक्षिणात्पक्षा दुत्तरस्मा-द्दक्षिणायै श्रोणेरुत्तरमंसमुत्तरायै दक्षिणम्” इति। पाठस्तु—
कामं कामेति । काम्यन्त इति कामा भोगास्तान्दोग्धि संपादयतीति कामदुघा लाङ्गलपद्धतिः । हे कामदुघे मित्रादीनां काममपेक्षितं भोगं धुक्ष्व संपादय।
कर्षणकाले प्रादक्षिण्येनाऽवृत्तिं विधत्ते—
“दक्षिण पर्यावर्तन्ते स्वमेव वीर्यमनु पर्यावर्तन्ते तस्माद्दक्षिणोऽर्ध आत्मानो
[[1909]]
वीर्यावत्तरोऽथो आदित्यस्यैवाऽऽवृतमनु पर्यावर्तन्ते तस्मात्पराञ्चः पशवो वि तिष्ठन्ते प्रत्यञ्च आ वर्तन्ते” [सं. का. ५ प्र. २ अ. ५] इति।
दक्षिणा प्रादक्षिण्येन दक्षिणभागमवस्थाप्य बामभागस्य परिभ्रामणं प्रादक्षिण्यं, पुरुषस्य दक्षिणभागे सामर्थ्यसद्भावात्तदेवानुसृत्य पर्यावृत्तिः कृता भवति। यस्माद्दक्षिणभागे वीर्यं श्रुत्यभिप्रेतं तस्माल्लोके सर्वव्यापारे दक्षिणहस्तस्यैव वीर्यातिशय उपलभ्यते। किंचाऽऽदित्यो मेरुं प्रदक्षिणी कुरुते तदप्यत्रानुसृतं भवति। यस्मादत्राऽऽवृत्तिः कृता तस्माल्लोकेऽपि प्रातःकाले पशवः पराञ्चोऽरण्ये गत्वा वि-विधं संचरन्ति, पुनः सायंकाले गृहं प्रत्यभिमुखा आवर्तन्ते । कर्षणे प्रकारविशेषं विधत्ते—
“तिस्रस्तिस्रः सीताः कृषति त्रिवृतमेव यज्ञमुखे वि यातयति” (सं. का. ५ प्र. २ अ. ५) इति।
लाङ्गलपद्धतिः सीता । पुच्छादारभ्य शिरःपर्यन्तं तिस्रः सीताः कृषेत् । तथा दक्षिणात्पक्षादारभ्योत्तरपक्षपर्यन्तं तिस्रः सीताः कृषेत् । तथा दक्षिणस्याः श्रोणेरारभ्योत्तरांसपर्यन्तं तिस्रः सीताः कृषेत् । तथोत्तरस्याः श्रोणेरारभ्य दक्षिणां-सपर्यन्तं तिस्रः सीताः कृषेत् । एवं द्वादश सीताः संपद्यन्ते । एवमावृत्तया त्रिसंख्यया त्रिवृत्स्तोममेव यज्ञप्रारम्भे प्रसारयति ।
कल्पः—“घृतेन सीतेति सीतान्तरालान्यभिमृशति” इति । पाठस्तु—
घृतेन सीतेति । इयं सीता मधुना मधुरेण घृतेन समक्ता सम्यगार्द्रीकृता । अत एव विश्वेर्तेवर्मैरूद्भिः समीचीनेयमित्यङ्गीकृता । सा पुनरूर्जस्वती पयसा पिन्व-माना जलेनाऽऽप्यायिता वर्तसे ( ते ) । सीते जलेनाप्यायिता त्वमस्मान्प्रत्याभ्य-विवृत्स्वाभित आवृत्ता भव । अत्र विनियोगसंग्रहः—
सं गार्हपत्य उख्याग्निं चतुर्भिर्निव ( र्व ) पेदमुम् ।
माता शिक्यादुखां मुञ्चेद्यदं [ दा ] शिक्यपरिग्रहः ।।
नमो नैर्ऋतदेशे तच्छिक्यं त्यक्त्वा यदित्यतः ।
शिक्यजालेन याः कृष्णा इष्टकाः स्थापयेदभूः ।।
[[1910]]
यस्यास्त्रिभिस्तिस्र एताः कृष्णा उपदधाति हि ।
निवेऽग्निमुपतिष्ठेत सं व संप्रेष्यतीतरान् ।।
निष्कृताहाऽवटे सिञ्चेत्सीराद्वाभ्यां हलार्पणम् ।
लाङ्गलाभ्यां कृषेत्काममावर्तेत प्रदक्षिणम् ।।
घृतेऽन्तराले संस्पर्श इति मन्त्रास्तु विंशतिः ।।
अत्र मीमांसा।
तृतीयाध्यायस्य द्वितीयपादे चिन्तितम्—
ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यै भजेदिति ।
प्रकाश्यो मुख्य इन्द्रो वा गौणौ मुख्यस्तु पूर्ववत् ।।
एकस्य गौणताध्रौब्ये मन्त्रस्यैवानुवादतः ।
गौणताऽतोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ।।
अग्निचयने निवेशनः संगमनः इत्यादिका काचिदृगैन्द्री समाम्नाता । तस्या उत्तरार्ध इन्द्रो न तस्थाविति विद्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैत्रमाम्नायते—“निवेशनः संगमनो वसूनामित्यैनध्या गार्हपत्यमुपतिष्ठते” इति । एतैन ब्राह्मणेन गार्हपत्ये विनियुज्यमानो मन्त्रोऽर्थं प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्राक्षस्तत्रैवेन्द्रशब्दस्य रूढत्वात् । गौणस्त्विन्द्रो गार्हपत्यस्तस्यैश्च-र्यगुणयोगेन यज्ञसाधनत्वेन मुख्येन्द्रसदृशत्वात् । तत्र पूर्वन्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीय इति प्राप्ते ब्रूमः—इन्द्रगार्हपत्ययोरन्यतरस्य गौणत्वेऽऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षयति । ततो गार्हपत्यप्रकाशने समर्थं मन्त्रमैन्द्र्येति तृतीयाश्रुतिर्बह्न्युपस्थाने विनियुङ्क्ते ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।
[[1911]]