०४

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः) ।

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ
पु॑रा॒णा ये च॒ नूत॑नाः । अदा॑दि॒दं य॒मो॑ऽव॒-
सानं॑ पृथि॒व्या अक्र॑न्नि॒मं पि॒तरो॑ लो॒कम॑स्मै।
अ॒ग्नेर्भस्मा॑स्य॒ग्नेः पुरी॑षमसि सं॒ज्ञान॑मसि
काम॒धर॑णं॒ मयि॑ ते काम॒धर॑णं भूयात्। सं
या वः॑ प्रि॒यास्त॒नुवः॒ सं प्रि॒या हृद॑यानि वः।
आ॒त्मा वो॑ अस्तु [१] संप्रि॑यः॒ संप्रि॑या-
स्त॒नुवो॒ मम॑ । अ॒यँ सो अ॒ग्नि॑र्यस्मि॒न्त्सो-
म॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे॑ वावशा॒नः। स॒ह॒-
स्रियं॒ वाज॒मत्यं॒ न सप्तिँ सस॒वान्त्सन्त्स्तू॑-
यसे जातवेदः। अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जि-
गा॒स्यच्छा॑ दे॒वाँ ऊचिषे॒ धिष्णि॑या॒ ये।
याः प॒रस्ता॑द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒-
तिष्ठ॑न्त॒ आपः॑। अग्ने॒ यत्ते॑ दि॒वि वर्चः॑ पृ-
थि॒व्यां यदोष॑धीषु (२) अ॒प्सु वा॑ यजत्र।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षः स भा॒नुर॑र्ण॒वो
नृ॒चक्षाः॑। पुरी॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑

[[1884]]

स॒जोप॑सः। जु॒षन्ताँ॑ ह॒व्यामाहु॑तमनमी॒वा
इषो॑ म॒हीः। इडा॑मग्ने पुरु॒दँसँ॑ स॒निं गोः
श॑श्वत्त॒मँ हव॑मानाय साध। स्यान्न॑ सूनु-
स्तन॑यो वि॒जावाऽग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे।
अ॒यं ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑च-
थाः । तं जा॒नन् [३] अ॒ग्न॒ आ रो॒हार्था॑
नो वर्धया रयि॒म्। चिद॑सि तया॑ देवत॒या-
ऽङ्गिर॒स्वद्ध्‍रु॒वा सी॑द परि॒चिद॑सि॒ तया॑ दे॒
वत॑याऽङ्गिर॒स्वद्ध्‍रु॒वा सी॑द लो॒कं पृ॑ण छि॒-
द्रं पृ॒णाथो॑ सीद शि॒वा त्वम्। इ॒न्द्रा॒ग्नी त्वा॒
बृह॒स्पति॑र॒स्मिन्योना॑वसीष॒दन्। ता अ॑स्य॒
सूद॑दोहसः सोमँ श्रीणन्ति॒ पृश्न॑यः। जन्म॑-
न्देवाना विश॑स्त्रिष्वा रो॑चने दिवः (४ ) ।।
(अ॒स्त्वेष॑धीषु जा॒नन्न॒ष्टाचत्वा॑रिँशच्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
द्वितीयप्रपाठके चतुर्थोऽनुवाकः ।। ४।।

(अथ चतुर्थाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः)।
तृतीयेऽनुवाके वह्‍नेरुख्यस्य चयनदशं प्रति नयनमुक्तम्। अथ चतुर्थे गा र्हपत्यचयनमुच्यते।
कल्पः—“अपवृत्ते दीक्षापरिमाणेऽपेत वीतोति गार्हपत्यचितेरायतनं *व्याम मात्रं चतुरस्रं परिमण्डलं बोद्धत्य” इति। पाठस्तु—
अपेत वीतेति। यमस्य सर्वभूम्यधिपतित्वात्तद्भूत्याः पृथिव्यां सर्वत्र वर्तन्ते।

  • सर्वपुस्तकेषु मामात्रमिति पाठो दृश्यते। स प्रामादिकः।

[[1885]]

हे यमभृत्या अत्र देवयजनस्थाने पुरातना ये यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यपे-तास्मात्स्थानादपनच्छत। वीतात्यन्तं विदूरं गच्छत। विसर्पत चातोऽस्मात्स्थाना-दपेत्य सानिध्यं परित्यज्य विविधं गच्छत। पृथिव्या इदमवसानं स्थानमस्मभ्यं यमोऽदात्। पितरश्चास्मै यजमानायेमं ल्लोकमक्रन्नेतच्चयनस्थानं कृतवन्तः। तमेतं मन्त्रं विनियुङ्‍क्ते—
“यावती वै पृथिवी तस्यै यम आधिपत्यं परीयाय यो वै यमं देवयजनमस्या अनिर्याच्छाग्निं चिनुते यमायैनँस चिनुतेऽपेतेत्यध्यवसायपति यममेव देवयजनमस्यै निर्याच्याऽऽत्मनेऽग्निं चिनुत” (सं. का. ५ प्र. २ अ. ३) इति।
सर्वस्याः पृथिव्या आधिपत्ये यमेन प्राप्ते सति यो यजमानो यमं प्रत्यस्याः पृथिव्याः संबन्धि देवयजनमयाचित्वा तत्राग्निं चिनुते, तच्चयनं यमार्थमेव भवति न तु स्वयं तत्फलभाग्भवति। अतो यमं याचितुमपेतेति मन्त्रेणाध्यवसाययति देवयजनं निश्चिनुयात् । अतो याचितत्वात्स्वार्थमेव तच्चयनं भवति। तमिमं मन्त्रं प्रशंसति—
“इष्वग्रेण वा अस्या अनामृतमिच्छन्तो नाविन्दन्ते देवा एतद्यजुरपश्यन्नपेतेति यदेतेनाघ्यवसाययत्यनामृत एवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ३) इति।
मृतैः प्राणिभिराक्रान्तमामृतंतथा न भवतीत्यनामृतं, तादृशमस्याः पृथिव्याः संबन्धि स्थानमिच्छन्तोऽपेक्षमाणा देवा बाणाग्रेण परिमितमषिदपि नाविन्दन्नालभन्त, सर्वमपि भूमिस्थानं प्रेतैराक्रान्तमेवेत्यर्थः। यद्यत्स्थानमन्विष्यते तत्र तत्र विचा-रणायां बहवः प्रेता अतीता भवन्ति। एतदेवाभिप्‍रेत्य महाभारते स्मरन्ति—
“अत्र भीष्मशतं दग्धं द्रोणानां च शतत्रयम” इति।
एवं सति देवास्तत्परिहारोपायं विचार्यैतद्यजुर्यजुर्वेदस्थमपेत वीतेत्येतं मन्त्रम-

[[1886]]

पश्यन्। तस्मादनेन मन्त्रेण प्रेतानां निःसारितत्वात्तैरनाक्रान्त एव स्थानेऽग्निं चिनुते। गार्हपत्यचितिस्थानस्योद्धननं विधत्ते—
“उद्धन्ति यदेवास्या अमेध्यं तदप हन्ति” [सं. का. ५ प्र. २ अ. ३ ] इति।
अस्याः पृथिव्या उपरि निष्ठीवनादिना यत्स्थानममेध्यं जातं तदुद्धननेन विनिवार्यते। उद्धते प्रदेशे जलेनावोक्षणं विधत्ते—
“अपोऽवोक्षति शान्त्यै” (सं. का. ५ प्र. २ अ. ३ ) इति।
उद्धननेन निष्पन्ना भूमिर्जलेन शान्ता भवति।
कल्पः—“अग्नेर्भस्मासीति सिकता निवपति” इति। पाठस्तु—
अग्नेर्भस्मेति। हे सिकतास्वरूप त्वमग्नेर्भस्म भासकमसि। सिकताधारो ह्यग्निरतितीक्ष्णो भवति। तथा त्वमग्नेरवस्थानाय पुरीषमसि पांसुरूपमसि।
एतन्मन्त्रसाध्यं सिकतावापं विधत्ते—
“सिकता नि वपत्येतद्वा अग्नेर्कैश्वानरस्य रूपँरूपेणैव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. २ अ. ३) इति।
आधाना प्रकरणे “वैश्वानरस्य रूपम्। पृथिव्यां परिस्त्रसा” इत्याम्‍नातत्वात्सि-कताशरीरं वैश्वानरस्याग्नेः स्वरूपम्।
कल्पः—“संज्ञाना मित्यूपान्” इति । निवपतीत्यनुवर्तते। पाठस्तु—
संज्ञानमसीति। हे ऊषस्वरूप त्वं संज्ञानं पशुसंबन्धि सम्यग्ज्ञानमसि। पशवो ह्याघ्‍राणेन सम्यग्ज्ञात्वा तमूषप्रदेशं लिहन्ति। तथा कामधरणमसि यज्ञियांशत्वेन ब्राह्मणे वक्ष्यमाणत्वाद्यज्ञद्वारा कामाना धारकमसि। अतस्ते यत्कामधरणसामर्थ्यं तन्मयि भूयात्। एतन्मन्त्रसाध्यमूषनिवपनं विधत्ते—
“ऊषान्नि वपति पुष्टिर्वा एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चि नुतेऽथो संज्ञान एव संज्ञानँ ह्येतत्पशूनां यदूषाः” [सं. का. ५ प्र. २ अ. ३] इति।
पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा द्रष्टव्यम् । तस्मादूषनिवापे सति पुष्टिहेतौ प्रजननहेतौ च देशेऽग्निश्चितो भवति। किंच संज्ञानहेतावेव देशेऽ–

[[1887]]

ग्निश्चितो भवति। ऊषाणां पशुज्ञानहेतुत्वं लोके प्रसिद्धम। पशवो ह्यूषरप्रदेशं ज्ञात्वा तत्रत्यं लवणोदकमेव पातुं गच्छन्ति। पीत्वा च पुष्टिं प्राप्‍नुवन्ति । अतः संज्ञानत्वं पुष्टिहेतुत्वं च।
यदुक्तं सूत्रकोरण—‘तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति’ इति। तदेतद्विधत्ते—
“द्यावापृथिवी सहाऽस्तां ते वियती अब्रूतामस्त्वेव नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा अभवन्यदस्या यज्ञियमासीत्तदमुष्याम दधात्तददश्चन्द्र-मसि कृष्णमूषान्निवपन्नदो ध्यादेद्द्यावापृथिव्योरेव यज्ञियेऽग्निं चिनुते” [सं. का. ५ प्र. २ अ. ३] इति।
पुरा सृष्टिकाले प्रजापतिना सृष्टे द्यावापृथिव्यौ जतुकाष्ठवत्संश्लिष्टे तिष्ठतः। ते यदा प्रजापत्यनुज्ञया वियुज्येते तदानीं परस्परानुरागेणैवं भागं कृतवत्यौ नावावयोर्यद्यज्ञयोग्यं सारं तत्सहैवास्त्विति। ततोऽमुष्या दिवो यद्यज्ञयोग्यं सारमासीत्तदस्यां पृथिव्यां सा द्यौः स्थापितवती। तच्‍च सारं भूमाविदानीं दृश्यमानास्ते प्रसिद्धा ऊषा आसन्। यच्‍चास्याः पृथिव्या यज्ञयोग्यं सारमासीत्तत्सारममुष्यां दिवि सा पृथिवी स्थापितवती। तत्स्थापितं चन्द्रमसि दृश्यमानं कृष्णरूपमभूत् । अत उभयोः सारयोरेकीभावायोषान्निवपन्नदश्चन्द्र-मसि कृष्णरूपं ध्यायेत् । तेन ध्यानेन द्यावापृथिव्योः संबन्धिनि यज्ञयोग्ये सारेऽग्निं चितवान्भवति ।
कल्पः—“सं या वः प्रियास्तनुव इत्यूषान्सिकताश्चसँ सृज्य” इति।
पाठस्तु-
सं या व इति। हे सिकतोषा वो युष्माकं याः प्रियास्तनुवः स्युस्ताः परस्परं संसृ-ज्यन्ताम्। वो युष्मांकं प्रिया प्रियाणि हृदयान्यपि संसृज्यन्ताम् । तथा वो युष्माकमा-त्माऽपि संप्रियोऽस्तु। अपि च ममापि तनुवः संप्रियाः सन्तु।
कल्पः- “अयँ सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुप-दधाति” इति।
अयँ सो अग्निरित्येतस्मिन्सूक्ते प्रथमामाह—

[[1888]]

अयँ सो अग्निरिति। यस्मिन्गार्हपत्यचितिरूपेऽऽनौ वावशानः कामयमान इन्द्रः सुतमभिषुतं सोमं जठरे दधे स्वोदरे धारयति स तादृशोऽयमग्निरिदानी मिष्टकाभिश्चीयत इति शेषः । हे जातवेदोऽत्यं सप्तिं न सत्वरगमनकुशलमश्वमिव सहस्रियं सहस्रसंख्या-केन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन्यजमानैः स्तूयसे। अथ द्वितीयामाह—
अग्ने दिवो अर्णमिंति। हे इष्टकारूपाग्ने दिवः सकाशादर्णमुदकमच्छाऽऽभिमुख्येन जिगासि प्राप्‍नोषि । यागद्वारेण पुष्टिं संपादयसीत्यर्थः। ये देवाधिष्णिया धिष्णियाधारस्तदिवानच्छाऽऽभिमुख्येनोचिषे हविः स्वी कुरुतेति ब्रूपे । त्वय्यत्रोपहिते त्वया समाहूता इव देवा आगत्य हविः स्वी करिष्यन्तीत्यर्थः। सूर्यस्य रोचने दीप्तिरूपे मण्डले सन्ति या आपः परस्तादूर्ध्वप्रदेश उपतिष्ठन्ते, याश्चावस्तादधोभागे वर्तन्ते ताः सर्वास्त्वय्युपहित इहाऽऽगमिष्यन्तीति शेषः ।
अथ तृतीयामाह—
अग्न इति। हे यजत्र यागा निष्पादकाग्ने ते तव यद्वर्चो दिवि सूर्यरूपेण वर्तते, पृथिव्यां वह्‍नीज्वालारूपेण वर्तते। तथा यत्तेज ओषधीषु तत्फलपरिपाककाला कारेण वर्तते, अप्सु वडवानलरूपेण वर्तते, येन त्वदीयेन वर्चसा विद्युद्रूपेणोरु विस्तीर्णमन्तरि-क्षमाततन्थ सर्वतो विरजारितवानसि। प्रकाशितवा नित्यर्थः। त्वेषो दीप्तिमान्स त्वदी-यवर्च समूहा भानुर्भासकोऽर्णवः समुद्ररूपविस्तीर्णो नृचक्षा मनुष्यान्प्रख्यापयिता। तथाविधतेजोरूपामिष्टकामुपदधामीति शेषः ।
अथ चतुर्थीमाह—
पुरीष्यास इति । अग्नय इष्टकारूपा आहुतं हव्यं जुषन्ताम् । कीद्दशा अग्नयः। पुरीषे पांसुरूपे भवाः पुरीष्यासः। प्रावणेभिः प्रकर्षेणं संभजनशी लैर्मनोभिः सजोषसः परस्परं समानप्रीतयः। अनमीवा रोगरहिताः। इषोऽभीष्टप्राप्तिहेतवः। मही प्रौढा। तथाविधाग्निरूपामिष्टकामुपदधामीति शेषः।
कल्पः- “इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तात्समीची” इति।
उपदधातीत्यनुवर्तते तत्र प्रथमामाह—

[[1889]]

इडामग्ने पुरुदँसमिति। हेऽग्ने हवमानाय होतुं प्रवृत्ताय यजमानाय गोः सनिं गवादिपशूनां दातारं साध संपादय। कीदृशं सनिम्। इडां सर्वैरीड्यं प्रशंसनीयम्। पुरुदंसं बहुधा दर्शनीयम्। शश्वत्तममत्यन्तमविच्छेदेन वर्तमानम। किंच त्वत्प्रसादान्ने-ऽस्माकं सूनुः स्यात्पुत्रोऽस्तु । कीदृशः, तनयः, औरस इत्यर्थः। पुत्रसामान्यस्य सुनुशब्देनोक्तत्वाद्दत्तपुत्रादिन्यावृत्तये विशेषविवक्षया तनयशब्दः प्रयुज्यते । विजावा विविधानां जनयिता। हेऽग्ने ते तव सा सुमतिः तथाविधाऽनुग्रहबुद्धिरस्मे भूत्वस्मासु भवतु । अथ द्वितीयामाह—
अयं ते योनिरिति। हेऽग्नेऽयमिष्टाकारूपः पदार्थस्ते तव योनिरुत्पत्तिहेतुः, ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति। यतो योनेरिष्टकारूपाज्जात उत्पन्नसत्व-मरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह प्राप्‍नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
कल्पः—“एवं पश्चाच्चिदसि परिचिदसीति समीची तिरश्ची वा द्वे” इति। उपदधातीत्यनुवर्तते। प्रथममन्त्रपाठस्तु—
चिदसि तयेति। भोगांश्चिनोति संपादयतीति चित् । हे इष्टके त्वं चिदसि । यया देवतया त्वमभिमन्यसे तया देवतयाऽनुगृहीता त्वं ध्रुवा स्थिरा भूत्वा सीदावतिष्ठ। तव दृष्टान्तः—अङ्गिरस्वत् अङ्गिरोभिरुपहितेष्टका यथा ध्रुवा भवति तद्वत्। द्वितीयमन्त्रपाठस्तु—
परिचिदसि तयेति। परितो भोगांश्चिनोति संपादयतीति परिचित् । शेषं पूर्ववत्। तया देवतयेत्यादिवाक्यं पूर्वेष्वप्युपधानमन्त्रेषु प्रयोक्तव्यम्। तथा च सूत्रकारेणोक्तम्—“तथा देवतयाऽन्ततो दधाति” इति।
उक्तेषूपधानमन्त्रेष्वयँ सो अग्निरित्यारभ्याथा नो वर्घया रयिमित्येतदन्तं षडृचमेकं सूक्तं, तदिदं प्रशंसति—
“अयंँ सो अग्निरिति विश्वामित्रस्य सूक्तं भवत्येतेन वै विश्वामित्रोऽग्नेः प्रियं धामावारुन्धाग्नेरवैतेन प्रियं धामाव रुन्धे” (सं. का. ५ प्र. २ अ. ३) इति।

[[1890]]

तस्मिन्सूक्ते चतसृभिराद्याभिर्ऋग्भिः साध्यमिष्टकोपघानं विधत्ते—
“छन्दोभिर्वै देवाः सुवर्गं लोकवायन् चतस्रः प्राचीरूप दधाति चत्वारि छन्दाँसि छन्दोभिरेव तद्यजमानः सुवर्गं लोकमेति” (सं. का. ५ प्र. २ अ. ३) इति।
छन्दोयुक्ताभिश्चतसृभिर्ऋग्भिरुपधायेत्यध्याहारः। देववद्यजमानोऽपि छन्दोयुक्ता-भिर्ऋग्भिश्चतस्र इष्टकाः प्रागग्रा उपदध्यात्।
अथ सूक्तगताभ्यां पञ्‍चमषष्ठमन्त्राभ्यामुपरितनयजुर्भ्यां च साध्यमिष्टकोपधानं विधत्ते—
“तेषाँ सुवर्ग लोकं यतां दिशः समव्‍लीयन्त ते द्वे पुरस्तात्समीची उपादधत द्वे पश्चात्समीची ताभिर्वै ते दिशोऽदृँहन्यदद्वे पुरस्तात्समीची उपदधाति द्वे पश्चात्समीची दिशां विधृत्यै” (सं. का. ५ प्र. २ अ. ३) इति।
यदा चतस्र इष्टका उपधाय ते देवाः स्वर्गं लोकं गच्छन्ति तदा तेषां संबन्धिन्यो दिशः पालकाभावात्समव्‍लीयन्त सम्यग्विशीर्णा अभवन्, दिग्वर्तिन्यः प्रजा विह्‍वाला अभवन्नित्यर्थः। तन्मा भूदिति देवाः पुरस्ताद्दिशि ऋग्भ्यां द्वे इष्टके पश्‍चाच्‍च यजुर्भ्यां द्वे इष्टके उपादधत। ताभिश्चतसृभिरिष्टकाभिस्ते देवा दिशोऽदृंहन्दृढीकृतवन्तः । तथा यजमानोऽप्युपदध्यात् ।
अथ पूर्वमुपहिताश्चतस्र इदानीमुपहिताश्चतस्रश्च मिलित्वा पुनः प्रशंसति –
“अथो पशवो वै छन्दाँ सि पशूनेवास्मै समीचो दधात्यष्टावुप दधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टावुप दधात्यष्टाक्षरा गायत्री गायत्री सुवर्गं लोकमञ्जसा वेद सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ५ प्र. २ अ. ३) इति।
दिशां विधारणायोपधानं पूर्वमुक्तम्। अपि च च्छन्दसां पशुप्राप्तिहेतुत्वेन पशुरूपत्वाच्छन्दोयुक्ताभिर्ऋग्भिरुपधानेन समीचः पशून्सपादयति। उपरितनाभ्यां द्वाभ्यां सहाष्टत्वेन गायत्रीसाम्यम्। मुखजत्वेन गायत्रीसंबद्धोऽग्निर्यावानस्ति। ससर्व चिनुते। किंच गायत्र्याः स्वर्गलोकाभिज्ञत्वात्तत्साम्यं स्वर्गाभिज्ञानाय संपद्यते।

[[1891]]

कल्पः—“अवशिष्टं त्रयोदशभिर्लोकंपृणामिः प्रच्छादयति लोकं पृण ता अस्य सूददोहस इति द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति” इति।
तत्र प्रथमामाह—
लोकं पृण छिद्रमिति। हे इष्टके लोकं गार्हपत्यचयनार्थे प्रदेशे पूर्वोक्ताभिरिष्ट-काभिरनाक्रान्तमवशिष्टं स्थानं पृण पूरय। तथा छिद्रं पृण द्वयोरिष्टकयोर्मध्ये किंचिदपि च्छिद्रं तथा न दृश्यते तथा पूरय, अत्यन्तं श्लिष्टा भवेत्यर्थः। अथो अपि च त्वं शिवा शान्ता सती सीद तिष्ठ। इन्द्राग्नी बृहस्पतिश्चेत्येते देवा अस्मिन्योनौ स्थाने त्वामसीषदन्सादितवन्तः। अथ द्वितीयामाह—
ता अस्य सूदेति। दिवो रोचने स्वर्गे य प्रकाशकेऽस्य जन्मन्यजमानस्य जन्मनि निमित्तभूते सति देवानां संबन्धिन्यो विशः प्रजारूपाः पृश्नयो गोसदृशाः सूददोहसोऽन्नस्य दोहयित्र्यस्ता इष्टकाः सोमं श्रीणन्ति पक्वं कुर्वन्ति। कदा, त्रिष्वा समन्ताद्यानि प्रातःस-वनादीनि तेषु, निरन्तरं सोमपाकहेतव एता इष्टका इत्यर्थः। एतन्मन्त्रद्वयसाध्यमुषधानं विधत्ते—
“त्रयोदश लोकंपृणा उप दधात्येकविँ शतिः संपद्यन्ते प्रतिष्ठा वा एकविँ शः प्रतिष्ठा गार्हपत्य एकविँ शस्यैव प्रतिष्ठां गार्हपत्यमनु प्रति तिष्ठति” (सं. का. ५ प्र. २ अ. ३) इति।
लोकमिष्टकानाक्रान्तमवशिष्टं देशं पूरयन्तीति लोकपृणाः, एतन्नामिका इष्टकास्त्र-योदशसंख्याका उपदध्यात्। एवं सति पूर्वोक्ताभिरष्टभिरिष्टकाभिः सदैकविंशतिः संपद्यन्ते । तथा सत्येकविँश स्तोमो यथा स्तोमान्तराणां त्रिवृदादीनां प्रतिष्ठा तथा नित्यं धार्यो गार्हपत्योऽप्याहवनीयाद्यग्नीनां प्रतिष्ठा। तदुभयप्रतिष्ठामनु यजमानः प्रतितिष्ठतीति। वेदनं प्रशंसति—
“प्रत्यग्निं चिक्यानीस्तष्ठति य एवं वेद” [सं. का. ५ प्र. २ अ. ३] इति।
चिक्यानश्चयनं कृतावान्भूत्वा प्रतितिष्ठतीत्यर्थः।

[[1892]]

एवं निरूपिता येयमेका चितिः ईदृशीनां चितीनामुपर्यधाभावेन वर्तमानानप-ञ्‍चसंख्यां विधत्ते—
“पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः पाङ्‍क्तो यज्ञः पाङ्‍क्ता पशवो यज्ञां मेव पशुनव रुन्धे” [सं. का. ५ प्र. २ अ. ३] इति।
प्रथमं चिन्वानः प्रथमवारमग्निचयनं कुर्वन्यजमानः पञ्चचितीकं पञ्चसंख्याकाश्चि- तयोऽनन्तरोक्ता यस्याग्नेस्तादृशं चिन्वीत। धानादिपयस्यान्तैः पञ्चभिर्हविर्भिर्युक्तत्वात्पा-ङ्‍क्तो यज्ञः । सपुच्छैश्चतुर्भिः पादैः पाङ्क्ताः पशवः। एवं चयनं कृत्वा यज्ञं पशूंश्च प्राप्नोति।
द्वितीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते—
“त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति” (सं. का. ५ प्र. २ अ. ३) इति।
तृतीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते—
“एकचितीकं चिन्वीत तृतीयं चिन्वान एकधा वै सुवर्गो लोक एकवृतैव सुवर्गं लोकमेति” [सं. का. ५ प्र. २ अ. ३] इति।
एकधैकप्रकारः सुखैकस्वाभाव्यात्स्वर्गप्राप्तस्य तद्धेतुकर्मसमाप्तेः पूर्वं पुनरावृत्त्य-भावाच्च। एकवृतैकगुणया चित्या त्रिगुणत्वपञ्‍चगुणत्ववर्जितया।
पांसुप्रक्षेपं विधत्ते—
“पुरीषेणाभ्यूहति तस्मान्माँ सेनास्थि छन्नम्” [सं. का. ५ प्र. २ अ. ३ ] इति।
यस्मादस्थिसमाः कठिना इष्टका मांससमेन मृदुना पांसुनाऽभ्युहत्याच्छादयति तस्माल्लोके पि मांसेसनास्थि च्छन्नम। वेदनं प्रशंसति—
“न दुश्वर्मा भवति य एवं वेद” (सं. का. ५ प्र. २ अ. ३ ) इति।
चितिगतां पुरीषगतां च संख्यां मिलित्वा प्रशंसति—
“पञ्च चितयो भवन्ति पञ्चमिः पुरीषैरभ्यूहति दश संपद्यन्ते दशाक्षरा वि

[[1893]]

राडन्नं त्रिराड्‍‍विराज्येवान्नाद्ये प्रति तिष्ठति” [सं. का. ५ प्र. २ अ. ३ ] इति।
एकां चितिं कृत्वा पुरीषेणाऽऽच्छादयेत् । तस्या उपरि द्वितीयां चिति॑ कृत्वा तामप्याच्छदयेत् । एवं चितिपञ्चकेन पुरीषपञ्चकेन च दशसंख्यासंपत्तेर्विराट्छन्दोद्वा-रेणान्ने प्रतितिष्ठति । अत्र विनियोगसंग्रहः—
अपोद्धन्ति चितिस्थानमग्नेस्तु सिकतां [ता ]वपेत् ।
संज्ञानमूषान्निवपेत्संया ( याः ) संसृजते द्वयम् ।।
अयं चतसृभिः प्राचीरिष्टका आदधाति हि ।
इडां द्वाभ्यां पुरस्ताद्‍द्वे चिद्‍द्वाभ्यां पश्चिमे द्वयम् ।
लोकं लोकंपृणा द्वाभ्यां मन्त्रा अत्र चतुर्दश ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके
चतुर्थोऽनुवाकः ।। ४ ।।